संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|त्रेतायुगसन्तानः| अध्यायः १३८ त्रेतायुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ अध्यायः २३८ अध्यायः २३९ अध्यायः २४० अध्यायः २४१ अध्यायः २४२ अध्यायः २४३ अध्यायः २४४ अध्यायः २४५ अध्यायः २४६ अध्यायः २४७ अध्यायः २४८ अध्यायः २४९ अध्यायः २५० अध्यायः २५१ अध्यायः २५२ अध्यायः २५३ अध्यायः २५४ अध्यायः २५५ अध्यायः २५६ अध्यायः २५७ अध्यायः २५८ अध्यायः २५९ अध्यायः २६० अध्यायः २६१ अध्यायः २६२ अध्यायः २६३ अध्यायः २६४ अध्यायः २६५ अध्यायः २६६ अध्यायः २६७ अध्यायः २६८ अध्यायः २६९ अध्यायः २७० अध्यायः २७१ अध्यायः २७२ अध्यायः २७३ अध्यायः २७४ अध्यायः २७५ अध्यायः २७६ अध्यायः २७७ अध्यायः २७८ अध्यायः २७९ अध्यायः २८० अध्यायः २८१ अध्यायः २८२ अध्यायः २८३ अध्यायः २८४ अध्यायः २८५ अध्यायः २८६ अध्यायः २८७ अध्यायः २८८ अध्यायः २८९ अध्यायः २९० अध्यायः २९१ अध्यायः २९२ अध्यायः २९३ अध्यायः २९४ अध्यायः २९५ अध्यायः २९६ अध्यायः २९७ अध्यायः २९८ अध्यायः २९९ अध्यायः ३०० विषयानुक्रमणिका त्रेतायुगसन्तानः - अध्यायः १३८ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः १३८ Translation - भाषांतर श्रीकृष्ण उवाच-शृणु त्वं राधिके ऽनादिश्रीहरिः पुरुषोत्तमः ।देवायतनकं भक्तं ततो यदाह वच्मि ते ॥१॥प्रासादस्य प्रमाणेन कर्तव्यो मण्डपः शुभः ।प्रासादमूलकर्णाप्तसूत्रेण कोलिकी यथा ॥२॥चतुष्की मण्डपश्चाऽपि कर्तव्याः शिखरं तथा ।गूढो वाऽनावृत्तश्चैकद्वारो वाऽथ त्रिद्वारकः ॥३॥प्रासादाग्रे सुकर्तव्यो मण्डपो देवतागृहे ।मण्डपस्योत्तरे दक्षे पूर्वे रूपचतुष्किकाः ॥४॥नृत्यमण्डपः कर्तव्यः कर्तव्यश्च बलाणकाः ।सार्धैकायतभागो वै प्रासादाच्छोभनो मतः ॥५॥चतुष्किकायुतः कार्यो द्विगुणः सुमहानिति ।मण्डपोपरि घूम्मटश्चायतदीर्घप्रमाणवान् ॥६॥उच्छ्रायाढ्यश्चार्धगोलाकारः कर्तव्य एव तु ।अष्टांशो मण्डपः श्रेष्ठो भित्तिभिश्चापि वर्तितः ॥७॥सोपानतोरणाढ्यश्च मकरास्यजलस्रवाः ।गवाक्षा जालकयुक्ता यद्वा निर्जालका मताः ॥८॥मूलप्रासादके जंघामेखलापीठकादयः ।यथा स्युर्वै तथा कार्या मण्डपे चैकसूत्रगाः ॥९॥दलेनार्धेन पादेन दलानां निर्गमा मताः ।मण्डपं नवभागं च कृत्वा भागचतुष्टयम् ॥१०॥मध्यशालात्मकं ग्राह्यं पदं कर्तव्यमेव च ।रंगभूमिर्विचित्रा च सशोभा वै पदात्मिका ॥११॥चतुष्षष्टिस्तंभयुक्तो मण्डपो मे प्रियः सदा ।एकविंशतिसोपानाः कर्तव्या मण्डपाग्रतः ॥१२॥हस्त्यश्वगारुडरूपैः शोभाढ्या मणिभिस्तथा ।पार्श्वे चतुष्किकाः कार्याः शोभना योग्यविस्तराः ॥१३॥नव चतुष्किकाः कार्याः शोभना अपि सर्वतः ।बहुवितानशोभाढ्याश्चित्रशोभान्विताः शुभाः ॥१४॥आक्षरब्रह्मनामा वै मण्डपो मम सुप्रियः ।युग्मस्तंभः प्रकर्तव्यो न त्वेकीसंख्यया क्वचित् ॥१५॥कादम्बः कमलाकारः सूर्यमुखाकृतोऽपि च ।चान्द्रो वा मण्डपो बोध्यश्चेन्द्रधनुःसमोऽपि च ॥१६॥जगतीमण्डपौ भद्रमानेन निर्गमे मतौ ।प्रतोल्या जगती चापि भद्रवन्निर्गमे मता ॥१७॥अग्रे कार्याः प्रतिहारा मुख्यमूर्तेस्तु पार्श्वयोः ।नरपीठस्य चोर्ध्वात्तु यावद्भरणीमस्तकम् ॥१८॥पदानि दशसार्धानि कर्तव्यानि ततः परम् ।एकभागं राजसेनं द्विभागा वेदिका मता ॥१९॥अर्धभागाऽऽसन्नपटः स्तंभो भागचतुष्टयः ।अर्धभागं भरणं च चरुस्त्वेकांशकस्तथा ॥२०॥सार्धैकभागः पाटश्च छाद्यकं तु ततः परम् ।कम्मानिकास्तथा कार्यास्तोरणादिसुरूपिकाः ॥२१॥रंगमण्डपपूर्वे च कार्या नृत्यस्य मण्डपाः ।कथाया मण्डपाः कार्या होमस्य मण्डपास्तथा ॥२२॥उद्यापनस्य च कार्या मण्डपा रासमण्डपाः ।वास्तुवेधो न वै कार्यः स्तंभवेधोऽपि नैव च ॥२३॥स्तंभस्थौल्यं दशांशाद्वै चतुर्दशांऽशकाऽवधिम् ।प्रासादस्थौल्यसापेक्षं पाषाणदृढतानुगम् ॥२४॥प्रासादे त्वेकहस्ते तु स्तम्भः स्याच्चतुरंगुलः ।द्विहस्ते चांगुलाः सप्त त्रिहस्ते नव चांगुलाः ॥२५॥ततो द्वादशहस्ते च प्रतिहस्तं द्वयाऽङ्गुलौ ।सपादाऽङ्गुलवृद्धिश्च यावत्षोडशहस्तके ॥२६॥अंगुलिकाभिवृद्धिश्च चत्वारिंशत्करावधिम् ।पञ्चाशत्करपर्यन्तं पादोनांगुलिकाऽधिका ॥२७॥स्वस्तिका मस्तके भद्रयुताऽष्टास्राश्च स्तम्भकाः ।मूर्तिपत्रसुवल्ल्याढ्या भद्रयुक्कंभिकास्तथा ॥२८॥भरणे वल्लिकायुक्ताश्चरवः किन्नरान्विताः ।मम वै मन्दिरं सप्तशिखरं कार्यमुत्तमम् ॥२९॥तदग्रे कोलिका बोध्या तदग्रे गूढमण्डपः ।ततो नृत्यमण्डपश्च ततः सभाख्यमण्डपः ॥३०॥ततो वै रूपचोकी च ततः सोपानकानि च ।षट्पञ्चाशद्दक्षभारो षट्पंचाशच्च वामके ॥३१॥मन्दिराणि च कार्याणि पत्नीनां मम सर्वतः ।मध्यमन्दिरके चाऽहं पार्श्वेषु षट् प्रपत्निकाः ॥३२॥मण्डपेषु घूम्मटेषु भूमिकाः सप्त सप्त च ।रासतोरणवेद्यादियुताः कार्याः सुशोभनाः ॥३३॥पश्चिमे रथशाला च दक्षिणे मठशालिकाः ।उत्तरे सूदशाला च पूर्वे चायुधशालिका ॥३४॥वायौ कोष्ठागारकं चाग्निकोणे तु महानसः ।ईशाने पुष्पशाला च नैर्ऋत्ये पात्रशालिका ॥३५॥पश्चिमे जलशाला च ह्युपरि वाचनालयः ।कर्तव्या अपि सापेक्षा आलया मन्दिराऽभितः ॥३६॥द्वारोच्छ्रायस्य त्रिभागे भागद्वयं तु जालकम् ।गवाक्षाश्च तथा कार्या ह्रस्वा वा समस्तकाः ॥३७॥मण्डपोपरि चाष्टास्रं तदूर्ध्वे षोडशास्रकम् ।तदूर्ध्वे घूम्मटो गोलश्चायताऽऽर्धोर्ध्वमानतः ॥३८॥उच्छ्रये षष्ठिभागान् वै कृत्वा तत्रादिमेषु वै ।कर्णदर्दरिकाः सप्तभागे समोच्छ्रनिर्गमाः ॥३९॥चतुर्भागे रूपकण्ठो द्व्यंशे निर्गमवान्मतः ।विद्याध्राः षोडश कार्याश्चतुर्विंशतिहस्तिनः ॥४०॥विद्याधरपृथुत्वेन सप्तांशे निर्गमो मतः ।तदूर्ध्वे चित्ररूपाश्च नर्तिका रासनर्तनाः ॥४१॥आद्यास्ते सार्धषड्भागा द्वितीयाः षड्विभागिकाः ।पञ्चभागास्ततः कोलाः सार्धचतुर्गवालकम् ॥४२॥मध्यगोलवितानं तु कथाचमत्कृतिप्रभैः ।संगीतगीतनृत्यादिपुत्तलैरेव शोभितम् ॥४३॥जीवलोकेश्वरलोकब्रह्मलोकादिचित्रकैः ।शोभिता रत्नगर्भाश्च सूर्यवर्णा वितानकाः ॥४४॥साभरणं प्रकर्तव्यं प्रथमं भागषट्कके ।द्वितीयाद्यानि तान्येव चतुर्भागविवृद्धितः ॥४५॥कर्तव्यानि पञ्चविंशतिसाभरणानि क्रमात् ।प्रथमे पञ्चघण्टाश्च कर्तव्यास्त्वतिशोभनाः ॥४६॥द्वितीयादौ चतुर्वृद्ध्या कारणीयास्तदुत्तरे ।वामे दक्षे तु भद्रार्धे रक्षार्धे नवघण्टकम् ॥४७॥रथिकाऽऽयतताऽर्धे च भागे तु रथिकोपरि ।घण्टाः कूटाः प्रकर्तव्यास्ततो वै कलशो भवेत् ॥४८॥प्रथमा घण्टिका कार्या पञ्चकलशशोभना ।एवं त्वेकीसंख्ययाऽपि चाग्रे कार्याः सुघण्टिकाः ॥४९॥एकद्वित्रिचतुःपञ्चषट्कसप्तपदान्तरे ।प्रासाददेवतायाश्च वाहनस्य चतुष्किका ॥५०॥कर्तव्या वाहनस्थानरूपा सुशोभना शुभा ।देवमूर्तेर्नवभागा आपादशिखमेव तु ॥५१॥कर्तव्याः पञ्चषट्सप्तभागान्तो वाहनोच्छ्रयः ।यद्वा वाहननेत्रे च गुह्यनाभिस्तनोच्छ्रये ॥५२॥समरेखे भवेतां च तथोच्छ्रयं तु वाहनम् ।यद्वा पादकटिजानुसमरेखं तु वाहनम् ॥५३॥शिवलिंगस्य वाहस्तु जलाधारीसमुच्छ्रयः ।सूर्यवाहः स्कन्धरेखासमौ देवस्य वै मतः ॥५४॥मुख्यप्रासादपरितः प्रासादा गर्भसंख्यया ।गर्भं धृत्वा ततः कार्या नाभिवेधं न कारयेत् ॥५५॥ब्रह्मविष्णुशिवसौधः पूर्वपश्चिमकाऽऽननः ।नगराभिमुखा देवाः शुभाः क्षेमकराः सदा ॥५६॥पराङ्मुखाः पुरं घ्नन्ति सर्वास्यास्त्रिसुराः शुभाः ।गणेशो भैरवश्चण्डी नकुलीशो नवग्रहाः ॥५७॥मातरश्च कुबेरश्च दक्षिणाभिमुखाः शुभाः ।नैर्ऋत्यदक्षिणमुखो हनुमान् नान्यदेवता ॥५८॥प्रासादगर्भतृतीयभागेन प्रतिमोत्तमा ।दशभागेन हीना या मध्यमा सा प्रकीर्तिता ॥५९॥पञ्चभागेन हीना या कनिष्ठा स्वस्तिकासना ।द्वारोच्छ्रायनवभागे भागोर्ध्वैक विहाय च ॥६०॥शिष्टाष्टभागके चतुर्भागोच्छ्राया शुभा मता ।चतुर्भागावषं तु सिंहासनं मतं तथा ॥६१॥यद्वा द्वारोच्छ्रयस्यैव द्वात्रिंशद्भागकेषु तु ।ऊर्ध्वं चतुष्टयं त्यक्त्वाऽष्टाविंशतिप्रभागके ॥६२॥सिंहासनं च प्रतिमा चतुर्दशे चतुर्दशे ।सिंहासनं त्रयोदशे मूर्तिः पञ्चदशे स्मृता ॥६३॥सिंहासनं पञ्चदशे मूर्तिस्त्रयोदशे स्मृता ।सिंहासनं द्वादशे चेत् प्रतिमा षोडशांऽशके ॥६४॥प्रासादे एकहस्ते तु मूर्तिरेकादशांगुला ।दशांगुला वर्धनीय यावद्धस्तचतुष्टयम् ॥६५॥द्व्यंगुला वर्धनीया च यावद्वै दशहस्तकम् ।अर्धांगुलं वर्धनीया पञ्चाशदंगुलावधिम् ॥६६॥मध्या दशांशहीना स्यात् कनिष्ठा तद्दशांशहा ।सुप्ता मूर्तिर्गर्भगेहे सप्तभागेषु पञ्चगा ॥६७॥द्वौ भागौ वर्जनीयौ च शयनस्था सुखप्रदा ।प्रासादगर्भखण्डौ द्वौ द्वारखण्डं विहाय च ॥६८॥शेषखण्डे पच्चभागाः कर्तव्या आसनार्धकाः ।भित्तिलग्ने प्रथमे तु भागे यक्षादिकासनम् ॥६९॥द्वितीये तु विभागे स्युः सर्वदेवासनानि वै ।तृतीये तु विभागे वै ब्रह्मविष्णुहरासनम् ॥७०॥पञ्चमांशे यवमात्रमीशान्यां तु शिवासनम् ।प्रासादानां तु सर्वेषां विभागो गर्भतो मतः ॥७१॥गर्भस्य मध्यभागाद्धि क्रमाद् देवासनानि वै ।चतुरस्राण्यायतान्यायतवृत्तानि वै तथा ॥७२॥यथायोग्यानि कुर्याच्च वृत्तान्यष्टास्रकाण्यपि ।भित्तिगानि मण्डलानि त्वष्टाविंशतिरेव वा ॥७३॥मध्ये शिवो द्वितीये तु मण्डले विश्वसृड् भवेत् ।नकुलीशस्तृतीये सावित्री चतुर्थके मता ॥७४॥रुद्रमूर्तिः पञ्चमे च षष्ठे स्वामी तु कार्तिकः ।ब्रह्मा तु सप्तमे वासुदेवोऽष्टमे तु मण्डले ॥७५॥जनार्दनस्तु नवमे दशमे विश्वदेवताः ।अग्निरेकादशे चापि द्वादशे भास्करस्तथा ॥७६॥दुर्गा त्रयोदशे चतुर्दशे विघ्नेश आदृतः ।नवग्रहाः पञ्चदशे षोडशे मातृदेवताः ॥७७॥सप्तदशे गणाश्चापि भैरवोऽष्टादशे मतः ।क्षेत्रपाला नवदशे यक्षराजस्तु विंशके ॥७८॥हनुमानेकविंशे च भगो द्वाविंशके तथा।त्रयोविंशेऽपरदेवाश्चतुर्विंशे तु दैत्यकः ॥७९॥पञ्चविंशे राक्षसश्च षड्विंशे तु पिशाचकः ।सप्तविंशे भूतवर्गोऽष्टाविंशे रिक्तमेव च ॥८०॥तत्तत्पत्नीभृत्यदासीकुटुम्बभक्तसेविताः ।यथायोग्यं स्थापनीया देवा स्वस्वालये सदा ॥८१॥गजासनं च वा सिंहासनं हंसासनं तथा ।विमानं मुक्तधार्यं वा सछत्रं चोत्तमोत्तमाम् ॥८२॥शैवलिंगं यादृशं तु तादृशं योनिकासनम् ।योनिस्त्वष्टादशभागा कर्तव्योच्छ्रयमानतः ॥८३॥कणः स्यात् सार्धभागेन पट्टिका चार्धभागिका ।द्वितीया पट्टिका तुल्या स्कन्धस्त्रिभागकः स्मृतः ॥८४॥अर्धभागा पट्टिकान्या चान्तरपत्रं तु सार्धके ।अर्धभागा पट्टिकान्या द्विभागः कर्णकस्तथा ॥८५॥अर्धभागा पट्टिकान्या सार्धभागं तु पत्रकम् ।अर्धभागा पट्टिकान्या त्रिभागः स्कन्ध एव च ॥८६॥पट्टिकाद्वयमेवापि त्वर्धद्वयप्रभागके ।सार्धभागः कर्णकश्च ततो लिंगस्य दर्शनम् ॥८७॥यद्द्रव्यं तु भवेल्लिंगं तद्द्रव्या योनिका मता ।चतुरस्रा वर्तुला समेखला बहुकोणिका ॥८८॥लिंगस्थौल्यं मापनीयं सूत्रेण परिधिर्हि सः ।सूत्रायतायतं कार्यं पीठं वै विस्तृतं तु तत् ॥८९॥सूत्रं भागत्रयं कार्यं द्विभागे योनिका मता ।भागैके शिवलिंगं चोच्छ्रये बोध्यं सदा बुधैः ॥९०॥लिंगात् प्रणालं सूत्रेण प्रमीतं निर्गमे मतम् ।सूत्रदीर्घं द्वयमेव योनिलिंगं तु नाधिकम् ॥९१॥अपूर्णअपूर्णशिरसोर्ध्वाद्वै लिंगप्रवेश इष्यते ।कोष्ठलाद्वा प्रपूर्णाद्वै लिंगप्रवेश ऊर्ध्वतः ॥९२॥प्रणालं चोत्तरे वामे गुप्तं चण्डमुखे पतेत् ।बहुदेवेषु प्रणालं जगत्यां वै चतुर्दिशि ॥९३॥षड्भागा द्वारशाखायाः कार्या वै पञ्चमे शुभे ।लक्ष्मीनारायणादीनां दृष्टिः कार्या शुभा सदा ॥९४॥तृतीयांशे शिवमूर्तेः श्रीशेषशायिनोऽपि च ।अष्टभागां द्वारशाखां विभज्यैकं तथाऽष्टकैः ॥९५॥चतुःषष्टिर्भवत्येवं भागानां तत्र सर्वथा ।एकीभागे देवदृष्टिर्न तु युग्मे विनिर्णयः ॥९६॥एकी द्वात्रिंशदंशेषु देवदृष्टिर्विधीयते ।युग्मांशा देवदृष्ट्यर्थं निषिद्धा एव हानिदाः ॥९७॥दृष्टिदोषविपाकेन स्थाननाशो धनक्षयः ।दृष्टिदोषहतं यद्यन्न पुनश्च प्ररोहति ॥९८॥ऊर्ध्वदृष्ट्या द्रव्यनाशो भोगहानिरधःस्थया ।समदृष्टिः सुखदाऽस्ति सर्वकाले यथायथम् ॥९९॥चतुःषष्टिप्रभागेषु प्रथमे त्वादितत्त्वकम् ।सृष्टिस्तृतीये तत्त्वं च पञ्चमेष्टिस्तु सप्तमे ॥१००॥आयुस्तु नवमे चैकादशे लक्षं मतं तथा ।विज्ञं त्रयोदशे पञ्चदशे प्राज्ञं मतं तथा ॥१०१॥शान्तितत्त्वं सप्तदशेऽव्यक्तं नवदशे तथा ।व्यक्ताऽव्यक्तं त्वेकविंशे त्रयोविंशे तु व्यक्तकम् ॥१०२॥पञ्चविंशे शेषनागः सप्तविंशे शयी हरिः ।नवविंशे तु गरुडस्त्वेकत्रिंशे तु मातरः ॥१०३॥त्रयस्त्रिंशे कुबेरश्च पञ्चत्रिंशे वराहकः ।सप्तत्रिंशे ह्युमारुद्रौ नवत्रिंशे तु बुद्धकः ॥१०४॥एकचत्वारिंशकेऽजस्त्रिचत्वारिंशके ततः ।दुर्वासा नारदोऽगस्त्यस्त्रयस्तेऽन्ये महर्षयः ॥१०५॥पञ्चचत्वारिंशके श्रीलक्ष्मीनारायणादयः ।सप्तचत्वारिंशके च धाता ततोऽथ देवता ॥१०६॥नवचत्वारिंशके च शारदा च गणेशकः ।एकपञ्चाशदंके च ब्रह्मा पद्मासने स्थितः ॥१०७॥त्रिपंचाशत्तमे सिद्धिर्हरसिद्धिस्तथाऽपराः ।पञ्चपञ्चाशत्तमेऽजो विष्णुः सूर्यो विरागिणः ॥१०८॥सप्तपञ्चाशत्तमे तु शुक्राचार्यः परे यथा ।नवपञ्चाशत्तमे चण्डिका चान्याश्च देविकाः ॥१०९॥एकषष्टितमे देवा भैरवाद्याः प्रकीर्तिताः ।त्रिषष्ट्यां वेतालकाद्यास्तत्परं शून्यमेव तु ॥११०॥अर्चायाः पादयोः कट्यां वा दृष्टिर्वाहनस्य तु ।एवं स्थानप्रतिष्ठानात् पुरुषार्थचतुष्टयम् ॥१११॥वैपरीत्ये विपरीतं फलं वै राधिके! भवेत् ।क्षयकृत् श्रीहरिं प्राह देवायतनकं मुनिम् ॥११२॥इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने प्रासादरूपेमण्डपघूम्मटसिंहासनतद्देवादितत्तदंशप्रमापणादिनिरूपणनामाऽष्टत्रिंशदधिकशततमोऽध्यायः ॥१३८॥ N/A References : N/A Last Updated : May 01, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP