संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|त्रेतायुगसन्तानः| अध्यायः १४४ त्रेतायुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ अध्यायः २३८ अध्यायः २३९ अध्यायः २४० अध्यायः २४१ अध्यायः २४२ अध्यायः २४३ अध्यायः २४४ अध्यायः २४५ अध्यायः २४६ अध्यायः २४७ अध्यायः २४८ अध्यायः २४९ अध्यायः २५० अध्यायः २५१ अध्यायः २५२ अध्यायः २५३ अध्यायः २५४ अध्यायः २५५ अध्यायः २५६ अध्यायः २५७ अध्यायः २५८ अध्यायः २५९ अध्यायः २६० अध्यायः २६१ अध्यायः २६२ अध्यायः २६३ अध्यायः २६४ अध्यायः २६५ अध्यायः २६६ अध्यायः २६७ अध्यायः २६८ अध्यायः २६९ अध्यायः २७० अध्यायः २७१ अध्यायः २७२ अध्यायः २७३ अध्यायः २७४ अध्यायः २७५ अध्यायः २७६ अध्यायः २७७ अध्यायः २७८ अध्यायः २७९ अध्यायः २८० अध्यायः २८१ अध्यायः २८२ अध्यायः २८३ अध्यायः २८४ अध्यायः २८५ अध्यायः २८६ अध्यायः २८७ अध्यायः २८८ अध्यायः २८९ अध्यायः २९० अध्यायः २९१ अध्यायः २९२ अध्यायः २९३ अध्यायः २९४ अध्यायः २९५ अध्यायः २९६ अध्यायः २९७ अध्यायः २९८ अध्यायः २९९ अध्यायः ३०० विषयानुक्रमणिका त्रेतायुगसन्तानः - अध्यायः १४४ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः १४४ Translation - भाषांतर श्रीकृष्ण उवाच-शृणु त्वं राधिके चाऽग्रे प्रतिष्ठादिविधानकम् ।अनादिश्रीकृष्णनारायणो यदाह दैवतम् ॥१॥यजमानः प्रगे स्नात्वाऽऽचार्यहस्ते प्रदाय च ।पूजासंभारकान् स्त्रीभिः सुवासिनीभिरन्वितः ॥२॥प्रासादोऽग्रे मण्डपस्य भूमिमागत्य प्राग्दिशि ।पादप्रक्षालनं कृत्वाऽऽसने समुपविश्य च ॥३॥आचमनं तथा प्राणायामं कृत्वा ततः परम् ।बद्धशिखः सपत्नीको ध्यायन् गणपतिं ततः ॥४॥प्राङ्मुखो वोदङ्मुखो वा संकीर्त्य देशकालकौ ।परमेश्वरप्रीत्यर्थं प्रतिष्ठाकार्यसिद्धये ॥५॥गणेशपूजनं कुर्यादाचार्यवरणादिकम् ।पादप्रक्षालनं पादपूजनं तस्य चाचरेत् ॥६॥चन्द्रकाऽऽक्षतपुष्पाद्यैः समर्च्य प्रणमेद्धि तम् ।अस्य देवस्य वै रम्ये प्रासादे कर्मसिद्धये ॥७॥प्रतिष्ठासिद्धये मण्डपादिकार्यादिसिद्धये ।भवन्तं श्रीहरेर्भक्तमाचार्यत्वेन संवृणे ॥८॥औं वृतोऽस्मीत्यावदेच्चाचार्यः सर्वार्थपण्डितः ।यजमानश्च बध्नीयादाचार्यकरकंकणम् ॥९॥आचार्यपूजनं कृत्वा भूमिमावाहयेत्ततः ।आगच्छ सर्वकल्याणि वसुधेऽत्र स्थिरा भव ॥१०॥आयाहि वरदे धात्रि यज्ञेऽस्मिन् शुभदायिनि ।ओं महीर्द्योः पृथिवी नः इमं यज्ञं मिमिक्षताम् ॥११॥पिपृतान्नो भरिमभिः सर्वरसाऽन्वितेक्षिते ।एवमावाह्य पृथिवीं स्मृत्वा च सर्वदेवताः ॥१२॥ओं विश्वे देवास इह मादयन्ताम् ओं प्रतिष्ठ ।इति क्षितिं प्रतिष्ठाप्य बद्ध्वाऽञ्जलिं च प्रार्थयेत् ॥१३॥यज्ञभागं प्रतीच्छस्व प्रणमामि क्षमां कुरु ।तवोपरि मण्डपादि भविष्यति मखे हिता ॥१४॥भवेति तां नमस्कृत्य प्रोक्षयेत् पञ्चगव्यकैः ।कुशैश्च हरितैः कृत्वा प्रोक्षयेच्च वदेत्तथा ॥१५॥ओमिदं विष्णुर्विचक्रमे त्रेधा निदधे पदम् ।समूढमस्य पांसुरे स्वाहा त्वां च हवामहे ॥१६॥ओं शन्नो मित्रः शं वरुणः शन्नो भवत्वर्यमा ।शं न इन्द्रो बृहस्पतिः शन्नो विष्णुरुरुक्रमः ॥१७॥ओं देवस्य त्वां सवितुः प्रसवेन तथाऽश्विनोः ।बाहुभ्यां च कराभ्यां च पूष्णो वाचा सरोजुषः ॥१८॥अग्नेः साम्राज्यकेनाऽभिषिञ्चामि प्रोक्षिताऽसि भूः ।इत्युक्त्वा च गृहीत्वा च श्वेतसर्षपकान् करे ॥१९॥ईशानाभिमुखो विकिरेत् ततः सर्वतोमुखम् ।ओं भूतानि राक्षसा वा यत्र तिष्ठन्ति केचन ॥२०॥ते सर्वेऽप्यपसर्पन्तु विष्णुयागस्य भूमितः ।भूतप्रेतपिशाचाद्याश्चापक्रामन्तु दूरतः ॥२१॥अपसर्पन्तु ते भूता ये भूता भूमिसंस्थिताः ।ये भूता विघ्नकर्तारस्तेऽपयान्तु हराज्ञया ॥२२॥इत्यभिधाय सर्वत्र विकीर्य श्वेतसर्षपान् ।संप्रोक्ष्य पञ्चगव्येन दद्यादर्घ्यं भुवे यथा ॥२३॥गन्धदूर्वाफलपुष्पयवान्वितं जलं शुभम् ।ताम्रपात्रे गृहीत्वैव धृतशुक्लाम्बरद्वयः ॥२४॥उदङ्मुखश्चार्घ्यहस्तोऽर्घ्यं दद्यात् सुकृताञ्जलिः ।गृहाणाऽर्घ्यं जगन्मातः प्रसन्ना भव सर्वदा ॥२५॥एवं सम्पूज्य पृथिवीं भूतशुद्धिं विधाय च ।भद्रपीठे चाऽऽर्च्य वास्तुं प्राचीं संसाधयेद् दिशम् ॥२६॥समानायां पृथिव्यां वै गणेशं श्रीगुरुं तथा ।यजन् मानसोपचारैर्ध्यायेच्च कुलदेवताम् ॥२७॥विप्राय दक्षिणां दत्वा तोषयित्वा तु शिल्पिनम् ।कुर्याद्वै मण्डपं षोडशहस्तं द्वादशात्मकम् ॥२८॥दशहस्तं चाऽष्टहस्तं यथावकाशकं च वा ।तत्र कुण्डं पूर्ववच्च यथोक्तं प्रविधाय च ॥२९॥तत उत्तरवेद्याश्च चतुष्कोणेषु सर्वथा ।ईशकोणे ग्रहपीठं चतुस्त्रिंशांगुलात्मकम् ॥३०॥अग्नो हस्तं मातृपीठं द्वादशांगुलकोच्छ्रयम् ।नैर्ऋते वास्तुपीठं च हस्तं द्वादशकोच्छ्रयम् ॥३१॥वायौ च योगिनीक्षेत्रपालपीठं तु हस्तकम् ।द्वादशांगुलकोर्ध्वं च प्रकुर्याद्वा यथोचितम् ॥३२॥अष्टहस्तमितायास्तु धाराया वै घृतस्य च ।कृते पूर्वस्थले रम्यशिलारोपणमित्यपि ॥३३॥इष्टिकानां च वा भित्तिर्विधेया शोभना तदा ।तोरणैश्च पताकाभिश्चतुरस्रं तु मण्डपम् ॥३४॥प्रागुक्तरूपं कृत्वैव तदुत्तरेऽपि मण्डपम् ।स्नपनार्थं च कृत्वैव कुर्याच्च वेदिकात्रयम् ॥३५॥यथायोग्यान् मण्डपाँश्चाद्यदिने संविधाय च ।हविष्यभोजनः स्याद्वै यजमानः सुपुण्यवान् ॥३६॥रात्रौ भूशयनो भूत्वा ब्रह्मचारी सुसात्त्विकः ।प्रातश्चाधिवासनेऽह्नि स्नात्वा तीर्थोदकैस्ततः ॥३७॥प्रायश्चित्तस्य मुक्त्यर्थं पापधेनुं समर्पयेत् ।अद्यास्मिन् दिवसे देवप्रासादकर्मयोग्यता ॥३८॥मयि स्यादिति लाभार्थं पापानां नुत्तये तथा ।पापधेनुं ब्राह्मणाय ददामीति समर्पयेत् ॥३९॥स्नात्वा पुनस्तीर्थजलैः सर्वौषधिसमन्वितैः ।पञ्चगव्ययुतैश्चापि वारुणमन्त्रयोजितैः ॥४०॥ओं त्वं वारुणी मूर्तिर्वरुणोत्था हि देवता ।वारुणं सदनं चाऽसि वहाऽऽयुर्मम शोभनम् ॥४१॥तव पाशाः प्रयान्त्येव दूरं यज्ञे पतन्तु न ।अपाशोऽहं देवताभ्यो दास्ये हव्यं विधेहि तत् ॥४२॥इति स्नात्वा शुक्लपटे धृत्वा गन्धानुलेपनः ।शुक्लमाल्याम्बरधरः पत्नीयुतोऽतिसात्त्विकः ॥४३॥यजमानः सर्वसंभारान् धृत्वा शिल्पिभूमितः ।प्रादक्षिण्येन दैवं वै समानीय सुगीतिभिः ॥४४॥वादित्रनिनदैश्चापि स्त्रीणां मंगलगीतिभिः ।शान्तिपाठैः सह चैवागत्य मण्डपसन्निधौ ॥४५॥प्रविश्य पश्चिमद्वारेणाऽऽसने सन्निधाय च ।देवं ततो यजमानो दक्षिणद्वारसन्निधौ ॥४६॥पश्चिमे भद्रपीठे प्रागग्रदर्भेषु प्राङ्मुखः ।उदङ्मुखः सपत्नीकश्चोपाविशेत् ततः परम् ॥४७॥संभारान् यज्ञीयकाँश्च दक्षपार्श्वे निधापयेत् ।कथयामि समासेन संभारान् विविधान् यथा ॥४८॥प्रत्येकसमिधामष्टोत्तरशतं समर्जयेत् ।अर्कमुदुम्बरं पिप्पलकं वटं च तूलसीम् ॥४९॥अपामार्गं पलाशं चामलकीं यज्ञभूरुहान् ।चन्दनं शिंशपां बिल्वं पिप्पलीं यज्ञभूरुहान् ॥५०॥तिलानेवंविधान् यथाप्राप्यान् समर्जयेद् द्रुमान् ।भद्रपीठत्रयं रक्षेत् पुष्पमालाः फुलानि च ॥५१॥कुंकुमं चन्दनद्रवं कस्तूरीं घनसारकम् ।अगुरुं गुग्गुलं धूपं धूपपात्रं च दर्पणम् ॥५२॥घण्टां च पादुकामारार्त्रिकं बलिकणान् बलिम् ।पायसं भक्ष्यभोज्ये च नैवेद्यं च फलानि च ॥५३॥पूगीफलानि ताम्बूलं चाज्यं तिला यवाऽक्षताः ।शर्करा च फलश्रेष्ठान्यपि श्रीफलकानि च ॥५४॥द्राक्षाश्च कदलान्येव नवरंगादिकान्यपि ।चत्वारो विष्टराः प्रतिकुण्डं स्रुक्स्रुवकौ तथा ॥५५॥आसनानि कुंकुमाक्तत्रिसूत्री शोभना तथा ।श्वेतोर्णासूत्रकं चाऽथ सर्वतोभद्रलब्धये ॥५६॥श्वेतरक्तनीलपीतकृष्णरंगानि यानि च ।तथा स्नपनकलशाः पल्लवाः पञ्चजातिकाः ॥५७॥कदलीस्तम्भवर्याश्च पताका दशसंख्यकाः ।ध्वजास्तेषां वेणुदण्डा एको मध्यध्वजस्तथा ॥५८॥वज्रमौक्तिकवैडूर्यशंखस्फटिकपुष्पकाः ।इन्द्रनीलमहानीलाश्चाष्टरत्नानि यानि च ॥५९॥मनश्शिलाहरितालाभ्रककृष्णांजनानि च ।माक्षिककासीसस्वर्णमाक्षिकगैरिकास्तथा ॥६०॥धात्वष्टकं च तत् सर्वं रक्षयेद् यज्ञकर्मणे ।यवगोधूमनीवारमुद्गश्यामाकसर्षपाः ॥६१॥तिलव्रीहय एवैततद् बीजाष्टकं च सन्न्यसेत् ।सुवर्णं रजतं ताम्रं सीसकं त्रपु चायसम् ॥६२॥रंगं रीतिर्धात्वष्टकं रक्षयेद् यज्ञकर्मणे ।मधुपर्कस्य पात्रं च सौवर्णं ताम्रमेव वा ॥६३॥अर्घपात्रं सुवर्णस्य शलाकां रक्षयेत् तथा ।कनकं कुलिशं नीलं पद्मरागं च मौक्तिकम् ॥६४॥तानि कलशरत्नानि स्थापयेन्निजपार्श्वके ।षोडशद्वारकलशान् अष्टौ तु लोकपाघटान् ॥६५॥चतुरो वेदिकलशान् वास्तुघटं प्ररक्षयेत् ।कुण्डसंख्यककलशान् निद्रायाः कलशं तथा ॥६६॥स्नपनैकाशीतिघटान् शरावाँश्चापि तावतः ।धारासहस्रकलशौ राजस्थानस्य मृत्तिकाम् ॥६७॥अश्वस्थानमृदं चापि वल्मीकमृत्तिकां तथा ।संगममृत्तिकां कूलद्वयमृदं वराहजाम् ॥६८॥मृदं राजद्वारमृदं रक्षयेदष्टमृत्तिकाः ।मुरामांसीवचाकुष्ठशैलेयहरिद्रास्तथा ॥६९॥दारुहरिद्राशुण्ठीचम्पकमुस्ताः सर्वौषधीः ।रक्षयेच्चापि पञ्चगव्यकं पृथक् पृथक् तथा ॥७०॥व्रीहियवतिलगोधूमश्यामाकनिवारकान् ।मुद्गानिति च सप्तापि धान्यानि रक्षयेत्तथा ॥७१॥शय्यां सोपस्करां श्वेतच्छत्रं च चामरद्वयम् ।विचित्रं तु वितानं च त्रीन् वै दुकूलपट्टकान् ॥७२॥ऋत्विग्वरणसामग्रीरुद्वर्तनार्थद्रव्यकम् ।गोघृतं च गोशृंगोदकं तीर्थोदकं च कम्बुकम् ॥७३॥शिल्पिदेयानि वस्त्राणि सुगन्धितैलमित्यपि ।नेत्राञ्जनार्थकं पात्रं सिन्दूरं रक्षयेत् तथा ॥७४॥आम्रसत्पत्रमालाश्च देवमूर्तीश्च कानकीः ।नारिकेलफलादीनि रक्षयेद् यज्ञमण्डपे ॥७५॥एतान् सर्वान् सुसंभारान् निजे तु दक्षिणे स्थले ।स्थापयित्वाऽऽचमनं च प्राणायामं विधाय च ॥७६॥गृहीत्वा दक्षिणे हस्ते जलं दर्भादिकं तथा ।ओम् प्रपुनातु पद्माक्षो नारायणो हरिः प्रभुः ॥७७॥इत्युक्त्वा सर्वसंभारान् प्रोक्ष्य चात्मानमित्यपि ।गणेशादीन् सुरान् स्मृत्वा कुर्यात् संकल्पमित्यमुम् ॥७८॥ब्रह्माण्डेऽत्र स्थले विप्रसन्निधौ वत्सरेऽमुके ।मासपक्षतिथौ वारे सर्वपापक्षयाय वै ॥७९॥उद्धर्तुं पूर्वजाँश्चाऽहं सम्पदायुष्यलब्धये ।भुक्तिमुक्तिसुलाभार्थं मूर्तौ देवाऽऽगमाय च ॥८०॥यथाशक्ति प्रतिष्ठां श्रीहरेर्वाऽन्यसुरस्य च ।संकरिष्ये तदंगाख्यं श्रीगणेशादिपूजनम् ॥८१॥स्वस्तिपुण्याहवाचश्च मातृकापूजनं तथा ।नान्दीश्राद्धं तथाऽऽचार्यवरणं विप्रपूजनम् ॥८२॥करिष्ये इति संकल्प्य जलं भूमौ समुत्सृजेत् ।सुमुखश्चैकदन्तश्च कपिलो गजकर्णकः ॥८३॥लम्बोदरश्च विकटो विघ्ननाशो विनायकः ।धूम्रकेतुर्गणाध्यक्षो भालचन्द्रो गजाननः ॥८४॥द्वादशैतानि नामानि मम रूपस्य वै पठेत् ।सशुण्ढं च त्रिशूलाढ्यं पत्नीपुत्रयुतं गणम् ॥८५॥प्रसन्नं सायुधं ध्यायेद् विघ्नानां वारणाय च ।एवं ध्यात्वा गणेशं च पूजयेद् बहुवस्तुभिः ॥८६॥हे हेरम्ब त्वमेह्येहि लक्षलाभयुतस्त्विह ।सिद्धिबुद्धिपते त्वेहि सर्वायुधसमन्वितः ॥८७॥आवाहयामि पूजार्थं रक्षार्थं च मखस्य मे ।आगच्छ च भव स्वार्णासने स्थिरः प्ररक्ष नः ॥८८॥गणानां च पतिं प्रियपतिं निधिपतिं तथा ।हवामहे वसाऽत्रैव श्रीकृष्णः शांकरोऽसि च ॥८९॥आहमजानि गर्भधमात्वमजासिगर्भधम् ।सिद्धिबुद्धियुतं चावाहयामि गणनायकम् ॥९०॥सम्प्रतिष्ठापयाम्याऽऽस्ये सौवर्णे गृह्ण चासनम् ।पाद्यं जलं गृहाणाऽपि सुगन्धि निर्मलं शुभम् ॥९१॥ताम्रपात्रगतं तोयमर्घ्यं गृहाण सिद्धिकृत् ।आचमनं तीर्थजलं गृहाण गणनायक ॥९२॥पयःस्नानं गृहाणैतद् दधिस्नानं गृहाण च ।घृतस्नानं गृहाणाऽपि मधुस्नानं गृहाण च ॥९३॥गृहाण शर्करास्नानं गृहाणोद्वर्तनं तथा ।तीर्थजलैः शुद्धवारिस्नानं कुरु गणेश्वर ॥९४॥वासांसि धारय यज्ञोपवीतं स्वीकुरु प्रभो ।चन्दनं चाक्षतान् रम्यपुष्पाणि प्रतिगृह्यताम् ॥९५॥दुर्वांकुराणि रम्याणि धूपं च प्रतिगृह्यताम् ।दीपं घृताक्तमेवाऽपि नैवेद्यं लड्डुकादिकम् ॥९६॥फलान्याचमं चापि जलं ताम्बूलकं तथा ।दक्षिणा गृह्यतां देवाऽऽरार्त्रिकं प्रतिगृह्यताम् ॥९७॥पुष्पांजलिर्गृह्यतां च प्रदक्षिणां करोमि ते ।विशेषार्घ्यं फलयुक्तं प्राप्यात्र वरदो भव ॥९८॥नमस्ते गजशुण्ढाय कृष्णरूपाय ते नमः ।निर्विघ्नं कुरु मे देव सर्वकार्यं मखादिकम् ॥९९॥अनया पूजया सांगः प्रीयतां मे गणाधिपः ।इति सम्पूज्य च ततश्चरेत् पुण्याहवाचनम् ॥१००॥इत्येवं राधिकेऽनादिकृष्णनारायणो हरिः ।देवायतनकं भक्तं चाह ते कथितं तु तत् ॥१०१॥पठनाच्छ्रवणादस्य पूजनस्य फलं लभेत् ।निर्विघ्नं जायते श्रोतुर्वक्तुः कार्यं फलान्वितम् ॥१०२॥इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने मूर्तिप्रतिष्ठोत्सवे आचार्यवरणयज्ञसामग्रीसमर्जनगणेशपूजनादिनिरूपणनामा चतुश्चत्वारिंशदधिकशततमोऽध्यायः ॥१४४॥ N/A References : N/A Last Updated : May 01, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP