संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|त्रेतायुगसन्तानः| अध्यायः २७ त्रेतायुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ अध्यायः २३८ अध्यायः २३९ अध्यायः २४० अध्यायः २४१ अध्यायः २४२ अध्यायः २४३ अध्यायः २४४ अध्यायः २४५ अध्यायः २४६ अध्यायः २४७ अध्यायः २४८ अध्यायः २४९ अध्यायः २५० अध्यायः २५१ अध्यायः २५२ अध्यायः २५३ अध्यायः २५४ अध्यायः २५५ अध्यायः २५६ अध्यायः २५७ अध्यायः २५८ अध्यायः २५९ अध्यायः २६० अध्यायः २६१ अध्यायः २६२ अध्यायः २६३ अध्यायः २६४ अध्यायः २६५ अध्यायः २६६ अध्यायः २६७ अध्यायः २६८ अध्यायः २६९ अध्यायः २७० अध्यायः २७१ अध्यायः २७२ अध्यायः २७३ अध्यायः २७४ अध्यायः २७५ अध्यायः २७६ अध्यायः २७७ अध्यायः २७८ अध्यायः २७९ अध्यायः २८० अध्यायः २८१ अध्यायः २८२ अध्यायः २८३ अध्यायः २८४ अध्यायः २८५ अध्यायः २८६ अध्यायः २८७ अध्यायः २८८ अध्यायः २८९ अध्यायः २९० अध्यायः २९१ अध्यायः २९२ अध्यायः २९३ अध्यायः २९४ अध्यायः २९५ अध्यायः २९६ अध्यायः २९७ अध्यायः २९८ अध्यायः २९९ अध्यायः ३०० विषयानुक्रमणिका त्रेतायुगसन्तानः - अध्यायः २७ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः २७ Translation - भाषांतर श्रीकृष्ण उवाच-शृणु वै राधिके देवा दैत्या दानवकोटयः ।मानवाः ऋषयः सन्तो हरेः पुत्राः समानकाः ॥१॥नाऽप्रियो न प्रियः कश्चित्तस्य भवति राधिके ।भक्तः प्रियो न त्वभक्तो भक्तिप्रियो हि माधवः ॥२॥आत्मनो नाऽसुरा देवा दैत्या वा मानवाः प्रिये ।स्वभावा गुणजा दैत्या देवाऽसुश्च मानवाः ॥३॥स्वभावाश्चागमापायाः प्रयोजनवशानुगाः ।प्रयोजनं सुखं तच्च देहजात्यनुसारगम् ॥४॥देहो नारी नरश्चेति षण्ढश्चेति त्रिधा मतः ।बालो युवा च वृद्धश्च गृही त्यागी व्रती वनी ॥५॥क्रिया देहानुकूला च वाञ्च्छा देहानुसारिणी ।बाल्ये क्रीडति वार्धक्ये शमं याति युवा तु न ॥६॥नारी नराश्रया सर्वा नरः स्वातन्त्र्ययन्त्रितः ।ब्राह्मणो भिक्षुकः क्षत्त्रं प्रसह्य बलवत् सदा ॥७॥श्वादौ सहनता नित्या सर्पे सा नैव विद्यते ।वृक्षे परोपकारश्च वानरे स्वार्थ एव च ॥८॥साधौ दया धनाढ्ये तु गर्वो रंके तु नम्रता ।मातरि वत्सलो भावः शत्रौ निर्दयता स्थिता ॥९॥चौरे निर्घृणता विद्यावति विचार्यकारिता ।लज्जा युवतीवर्गे च बालायां दोषहीनता ॥१०॥दिगम्बरत्वं वैराग्ये सरागे नववस्त्रिता ।व्योमवद् विद्यते चात्मा देहः सन्ध्या दिवा निशा ॥११॥आयान्ति च वियन्त्यस्य गुणवेगाः प्रयोजनात्॥तद्गुणा मायिकी माया जडा कर्ममयी सदा ॥१२॥सा न चात्मनि संलग्ना नात्मा तत्र च जन्मितः ।द्वयोः पन्था विभिन्नोऽस्ति नित्यबद्धाऽतिमुक्तयोः ॥१३॥इत्येवं राधिके ज्ञात्वा पुमान्नैव विलुप्यते ।अज्ञाने जायते रागो द्वेषश्चेत्युभदूषणे ॥१४॥रागाद्भवति प्रवृत्तिर्वासनाप्रचुरा दृढा ।द्वेषान्निवर्तते यद्वा प्रवर्ततेऽतिदारुणम् ॥१५॥अनिष्टं वहते चेष्टच्छन्नं चासुरभावनम् ।त एते दैत्यदेहाश्च वियन्ति परमात्मनः ॥१६॥अभियन्ति यदा ते च सुरा भवन्ति दैविनः ।अहिंसा सत्यमस्तेयं शौचमिन्द्रियसंयमः ॥१७॥दानं दया च क्षान्तिश्च ब्रह्मचर्यममानिता ।शुभा सत्या च मधुरा वाङ् नित्यं सक्रियारतिः ॥१८॥सदाचारनिषेवित्वं धर्मा दैवत्वदायकाः ।सुकेश्यभूत् पुरा दैत्यो लोमशस्याऽऽश्रमं गतः ॥१९॥धर्मान् पप्रच्छ कुशलान् श्रुत्वा चैतान् त्रयोदश ।लोमशात्तु महर्षेः स ययौ नैजं पुरं ततः ॥२०॥समाहूयाऽब्रवीत् सर्वान् राक्षसान् धार्मिकं वचः ।अहिंसाद्यान्महाधर्मान् पालयन्तु सदाऽसुराः ॥२१॥सोऽहमाज्ञापये सर्वान् क्रियतामविकल्पितम् ।ततः सुकेशिवचनात् सर्व एव निशाचराः ॥२२॥त्रयोदशांशतो धर्मं चक्रर्मुदितमानसाः ।ततः प्रवृद्धिं सुतरामगच्छँस्ते निशाचराः ॥२३॥प्रासादवाटिकाक्षेत्रोद्यानयानमहर्द्धयः ।पुत्रपौत्रार्थसंयुक्ता ह्यभवन् सुखसंभृताः ॥२४॥निशाचराणां नगरं तेजोमयं ह्यभूत्तु खे ।यत्र सूर्यस्य चन्द्रस्य तेजोऽऽपेक्षा न चाऽभवत् ॥२५॥ततस्तु तेजसा तेषां राक्षसानां महात्मनाम् ।गन्तुं नाऽशक्नुवन् सूर्या नक्षत्राणि च चन्द्रमाः ॥२६॥एवं धर्मप्रभावोऽस्ति राधिके तेजसोर्जितः ।ततस्त्रिभुवने दीप्तं निशाचरपुरं ह्यभूत् ॥२७॥दिवा सूर्यस्य सदृशं रात्रौ चन्द्रसमं ह्यभूत् ।यत्र सूर्यस्य चन्द्रस्य तेजोऽपेक्षा न विद्यते ॥२८॥प्रत्युत तत्पुरेणैव पृथ्व्यां सर्वग्रहेषु च ।दिवसः सर्वदा चास्ते तेजोवैभवकारणात् ॥२९॥न ज्ञायते गतिर्व्योम्नि भास्करस्य ततोऽम्बरे ।चन्द्रस्यापि गतिर्नैव ज्ञायतेऽन्यगतिः कुतः ॥३०॥कौशिकाद्यास्तु मुमुहुर्विना रात्रिं निशाचराः ।गृहस्था दुःखमापन्नाः स्त्रीधर्मा रात्रिमन्तरा ॥३१॥तर्कयन्ति तदा केचिन्नूनं रात्रौ सुदुःखिता ।पतियोगं विना कान्ता सती पतिव्रता सखी ॥३२॥परदेशगते कान्ते वियोगदुःखिता हि सा ।तपसा सूर्यास्तमनं रुरोध यावता भवेत् ॥३३॥प्रियस्य दर्शनं योगस्तावताऽऽयान्न वै निशा ।यज्वानो होमशालासु सहर्त्विग्भिरथाऽध्वरे ॥३४॥प्रावर्तयन्त कर्माणि रात्रावपि च राधिके ।महाभागवताः पूजां विष्णोः कुर्वन्ति भक्तितः ॥३५॥रवेः शशिनश्चाप्यन्ये ब्रह्मणोऽन्ये हरस्य च ।कुर्वन्ति पूजनं मत्वा दिवा रात्रावपि प्रजाः ॥३६॥विवेकिनस्तु जानन्ति विकसितैर्हि पङ्कजैः ।सूर्यस्योदयनं चन्द्रोदये तु कुमुदोत्कचैः ॥३७॥एवं प्रतापमापन्ने निशाचरपुरे वृषैः ।सूर्यस्त्वसहमानस्तत् तद्विघातमचिन्तयत् ॥३८।स भानुना तदा दृष्टः क्रोधाध्मातेन चक्षुषा ।सुकेशी ग्रामसहितः प्रजज्वाल तदाऽम्बरे ॥३९।सूर्यश्चक्रं च सौरं स्वं मुमोचाऽस्मै द्रुतं च तत् ।चक्रं वै भेदयामास पुरं निशाचरस्य तत् ॥४०।निपपाताऽम्बराद् भ्रष्टं केशिना सह राक्षसैः ।सुकेशी शंभवे नम इदमुच्चैरुदैरयत् ॥४१।तदाक्रन्दितमाकर्ण्य कैलासे शंकरः प्रभुः ।ज्ञात्वा ध्यानेन सूर्येण पातितं भक्तपत्तनम् ॥४२॥क्रुद्धस्तृतीयनेत्रेण सूर्यं शंभुरपश्यत ।सूर्यो व्योम्नः परिभ्रष्टो निपपात भुवस्तलम् ॥४३॥योगिशायिनमारभ्य यावत्केशवदर्शनम् ।प्रयागात् केशवं यावत् विस्तृतं भूतलं शुभम् ॥४४॥एतत् क्षेत्रं हरेः पुण्यं नाम्ना वाराणसी पुरी ।वरणायास्तथैवाऽस्यास्त्वन्तरे निपपात सः ॥४५॥भानुर्दहन् क्षणं चास्यां लुलन् ह्रदे ततः पुनः ।वरणायां च गङ्गायां लुलन् लोलार्कनामवान् ॥४६॥अभवच्चाऽथ सूर्यः स क्षमां हरादयाचत ।हरोऽपि भानुमादाय पाणिनाऽऽरोपयद् रथम् ॥४७॥सुकेशिनं पुरं चाप्यारोपयद् दिविं दैववत् ।एवं धर्मेण बलवान् जायते राक्षसोऽपि हि ॥४८॥शंभुर्यस्य सहायोऽभूत् सूर्योऽवाप रुषः फलम् ।एवं वै लोमशो दैत्यकन्याभ्यस्तु वृषान् शुभान् ॥४९॥प्राह श्रेयस्करान् ताश्च पुनः पप्रच्छुरादरात् ।कस्य पूजा कथं कार्या वद नो गुरुराट् प्रभो ॥५०॥लोमशस्ताः समुवाच नारायणः श्रियाः पतिः ।आषाढैकादशीप्रातर्भोगिभोगे स्वपित्यतः ॥५१॥शेषाऽहिभोगपर्यंकं कृत्वा सम्पूज्य केशवम् ।प्रास्वापयेदनादिश्रीकृष्णनारायणं क्षणम् ॥५२॥त्रयोदश्यां स्वपित्यैव कामः स्वशयने शुभे ।कदम्बानां सुगन्धानां कुसुमैः परिकल्पिते ॥५३॥तत्र तदा सुशृंगारैः कामः प्रीतिरतिप्रभुः ।पूजनीयो विशेषेण कृष्णमूर्तौ सुखप्रदः ॥५४॥चतुर्दश्यां ततो यक्षाः स्वपन्ति सुखशीतले ।सौवर्णपङ्कजकृते सुखास्तीर्णोपधानके ॥५५॥यक्षेशो यक्षयुक्तश्च मणिभद्रादिभिर्युतः ।पूजनीयोऽन्नपानाद्यैस्तर्पणीयो विशेषतः ॥५६॥पूर्णमास्या स्वपित्युमानाथः स्वचर्मसंस्तरे ।वैयाघ्रे च जटाभारं समुद्ग्रथ्याऽन्यचर्मणा ॥५७॥शंभुस्तत्राऽर्चनीयश्च धत्तूरस्य सुमादिभिः ।ततो दिवाकरो राशिं सम्प्रयाति तु कर्कटम् ॥५८॥तेनामराणां रजनी भवते दक्षिणायनम् ।ब्रह्मा ततः प्रतिपदि नीलोत्पलमये प्रिये ॥५९॥तल्पे स्वपिति लोकानां शुभचिन्तनकाम्यया ।विश्वकर्मा द्वितीयायां तृतीयायां तु पार्वती ॥६०॥विनायकश्चतुर्थ्यां च पञ्चम्यामपि धर्मराट् ।षष्ट्यां स्कन्दः प्रस्वपिति सप्तम्यां भगवान् रविः ॥६१॥कात्यायनी तथाऽष्टम्यां नवम्यां कमलालया ।दशम्यां भुजगेन्द्राश्च स्वपन्ति वायुभोजनाः ॥६२॥एकादश्यां तु कृष्णायां साध्या देवाः स्वपन्ति च ।तत्तत्तिथौ तत्सुराणां पूजनं प्राचरेत् सती ॥६३॥तेन श्रेयः सर्वविधं त्वानुयाद् व्रतिनी सती ।द्वितीयायां प्रस्वपिति विश्वकर्मा प्रजापतिः ॥६४॥तस्य मूर्तिर्विधातव्या यदा लक्ष्म्या युतो हरिः ।सौवर्णस्य विधातव्यः श्रीवत्सांकश्चतुर्भुजः ॥६५॥पर्यके तं समं लक्ष्म्या गन्धपुष्पादिभिर्युते ।शय्यायां पूजयेत् कृष्णं प्रक्षिपेत् सत्फलानि च ॥६६॥सुरभीणि निवेद्येत्थं प्रार्थयेत् श्रीयुतं हरिम् ।अशून्यशयने नाथ यथा त्वं राजसे श्रिया ॥६७॥तथा चाऽशून्यशयनं रक्ष मे सर्वदाऽस्तु च ।लक्ष्म्या युक्तं शयनं ते यथा शून्यं कदापि न ॥६८॥तथा ममापि भगवान् गार्हस्थ्यं माऽस्तु शून्यकम् ।लक्ष्मीधरः प्रसन्नोऽस्त्वित्युच्चार्य व्रतमाचरेत् ॥६९॥चातुर्मास्ये प्रभुञ्जीत तैलक्षारविवर्जितम् ।लक्ष्मीधरः प्रीयतां मे इत्युच्चार्य द्विजातये ॥७०॥फलं स्वर्णं वस्त्रशय्यां गां दानं वितरेद् व्रती ।व्रतिनस्तेन पुण्येन गार्हस्थ्यं मोदते सुखम् ॥७१॥रविराषाढमासाद्य मिथुनाऽभिमुखो भवेत् ।तत आरभ्य यावत्स वृश्चिकस्थो विभाति हि ॥७२॥चातुर्मास्यं चान्तरे वै काले बोध्य व्रतार्थिना ।सुरास्ततो विबुध्यन्ते क्रमशस्तत्र राधिके ॥७३॥तुलास्थे च रवौ पूर्वं हरिः कृष्णः प्रबुध्यते ।तस्य पूजा प्रकर्तव्या महादानार्पणादिभिः ॥७४॥कामदेवस्तत्र ततः प्रबुध्यते तमर्चयेत् ।द्वितीयायां सुवर्णस्य मूर्तिर्लक्ष्मीधरस्य तु ॥७५॥शय्या चास्तरणोपेता यथाविभवमात्मनः ।दातव्यैतद्व्रतेनाऽत्र दम्पत्योर्न वियोगिता ॥७६॥अथ भाद्रपदे कृष्णाष्टमी कालाष्टमी मता ।युक्ता मृगशिरेणाऽस्यां लिंगे स्वपिति शंकरः ॥७७॥गोमूत्रेण जलेनाऽपि स्नायात् संस्नापयेच्छिवम् ।ततः सम्पूजयेत्पुष्पैर्धत्तूरस्य च चन्दनैः ॥७८॥धूपं केसरनिर्यासं नैवेद्यं मधुसर्पिषी ।प्रीयतां मे विरूपाक्षस्त्विति कुर्यात्तदर्थनाम् ॥७९॥आश्विने स्नापयेत् स्नायाद् गोमयेनाऽथ पूजनम् ।पंकजैर्धूपयेत् सर्जनिर्यासैर्मधुमोदकान् ॥८०॥भोजयेत् प्रीयतां हिरण्याक्षो मे चेति चार्थयेत् ।कार्तिके पयसा स्नानं करवीरेण चार्चनम् ॥८१॥धूपं श्रीवासनिर्यासं नैवेद्यं मधुपायसम् ।प्रीयतां स्थाणुरुच्चार्य देयं रजतदानकम् ॥८२॥मार्गशिरे दधिस्नानं नैवेद्यं मधुनौदनम् ।धूपं श्रीवृक्षनिर्यासं प्रीयतां शर्व आर्थयेत् ॥८३॥पौषे स्नानं तु हविषां पूजा बिल्वैस्तथा फलैः ।धूपो मधुकनिर्यासो नैवेद्यं मधुसक्तुकैः ॥८४॥प्रीयतां त्र्यम्बक इत्यभ्यर्थयेन्मुद्रिकां ददेत् ।माघे कुशोदकस्नानं कुमुदेन शिवार्चनम् ॥८५॥धूपः कदम्बनिर्यासो नैवेद्यं सतिलौदनम् ।प्रीयतां मे महादेव इत्यभिप्रार्थयेन्नमः ॥८६॥एवं षाण्मासिकं चैतद्व्रतं सौभाग्यदं सदा ।अथ च फाल्गुने पञ्चगव्यस्नानं प्रकारयेत् ॥८७॥पूजयेत् कुन्दकुसुमैर्धूपयेच्चन्दनेन च ।नैवेद्यं सघृतं दद्यात्ताम्रपात्रे गुडौदनम् ॥८८॥प्रीयतां रुद्र मे प्रोच्य वस्त्रयुग्मं प्रदापयेत् ।चैत्रे चौदुम्बरजलैः स्नानं मन्दारकार्चनम् ॥८९॥धूपं च गुग्गुलकृतं मोदकान् विनिवेदयेत् ।मृगचर्मप्रदानं प्रीयतां नागेश्वरो मम ॥९०॥वैशाखे गन्धकुसुमैः स्नानं पूजाऽऽभ्रपुष्पकैः ।धूपः सर्जस्य निर्यासो नैवेद्यं सफलं घृतम् ॥९१॥शालघ्नः प्रीयतां चेति जलकुंभप्रदानकम् ।ज्येष्ठे स्नानं चामलकैः पूजाऽर्ककुसुमैस्तथा ॥९२॥दधिसक्तूभोजनं च छत्रोपानत्प्रदानकम् ।धूपं तु चान्दनं भगनेत्रघ्नः प्रीयतां मम ॥९३॥आषाढे श्रीफलैः स्नानमर्चनं कानकैः सुमैः ।धूपयेत्। सल्लिकया च पूपा नैवेद्यमुत्तमम् ॥९४॥प्रीयतां दक्षयज्ञघ्नो दानं यवकणादिकम् ।श्रावणे भृंगराजेन स्नानं श्रीद्रुदलार्चनम् ॥९५॥अगुरुधूपनं नैवेद्यं दधि मोदकास्तथा ।स्वर्णगोवस्त्रदानं मे गंगाधरः प्रसीदतु ॥९६॥एभिः षडभिस्तथा मासैः पूजन व्रतपुष्टिदम् ।नवम्यां पारणं कुर्यात् पूर्णे संवत्सरे ततः ॥९७॥द्वादशकृष्णपक्षीयाऽष्टम्युपवासनं सदा ।तत उद्यापनं कुर्यान्महेश्वरवचो यथा ॥९८॥अक्षयं लभते सौख्यं दम्पती पुण्यकव्रतात् ।धर्मार्थकाममोक्षकृत् तत्तथा न तदन्यथा ॥९९॥पद्मं प्रजापतेर्नाभ्या निर्यातं चाश्विने यतः ।ब्रह्मणः पूजने पद्मं देयं प्रीतिविवर्धनम् ॥१००॥कामकरे कदम्बश्च यक्षकरे वटद्रुमः ।धत्तूरश्च शिवहृदि वेधोमध्याद्धि खादिरः ॥१०१॥विश्वकर्ममध्यदेहात् कण्टकी समजायत ।गिरिजायाः करतले कुन्दगुल्मस्त्वजायत ॥१०२॥गणाधिपस्य कुंभस्थो राजते सिन्दुवारकः ।यमस्य दक्षिणे पार्श्वे पालाशो वै व्यजायत ॥१०३॥यमस्य दक्षिणोत्तरे जातः कृष्ण उदुम्बरः ।स्कन्दस्य बन्धुजीवश्च रवेरश्वत्थ एव च ॥१०४॥कात्यायन्याः शमी जाता बिल्वो लक्ष्म्याः करेऽभवत् ।नागमुखे शरस्तम्बा दूर्वा वासुकिपृष्ठके ॥१०५॥साध्यहृदि चन्दनश्च व्यजायत च राधिके ।कल्पान्तरकथा चेयं सृष्ट्यादौ समजायत ॥१०६॥तैः पूजने तत्सुराणां प्रीतिः सर्वाऽधिका भवेत् ।धर्मार्थकाममोक्षाश्च दीयन्ते तैः प्रसादितैः ॥१०७॥इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने दैत्यनारीणां धर्मोपदेशे सुकेशिसमाख्यानम्, अशून्यशयनव्रतशिवपुण्यकव्रतादि, देवानां भिन्नतिथिषु स्वापाः, पूजा चेत्यादिनिरूपणनामा सप्तविंशतितमोऽध्यायः ॥२७॥ N/A References : N/A Last Updated : April 30, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP