संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|त्रेतायुगसन्तानः|

त्रेतायुगसन्तानः - अध्यायः २२९

लक्ष्मीनारायणसंहिता


श्रीकृष्ण उवाच-
शृणु त्वं राधिके लोकानुपादिदेश माधवः ।
त्याग एव तु सर्वेषां महासुखप्रदे मतः ॥१॥
त्यजनं त्याग एवाऽस्ति दूरीकरणमित्यपि ।
अनाग्रहणमेवापि त्याग एव हि सोऽर्थतः ॥२॥
तृष्णात्यागे महाशान्तिरिच्छात्यागे निवर्तनम् ।
द्रव्यत्यागे कर्मशान्तिर्भोगत्यागे व्रतोद्भवः ॥३॥
सुखत्यागे तपःप्राप्तिः सर्वत्यागे विमोक्षणम् ।
त्यागमार्गो हि दुःखानां विप्रहाणाय जायते ॥४॥
यत्र येन भवेद् दुःखं तत्तत् त्यक्त्वा सुखी भवेत् ।
मायां त्यक्त्वा गुणातीतो ब्रह्मानन्दभरो भवेत् ॥५॥
गुणयोगे गुणभावाः सुखं दुःखं विमोहनम् ।
गुणत्यागे गुणभावविध्वंसश्चात्मनो भवेत् ॥६॥
सत्त्वं रजस्तमश्चेति शीतोष्णांगारसाधनाः ।
प्रहर्षः प्रीतिरानन्दः सुखं संशान्तचित्तता ॥७॥
सात्त्विकाः संभवन्त्येते वैराग्याद्वेष्टलाभतः ।
अतुष्टिः परितापश्च शोको लोभस्तथाऽक्षमा ॥८॥
राजसाः संभवन्त्येते रागाद्वा द्विष्टलाभतः ।
अविवेकस्तथा मोहः प्रमादः स्वप्नतन्द्रिते ॥९॥
तामसाः संभवन्त्येते जाड्याद्वा बुद्धिविभ्रमात् ।
इष्टतायाः परित्यागे सात्त्विकानां लयो भवेत् ॥१०॥
द्विष्टतायाः परित्यागे राजसानां लयो भवेत् ।
विभ्रंशस्य परित्यागे तामसानां लयो भवेत् ॥११॥
एवं गुणत्रयत्यागे गुणातीतस्थितिर्भवेत् ।
सच्चिदानन्दरूपं स्वं विन्दति चेतनः स्वयम् ॥१२॥
एवं सति रूपनामाकृतयोऽस्य न वै तदा ।
रूपनामाकृतिजन्याऽहन्ता न ममताऽपि न ॥१३॥
तयोस्त्यागे चेतनस्य मोक्षभावोऽभिजायते ।
लिप्यते कर्मभिर्नैव न बध्यतेऽपि मुच्यते ॥१४॥
दृढपाशा गताश्चास्य शरीरेन्द्रियसंभवाः ।
गताश्चान्तःकरणोत्थास्तदा मुक्तोऽग्रगो भवेत् ॥१५॥
अपरोक्षानुभववान् कालमृत्युभयातिगः ।
पुण्यापुण्यात्मपाथेयशून्यः फलविवर्जितः ॥१६॥
चिदम्बरात्मानमाप्य चिदाकाशे प्रमोदते ।
ऊर्णनाभिर्हि निर्बन्धः स्वजाले मुक्त एव सः ॥१७॥
गिरेः पतितो ग्रावा वै बन्धशून्यो यथैव सः ।
पुराणं रुरोः शृंगं त्यक्तं बन्धाय नैव तत् ॥१८॥
त्यक्ता जीर्णा न बन्धाय त्वक् सर्पस्य यथा तु वै ।
पिच्छं त्यक्तं न बन्धाय पिच्छिनस्तत्तथैव च ॥१९॥
नद्यां पतन् द्रुमस्त्यक्तः पक्षिणो बन्धनाय न ।
एवं देहालयं त्यक्त्वा विमुक्तो वै महासुखी ॥२०॥
देहे स्थितोऽपि यः प्रज्ञामेतामाश्रित्य वर्तते ।
मुक्तवन्मुक्त एवाऽयं गुणाऽसंगी महासुखी ॥२१॥
अथ लोके स्थितश्चापि गुणयोगेन वर्तते ।
तस्यापि सुखबाहुल्यसाधनं दम एव ह ॥२२॥
क्रियास्तपः सुखं सत्यं दमे सर्वं प्रतिष्ठितम् ।
दमस्तेजो वर्धयति भयं पापं निकृन्तति ॥२३॥
सुखं दान्तः प्रस्वपिति सुखं च प्रतिबुध्यते ।
सुखं लोकैः समन्वेति सुखं हृदि प्रसीदति ॥२४॥
दमेन वर्धते चात्मबलं भाग्यमुदेति च ।
सत्कार्याणां फलं सर्वं दमे दान्ते प्रतिष्ठति ॥२५॥
भवन्त्येते गुणा नित्या दमयुक्तस्य देहिनः ।
अकार्पण्यमसंरंभः सन्तोषः श्रद्दधानता ॥२६॥
अक्रोध आर्जवं सौम्यं नातिवादो न पैशुनम् ।
नाभिमानं नाप्यसूया दया च गुरुपूजनम् ॥२७॥
जनवादमृषावादस्तुतिनिन्दाविवर्जनम् ।
साधुकामः स्पृहाशून्यश्चाऽवैरः सूपचारवान् ॥२८॥
सुव्रतः शीलवान् जल्पवर्जितः सुप्रसन्नहृत् ।
प्रसन्नात्माऽऽत्मवान् दोषान् जित्वाऽऽत्मनिष्ठसंस्थितिः ॥२९॥
सर्वभूतहिते युक्तो न स्म द्विष्टेऽपरं तु यः ।
महाह्रदं इवाऽक्षोभ्यः प्रज्ञातृप्तः प्रसादवान् ॥३०॥
कालाकांक्षी चरेल्लोकान् निरपाय इवात्मवान् ।
स्वर्गवन्मोक्षवच्चापि दान्तो गुणैरितीदृशैः ॥३१॥
नमस्यः सर्वभूतानां ब्रह्मवन्मोदते सुखी ।
त्यागस्तपः परं प्रोक्तं दान्तिस्तपः परोत्तमम् ॥३२॥
आर्जवं तपसां श्रेष्ठं मौनं शीलं परं तपः ।
अमृताशित्वमपरं तपः साधुप्रसेवनम् ॥३३॥
कृतप्रज्ञस्य दान्तस्य वितृष्णस्य निराशिषः ।
श्रीहरौ ध्यानशीलस्य स्थैर्यं तत्परमं तपः ॥३४॥
आर्जवेनाऽप्रमादेन प्रसादेन च सेवया ।
वृद्धशुश्रूषया शान्त्या तपः श्रेष्ठं प्रजायते ॥३५॥
प्रज्ञालाभात्तु पुरुषः सर्वं तुदति किल्बिषम् ।
विमायिको लभते शं शान्तिस्थः सम्प्रसीदति ॥३६॥
लब्धव्यान्येव लभति गन्तव्यान्येव गच्छति ।
प्राप्तव्यान्येव प्राप्नोनि दुःखानि च सुखानि च ॥३७॥
एतद्विदित्वा कार्त्स्येन यो न मुह्यति देहवान् ।
कुशली स सदा चास्ते स वै सर्वधनो मतः ॥३८॥
तस्माद् गुणानुपार्ज्यैव सतो सेवेत चानयान् ।
सत्संगेन भवेद् वृद्धिर्गुणानां ब्रह्मगामिनाम् ॥३९॥
ब्रह्मप्राप्तिर्भवेत्तेन सर्वार्पणेन माधवे ।
इत्युक्त्वा भगवान् कृष्णनारायणः प्रजाजनान् ॥४०॥
मनूनश्रावयत् सम्यग् वैष्णवाँस्तान् व्यधापयत् ।
अष्टम्यास्तु रजन्यां वै दत्वोपदेशनं ततः ॥४१॥
भगवान् भोजयामास सर्वान् वै महीमानकान् ।
प्रजाश्च भोजयामास तथा नैजकुटुम्बकम् ॥४२॥
स्वयं भुक्त्वा च विश्रान्तिं लेभे सुयोगनिद्रिकाम् ।
नवम्यां मंगलध्वानैः सूतमागधगीतिभिः ॥४३॥
बन्दीगीतयशोव्रातैः प्रबुबोध महाप्रभुः ।
कृताह्निकः कृतपूजः कृतवृद्धाभिपूजनः ॥४४॥
मांगलिके मुहूर्ते त्वाययौ क्रतोः सुमण्डपम् ।
राजादयो यजमानाः समाययुस्तु मण्डपे ॥४५॥
यथापूर्वमभवच्च यज्ञकार्यं समस्तकम् ।
मध्याह्ने चाहुतिं दत्वा भगवान् बालकृष्णकः ॥४६॥
भोजयामास सर्वांश्च स्वयं च बुभुजे प्रभुः ।
सायं विमानमारुह्य समुद्रोपरि चाम्बरे ॥४७॥
राजभिः सह भगवान् विहारार्थं ययौ ततः ।
समागत्य निजं स्थानं सन्ध्यां चकार केशवः ॥४८॥
भोजयित्वा जनान् भुक्त्वा रात्रौ विश्रान्तिमाप च ।
दशम्यामपि प्रातः स कृताह्निकः परेश्वरः ॥४९॥
यज्ञमण्डपमागत्य यजमानैः समेतकः ।
महर्षिभिः क्रतोः कार्यं कारयित्वा तथा हवान् ॥५०॥
दत्वा मध्याह्नवेलायां भोजयामास वाडवान् ।
महीमानान् समस्तांश्च स्वयं च बुभुजे ततः ॥५१॥
सायं मनून् ददौ तत्र भक्तेभ्यो भगवान् प्रभुः ।
श्राद्धानि कारयामास वाडवैर्बहुतर्पणम् ॥५२॥
रात्रौ भोजनमासाद्य विश्रान्तिं चाप माधवः ।
एकादश्यां प्रगे शीघ्रं समुत्तस्थौ सुरेश्वरः ॥५३॥
अनादिश्रीकृष्णनारायणः श्रीभगवान् हरिः ।
कृताह्निकः कृतपूजो मण्डपं द्रुतमाययौ ॥५४॥
वस्तूनां प्रोक्षणं स्वस्तिवाचः पुण्याहवाचनम् ।
कारयित्वा सुरादीनां प्रबोधनं च पूजनम् ॥५५॥
बलिदानं महानैवेद्यकं पुष्पाञ्जलिं तथा ।
होमं हव्यविशेषाणां प्रददौ भगवाँस्ततः ॥५६॥
सहस्रघृतधाराभिस्तर्पयामास देवताः ।
तदा प्रत्यक्षरूपास्ते भुक्तवन्तः सुरादयः ॥५७॥
स्थावरा जंगमा सर्वे तृप्तिं प्राप्ताः सुहव्यकैः ।
इयं चाक्षरधामाधिपतये चाहुतिर्नमः ॥५८॥
इमा मुक्तेभ्य एवापि चाहुतयश्च तान्नुमः ।
इमाः सर्वावतारेभ्यश्चाहुतयश्च तान्नुमः ॥५९॥
इमा ईशेभ्य आहुतयश्च तेभ्यो नमोनमः ।
इमाः ऋषिभ्यः सर्वेभ्य आहुतयश्च तान्नुमः ॥६०॥
इमाः पितृभ्यआहुतयस्तेभ्यश्च नमोनमः ।
इमा देवेभ्य आहुतयश्च तेभ्यो नमोनमः ॥६१॥
इमा भुवर्निवासिभ्य आहुतयश्च तान्नुमः ।
इमा मानवजातिभ्य आहुतयश्च तान्नुमः ॥६२॥
इमाः सप्ततलवासिभ्यश्चाहुतयस्तान्नुमः ।
इमा द्रुमेभ्यः सर्वेभ्यो लतातृणेभ्य इत्यपि ॥६३॥
कन्दमूलादियावद्भ्या आहुतयश्च तान्नुमः ।
इमाः कीटपतंगादिभ्यश्चाहुतयस्तान्नुमः ॥६४॥
सर्वयोषिद्भ्यश्च सृष्टित्रयस्थाभ्य इमा नुमः ।
जडेभ्यश्चेतनेभ्यश्च तत्त्वेभ्योऽपि नम इमाः ॥६५॥
आहुतयः प्रदत्तास्ते तृप्तिं यान्तु हि देहिनः ।
इत्येवं स्रुचि श्रेष्ठाज्यं श्रीफलं समिधस्तथा ॥६६॥
पत्रं पुष्पं फलं मिष्टं निधाय सर्वजातिकम् ।
महापूर्णाहुतिं नौमि नमस्कृत्य विचिन्तनम् ॥६७॥
अग्निर्नारायणः साक्षात्तस्मै ददामि ते नमः ।
इदमग्नये च वैश्वानराय परमात्मने ॥६८॥
इत्युक्त्वा प्रददौ वह्नौ नारिकेलादिकं हरिः ।
राजानः प्रददुश्चापि श्रीफलाद्यानि वै तदा ॥६९॥
नमस्ते गार्हपत्याय नमस्ते दक्षिणाग्नये ।
नमश्चाहवनीयाय महावेदिस्थिताय च ॥७०॥
ब्रह्मणे गार्हपत्याय विष्णवे दक्षिणाग्नये ।
शिवायाऽऽहवनीयाय शक्तिवेदिस्थिताय च ॥७१॥
नमस्ते सभ्यरूपाय नमो गृह्याग्निरूपिणे ।
पञ्चाग्निरूपिणे तुभ्यं नमस्ते परमात्मने ॥७२॥
नमोऽग्निहोत्ररूपाय नमः पर्वेष्टिरूपिणे ।
चातुर्मास्यस्वरूपाय नमः पश्विष्टिरूपिणे ॥७३॥
सौत्रामणये तुभ्यं नमोऽग्निष्टोमाय ते नमः ।
अत्यग्निष्टोमरूपाय नमस्ते चोक्थरूपिणे ॥७४॥
नमः षोडशरूपाय वाजपेयाय ते नमः ।
अतिरात्रस्वरूपाय सर्वमेधात्मने नमः ॥७५॥
त्वं मुखं सर्वजीवानां त्वयाऽत्तं तर्पयेत् सुरान् ।
जीवसृष्टिरीशसृष्टिर्ब्रह्मसृष्टिश्च या मता ॥७६॥
तासां तृप्तिप्रदस्त्वं वै हव्यभुक् हव्यमावह ।
यान्तु हव्यानि सर्वेभ्यः स्वधास्वाहाद्युदीरणात् ॥७७॥
काली कराली धूम्रा च मनोभवा स्फुल्लिंगिनी ।
पिंगा रक्ता च ते जिह्वा ताभिर्ग्रस हविर्मुहुः ॥७८॥
पूगीफलानि च वह्नौ फलान्यन्यानि यानि च ।
प्रदुदुश्च तदा वह्नौ तृप्यतां परमेश्वरः ॥७९॥
इत्युक्त्वा श्रीहरिकृष्णो बालकृष्णो महाप्रभुः ।
महापूर्णाहुतिं चान्तां ददौ श्रीपतये तदा ॥८०॥
एवं होमं प्रदायैव ब्रह्मणे पात्रकार्पणम् ।
कृतवान् श्रीहरिर्ब्रह्मायजमानाभिषेचनम् ॥८१॥
कृत्वाऽमृताभिषेकं च श्रेयोदानं ततोऽकरोत् ।
दक्षिणार्पणमेवापि मण्डपे चाऽकरोद्धरिः ॥८२॥
स्वर्णगोभूतिलादीनां दानान्यदापयत् प्रभुः ।
राजानो राज्ययोग्यानि दानानि प्रददुस्तदा ॥८३॥
अथाऽभिषेकम् ऋषयो लोमशाद्या व्यधुस्तदा ।
पवमानानि ऋषयो ह्याशीर्वादाँस्तदा जगुः ॥८४॥
भूयसीं सम्प्रदायैवाऽऽशीर्वादाँश्च ददुस्तथा ।
स्मृद्धयः सन्तु दिव्या वोऽक्षयाः शाश्वतसौख्यदाः ॥८५॥
कुटुम्बवंशविस्ताराः प्रभवन्तु निरोगिणः ।
राज्यवैभवपशवो दासा दास्यो भवन्तु वः ॥८६॥
आयुर्दीर्घं यशो दिव्यं चान्ते स्वर्गं च मोक्षणम् ।
भवन्तु भोग्यजातानि भवतां सर्वदा त्विह ॥८७॥
सर्वे भवन्तु सुखिनः सर्वे सन्तु निरोगिणः ।
स्वर्गं दीर्घं परं भुक्त्वा प्रयान्त्वन्तेऽक्षरं पदम् ॥८८॥
इत्युक्त्वा यज्ञदेवानां पुष्पाञ्जलिं विदायकम् ।
प्रददुर्लोमशाद्याश्च परिहारस्ततोऽभवत् ॥८९॥
यज्ञप्रसादं हव्यं वै सर्वे बुभुजिरे मखे ।
येषां येषां च यान्येव हव्यानि तानि तानि वै ॥९०॥
तेभ्यस्तेभ्यो हरिकृष्णो दत्तवान् निजशक्तिभिः ।
सर्वविधानि भोज्यानि हव्यान्यमृतकानि च ॥९१॥
सुधारसाँश्च विविधान् पीयूषपानकोटिकाः ।
यथायोग्येभ्यः प्रददौ तृप्तयामास यावतः ॥९२॥
ततोऽधिकं भोजनं च ददौ भिक्षुकयायिने ।
भिक्षुकाऽनाथनारीभ्यो प्रददौ भोजनान्यपि ॥९३॥
सर्वेभ्यः प्रददावेकादश्यां मध्याह्नकोत्तरम् ।
भोजनानि समस्तानि पितृश्राद्धं ततोऽकरोत् ॥९४॥
अनेकानि फलादीनि जलादीन्यपि सन्ददौ ।
सायं सभायां भगवान् निषसाद शुभासने ॥९५॥
ददौ मन्त्रान् जनेभ्यश्च व्यधाद् वैष्णवसत्तमान् ।
निजं दिव्यं दर्शनं च ददौ त्वक्षरधामगम् ॥९६॥
ब्रह्मप्रियाभिर्मुक्तैश्च सेवितं पारमेश्वरम् ।
पुनस्तत्र बालकृष्णस्वरूपः सम्बभूव ह ॥९७॥
यज्ञतीर्थस्य माहात्म्यं जनेभ्यः प्रजगाद च ।
राधिके तत्तदा सृष्टित्रयं शुश्राव वै मुदा ॥९८॥

इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने आश्विनकृष्णनवमीदशम्येकादशीषु यज्ञादिकार्यनिर्वर्तनं महापूर्णाहुतिप्रदानंपरिहारो भोजनं चेत्यादिनिरूपण-
नामा नवविंशत्यधिकद्विशततमोऽध्यायः ॥२२९॥

N/A

References : N/A
Last Updated : May 02, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP