संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|त्रेतायुगसन्तानः|

त्रेतायुगसन्तानः - अध्यायः २२४

लक्ष्मीनारायणसंहिता


श्रीकृष्ण उवाच-
राधिके भगवानाह सर्वाः प्रजा नृपादिकान् ।
श्वोऽस्ति यज्ञो महान् श्रेष्ठो ब्राह्मीले राष्ट्रके शुभे ॥१॥
यज्ञो यत्र भवत्येव देशः स पुण्यदो भवेत्॥
यज्ञो नारायणः साक्षात् स चास्मि पुरुषोत्तमः ॥२॥
अहं यज्ञेन सततं प्रसन्नस्तृप्तिमेमि हि ।
मय्यर्पिताः क्रियाः सर्वा यज्ञ एव न संशयः ॥२॥
नहि खल्वनुपायेन कश्चिदर्थोऽपि सिद्ध्यति ।
यज्ञकार्येण यज्ञोऽयं सिद्ध्यामीह न संशयः ॥४॥
मृगैर्मृगाणां ग्रहणं पक्षिणां पक्षिभिर्यथा ।
गजानां च गजैरेवं यज्ञो यज्ञेन गृह्यते ॥५॥
यथा चन्द्रो ह्यमायां वै ह्यलिंगत्वान्न दृश्यते ।
तथाऽहं हृदि कलुषे दृश्यो भवामि नैव ह ॥६॥
यथा पूर्णां तिथिं प्राप्य भ्राजते चन्द्रमास्तथा ।
भक्तिपूर्णां मतिं प्राप्य विभ्राजेऽहं परेश्वरः ॥७॥
राहुग्रस्तोऽप्यपि चन्द्रो जायते विप्रकाशकः ।
मायाग्रस्तोऽपि जीवात्मा विप्रकाशः प्रजायते ॥८॥
अबुद्धिश्चाऽकृतप्रज्ञस्त्वाकृष्यते बहिर्मुखः ।
विषयेषु कृतावासः कदापि नहि तृप्यति ॥९॥
अतृप्तस्य न वै शान्तिरशान्तस्य न वै सुखम् ।
असुखस्य न वै मोक्षः पुनर्निरयगामिता ॥१०॥
विषयाश्चैको निरयश्चेन्द्रियाणि द्वितीयकः ।
मनस्तृतीयो निरयो वासना तु तुरीयकः ॥११॥
कर्माणि पञ्चमश्चापि षष्ठो निरयो दुर्गुणाः ।
सप्तमस्तु गृहे क्लेशश्चाष्टमश्च दरिद्रता ॥१२॥
नवमो निरयो रोगो दशमः परवश्यता ।
एकादशश्चापकीर्तिर्द्वादशो बुद्धिहीनता ॥१३॥
त्रयोदशः कुटुम्बादिश्चतुर्दशस्तु भृत्यता ।
पञ्चदशो व्यंगता च शत्रवः षोडशोऽपि सः ॥१४॥
सप्तदशस्तु वै साक्षाद् देहो निरयसंज्ञकः ।
अष्टादशो विकाराश्च देहजा निरया इमे ॥१५॥
इत्येवं निरया लोके संलग्ना देहिनामिह ।
यज्ञेन यज्ञमासाद्य निर्निरयगतो भवेत् ॥१६॥
यावत् कल्मषमास्ते वै तृषाछेदो न तावता ।
निवर्तते तदा तृषा कल्मषान्तो भवेद् यदा ॥१७॥
विषयेषु तु संसर्गात् तर्षो विवर्धते सदा ।
विषयाणां विरागेणाऽतर्षो ज्ञानेन वर्धते ॥१८॥
ज्ञानाऽऽदर्शे निजात्मानं शुद्धं पश्यति पश्यकः ।
इन्द्रियाणां नियमेन सुखी भवति मानवः ॥१९॥
इन्द्रियेभ्यश्च रूपेभ्यो यच्छेदात्मानमात्मना ।
विमुञ्चेत्प्राकृतान् ग्रामान् मत्स्थितोऽमृतमश्नुते ॥२०॥
प्रणीतं कर्मणा मार्गं भुक्त्वा त्यक्त्वाऽथवा मयि ।
स्वर्गं वा शाश्वतं स्वर्गं मद्धाम परमं लभेत् ॥२१॥
आत्मा त्याज्यगुणैर्हीनो यदा मयि प्रवर्तते ।
तदा सम्पद्यते धाम ब्रह्मलोकं ममाश्रयम् ॥२२॥
आकृतयो विलीनाः स्युः समनोबुद्धिवृत्तयः ।
यदाऽऽत्मनि ब्रह्मरूपे परब्रह्म प्रकाशते ॥२३॥
आगतं विषयं दुःखं चिन्तयेन्न निवर्तते ।
भैषज्यमेतत्त्यागस्य यदेतेषां न चिन्तनम् ॥२४॥
अनित्यं जीवनं द्रव्यं प्रिययोगो गृहादिकम् ।
कालभक्षं विचार्यैतन्न गृध्येत्तत्र चात्मवित् ॥२५॥
दुःखं त्यक्तं भवेत्तत्र सुखं यद्विषयोद्भवम् ।
दुःखमिश्रं च तदपि दुःखबहुलमित्यपि ॥२६॥
विचार्योभयमेवापि त्यजेदभ्येति मां हि सः ।
यदात्मना भवेद् भक्तिर्ब्रह्मभावेऽतिमायिके ॥२७॥
तदा प्रज्ञायते ब्रह्म लभ्यते च समाधिना ।
ब्रह्मभावं च निकषा गतो ध्यानमवाप्नुयात् ॥२८॥
ध्यातोऽहं चास्य वै ध्यात्रा चारोहामि तदन्तरम् ।
सर्वद्वारनिरुद्धस्य प्रकाशेऽहं तदात्मनि ॥२९॥
गुणानां विलयस्तस्याऽनायासेन प्रजायते ।
अगुणो दिव्यगुणवान् मद्रूपः स प्रजायते ॥३०॥
सगुणाः प्रकृतौ सर्वे प्रवर्तन्ते शरीरिणः ।
स्वर्गयोग्याश्च ते सर्वे निर्गुणास्तु मदर्हणाः ॥३१॥
यावदस्य वर्ततेऽत्र भूतावेशोऽतिकष्टदः ।
तावदस्य खनिश्चास्ते दुःखसंसारवस्तुजा ॥३२॥
यावदस्य च भूतानां वियोगो जायते भृशम् ।
सूक्ष्माणां चापि हेतूनां ब्रह्म सम्पद्यते तदा ॥३३॥
धर्माद् भक्तेर्विरागाच्चोत्कृष्यते श्रेय आत्मना ।
श्रेयसाऽऽढ्यो हरिं चैति मा परश्रेयसां निधिम् ॥३४॥
यथा साम्यरसा भूमिर्भिन्नबीजरसाऽनुगा ।
तथा साम्यरसश्चात्मा भिन्नकर्मजदेहगः ॥३५॥
यथा स्वर्णं लोहमिश्रं वह्निना शोधितं भवेत् ।
तथा देही मम भक्त्या प्रज्ञया शोधितो भवेत् ॥३६॥
प्रज्ञा पुराणी मद्दत्ता शोधितस्य प्रकाशते ।
प्रज्ञासृतिं समालम्ब्य भक्तिमान् मां प्रपद्यते ॥३७॥
प्रज्ञानां चापि भक्तीनां फलं मे दिव्यदर्शनम् ।
अप्रज्ञाश्चाप्यभक्ताश्च तं मां पश्यन्ति नैव ह ॥३८॥
कर्मिभ्यः सात्त्विकाः श्रेष्ठास्ततोऽपि शुद्धसत्त्वजाः ।
तेभ्यः कालो ममशक्तिर्बलवान् सर्वभक्षकः ॥३९॥
कालात्परं तु मे धामाऽक्षरं दिव्यं निवासनम् ।
नादिर्नमध्यं नैवान्तस्तस्य धाम्नः प्रविद्यते ॥४०॥
जन्ममृत्युजराजन्यं दुःख यत्र न विद्यते ।
तद् ब्रह्म परमं स्थानं तद्धाम परमं पदम् ॥४१॥
कालमूर्ध्नि पदं धृत्वा मद्भक्ता यान्ति तत्पदम् ।
निवृत्तिलक्षणं धर्मं शुभं मदर्पणात्मकम् ॥४२॥
समाश्रित्य प्रयान्त्येव ततोऽनन्तं पराक्षरम् ।
न यत्नसाध्यं तद्ब्रह्म शब्दब्रह्म समं मतम् ॥४३॥
कृपासाध्यं हि तद्ब्रह्म परब्रह्मप्रसज्जकम् ।
पापात् साधनविरहादासक्तेः कर्मबन्धनात् ॥४४॥
मर्त्या नैव प्रपश्यन्ति स्वरूपं निर्मलं निजम् ।
विषयेषु तु विश्रान्तेर्ममाहंकारभावनात् ॥४५॥
बलात्तृष्णाप्रवाहस्य ब्रह्म नात्मा प्रपद्यते ।
सतां प्रसेवनाद् ध्यानान्मन्मूर्तेर्भक्तिभावनात् ॥४६॥
ब्रह्माभ्यासात् प्रवैराग्यात् स्नेहाद् ब्रह्म प्रकाशते ।
गुणमिष्टं प्रपश्यन्ति मिष्टतृष्णापराहताः ॥४७॥
परं नैवाभिकांक्षन्ति चामृतोत्तममाच्युतम् ।
अवरैश्च गुणैर्युक्ता नैव पश्यन्ति पारगान् ॥४८॥
अपारगा मुहुश्चात्र विचाल्यन्तेऽण्डराशिषु ।
सतां योगेन बहवः पर पारं गताः पुरा ॥४९॥
सन्तश्चरन्ति सततं श्रेयोमार्गजुषां पुरः ।
यदि नामाऽऽश्रयन्ते चेत् पारमेष्यन्ति सत्वरम् ॥५०॥
आशीर्वादात्पुण्यबलात् सेवाफलात् सुकर्मणः ।
चेदाश्रितास्तदा यन्ति तूर्णं ब्राह्मीं तनुं शुभाम् ॥५१॥
ध्यातॄणां सेविनां स्निग्धभक्तानां ब्रह्मवर्तिनाम् ।
सनातनी गतिर्याऽस्ति ताममृतां प्रयान्ति ते ॥५२॥
इत्युपादिश्य च कृष्णो विरराम परेश्वरः ।
जलपानादिकं कृत्वा सुष्वाप भगवान् प्रभुः ॥५३॥
कन्यकासेवितः श्रीमत्कृष्णनारायणः प्रगे ।
प्रबुबोध सुवाद्याद्यैर्मंगलैर्गीतिभिस्ततः ॥५४॥
कृताह्निकः कृतपूजः शीघ्रं गन्तुमियेष ह ।
राजा विदायं प्रददौ यौतकं प्रददौ तथा ॥५५॥
स्वसार्थसहितः सज्जो बभूव ब्राह्मसंज्ञके ।
मुहूर्तं श्रीहरिः समारुरोह च विमानकम् ॥५६॥
तदा तूर्याण्यवाद्यन्त प्रजाश्च माननं व्यधुः ।
वर्धितः श्रीहरिर्द्रव्यं चालंत्रातर्षये ददौ ॥५७॥
शृण्वन् यशो निजं व्योम्नि विमानं चैरयद् द्रुतम् ।
आश्वीनकृष्णपञ्चम्यां प्रातरेव मखस्थलीम् ॥५८॥
ब्राह्मीलराष्ट्रे गोयाजानगर्याः सन्निधौ शुभे ।
आम्रजानिकनद्यास्तु तटे शीघ्रं समागमत् ॥५९॥
विमानं वै तदा जातं सूर्यसहस्रसत्प्रभम् ।
प्रतीक्षमाणाः ऋषयो राजाद्याश्च प्रजाजनाः ॥६०॥
विमानमागतं वीक्ष्य दुद्रुवुः स्वागतस्थलीम् ।
विशाले भूतले नद्यास्तीरेऽसंख्यजनाऽऽश्रिते ॥६१॥
स्थिरीभूता जनाः स्वस्थाः, अवातरद् विमानकम् ।
जयशब्दाः प्रजानां वै गगनप्रसरास्तदा ॥६२॥
अभवँस्तूपशब्दश्च यन्त्रीशब्दाः सुमानदाः ।
प्रतिध्वनयो ध्वनिजाः प्रतिनेदुः समन्ततः ॥६३॥
गीतयो योषितां चाप्यश्रूयन्त हर्षसंभृताः ।
वाद्यानां च विचित्रा वै ध्वनयोऽप्यभवँस्तदा ॥६४॥
शंखनादाश्च परितो बिगूलानां निनादकाः ।
अभवन्मंगलघोषा विप्राणां त्वागते हरौ ॥६५॥
विमानं वर्धितं चापि राजन्यैः सम्प्रपूजितम् ।
सुरैर्देवगणैश्चापि कुसुमाञ्जलिकार्पितम् ॥६६॥
चन्दनैः प्रोक्षितं तिलकितं कुंकुमचन्द्रितम् ।
नमस्कृतं वन्दितं सम्मानितं चापि भावनैः ॥६७॥
श्रीहरिश्च विमानाद्वै क्षणमात्रं बहिर्ययौ ।
तदा हारान् हरेः कण्ठे ददुर्महर्षयस्तथा ॥६८॥
लोमशस्तिलकं चक्रे शंभुः पुष्पस्रजं ददौ ।
ईशानपानशिष्टश्च राजा स्वर्णस्रजं ददौ ॥६९॥
शान्तारामऋषिः कृष्णकण्ठे वृन्दास्रजं ददौ ।
अथ पित्रोश्च चरणौ पूजयामास भूपतिः ॥७०॥
ब्रह्मप्रियाणां पूजां च चकार राजपत्निकाः ।
राजकन्यास्तथा पूजां चक्रुर्वै सर्वयोषिताम् ॥७१॥
लालायनो महर्षिश्च तुषितो देवसत्तमः ।
स्वीयप्रकाशो भगवाँश्चैते प्राहुः परेश्वरम् ॥७२॥
मण्डपं च क्रतोः कुण्डं समित्कुशादिहव्यकम् ।
जनावासान् भक्ष्यभोज्यान् द्रुतं विलोकय प्रभो ॥७३॥
भवदाज्ञानुसारेण सर्वं समुपतिष्ठते ।
न्यूनं न विद्यते किञ्चिद् दृष्ट्या पावय सर्वतः ॥७४॥
इत्यर्थितः श्रीभगवान् जनावासान् सुवीक्षितुम् ।
विंशतियोजनभूस्थान् ययौ विमानगो द्रुतम् ॥७५॥
आमन्त्रणेन पत्रेण यज्ञमंगलबोधिना ।
समागतान् महामुक्तानक्षरं ब्रह्म दृष्टवान् ॥७६॥
मुक्तानीश्च ब्रह्मसतीर्दृष्टवान् मखमागताः ।
ऐश्वर्याणि समस्तानि गुणान् सर्वान् सुमूर्तिकान् ॥७७॥
आभूषणानि सर्वाणि हेतीन् सर्वान् समूर्तिकान् ।
दृष्टवान् भगवान् नैजावतारं कृष्णमित्यपि ॥७८॥
राधादिभिः सहाऽऽयातं गोपगोपीगवान्वितम् ।
नारायणं रमया श्रीकमलाभ्यां च लीलया ॥७९॥
भूलक्ष्मीतूलसीवृन्दापद्मादिभिः समन्वितम् ।
पार्षदैः पार्षदानीभिः सहितं दृष्टवान् प्रभुः ॥८०॥
वासुदेवादिकान् व्यूहान् प्रधानपुरुषादिकान् ।
महाकालादिसमयान् भूमानं दृष्टवाँस्तथा ॥८१॥
महाविष्णुं च वैराजं ब्रह्मादिदेवतात्रयम् ।
सशक्तिकं तथा मायां तत्त्वयुक्तां च दृष्टवान् ॥८२॥
सिद्धांश्च योगिनः सर्वान् महर्षीन् पितृदेवताः ।
सुरान् सुरेश्वरान् लोकप्रपालान् दिक्प्रपालकान् ॥८३॥
सात्त्विकान् राजसाँश्चापि तामसान् दृष्टवान् प्रभुः ।
रुद्रान् वसून् तथाऽऽदित्यानश्विनौ मरुतस्तथा ॥८४॥
विद्याध्रान् देवगन्धर्वान् दिशो भुवर्निवासिनः ।
सागरान् सरितो वृक्षान् वल्लीस्तृणानि दृष्टवान् ॥८५॥
तीर्थानि कामधेन्वाद्याः स्वरान् वेदान् गुणादिकान् ।
खनीन् भूध्रान् मानवाँश्च नृपान् स्त्रीश्च नरान् प्रजाः ॥८६॥
ग्रहान् नक्षत्रताराश्च स्थावरान् चाण्डजाँस्तथा ।
जरायूजान् स्वेदजाँश्चोद्भिज्जकान् दृष्टवाँस्तथा ॥८७॥
यक्षराक्षसभूतादीन् गणान् गणेश्वराँस्तथा ।
यज्ञदेवान् समस्ताँश्च मातृका देविकास्तथा ॥८८॥
योगिनीर्ब्रह्मसरसश्चाप्सरसोऽपि सर्वशः ।
आर्षीर्विद्याधरीश्चापि शक्तीश्च सांख्ययोगिनीः ॥८९॥
वह्नीन् सर्वविधाँश्चापि काश्यपीश्च प्रजास्तथा ।
तललोकनिवासाँश्च यक्षराक्षसदानवान् ॥९०॥
दैत्यान् निरन्नमुक्ताँश्च तापसान् ऋत्विजस्तथा ।
मखीयान्मानवाँश्चापि गायकान् यजमानकान् ॥९१॥
होतॄंश्च जापकाँश्चापि महीमानान् ददर्श सः ।
घृतकुल्या दधिकुल्यास्तक्रनिर्झरणाँस्तथा ॥९२॥
पयोह्रदानाममृतानां सरितोऽपि ददर्श सः ।
कणमिष्टान्नशाल्यादिपर्वतान् फलसञ्चयान् ॥९३॥
नारिकेलादिकान् शुष्कसरसार्द्रान् ददर्श सः ।
साधनानि रसशालाः पत्नीशाला ददर्श सः ॥९४॥
यूपशाला हव्यशाला देवशाला ददर्श सः ।
सर्वं सम्पूर्णमेवेति चोपस्थितं विलोक्य च ॥९५॥
लोमशं विश्वकर्माणं लालायनं च शंकरम् ।
स्वीयप्रकाशं चान्यांश्च महर्षीन् प्रशशंस सः ॥९६॥
समागतान् भूमिपालान् दृष्टवान् मखकर्मणे ।
अमरीभूप्रदेशानां राशियानभुवां तथा ॥९७॥
केतुमालप्रदेशानां प्राचीनोष्णभुवां तथा ।
प्राग्ज्योतिषां चाजनाभप्रदेशानां च भूपतीन् ॥९८॥
आन्तरभूप्रदेशानामब्रिक्ताऽऽरक्तसंभुवाम् ।
द्वीपातिद्वीपलोकानां भूपतीन् दृष्टवान् प्रभुः ॥९९॥
अलब्धमखलाभाँश्च दृष्टवान् स विशेषतः ।
दक्षामरीप्रदेशानां भूपतीन् यज्ञयोगिनः ॥१००॥
नृपं कालीमण्डलीनं वनजेलेशभूपतिम् ।
पारावारपिबं भूपं कोटीश्वरं नृपं तथा ॥१०१॥
श्रीसतीशं च राजानं त्रेताकर्कशभूपतिम् ।
पराङ्व्रतं नृपं राजारायपतिं च दृष्टवान् ॥१०२॥
रायसोमनराजं च तथाऽण्डजरभूपतिम् ।
बाल्यरजोनृपं चोरुगवाक्षं भूभतं तथा ॥१०३॥
ईशानपानशिष्टं च सपत्नीकं स दृष्टवान् ।
सर्वान् पत्न्यादिसहितान् दक्षामरीप्रदेशजान् ॥१०४॥
नृपानाह महाकृष्णो यजमाना भवन्त्विति ।
ओमित्यंगीकृतं तैश्च परमेशवचः शुभम् ॥१०५॥
एवं संभावयित्वैव महीमानान् मखागतान् ।
न्यूनं प्रदापयित्वैव द्रुतं नैजालयं ययौ ॥१०६॥
तावद् वाद्यान्यवाद्यन्त क्रतोर्मुहूर्तवित्तये ।
सज्जा भूत्वा मण्डपे च द्रुतं समाययुर्जनाः ॥१०७॥
मुक्तास्तथाऽवताराद्या ईश्वराः सिद्धसत्तमाः ।
ऋषयः पितरो देवा देवेशा देववश्यगाः ॥१०८॥
देव्यो देवीवशिन्यश्च मानवा दैत्यदानवाः ।
काश्यप्यश्च प्रजाः सर्वाः स्थावरा जंगमास्तथा ॥१०९॥
मखार्था मखकर्तारः कर्मठाः साधनानि च ।
मन्त्राश्च हव्यकव्यानि सर्वं चोपस्थितं मखे ॥११०॥
राधिके मंगले श्रेष्ठे क्षामे कार्यमवर्तत ।
श्रीहरिर्मण्डपं चायात् सर्वप्रयोज्यपूजितः ॥१११॥

इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने पारावातराष्ट्रप्रजादिभ्य उपदेशनं पूजनं भोजनं रात्रौ विश्रमणं विदायम्, आश्विनकृष्णपञ्चम्यां ब्राह्मीलराष्ट्रे
मखस्थलीं प्रति चागमनं, महीमानादीनां संभावना चेत्यादिनिरूपणनामा चतुर्विंशत्यधिकद्विशततमोऽध्यायः ॥२२४॥

N/A

References : N/A
Last Updated : May 02, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP