संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|त्रेतायुगसन्तानः| अध्यायः १४ त्रेतायुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ अध्यायः २३८ अध्यायः २३९ अध्यायः २४० अध्यायः २४१ अध्यायः २४२ अध्यायः २४३ अध्यायः २४४ अध्यायः २४५ अध्यायः २४६ अध्यायः २४७ अध्यायः २४८ अध्यायः २४९ अध्यायः २५० अध्यायः २५१ अध्यायः २५२ अध्यायः २५३ अध्यायः २५४ अध्यायः २५५ अध्यायः २५६ अध्यायः २५७ अध्यायः २५८ अध्यायः २५९ अध्यायः २६० अध्यायः २६१ अध्यायः २६२ अध्यायः २६३ अध्यायः २६४ अध्यायः २६५ अध्यायः २६६ अध्यायः २६७ अध्यायः २६८ अध्यायः २६९ अध्यायः २७० अध्यायः २७१ अध्यायः २७२ अध्यायः २७३ अध्यायः २७४ अध्यायः २७५ अध्यायः २७६ अध्यायः २७७ अध्यायः २७८ अध्यायः २७९ अध्यायः २८० अध्यायः २८१ अध्यायः २८२ अध्यायः २८३ अध्यायः २८४ अध्यायः २८५ अध्यायः २८६ अध्यायः २८७ अध्यायः २८८ अध्यायः २८९ अध्यायः २९० अध्यायः २९१ अध्यायः २९२ अध्यायः २९३ अध्यायः २९४ अध्यायः २९५ अध्यायः २९६ अध्यायः २९७ अध्यायः २९८ अध्यायः २९९ अध्यायः ३०० विषयानुक्रमणिका त्रेतायुगसन्तानः - अध्यायः १४ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः १४ Translation - भाषांतर श्रीकृष्ण उवाच-श्रूयतां राधिके युद्धं नारीणां चण्डयोषिताम् ।फेरुराजगृहिणीनां राक्षसीनां भयानकम् ॥१॥दारुणं सर्वथानाशकरं प्राणार्पणात्मकम् ।पतयोऽत्र मृता यस्मान्मर्तव्यं तत्र भस्मसु ॥२॥इति कृत्वा युयुधुस्ता मरणांकगता यथा ।भयं त्यक्त्वा हरिं दृष्ट्वा हन्यतां हन्यतामिति ॥३॥खण्डशः कूर्चभागाश्च विधीयन्तां प्रचुक्रुशुः ।समुद्रस्य यथा पूरप्रवाहः पूर्णिमादिने ॥४॥तथा सैन्यं राक्षसीनां बालकृष्णगृहेऽपतत् ।कन्यकानां महासैन्यं मिश्रितं न तदा पृथक् ॥५॥भाति यतश्च ताः क्रूरा मृत्वाऽपि बालकृष्णकम् ।उद्धर्तुं पूरवच्चापि प्रसह्यापि यथाकथम् ॥६॥धर्तव्यो मारयितव्यो जीवतो नाऽसुमान् भवेत् ।इत्येव मरणं चाऽग्रे कृत्वा हन्तुं प्रधाविताः ॥७॥प्रलये शलभा व्योम्नो यथा पतन्ति भूतले ।तथा पतन्ति ताः सर्वा राक्षस्यो बालमन्दिरे ॥८॥दृष्ट्वैवं वैपरीत्यं तु बालकृष्णस्तदा प्रभुः ।प्रहसन् कुंकुमवापीक्षेत्रं लीनं चकार ह ॥९॥राक्षस्यस्तत्र ह गृहस्थले वने जलात्मकम् ।सर्वं चाकस्मिकं दृष्ट्वा निराशा ययुरम्बरम् ॥१०॥कन्यकाभिर्महायुद्धं चक्रः रोषातिसंभृताः ।कन्यका दिव्यदेहास्ता वध्यन्ते शस्त्रकोटिभिः ॥११॥न च तासां शरीराणि भिद्यन्ते वह्निपिण्डवत् ।न च दुःखानि जायन्ते छेदनानि भवन्ति न ॥१२॥स्वामिवर्मसमावृत्ता रक्षामन्त्राभिरक्षिताः ।न म्रियन्ते कृष्णपत्न्यो म्रियन्ते दैत्ययोषितः ॥१३॥छिद्यन्ते बहुधा शस्त्रैः कन्यकानां तदोल्बणैः ।द्वेधा भूता राक्षसी या सा नैका पुनरस्ति वै ॥१४॥हता सा जीवतो याता गता नायाति वै पुनः ।आकाशं युद्धसंव्याप्तं रणचण्डीविभूषितम् ॥१५॥अभवन्मोदमापन्नं चावकाशान् ददौ बहून् ।सहस्रक्रोशपारे वै युद्धाकाशोऽभवत्तदा ॥१६॥समन्ततः सुराष्ट्रे वै कोट्यब्जार्बुदयोषिताम् ।एकोऽपि विद्यते नाऽत्र पुमान् रणग्लहे तदा ॥१७॥राक्षसीनां कबन्धाश्च शिरांसि बाहवः स्तनाः ।सक्थीनि च नितम्बाश्च व्योम्नो निपेतुरम्बरात् ॥१८॥रक्तवर्षं मांसवर्षं पिण्डवर्षं बभूव ह ।केशवर्षं शस्त्रवर्षं शववर्षं बभूव ह ॥१९॥अंगवर्षं चन्द्रनिभखण्डवर्षं बभूव ह ।नवनीतसमा देहा विदार्यन्तेऽतिकोमलाः ॥२०॥पात्यन्ते पतिदेवार्थं परस्परं प्रियागणैः ।यमराजः क्षणं युद्धं द्रष्टुं श्रुत्वा समागतः ॥२१॥देवा आकाशगा युद्धं लोकयन्ति न भूतजम् ।यदा दैत्यस्त्रीगणैश्च विज्ञातं निजनाशनम् ॥२२॥कन्यकाशाश्वतिकत्वं तदा मन्त्रैः प्रमन्त्र्य च ।मुक्तान्यस्त्राणि दिव्यानि भूतसंहारकाणि वै ॥२३॥राक्षसीभिः प्रथमं च बाष्पास्त्रं प्रहितं तदा ।बाष्पं चाऽभूदम्बरेति नाऽज्ञायत तृणादिकम् ॥२४॥लक्ष्म्या मुक्तं किरणास्त्रं बाष्पनाशो बभूव ह ।अथ मुमोच वै शुक्रजीवनी धूम्रमस्त्रकम् ॥२५॥अम्बरं धूम्रसंछन्नं नेत्रयोर्ज्वलनं ह्यभूत्॥अञ्जनी च तदा धूम्रपानं सर्वं विधाय च ॥२६॥मुमोच तत्र वह्न्यस्त्रं राक्षसीलयकारकम् ।शुक्रसञ्जीवनी तत्र मेघास्त्रं प्रमुमोच ह ॥२७॥वृन्दा तदा प्रमुमोच शालग्रामास्त्रकं महत् ।आकाशे शालशैला वै ताडयन्ति तु राक्षसीः ॥२८॥कोटरा राक्षसी शालग्रामास्त्रं त्वगिलत् तदा ।पांश्वस्त्रं प्रमुमोचाऽत्र धूल्याढ्यं शुक्रजीवनी ॥२९॥अञ्जनी तु तदा वायुमन्त्रास्त्रं प्रमुमोच ह ।नागास्त्रं षण्ढिका तत्र प्रेरयामास सर्वतः ॥३०॥गारुडास्त्रं च कमला प्रमुमोच सुखावहम् ।वृश्चिकास्त्रं प्रमुमोच विखाता राक्षसी तदा ॥३१॥चिल्लिकास्त्रं प्रमुमोच गरुत्मती तदा पुनः ।वह्न्यणुवृष्टिमकरोत् प्राणहा शुक्रजीवनी ॥३२॥शारदा वह्निवृष्टिं च जग्रास लीलया तदा ।अथ राक्षसपत्न्यस्ता मायायुद्धं तदा व्यधुः ॥३३॥पाषाणान् मरुतो वृक्षान् मांसलोहितपूयकान् ।ससृजुर्मद्यधाराश्च बाणान् शस्त्राणि सर्वशः ॥३४॥वर्षयामासुरत्युग्रान् स्फोटचूर्णान् सवह्निकान् ।हेतीन् समन्ततस्तीक्ष्णान् मलमूत्रादिकाँस्तथा ॥३५॥हाहाकारस्तदा जातो भूतले कन्यकागणे ।तदा तु योगिनीचक्रं चतुःषष्टिगणात्मकम् ॥३६॥विधाय निजरूपाणि धराधरसमानि वै ।जग्रसुस्ताः समस्ताश्च माया मृषोद्भवा मुहुः ॥३७॥आमूलाल्लयमापन्ना योगिनीबलधर्षिताः ।माया वृष्टिस्वरूपास्ता लयं यातास्तदा पुनः ॥३८॥फेरुचिताख्याक्षस्या शवानां वर्षणं कृतम् ।कोटिशो वै शवा व्योम्नो निपेतुर्योषितां तथा ॥३९॥कुक्कुटीनां च गृध्रीणां काकीनां शुकयोषिताम् ।श्येनीनां भासनारीणां कपोतीनां शवास्तथा ॥४०॥क्रव्यादीनामुलूकीनां श्येनीनां चिबरीशवाः ।निपेतुरम्बरात्तत्र भूतलं छन्नतां गतम् ॥४१॥तदा विलोक्य वै शंभोर्भैरवी हि महासती ।रूपं चकार वै नैजं दशयोजनमायतम् ॥४२॥लक्षबाहुयुतं लक्षराक्षसी शवसर्जिनीः ।जग्राह युगपत्सर्वा मर्दयामास तास्ततः ॥४३॥लक्षपादैर्मूढ्मारैस्तदा चक्रुशुरुल्बणम् ।शवसृष्टिर्लयं याता मृषा माया लयं गता ॥४४॥अथ तदा तु भैरव्या हस्तगा दैत्ययोषितः ।प्रतारयितुं हस्तेभ्यो निर्गन्तुं यत्नमाचरन् ॥४५।.।एकैकास्ताः करे चक्रु रूपाण्यसंख्यकानि हि ।काश्चिद् दश तथा काश्चित् पञ्चाशच्चापराः शतम् ॥४६॥यथा हस्ते ममुर्नैव तथा ता व्यचरत् कलाः ।भैरवी निजहस्तानां वर्धनं त्वकरोत्तदा ॥४७॥तथा ता अपि राक्षस्यो वृद्धिं नैजां दधुस्तदा ।एवं भारे तु महति त्वसंख्यदेहसर्जने ॥४८॥भैरवीकरतस्ता वै विनिर्गत्य विमुष्टिकात् ।जगर्जुर्व्योममार्गस्था भैरवीं मस्तके मुहुः ॥४९॥ताडयामासुरत्यर्थमसंख्या राक्षसस्त्रियः ।प्राणग्लहे स्थितास्ताभिर्मृत्युभीर्नैव गण्यते ॥५०॥अथ दृष्ट्वा महालक्ष्मीरसंख्या राक्षसीस्तदा ।कोट्यसंख्यस्वरूपास्ता अनन्तरूपधारिणीः ॥५१॥स्वयं माता महालक्ष्मीः स्मृत्वा कृष्णनरायणम् ।दधार रूपं ब्रह्माण्डतुल्यं कोटिभुजायुतम् ॥५२॥ग्रहनक्षत्रताराद्या लम्बन्ते मूर्धजेषु वै ।यस्याः सा तु महाघोरा सर्वशस्त्रप्रहारिणी ॥५३॥मारयामास संगृह्य संगृह्य राक्षसीर्मुहुः ।अन्या लक्ष्म्यश्चतुर्हस्ता अष्टहस्तास्तथाऽपराः ॥५४॥षोडशहस्तिकाश्चान्या द्वात्रिंशद्धस्तसंयुताः ।चतुःषष्टिबाहुयुक्ताः शतसाहस्रसत्कराः ॥५५॥दशसाहस्रहस्ताश्च महालक्ष्म्या विनिर्मिताः ।घ्नन्ति ता राक्षसीर्व्योम्नि समुत्प्लुत्य पुनः पुनः ॥५६॥बह्व्यस्तत्र हता नष्टा व्यसवः पेतुरर्दिताः ।मृतास्तास्तु मृता एव पुनरुत्थानवर्जिताः ॥५७॥तदात्मानो महालक्ष्म्यामन्तर्भावं प्रपेदिरे ।बलं त्वर्धाधिकं सर्वं नष्टं राक्षसयोषिताम् ॥५८॥महालक्ष्मीर्भीरुलक्ष्मीरन्या लक्ष्म्यस्ततः क्षणम् ।विलोक्य विजयं नैजं रणतूर्याण्यवादयन् ॥५९॥कन्यकाः श्रीबालकृष्णयुता मोदमथाऽलभन् ।अथैका रूढिका तत्र राक्षसी शैलरूपिणी ॥६०॥भूत्वा पपात वै व्योम्नो बालकृष्णोपरि द्रुतम् ।तावत्तलाजा ह्यभवन्महच्छैलगृहोपमा ॥६१॥कुंकुमवापिकाक्षेत्रं तलाजाशैलरक्षितम् ।अभवत् कन्यका गर्भं भयं दूरं ततो गतम् ॥६२॥रूण्ढिका वेगतो यावत्तलाजापर्वतेऽपतत् ।छिन्ना भिन्ना च शिखरैर्विदीर्णा च मृताऽभवत् ॥६३॥अथाऽपरा भूमितलं प्रविश्य क्षितिजात्मिका ।ह्यभवद् दीर्घरूपा वै शतयोजनमायता ॥६४॥दर्दूंरीरूपमापन्ना दशयोजनमुच्छ्रिता ।अधरोष्ठः कृतः पृथ्व्यास्तलरूपः सुशोभनः ॥६५॥ऊर्ध्वोष्ठश्च कृतः स्वर्गसमस्ताराम्बरान्वितः ।यत्र नैव हि कासाञ्चिद् विभ्रमो भयदो भवेत् ॥६६॥कापट्येन तथा कृत्वा सर्वास्तु कन्यकास्तथा ।कुंकुमवापिकाक्षेत्रं चाश्वपट्टसरोवरम् ॥६७॥लोमशस्याऽऽश्रमश्चापि मुखमध्ये चकार सा ।तावन्नारायणः कृष्णो ज्ञात्वा दुश्चेष्टितं तदा ॥६८॥राक्षस्यास्तु विनाशार्थं तथा कौतुकसृष्टये ।स्वयं वै कन्यकारूपं दधार कन्यकासु वै ॥६९॥चक्रं सुदर्शनं दिव्यं करे कृत्वा गले स्थितः ।कृष्णः कृष्णानामकन्या व्यराजत क्षणं तदा ॥७०॥सुदर्शनं महातेजोवह्नियुक्तं मुमोच सः ।वह्नियुक्तेन चक्रेण तस्या गलमुखोदरम् ॥७१॥चकर्त खण्डशस्तां वै मण्डुकीं रूण्ढिकां क्षणात् ।तस्या मेदाऽस्थितो जाताश्चाकचक्यचिरोटिकाः ॥७२॥अथाऽन्या दामिनीनाम्नी राक्षसी वीक्ष्य वै मृताम् ।दर्दूरिकां स्वयं तेजोमयं रूपं दधार च ॥७३॥व्योमव्याप्तं महाविद्युज्ज्वालामालाकुलं ततः ।सुदर्शनमगिलत् सा मुखं व्यादाय वैष्णवम् ॥७४॥तां च भित्त्वा विनिर्यातं द्रागेव तत् सुदर्शनम् ।यथा विद्युल्लतांशाश्च निपतेयुः क्षितौ तथा ॥७५॥दामिनी राक्षसी खण्डमयी पपात भूतले ।अथाऽन्या द्युहना तत्र वपुर्निर्माय सूर्यवत् ॥७६॥बालकृष्णं मुखे न्यस्योत्पपात खं दिवं प्रति ।वीरशिस्तावदेवाऽत्र संवीक्ष्य लोमशं मुनिम् ॥७७॥मुखे न्यस्योत्पपातोर्ध्वं ययौ दूरं यदाऽम्बरम् ।कृष्णनारायणो बालो लोमशोऽपि च योगिराट् ॥७८॥वह्निरूपावुभो तत्रौदरे जातौ हि दारुणौ ।वह्निना जज्ज्वलतुश्च राक्षस्यौ मम्रतुस्तथा ॥७९॥उदरे च विनिष्पाट्य निर्गतौ लोमशाऽच्युतौ ।अथाऽन्या दामिनी वह्निरूपाऽभवत् तदाश्रमे ॥८०॥लोमशस्याऽऽश्रमं सर्वं क्षेत्रं कुंकुमवापिकम् ।ददाह वह्निना यावत् किञ्चिन्मात्रं तदा द्रुतम् ॥८१॥बालाहकी महालक्ष्मीर्वृष्टिरूपा बभूव ह ।वह्निं च रुन्धयामास शान्तयामास वर्षणैः ॥८२॥धृत्वा तु दामिनीं तत्र जघान प्राणतः सती ।मृता सा दामिनी तत्र प्रसार्य पादहस्तकौ ॥८३॥अथाऽपरा च धीभक्ष्यानाम्नी राक्षसकामिनी ।देवीं तु कम्भरालक्ष्मीं स्कन्धे निधाय खं ययौ ॥८४॥दृष्ट्वा तदा तु सा साध्वी मुष्ट्या जघान धीमखीम् ।ब्रह्मरन्ध्रे मृता धीभक्षिणी तूर्णं पपात ह ॥८५॥शौण्डी व्याघ्रीरूपधरी भूत्वा गोपालकृष्णकम् ।जग्राह पितरं यावत्तावत् पार्वती कारभी ॥८६॥भूत्वा व्याघ्रीं चखादैनां पिता स्वस्थोऽभवत्तदा ।अथाऽन्या रणचण्डीभिः कन्याभिः सर्वतोबलैः ॥८७॥हतास्तत्रमृताः सर्वाः शतमात्राऽवशेषिताः ।तास्तदा शरणं प्राप्ताः कुण्ठादिष्टिदमादिकाः ॥८८॥कन्याभिस्ता निगडेषु धृताः शस्त्रविहीनकाः ।विधवास्ताः कृष्णनारायणं स्मृत्वा प्रणेमिरे ॥८९॥रुरुदुर्भयमग्नाश्च प्रार्थयामासुरीश्वरम् ।हता नाथा हि नः कृष्ण वयं ते शरणं गताः ॥९०॥उद्धारय महादुःखात् परात्पर महाप्रभो ।लक्षलक्षप्रलक्षाणां मूलकृत्रिमयोषिताम् ॥९१॥राक्षसीनां मृतानां त्वं समुद्धारं समाचर ।वयं तु चाऽबलाः कृष्ण तव प्रिया हताः खलु ॥९२॥क्व गच्छामः कृपासिन्धो तलाजावत् निजाः कुरु ।यथालक्ष्मीः रमा राधा श्रीः सती पार्वती प्रभा ॥९३॥माणिक्या मंजुला तासां दासीनैंजाः कुरु प्रभो ।यद्वा तासां च दासीनां दासीर्विधेहि माधव ॥९४॥त्वां विना न गृहं चान्यत् सुखदं त्वायतौ मतम् ।वयं तूभयतोभ्रष्टा लभामो वै कथं सुखम् ॥९५॥तस्मान्नैजाः कुरु कृष्ण क्षमाप्याऽस्मत्सुदारुणम् ।कर्मप्रज्वाल्य रक्षत्वं दिव्यभावं प्रदेहि नः ॥९६॥सुराश्च भोगिनो दैत्या दानवा राक्षसाः खगाः ।ऋषयो मुनयो मर्त्या वृक्षाद्यास्ते प्रसूतयः ॥९७॥तव वंश समुत्पन्नास्तव योगमुपागताः ।कथं पापेन जीवामोऽलभ्यकान्तमुपागताः ॥९८॥कुरु नः पावनीः सर्वा रक्षोभावविवर्जिताः ।इत्येवं त्वर्थितस्ताभिः कृष्णनारायणः प्रभुः ॥९९॥ताः सर्वा दिव्यदृष्ट्या च दिव्याऽऽप्प्रोक्षणकेन च ।द्वेषभावेन च स्वस्य सततस्मरणेन च ॥१००॥धूतपापा गतरक्षोभावाश्च ता व्यधात्तदा ।कामधेनुगवामास्यैरन्तःकृत्वा गवोदरात् ॥१०१॥मूत्रद्वारेण तत्रैव लोमशेन निकासिताः ।ब्रह्मयोग्या अभवँस्ता दिव्यदेहा रमा यथा ॥१०२॥विसस्मरुस्तदा नैजान् जन्मसंस्कारविग्रहान् ।दिव्या देव्यो यथा तद्वज्जाताश्चन्द्रकला यथा ॥१०३॥सर्वास्ताः कन्यकाः कृष्णनारायणस्य वाञ्च्छया ।सौम्या द्वादशवार्षिक्यो वैष्णव्यस्तिलकान्विताः ॥१०४॥अन्यथाकर्तृकृष्णस्य प्रभावेण हि राधिके! ।अथ याश्च मृताः कृष्णमूर्तौ लीना रणे तदा ॥१०५॥ताश्च सर्वाः कृष्णमूर्तेर्निर्गता दिव्यकन्यकाः ।लक्षसंख्याश्च ताः सूर्योज्ज्वलाम्बराश्च निर्मलाः ॥१०६॥कटकमुकुटचक्रकुण्डलरशनान्विताः ।अजायन्त क्षणात् कृष्णनारायणेहया प्रियाः ॥१०७॥'ओंनमः श्रीकृष्णनारायणाय पतये स्वाहा' ।मन्त्रं श्रीलोमशस्ताभ्यो ददौ श्रीहरिसन्निधौ ॥१०८॥हवनं कारयित्वा च ताभ्योऽन्याभ्यश्च लोमशः ।ददौ यज्ञोपवीतानि पीताम्बराणि मालिकाः ॥१०९॥तौलसीर्जपमालाश्च कण्ठीश्चापि ददौ तदा ।शंखचक्रगदापद्मचिह्नान्यपि ददौ तदा ॥११०॥भोजिता दीक्षिताः सर्वा रक्षिता लोमशाश्रमे ।याश्च युद्धेऽभवँस्तत्र रमाद्याः कोटिकन्यकाः ॥१११॥ताभ्यः कृष्णपतिस्तत्र परात्परसुखं ददौ ।बाहूभ्यां ताः परिगृह्य निपीड्य निजवक्षसि ॥११२॥धन्याऽऽशीर्वादशब्दाँश्च चुम्बनानि ददौ प्रभुः ।युद्धश्रमोऽस्त्रशस्त्रादिस्पर्शश्रमादिकं तदा ॥११३॥क्षणात् सर्वं निवृत्तं च रोममात्राऽपि न क्षतिः ।सर्वासामभवत्तत्र जयकारो महानभूत् ॥११४॥भोजिताः पूजिताः सर्वाः परिरब्धा दयालुना ।चुम्बिता वक्षसि स्वस्य पीडिताश्चामृतीकृताः ॥११५॥महोत्सवः कृतस्तत्र जयनिमित्तजोऽत्र च ।देवाद्याश्च समाजग्मुः पूजिता भोजिताश्च ते ॥११६॥यथागतं गतास्ते तु लोमशो मुनिराट् ततः ।नामानि लक्षकन्यानां विदधे तु नवानि वै ॥११७॥सुशीला सुसहा विद्युत् किरणा चन्द्रिका द्युतिः ।इत्यादिशुभनामानि कृतवान् लोमशो मुनिः ॥११८॥आश्रमं नीतवान् सर्वाः कृष्णनारायणाज्ञया ।अथ पृथ्वी समाहूता कृष्णनारायणेन तु ॥११९॥युद्धस्थलीं स्वयं भूमिः समीचकार वै तदा ।अशुद्धिं लोपयामास शुद्धां भूमिं चकार सा ॥१२०॥वृष्ट्या चापि क्षालिता सा देवेनापि ततः शुभा ।भूमिः सा लक्षतीर्थाख्या ह्यभवत् कृष्णवन्दिता ॥१२१॥शस्त्राणि भगवान्नैजे सौधे ररक्ष यानि च ।युद्धे तत्र पतितानि दिव्यानि भौतिकानि च ॥१२२॥एवं वै राधिके युद्धं पुरा तत्र बभूव ह ।न भूतं न भविष्यच्च स्त्रीणां दिव्यगतिप्रदम् ॥१२३॥लक्षाणां कन्यकानां तु रूपद्वयं हरीच्छया ।व्यजायत च प्रत्येकं तत्रैकैकं विमानगम् ॥१२४॥भूत्वा च पार्षदैर्नीतं परमाक्षरसत्पदम् ।कन्यारूपं द्वितीयं च लोमशाश्रमसंस्थितम् ॥१२५॥इत्येवं राधिके तेऽत्र कथितं परमाऽद्भुतम् ।कथानकं हरेर्दिव्यं नारीयुद्धमयं परम् ॥१२६॥पठनाच्छ्रवणाच्चास्य चिन्तनाच्चार्पणात्तथा ।कृष्णप्रियात्वमासाद्य ब्रह्मलोके गतिर्भवेत् ॥१२७॥इतिश्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्तानेऽसंख्यकन्यकाभिः युद्धसमर्थाभिः सह राक्षसीनां युद्धे राक्षसीनां विनाशाभिमुखपराजयेऽन्ते शरणागतिर्मुक्तिपदं कन्यकापदं च बालकृष्णकृपयेतिनिरूपणनामा चतुर्दशोऽध्यायः ॥१४॥ N/A References : N/A Last Updated : April 29, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP