संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|त्रेतायुगसन्तानः| अध्यायः १६८ त्रेतायुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ अध्यायः २३८ अध्यायः २३९ अध्यायः २४० अध्यायः २४१ अध्यायः २४२ अध्यायः २४३ अध्यायः २४४ अध्यायः २४५ अध्यायः २४६ अध्यायः २४७ अध्यायः २४८ अध्यायः २४९ अध्यायः २५० अध्यायः २५१ अध्यायः २५२ अध्यायः २५३ अध्यायः २५४ अध्यायः २५५ अध्यायः २५६ अध्यायः २५७ अध्यायः २५८ अध्यायः २५९ अध्यायः २६० अध्यायः २६१ अध्यायः २६२ अध्यायः २६३ अध्यायः २६४ अध्यायः २६५ अध्यायः २६६ अध्यायः २६७ अध्यायः २६८ अध्यायः २६९ अध्यायः २७० अध्यायः २७१ अध्यायः २७२ अध्यायः २७३ अध्यायः २७४ अध्यायः २७५ अध्यायः २७६ अध्यायः २७७ अध्यायः २७८ अध्यायः २७९ अध्यायः २८० अध्यायः २८१ अध्यायः २८२ अध्यायः २८३ अध्यायः २८४ अध्यायः २८५ अध्यायः २८६ अध्यायः २८७ अध्यायः २८८ अध्यायः २८९ अध्यायः २९० अध्यायः २९१ अध्यायः २९२ अध्यायः २९३ अध्यायः २९४ अध्यायः २९५ अध्यायः २९६ अध्यायः २९७ अध्यायः २९८ अध्यायः २९९ अध्यायः ३०० विषयानुक्रमणिका त्रेतायुगसन्तानः - अध्यायः १६८ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः १६८ Translation - भाषांतर श्रीकृष्ण उवाच-शृणु त्वं राधिकेऽनादिकृष्णनारायणः स्वयम् ।अक्षराख्यं पार्षदं स्वं सस्मार तूर्णमेव ह ॥१॥आगतश्चाक्षरस्तत्र कुंकुमवापिकास्थले ।नत्वा तस्था हरिस्तस्मै ददावाज्ञां शुभश्रुतिम् ॥२॥केतुमाले महान् यज्ञो भविष्यतीति पत्रिकाम् ।कुंकुमाढ्यां सर्वसृष्टाशमन्त्रणार्थमर्थदाम् ॥३॥शीघ्रं दिव्यैः पार्षदैस्त्वं सम्प्रेषय च मा चिरम् ।इत्युक्त्वा भगवान् तस्मै ददौ तां पत्रिकां यथा ॥४॥अनादिश्रीकृष्णनारायणो विजयतेतमाम् ।केतुमाले साप्रपौठानिष्ठापरासमागमे ॥५॥श्रावणे शुक्लपञ्चम्यां सर्वेष्टिं वैष्णवं मखम् ।करिष्यति त्रिलोकस्थैस्तत्रागन्तव्यमादरात् ॥६॥गृह्णीमश्चातिथिलाभं मखलाभं विदन्तु च ।एकादश्यां पूर्णहवो भविष्यति सुखोत्सवैः ॥७॥अवतारा ईश्वराश्च पितरः ऋषिदेवताः ।मानवाः काश्यपाः सर्वे पातालादिनिवासिनः ॥८॥स्थावरा जंगमाश्चापि समायान्तु मखे सुखाः ।लोमशश्च यवक्रीतः कपिलश्च बृहस्पतिः ॥९॥सनत्कुमारो भगवान् उरलकेतुभूपतिः ।ईशानश्च वयमेते निवेदयाम आदरात् ॥१०॥जीवलोके ईशलोके ब्रह्मलोके वसन्ति ये ।आगन्तव्यं समस्तैस्तैर्नारायणोऽपि वच्म्यहम् ॥११॥अनादिश्रीकृष्णनारायणस्त्रिवारकं दले ।प्रतिज्ञाय पुनर्वच्मि सर्वे चायान्तु वै मखे ॥१२॥कुंकुमवापिकाक्षेत्रात् तृतीयायामहं मखे ।गमिष्यामि भवद्भिश्चोपस्थातव्यं तदा मखे ॥१३॥पार्षदाः सर्वधामस्थाः पार्षदान्यश्च शक्तयः ।समायान्तु महीमानसेवार्थं पूर्वके दिने ॥१४॥इत्येवं पत्रिकाः कोटिरूपिणीः समप्रैषयत् ।सर्वलोकेषु भगवान् कृष्णनारायणः स्वयम् ॥१५॥चिदाकाशेन च भूताकाशेन मायया तथा ।महाकालेन धर्मेण द्वारा वै सर्वसृष्टिषु ॥१६॥सृष्ट्यादौ राधिके सर्वतत्त्वानां लोकलोकिनाम् ।आसीत् कुटुम्बवद् योगः संसर्गो मेलनं गतिः ॥१७॥तत्र नैवास्ति चाश्चर्यं यत्रैते द्वाररूपिणः ।अहं गोलोकगश्चापि त्वया साकं तदाऽगमम् ॥१८॥सर्वे नारायणास्तत्राऽगच्छन् विलोक्य पत्रिकाः ।सर्वसृष्टिजनास्तत्र चाययुः स्नेहसंभृताः ॥१९॥वार्धयस्तु जनानां वै विमानानां तदाम्बरे ।प्रदृश्यन्ते सर्वदिक्षु त्वायान्तो मखभूमिकाम् ॥२०॥कोट्यर्बुदाब्जपद्मानि त्वाययुः प्रतिदिक्स्तरात् ।यावन्तो मुक्तकोट्यश्च तावन्तः पार्षदादयः ॥२१॥तावत्यः शक्तयश्चापि मुक्तान्यः सिद्धयस्तथा ।तावन्तश्चेश्वराः सर्वे स्वस्वशक्त्यादिशोभिताः ॥२२॥तावन्तश्च महेशाद्यास्तावन्तश्चाण्डवासिनः ।सुराऽसुराश्चिदचिदो द्रव्यगुणक्रियादिकाः ॥२३॥वेदा विद्याश्च तीर्थानि तत्त्वानि धर्मविस्तराः ।तावन्त एव खनिजाः सर्वस्वर्गनिवासिजः ॥२४॥विवरस्थाश्च मिश्रस्था व्यतिरिक्तास्तथाऽन्विताः ।परब्रह्ममयाः सर्वे त्रिगुणास्तत्र चाययुः ॥२५॥सर्वसृष्टिनिवासानां दर्शनं दुर्लभं तु यत् ।मखेऽत्र सुलभं तद्वै नारायणकृपावशात् ॥२६॥किं वक्तव्यं तदा राधेऽन्यथाकर्ता हरिस्तदा ।कर्ताऽकर्ताऽपि सिद्धः स नान्यशक्तिस्तु तादृशी ॥२७॥चुम्ब्यन्ते सर्वसामग्र्यो यादृशं चुम्बकं भवेत् ।चुम्बकोऽत्र परब्रह्म सर्वाऽऽकृष्टिः कथं न वै ॥२८॥वर्णयितुं न शक्नोमि यथाऽऽकृष्टाः प्रजा मखे ।अतः पूर्वं मयाऽऽकृष्टा न दृष्टा वै मखान्तरे ॥२९॥उत्सवात्ते समायान्ति कीर्तनैर्वाद्यनर्तनैः ।वदन्तश्च परब्रह्माऽऽमन्त्रयत्येव नोऽप्यहो ॥३०॥एवं वै गम्यमानेषु सर्वेषु च समन्ततः ।अनादिश्रीकृष्णनारायणः प्रस्थानमाचरत् ॥३१॥ऋषिभिर्मुनिभिः साकं क्षेत्रपालादिभिस्तथा ।तीर्थैः सौराष्ट्रदेशीयैः प्रजाजनैः कुटुम्बिभिः ॥३२॥ब्रह्मप्रियाभिः सर्वाभिः कोट्यर्बुदाब्जसंख्यकैः ।भक्तैस्तथा कुटुम्बेन सहाऽऽरोहद् विमानकम् ॥३३॥विमानेषु सहस्रेषु तथाऽन्या भक्तकोटयः ।आरोहन् व्योममार्गेण जयनादान् प्रचक्रिरे ॥३४॥साधवश्च तथा सिद्धाः सत्योऽन्वीयुस्तदा हरिम् ।आकाशं व्यनदत् सर्वं विमानवाद्यगर्जनैः ॥३५॥अग्रे वेदा मूर्तिमन्तः प्रयान्ति मन्त्रिघोषिणः ।वेत्रधर्यः शारदाद्या गायन्ति गुणकीर्तनम् ॥३६॥देववाद्यविमानानि कवयो यान्ति वै ततः ।निशानध्वजडंकाद्यास्ततो यान्ति जयध्वनाः ॥३७॥ततो मुक्तास्ततः पत्न्यो ब्रह्मप्रिया असंख्यकाः ।ततो विमानं कृष्णस्य ततश्च रक्षिणो जनाः ॥३८॥पार्षदाश्च ततः सर्वे प्रजास्ततः सुराष्ट्रजाः ।क्षेत्रपालाः सर्वपश्चाः समायान्ति मखे तदा ॥३९॥हिमालयः स्वयं यद्वद् गगने किं प्रगच्छति ।स्वर्गं वा स्वयमागत्य क्षित्युत्तरे प्रगच्छति ॥४०॥सागरा रत्नशोभाढ्या यान्ति वा नाकमेव किम् ।इत्येवं दर्शनं व्योम्नि कृष्णनारायणस्य वै ॥४१॥प्रस्थानसार्थयानस्याऽभवत्तदा विलक्षणम् ।तृतीयाया दिने मध्याह्नोत्तरं भगवान् स्वयम् ॥४२॥घटिकासु दशस्वेव व्यतीतासु मखाम्बरम् ।प्राप तदा जयध्वानाऽन्तरीक्षे खे स्थलेऽभवन् ॥४३॥अर्बुदाऽर्बुदकोट्यश्च दर्शकानां विनिर्ययुः ।आकाशं तेजसा व्याप्तं विलक्षणेन चाऽभवत् ॥४४॥सूर्यवह्नयादयो यत्र विलीना नैव गोचराः ।लोकानां दर्शनयोग्यान्यासन् नैत्राणि वै तदा ॥४५॥अनादिश्रीकृष्णनारायणस्य कृपयैव ह ।श्रीहरेस्तेजसा सर्वे तेजोमयं ह्यभूत्तदा ॥४६॥अपि कृष्णाः शिलाः सर्वा भासन्ते मणयो यथा ।अपि कृष्णं भूतलं तु चन्द्रोज्ज्वलमभूत्तदा ॥४७॥अपि रोमाणि केशाश्च स्वर्णवर्णास्तदाभवन् ।अपि काका भ्रमराश्च हंसा इव च कोकिलाः ॥४८॥अपि नीलं तदा व्योमाऽभवच्चान्द्रं तलं यथा ।अप्यान्तराणि लोकानामभवन् ब्रह्मभानि तु ॥४९॥भौतिकं तु तदा दिव्यं यावत्त्वक्षरवद्ध्यभूत् ।स्वर्गभूव्योमतत्त्वानां भेदोऽपि विलयं गतः ॥५०॥सप्तरूपाणि सर्वाणि श्वेतवर्णानि चाऽभवन् ।मायायास्तामसो रक्तो भावोऽपि सत्त्वतां ययौ ॥५१॥अपि सर्वाश्च सामग्र्यो ब्रह्ममय्यस्तदाऽभवन् ।ब्रह्मभवनतुल्याश्च तदा ग्रामा गृहाणि च ॥५२॥सर्वं ब्रह्ममयं चाभूद् बालकृष्णस्य तेजसा ।दिव्योपहारपूजाद्यैः प्रजा नृपा महर्षयः ॥५३॥राधिके स्वागतार्थं चोपतस्थिरे समुत्सुकाः ।जयनादान् प्रकुर्वन्तश्चित्रयन्तः प्रतिकृतीः ॥५४॥साञ्जलयः सार्हणाश्च सभावाः स्नेहिलाननाः ।प्रफुल्लनेत्रपद्माश्च प्रेमभराऽऽन्तरास्तथा ॥५५॥नार्यः कुक्षौ धृतबाला नराश्च्युतशिरोधृताः ।ऊर्ध्वलग्नवृत्तयश्चोत्तानाननास्तदाऽभवन् ॥५६॥अनादिश्रीकृष्णनारायणः श्रीभगवान् प्रभुः ।तिरोभावयदुग्रं तत्तेजोऽम्बरादवातरन् ॥५७॥सर्वदृश्योऽभवच्चापि स्थूलदृश्योऽभवत् प्रभुः ।अम्बरात् सुरमुक्तानां पुष्पवृष्टिस्तदाऽभवत् ॥५८॥चन्दनानां शुभा वृष्टिश्चाऽक्षतानां तथाऽभवत् ।स्वर्णरूप्यकहीराणां वृष्टिस्तदाऽम्बरादभूत् ॥५९॥क्लृप्तगोपुरसोपानैः शनैः कृष्णो ह्यवातरत् ।चतुर्दन्तार्जुनहस्तियाने कृष्णं न्यषादयत् ॥६०॥नृपाः सर्वे स्वर्णरत्नहारान् गुच्छान् समार्पयन् ।नेमुश्च दण्डवत् देव्यो राज्ञ्यः कन्या व्यवर्धयन् ॥६१॥भगवन्तं त्वक्षताद्यैश्चांकुरैश्चन्दनैः सुमैः ।नेत्रपुटाख्यकमलैर्दुःखहाञ्जलिभिर्मुहुः ॥६२॥शाटीप्रान्तैस्तथा चोपस्थानैः स्वस्तिकहस्तकैः ।हृदयैः प्रेमभावैश्च नमनैस्तमवर्धयन् ॥६३॥जयशब्दैश्च लाजाभिः कुसुमैस्तीर्थवारिभिः । [अवर्धयन् हरिं बालकृष्णं नारायणं प्रजाः ॥६४॥व्यजनैश्चामरैश्छत्रैः सुगन्धिशीतलैर्जलैः ।गन्धसारान्वितैः कृष्णं श्रेष्ठिनो सुखयन् मुदा ॥६५॥नारिकेलैः शर्कराभिः कुंकुमाबीरलालकैः ।मांगलिकफलाद्यैश्च बालकृष्णं व्यवर्धयन् ॥६६॥स्वर्णरथे शतचक्रे दिव्यसिंहासने प्रभुः ।राजमानश्च गृह्णाति जनार्पितोपदास्तदा ॥६७॥कांश्चिद् दृष्ट्या नेत्रकोणैः स्मितैर्हस्तैश्च केन च ।भावैस्तु विविधैः कृष्णो मानयामास वै प्रजाः ॥६८॥सर्वेभ्यो हासवदनैर्बहुरूपैस्तदा हरिः ।समन्ततो ददौ नैजं दर्शनं कृपया चिरम् ॥६९॥यथा चाग्रे तथा पश्चे यथा पार्श्वे तथोर्ध्वके ।तथैव सर्वनेत्रेषु हृदयेष्वप्यदृश्यत ॥७०॥केभ्यश्चिद्धारपुष्पाणि ददात्येव प्रसादतः ।केभ्यश्चिद्धीरकान् मौक्तिकादीन् रत्नानि गुच्छकान् ॥७१॥ददात्येव महाराजः प्रासादिकान् परेश्वरः ।फलानि ताम्बूलकानि पूग्यादीनि ददाति च ॥७२॥नारिकेलानि वस्त्राणि पूजायामागतानि च ।स्वागतार्थोपदात्मानि प्रासादीनि ददाति वै ॥७३॥शतक्रोशेषु सर्वत्र दत्वा स्वदर्शनं हरिः ।गजयानेन वै रात्रौ निवासालयमाययौ ॥७४॥जलपानादिकं चक्रुः सर्वे सार्थाश्च भोजनम् ।दत्तालयेषु योग्येषु विशश्रमुश्च वै ततः ॥७५॥सकुटुम्बो हरिश्चापि ब्रह्मप्रियासमन्वितः ।षड्युक्चत्वारिंशदूर्ध्वं शतयुक् बुभुजे स्वयम् ॥७६॥पपौ शान्तिं जगामाऽथ निद्रां योगमयीमपि ।आप्रातश्चापि जग्राह दासदासीप्रसेवितः ॥७७॥रात्रौ स्थले स्थले तत्र बभूवुः कीर्तनानि तु ।कथाः प्राग्वृत्तमिश्राश्च संप्रचक्रुर्महर्षयः ॥७८॥चारणा वंशविस्तारान् इतिवृत्तजुषस्तदा ।इतिहासान् जगदुश्च समाजे भूभृतां तदा ॥७९॥साधवो ज्ञानवार्ताश्च चक्रुर्मोक्षविधिप्रदाः ।नार्यो गायन्ति रागाद्यैर्गीतिकाः कृष्णमानसाः ॥८०॥कन्यका रासमाबध्य भ्रमन्ति वर्तुलानि च ।गायन्ति तालिकाध्वानैर्नुपूरघुर्घुरीगतैः ॥८१॥नर्तक्यो नर्तनं रंगे कुर्वन्ति धनिसंकुले ।वाद्यका वाद्यकुशला वादयन्ति रमन्ति च ॥८२॥नटा नाट्यं प्रकुर्वन्ति दर्शयन्ति च पाटवम् ।कवयो रचनाव्याप्ता दृश्यन्ते शंसिनस्तदा ॥८३॥मल्लाः कुर्वन्ति युद्धानि लोकरञ्जनकानि च ।प्रदर्शनानि दृश्यन्ते सृष्टिसृष्ट्यन्तराणि च ॥८४॥इन्द्रजालानि लोक्यन्ते रचितानि सुवेदिभिः ।हास्यशालासु हास्यानि नर्माणि च भवन्त्यपि ॥८५॥प्रकाश्यन्ते वह्निचूर्णैर्विद्युदग्निसुशिल्पिभिः ।वह्नावाकाररूपाणि चाम्बरे गर्जनानि च ॥८६॥खेलनानि वह्नियोगैः क्षिप्यन्ते त्वम्बरेऽपि च ।भवन्ति गर्जना व्योम्नि प्रस्फोटद्रव्यचित्रता ॥८७॥बहुरूपधराश्चाद्दि रूप्यन्ते कौशलैर्निजैः ।भण्डका वेषकाश्चापि रञ्जयन्ति प्रजास्तदा ॥८८॥वृषभाणां महिषाणां राण्डियानां प्रगर्विणाम् ।करिणां भल्लुकानां वानराणां योधनानि च ॥८९॥रात्रावुत्सवरूपेणाऽभवँस्तदा तु राधिके ।द्वन्द्ववाद्यान्यवाद्यन्त तूपशब्दाः पुनः पुनः ॥९०॥अजायन्त मुरादीनां विपञ्चीनां स्वरास्तदा ।अप्सरसां कन्यकानां गीतयः सर्वतोऽभवन् ॥९१॥वैदिका ध्वनयस्तत्राऽऽर्षाणामप्यभवन् क्षितौ ।नपुंसकानां नर्माणि पुत्तलीखेलनानि च ॥९२॥गारुडीनां च विद्यानां प्रयोगाश्च तदाऽभवन् ।कल्पजालस्य रचना विविधाश्च क्वचित्स्थले ॥९३॥रासे कृष्णकृता लीला गोपीजनविभूषिताः ।कुत्रचिच्चाऽभवँस्तत्र भक्तिभेदैर्मनोगमाः ॥९४॥रामादित्यनरादित्यलीलाश्चापि क्वचित्स्थले ।बालकृष्णचमत्काराः क्वचित्कुर्वन्ति तद्विदः ॥९५॥एवं रात्रौ तदा राधे! जनानां भूमिवासिनाम् ।तथान्येषां यथेष्टान्यासन्नानन्दोत्सवानि वै ॥९६॥श्रीमद्गोपालकृष्णस्य तथा श्रीकम्भराश्रियः ।यशोगानानि योषित्सु सर्वस्थले तदाऽभवन् ॥९७॥कुंकुमवापिकाक्षेत्रं सुराष्टं चाजनाभिगम् ।तदा गीतिषु सर्वासां धन्यवादेन शस्यते ॥९८॥गांगेयास्तु तदा बाला बालिका भूभृतस्तथा ।ऋषयो ब्रह्मभक्ताश्च प्रशस्यन्ते च गीतिषु ॥९९॥द्विनदीसंगमश्चापि तीर्थं सुदर्शनं तथा ।यज्ञतीर्थं शतक्रोशं शस्यन्ते राधिकेऽभितः ॥१००॥एवं तृतीयरात्रिः सा व्यतीयाय सुखोच्छ्रया ।प्रातर्जातं चतुर्थ्यास्तु कृष्णो निद्रां जहाति च ॥१०१॥मंगलानि च तुर्याणि ह्यवाद्यन्त समन्ततः ।अगायन्त यशोवार्ताः सूतमागधबन्दयः ॥१०२॥राधिके श्रीहरिर्निद्रां तत्याज मंगलश्रवाः ।उन्निद्रं सर्वतः क्षेत्रं चाभूत् क्रोशशतान्तरम् ॥१०३॥इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने यज्ञमंगलपत्रिकाप्रकाशनं सर्वसृष्टिवासिनामागमनं श्रीहरेः सकुटुम्बसौराष्ट्रीयप्रजासहितस्य विमानैर्यज्ञभूमिगमनं स्वागतं भ्रमणं विश्रान्तिर्मनोरञ्जनादीनि चेतिनिरूपणनामाऽष्टषष्ट्यधिकशततमोऽध्यायः ॥१६८॥ N/A References : N/A Last Updated : May 01, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP