संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|त्रेतायुगसन्तानः|

त्रेतायुगसन्तानः - अध्यायः १२६

लक्ष्मीनारायणसंहिता


श्रीकृष्ण उवाच-
शृणु त्वं राधिके तत्र चमत्कारोऽभवन्महान् ।
सभायाः सन्निधौ तत्र कृशांगाश्च सहस्रशः ॥१॥
रुक्षवर्णा नरा नार्यः कृष्णास्तेजोविहीनकाः ।
दुःखिनश्चाश्रयहीना दीना इव समाययुः ॥२॥
प्रार्थयन्तः स्वमोक्षं वै दुःखसागरबन्धनात् ।
दृष्ट्वा ताँस्तु प्रजानां च तदाऽऽश्चर्यमभून्महत् ॥३॥
क इमे कुत आयाता जिज्ञासां चक्रिरे प्रजाः ।
ज्ञात्वा च हरिणा हार्दं पृष्टास्ते यूयमत्र के ॥४॥
ते रुदन्तस्तदा प्राहुः शृण्वतां नरयोषिताम् ।
वयं प्रेता मृताः पूर्वे पूर्वजाः प्रेतयोनयः ॥५॥
असद्गतिं गताः सर्वे सहस्रशः सरस्तटे ।
वसामोऽत्र महारण्ये क्षुधिता दुःखितास्तथा ॥६॥
प्रजानां पितरः स्मोऽत्र मन्यन्ते न इमे तु नः ।
उद्धारं त्वं भगवन्नः कुर्वत्र जलदानतः ॥७॥
ईत्युक्तवद्भ्यस्तेभ्यः श्रीकृष्णनारायणो जलम् ।
प्रासादिकं निजं कृत्वा ददौ पानार्थमेव च ॥८॥
मिष्टं प्रसाद दत्वा च तृप्तान् कृत्वा पुनः पुनः ।
ददौ मुक्तिं ब्रह्मलोकगामिनीं परमोत्तमाम् ॥९॥
सर्वे ते दिव्यदेहा वै मुक्तास्तत्राऽभवन् शुभाः ।
मुक्ततुल्या विमानैश्च ययुस्ते ब्रह्म शाश्वतम् ॥१०॥
इत्येवं सरसस्तीरे मुक्तिं तेभ्यो ददौ हरिः ।
आश्चर्यं परम दृष्ट्वा प्रजाः श्राद्धानि चाचरन् ॥११॥
पितॄणां तेन मुक्तिश्च तृप्तिश्चापि व्यजायत ।
इत्येवं राधिके! पितृतीर्थं तत् समवर्तत ॥१२॥
शिबिदेवेन चोद्याने भूपवेषे प्रपूजितः ।
अनादिश्रीबालकृष्णः सैन्यादिपरिवारितः ॥१३॥
भूपवेषसुशोभाढ्यश्चाम्बालिकासमन्विते ।
चतुर्दन्तगजे शुक्ले निषादितः परेश्वरः ॥१४॥
स्वामिपालाशनाम्न्यां वै गत्वा विमानकेन तु ।
राजधान्यां निजायां च चतुर्दन्तगजोपरि ॥१५॥
पुनश्च भ्रामितः कृष्णो राजमार्गादिभिस्ततः ।
प्रजाभिर्वर्धितः पुष्पाक्षतलाजाभिरच्युतः ॥१६॥
पूजितो वन्दितः कृष्णो बहुभावेन चार्थितः ।
राज्ञ्या भूप्रभया साकं राज्ञा भूपालये चिरम् ॥१७॥
ततस्ताम्रकशायां च गत्वा विमानमार्गतः ।
दत्वा स्वदर्शनं राज्ञ्याः पितृभ्यां पूजितः प्रभुः ॥१८॥
विमानेन ययौ राज्ञा शिबिना सह माधवः ।
थर्कूटस्थनृपराज्ये द्विकलाख्यसरस्तटे ॥१९॥
पश्चिमे भूतले बीनानदीपर्यन्तमेव ह ।
कृताँश्च मण्डपान् दृष्ट्वा शिबिराणि नवानि च ॥२०॥
सरोवरं भ्रामयित्वाऽवाऽतारयद् विमानकम् ।
पश्चिमे सरसस्तीरे मण्डपस्य समीपतः ॥२१॥
अवाद्यन्त सुवाद्यानि तदा मांगलिकानि हि ।
जयघोषा ह्यभवँश्च साधुवादास्तथाऽभवन् ॥२२॥
पुष्पचन्दनलाजाभिश्चाऽक्षतैः कुंकुमादिभिः ।
वर्धयन्ति स्म जनताः श्रीकृष्णस्वामिनं हरिम् ॥२३॥
कोटिशो मानवास्तत्र द्विकलस्य तटेऽभवन् ।
अनादिश्रीकृष्णनारायणस्य दर्शनोत्सुकाः ॥२४॥
पावित्र्याऽऽकांक्षया यज्ञं द्रष्टुं चापि समागताः ।
नरा नार्यः कोटिशस्ते आबालवृद्धमानवाः ॥२५॥
सूर्यवत् काशमानं तं बालकृष्णं प्रभुं तथा ।
मातरं पितरं चापि भ्रातरौ भगिनीं स्नुषाम् ॥२६॥
शिबिदेवं च भक्ताऽग्र्यं दृष्ट्वा जहृषुरुत्सुकाः ।
देवतायतनश्चापि लोमशः पत्निकाव्रतः ॥२७॥
वशिष्ठाद्याः ऋषयश्च हारान् श्रीहरये ददुः ।
थर्कूटस्थो नृपतिश्च राज्ञ्यश्चतस्र इत्यपि ॥२८॥
ददुर्हारान् गले विष्णोर्मेषाद्याः ऋषयोऽपि च ।
पञ्चाशद्योजने तत्र मण्डपो विद्यते महान् ॥२९॥
तन्मध्ये श्रीबालकृष्णो ययौ स्नात्वा सरोवरे ।
मध्यपीठे तु सौवर्णे न्यषीदच्च व्यराजत ॥३०॥
पञ्चम्यां मार्गशुक्लस्य प्रातरेव हरिः स्वयम् ।
न्ययुंक्त यज्ञकार्यार्थं यथायोग्यर्षिमण्डलम् ॥३१॥
देवान् देवेश्वरान् मुक्तानवतारान् द्विजादिकान् ।
सतीः साध्वीर्दासदासीर्यथा वै प्रथमे मखे ॥३२॥
थर्कूटस्थो महाराजो यजमानः प्रियायुतः ।
वव्रे प्रकोष्ठबन्धेन ब्रह्मादीन् याज्ञिकाँस्ततः ॥३३॥
लोमशश्च नृपं बालकृष्णं च यजमानकम् ।
प्रकोष्ठेऽबन्धयत् कृष्णो लोमशं चाऽप्यबन्धयत् ॥३४॥
आचार्यं गौणमेवाऽपि पत्नीव्रतं हरिद्विजम् ।
अन्यान् पारेसहस्रं च पारेलक्षं ह्यबन्धयत् ॥३५॥
शुद्धिश्च स्वस्तिवाचश्च देवानां स्थापनादिकम् ।
पूजनं हवनं दानं पूर्वक्रतौ यथाऽभवत् ॥३६॥
अर्चनं भोजनं दानं दक्षिणाः स्वागतादिकम् ।
यथा पूर्वक्रतौ तद्वत् सर्वं पूर्णं त्वपद्यत ॥३७॥
सप्ताहो यज्ञ एवाऽयं वैष्णवः पूर्णतां गतः ।
दक्षिणाश्चान्नवस्त्रादिस्वर्णरूप्यकदानकम् ॥३८॥
सर्वं पूर्ववदेवात्र कृतं थर्कूटकेन वै ।
अवभृथं च मार्गस्य सितैकादशिकादिने ॥३९॥
द्विकले सरसि तत्र पश्चिमे चक्रुरुत्सुकाः ।
मुक्ता ईशा अवतारा देवाश्च पितृमानवाः ॥४०॥
पातालस्थास्तथा चान्ये जडचेतनदेहिनः ।
बीनामूले तथा सस्नुः कृष्णयुक्ता जनाः पुनः ॥४१॥
एवं च द्विकले कृष्णो बीनानद्या जलेऽपि च ।
स्नात्वा तीर्थानि वै कृत्वा महीमानानभोजयत् ॥४२॥
दीनाऽनाथदरिद्रादीनभोजयच्च तत्परः ।
प्रजाः सर्वास्ततश्चाभोजयन्मिष्टान्नजातिभिः ॥४३॥
अभोजयद्धरिः पश्चात् परिवेषणकारकान् ।
जडचेतनवर्गाश्चातर्पयाच्चन्नवारिभिः ॥४४॥
मन्त्रान् तत्रागतसर्वमुमुक्षेभ्यो ददौ ऋषिः ।
लोमशः .श्रीहरिश्चापि निजान् मनून् स्वयं ददौ ॥४५॥
एवं निर्वर्तितो यज्ञः थर्कूटस्थेन भूभृता ।
तस्मै राज्ञे हरिर्नैजे पादाब्जे प्रददौ हृदि ॥४६॥
राज्यं चाऽविचलं त्वस्तु प्रजा ते चास्तु मोदिनी ।
सर्वसम्पद्भरा चास्तु भवान् वंशधरोऽस्तु च ॥४७॥
बालकृष्णसरस्तोये यथा तीर्थानि सन्ति च ।
तथा तीर्थानि सर्वाणि सरस्यत्र वसन्त्वपि ॥४८॥
मुक्ता ईशा अवतारा राधालक्ष्मीरमादिकाः ।
ब्रह्मविष्णुमहेशाद्याः पितरो मुनयस्तथा ॥४९॥
देवा देव्यो मानवाश्च यत्र सस्नुस्तदन्तरे ।
ते सर्वे दिव्यरूपेण वसन्तु दिव्यरूपिणः ॥५०॥
इत्येवं हरिणाऽऽज्ञप्ता ऊषुस्तत्र निरन्तरम् ।
तानि तीर्थानि सर्वाणि कृतानि परमात्मना ॥५१॥
स्नानदानजपयज्ञहोमोपकारकाणि च ।
कोट्यनन्तफलदानि भविष्यन्तीत्युवाच सः ॥५२॥
श्राद्धं कार्यं त्वत्र तीर्थे यज्ञसप्ताहके शुभे ।
सर्वतीर्थनिवासेऽत्र मोक्षदं चेष्टदं भवेत् ॥५ ३॥
मार्गशीर्षे सिते पक्षे पञ्चम्येकादशीक्षणे ।
समाजस्तत्र कर्तव्यः सरसो वै तटे शुभे ॥५४॥
मन्दिरं चात्र कर्तव्यं मूर्तिर्मे कानकी शुभा ।
अभयदानदात्री च मालिकासहिता तथा ॥५५॥
स्थापनीया मन्दिरेऽत्र षड्दासीसहिता वरा ।
राधालक्ष्मीब्रह्मविद्यारमाश्रीमाणिकीयुता ॥५६॥
यज्ञास्त्वत्रैव कर्तव्याः सर्वमेधादिवैष्णवाः ।
यथाऽयं वैष्णवो यज्ञः कृतः सर्वसुरार्चनः ॥५७॥
तथा भक्तैः प्रकर्तव्या यज्ञा यथाधनं शुभाः ।
असद्गतीनां मोक्षोऽत्र भविता तर्पणात् खलु ॥५८॥
श्राद्धदानादि कर्तव्यं तीर्थेऽत्र पितृनामतः ।
पापानां प्रविनाशार्थं स्नातव्यं त्वत्र सर्वथा ॥५९॥
अत्राऽऽसन्नमृत्युभिस्तु वासः कार्यः सरस्तटे ।
अहं नारायणस्वामी मन्त्रं दास्यामि मोक्षणम् ॥६०॥
कथा दिव्या वाचनीया मम सामर्थ्यबोधिकाः ।
लक्ष्मीनारायणसंहिताकथा तत्त्ववेदिभिः ॥६१॥
मोक्षदा वाचनीयाऽत्र सर्वादिबोधदायिनी ।
मम शास्त्रं वेद एव लक्ष्म्या श्रुतं च राधया ॥६२॥
माणिक्यया च रमया विद्यया च श्रुतं तथा ।
मंजुलया हंसया च श्रुतं सद्गुणया तथा ॥६३॥
जयाललिताभूलीलाद्याभिर्मुक्तैस्तथा श्रुतम् ।
ऋषिपितृसुरनारायणभूवासिभिः श्रुतम् ॥६४॥
अतलादिस्थितैरन्यैः श्रुतं यस्माद् बहिर्न वै ।
चरित्राणि पूर्वपूर्वंकृतानि तनुभिर्मया ॥६५॥
तच्छ्रव्यं श्रावणीयं च श्रोतव्यं च पुनः पुनः ।
बालकृष्णः परब्रह्माऽहमस्मि पुरुषोत्तमः ॥६६॥
भजनीयः स एवाहं चान्तरात्मा परात्परः ।
एवं मे निश्चयः कार्यो विकल्पवर्जितो ध्रुवः ॥६७॥
मम भक्तिः सदा कार्या सर्वस्वार्पणपूर्विका ।
मम भक्ताः सदा दिव्यतया मान्या यथा न्वहम् ॥६८॥
भक्तद्रोहो न कर्तव्यो द्रोहः स्वरूपखण्डनम् ।
कर्तव्यस्तु तथा नित्यो मम भक्तसमागमः ॥६९॥
दर्शनं मे सदा कार्यं प्रातः स्नात्वा च मन्दिरे ।
दासभक्तिर्भृत्यभक्तिस्तथा कार्या सतां मम ॥७०॥
मम वासे प्रवस्तव्यं दुःखदोषनिवृत्तये ।
हिंसा कार्या न कस्यापि भोक्तव्या न परस्त्रियः ॥७१॥
मांसादनं न कर्तव्यं पातव्यं मदिरादि न ।
शीलभंगो न कर्तव्यो ह्ययोग्ये देहिनि क्वचित् ॥७२॥
आत्मघातोऽपि कार्यो न चौर्यं कार्यं न वै क्वचित् ।
मिथ्यारोपकलंकादि देयं नैव पराय च ॥७३॥
निन्दनीया न वै देवा देव्यो वा देहिनोऽपि वा ।
पापस्योत्पादिका निन्दा ततः पुण्यविनाशिनी ॥७४॥
अभक्ष्यं नैव भक्ष्यं चाऽपेयं पातव्यमेव न ।
देवप्रसादहीनं चाऽभक्ष्याऽपेयं यतो मतम् ॥७५॥
नास्तिकानां प्रसंगो न कर्तव्यो मोक्षरोधकः ।
सतां सेवा सदा कार्या सन्तो वै मम मूर्तयः ॥७६॥
नरो वा यदि वा नारी सेवया मुच्यते ह्यघात् ।
मम ये साधवः सन्ति ते सन्ति मोक्षदायकाः ॥७७॥
तद्देहः सर्वथा पुण्यः पुण्यदः पावनः परः ।
भागत्यागो न तत्राऽस्ति यथा मयि तथा सति ॥७८॥
मातापितृसेवनं तु कर्तव्यं सर्वथा भुवि ।
ममाऽऽज्ञां पालयिष्यन्ति ध्रुवास्तेषां हि सिद्धयः ॥७९॥
कल्पविद्युत्प्रवाहाश्च कल्पतत्त्वाणवस्तथा ।
कल्पवल्लीरसास्तेषां भविष्यन्ति गृहे सदा ॥८०॥
कामावसायिताशालाः संकल्पवंशविस्तराः ।
सर्वे कामदुघास्तत्त्वसमूहाः सार्वभौमिकाः ॥८१॥
भविष्यन्ति गृहे तेषां ये मदाज्ञाप्रवर्तिनः ।
तेषामहं सदा दाता यथेष्टस्याक्षरे यथा ॥८२॥
भोगाः कार्या न चाऽत्यर्थं भक्तिः कार्याऽतिशायिनी ।
निद्रा कार्या न चात्यर्थं सेवा कार्याऽतिशायिनी ॥८३॥
मनः कार्यं नाऽपकृष्टं कार्या माया विमूलिनी ।
तृष्णा कार्या न चात्यर्थं वाञ्च्छा कार्या ममाऽतिगा ॥८४॥
आग्रहो नेह कर्तव्यः कर्तव्योऽमुत्र मोक्षदः ।
उद्वेगः सर्वथा त्याज्यः शान्तिः प्राप्या तु शाश्वती ॥८५॥
नाऽऽयासो बहुधा कार्यो विज्ञाने कार्य उत्तमः ।
पराधीनेन नो भाव्यं भाव्यं तु सत्तयाऽऽत्मनः ॥८६॥
देहात्मना न वै वृत्त्यं वर्तितव्यं निजात्मना ।
लग्नता न गृहे कार्या कार्या सुस्वामिनि ध्रुवा ॥८७॥
स्वामी चाहं हि भक्तानां सर्वेषामपि सर्वथा ।
भवाम्येव परः स्वामी परमेश्वरसंज्ञकः ॥८८॥
जलं तीर्थं स्थलं तीर्थं चात्मतीर्थं सदोत्तमम् ।
साधुजनः सदा तीर्थं स्वामी तीर्थमहं हरिः ॥८९॥
यत्राऽहं मम मूर्तिश्च तत्तीर्थं दिव्यमोक्षदम् ।
इत्येवं सर्वथा यूयं थर्कूटस्थप्रजाजनाः ॥९०॥
वित्तं कुरुत भक्तिं मे भजताऽन्वहमादरात् ।
आदत्त मम मन्त्रांश्च मत्त एव सुमुक्तिदान् ॥९१॥
इत्युपदिष्टा भक्तास्ते कोटिशो मनुलब्धये ।
आययुः श्रीहरेः पार्श्वं ददौ तेभ्यो मनून् हरिः ॥९२॥
 'ओं नमः श्रीकृष्णनारायणाय स्वामिने स्वाहा' ।
'शरणं श्रीकृष्णनारायणोऽस्तु मम सर्वदा' ॥९३॥
'कालमायापापकर्मशत्रुयाम्यकुहृद्भयात् ।
शूलमीनध्वजधनुश्चक्रस्वस्तिकवानव ॥९४॥
'ब्रह्माऽहं श्रीकृष्णनारायणभक्तोऽस्मि शाश्वतः ।
अनादिश्रीकृष्णनारायणः स्वामी पतिश्च मे' ॥९५॥
'बालकृष्णः परब्रह्म मम वै शाश्वतः पतिः ।
पिता बन्धुः सुहृन्मित्रं रक्षकः पालकोऽस्तु सः' ॥९६॥
'श्रीकृष्णवल्लभस्वामी श्रीहरिः शरणं मम' ।
इत्येवं प्रददौ कृष्णस्तेभ्यो मनून् हि राधिके ॥९७॥
परिहारं ततश्चक्रे विश्रान्त्यर्थं ययौ गृहम् ।
थर्कूटस्थमहाराजस्तथा राज्ञ्यः सुताः सुताः ॥९८॥
पादसंवाहनं चक्रुर्बालकृष्णस्य वै तदा ।
राज्ञा सर्वे पूजिताश्च भोजिताश्च विशश्रमुः ॥९९॥
राजधान्यां द्वितीये च दिने त्वभ्रामयन्मुदा ।
हस्तिस्थं बालकृष्णं वै प्रजा ददृशुरुत्सुकाः ॥१००॥
वर्धयामासुरत्यर्थं पुपूजुरुत्सुकास्तथा ।
आगत्य राजभवने सभायामाह केशवः ॥१०१॥
श्वः प्रयान्तु प्रभुक्त्वैव ओबीरात्रीशसंगमम् ।
वीरजारमहाराजराज्ये यज्ञस्तृतीयकः ॥१०२॥
पौषकृष्णतृतीयातो यज्ञारंभो भविष्यति ।
सप्ताहः कारणीयोऽस्ति यावन्नवमिकातिथिम् ॥१०३॥
अहं तत्राऽऽगमिष्यामि द्वितीयाप्रातरेव ह ।
इत्युक्ता व्योमयानैर्वै सर्वे देवेश्वरर्षयः ॥१०४॥
सर्वसृष्टिमहीमाना ययुश्चौबीनदीतटम् ।
श्रीहरिं स्वास्थ्यमापन्नश्चोवास थर्कुटस्थकम् ॥१०५॥
सुखयन् तद्गृहे तावद् राधिके! मोक्षकृद्धरिः ।
सर्वकामनिधिः स्वामी सर्वसंकल्पपूरकः ॥१०६॥
पठनाच्छ्रवणाच्चास्य श्रावणान्मननादपि ।
द्विकलस्नानपुण्यं च यशपुण्यं लभेज्जनः ॥१०७॥

इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने थर्कूटस्थमहाराजराज्ये द्विकलसरोवरे द्वितीयविष्णुयागकरणं प्रजाभ्यो मन्त्रोपदेशदानादि चेत्यादिनिरूपणनामा षड्विंशत्यधिकशततमोऽध्यायः ॥१२६॥

N/A

References : N/A
Last Updated : May 01, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP