संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|त्रेतायुगसन्तानः| अध्यायः २५८ त्रेतायुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ अध्यायः २३८ अध्यायः २३९ अध्यायः २४० अध्यायः २४१ अध्यायः २४२ अध्यायः २४३ अध्यायः २४४ अध्यायः २४५ अध्यायः २४६ अध्यायः २४७ अध्यायः २४८ अध्यायः २४९ अध्यायः २५० अध्यायः २५१ अध्यायः २५२ अध्यायः २५३ अध्यायः २५४ अध्यायः २५५ अध्यायः २५६ अध्यायः २५७ अध्यायः २५८ अध्यायः २५९ अध्यायः २६० अध्यायः २६१ अध्यायः २६२ अध्यायः २६३ अध्यायः २६४ अध्यायः २६५ अध्यायः २६६ अध्यायः २६७ अध्यायः २६८ अध्यायः २६९ अध्यायः २७० अध्यायः २७१ अध्यायः २७२ अध्यायः २७३ अध्यायः २७४ अध्यायः २७५ अध्यायः २७६ अध्यायः २७७ अध्यायः २७८ अध्यायः २७९ अध्यायः २८० अध्यायः २८१ अध्यायः २८२ अध्यायः २८३ अध्यायः २८४ अध्यायः २८५ अध्यायः २८६ अध्यायः २८७ अध्यायः २८८ अध्यायः २८९ अध्यायः २९० अध्यायः २९१ अध्यायः २९२ अध्यायः २९३ अध्यायः २९४ अध्यायः २९५ अध्यायः २९६ अध्यायः २९७ अध्यायः २९८ अध्यायः २९९ अध्यायः ३०० विषयानुक्रमणिका त्रेतायुगसन्तानः - अध्यायः २५८ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः २५८ Translation - भाषांतर श्रीकृष्ण उवाच-राधिके लोमशश्चाश्वपाटलं च ततः परम् ।कुशलायाः प्रतिवादं प्राह यथाऽभिसंभवम् ॥१॥श्रीलोमश उवाच--अश्वपाटल! कुशला योगपारं गता सती ।तत्त्वज्ञानानलदग्धकषायोवाच तच्छ्रृणु ॥२॥कुशलोवाच--शृण्वानर्त! भवानास्ते तुलाद्वयकृतास्पदः ।गार्हस्थ्यं रक्ष्यसे वाक्यैर्योगित्वं च वितन्यसे ॥३॥कुशलायाश्चाऽकौशल्यं बोधयसे प्रदूषणैः ।कल्मषं चेदृशं राजन् मुक्ते चास्ते कथं त्वयि ॥४॥आप्तं वाक्यं प्रमाणं वै योग्यतादिसमन्वितम् ।शक्त्योपबृंहितं जातिसारूप्यादिसभाजितम् ॥५॥जल्पादिदोषशून्यं च भ्रान्तिक्षेत्रान्न चोद्गतम् ।लक्षणाश्लेषभावाद्यैः स्पष्टं स्पष्टार्थसंभृतम् ॥६॥वाक्यं तादृक्प्रमाणं मे चानर्तैकमनाः शृणु ।यथा पिष्टं च पाषाणो मेघश्च धूम्रमण्डलम् ॥७॥संश्लिष्टानि तथाऽऽनर्त! संश्लिष्टाः प्राणधारिणः ।शब्दः स्पर्शो रसो गन्धो रूपं खवाऽऽब्भूवह्नयः ॥८॥संश्लिष्टाः पिष्टवद् राजन् शिलावत्ते तथाऽऽत्मनि ।विलीयन्ते मेघवच्च विशीर्यन्ते च धूम्रवत् ॥९॥न स्वत्वं ते विजानन्ति कथं परप्रवेदनम् ।मनस्तैः सह संयुक्तं तदा बाह्येऽनुयन्ति च ॥१०॥चोद्भूतत्वं च तत्रापि महत्त्वं बाह्ययोगिता ।आत्मनो योगिता चापि ग्राह्ये भवन्ति हेतवः ॥११॥एवं सर्वत्र बाह्यानां ग्रहणे हेतवः खलु ।मनः संकल्प्य मद्भावं ततो बुद्धिर्विनिश्चयम् ॥१२॥करोत्येवाभिमानेन मतं चात्मनि दर्पणे ।निक्षिपति तदात्माऽयं ममेदमिति मन्यते ॥१३॥वासना जायते तैश्च दृष्टमुक्तैः स्मृतिप्रदा ।अविद्या च तमो वापि सौषुप्ताऽज्ञानमुत्तरम् ॥१४॥भ्रमात्मकं च वा तत्र स्मरणं जायते मुहुः ।ततः सुखासुखे लाभालाभौ प्रियाऽप्रियेऽपि च ॥१५॥तत्र कालो भवेद्धेतुः प्रकृतिश्च प्रपूरिका ।अदृष्टं यादृशं तादृक् फलं सम्पद्यते ततः ॥१६॥चतुर्विंशतिसंघातश्चैव वेदनकारणम् ।अव्यक्तां न विजानाति जानाति व्यक्तरूपिणीम् ॥१७॥स्थूलदर्शी स एवोक्तो ममाहंमिश्रितः स च ।अव्यक्तां यो विजानाति स त्वात्मानं प्रपश्यति ॥१८॥अध्यात्मचिन्तकः सोऽयं परं पारं प्रयास्यति ।व्यक्ताः कलाः प्राकृता याः सर्वे वयं नराः स्त्रियः ॥१९॥बिन्दुगर्भासनाः पूर्वे शुक्रशोणितपिण्डिकाः ।कललां दशरात्रेण बुद्बुद्ं पेशिका ततः ॥२०॥ततश्चांगानि जायन्ते नखरोमान्तकानि च ।नवमे मासि बालश्च स्त्री वा पुर्मोंश्च वेतरत्। ॥२१॥लिंगाधीनानि नामानि ततः कुमारतादिकम् ।सुकुमारावयवानां नाम कुमारसंज्ञकम् ॥२२॥अबुद्धस्येव तस्यैव बालिशस्य तु बालता ।युवभावेन कामेन युनक्तीति युवा मतः ॥२३॥तिष्ठंस्तिष्ठन् प्रयात्येव वीरो भूत्वा स्थवीरकः ।एवं क्षणेक्षणेऽन्येषां कलानां च विवर्तनात् ॥२४॥नामरूपादिभेदश्च सूक्ष्मोऽयं न विभाव्यते ।नात्ययो न प्रभवश्चैतेषां संलक्ष्यते नृप ॥२५॥दीपार्चिवद् धावतोऽस्य सर्वलोकस्य सर्वदा ।कः कोऽयं वा कुतश्चेति किमर्थं कस्य केन वा ॥२६॥कुतो नो वा कथं कस्य केन वा नेति कः किमु ।इत्येते खलु सम्बन्धा भूतानां स्वांगकैरपि ॥२७॥नैवं परस्परं शक्त्या ज्ञातुं गत्वरशालिनाम् ।आदित्यात् किरणान्येव समिद्भ्यो वह्नयो यथा ॥२८॥जायन्ते क्षणिका ये वै शक्यन्ते नैव निश्चितुम् ।तथा सर्वे प्राकृता वै जन्तवः संहतात्मनः ॥२९॥संघातरूपा जायन्ते म्रियन्ते च क्षणे क्षणे ।आत्मा नित्यः शाश्वतोऽस्ति स्वस्थोऽसंघात एव सः ॥३०॥स चेद् योगं समापन्नो विवेकी मुक्तवत्स्थितः ।पश्यत्येव च संघातं गत्वरं शाश्वतं निजम् ॥३१॥आत्मन्येवात्मनाऽऽत्मानं यदि त्वं स्वं प्रपश्यसि ।अनात्मानं पृथग्भावं क्षणिकं चेत् प्रपश्यसि ॥३२॥एवमेवाऽऽत्मनाऽऽत्मानं परात्मानं समस्तगम् ।युक्तयोगाभिलाभेन शाश्वतं चेत् प्रपश्यसि ॥३३॥तथैवात्मनि चान्यस्मिन् समतां चेद् व्यवस्यसि ।अथ मां काऽसि कस्येति किमर्थमनुपृच्छसि ॥३४॥इदं मे स्यादिदं नेति द्वन्द्वैर्मुक्तस्य ते नृप ।काऽसि कस्मात् किमर्थं वा वचनैः किं प्रयोजनम् ॥३५॥तथाप्यनभिसन्धाय पृथग्भावं च गत्वरम् ।ऐक्यं देहेन सन्धाय प्रश्ने का त्वयि मुक्तता ॥३६॥राज्ये शत्रौ च मित्रे च मध्यस्थे चाजये जये ।ममाहंवेदिनि क्षत्रे त्वयि का नाम मुक्तता ॥३७॥धर्मार्थकामनासक्ते फलसंगानुयायिनी ।राजभावेन गर्विष्ठे का नाम त्वयि मुक्तता ॥३८॥नरे नार्यां सुरूपे च कुरूपे भेदलोकिनि ।देहभावेन संव्याप्ते का नाम त्वयि मुक्तता ॥३९॥देहधर्मान् पुरस्कृत्य संगदोषाभिधायिनी ।प्राकृतं भावमापन्ने का नाम त्वयि मुक्तता ॥४०॥योगेन वर्तमानेऽपि चायोगेन विडम्बिने ।प्राकृतं स्पर्शमापन्ने का नाम त्वयि मुक्तता ॥४१॥ज्ञानस्य शेवधिस्त्वं वै भाषसे मां स्त्रियं कृतिम् ।मत्वा वीक्ष्य च राजेन्द्र का नाम त्वयि मुक्तता ॥४२॥प्राकृते प्राकृतो भावश्चेतने चेतनो हि सः ।यस्य नास्ति समं चक्षुः का तस्मिन् मुक्तता त्वयि ॥४३॥कुशलोऽयं चेतनोऽस्ति संघाते परिवर्तिते ।राजन् विद्धि च मां दिव्यं चेतनं संगवर्जितम् ॥४४॥का कस्य च कुतः केन किमर्थं देहसंगतम् ।तद्भिन्नोऽहं भवाम्येष पश्यात्मानं नरीस्थितम् ॥४५॥द्रष्टुं चेच्छक्यसे नैवं संघाताऽऽवृत्तिमान् भवान् ।तदयुक्तस्य ते मोक्षेऽभिमतिर्निष्फला नृप! ॥४६॥साधुभिः सन्निवार्या सा ह्यपथ्यभोजिनस्तव ।यज्ज्ञात्वा वर्तने नास्ति ज्ञाने नास्ति ततस्तरम् ॥४७॥व्यवहारे सुतरां नास्तीति किं योगजं फलम् ।वृथा श्रमो वृथा मानं वृथा वाग्दूषणं तथा ॥४८॥वृथा सत्संगयत्नश्च यदि देहं प्रपश्यसि ।आत्मा नारी नरो नापि नपुंसको न चास्ति च ॥४९॥त्वं तथाऽऽस्से च चेद् राजन् चेक्षसे न कथं परे ।प्राकृतानि प्रसंवीक्ष्य पृथक्कृत्वाऽऽत्मतत्त्वतः ॥५०॥सर्वत्राऽऽत्मानमापश्येत् किमन्यन्मुक्तलक्षणम् ।संगस्थानानि सर्वाणि पश्येत् परात्मनि प्रभौ ॥५१॥आत्मक्रीड आत्मरतिर्मुक्तस्यैव हि लक्षणम् ।मोक्षे स्थितस्य संगाढ्यस्थानान्यपि च मे शृणु ॥५२॥राज्याद् राष्ट्रस्य सामान्याद् राजधानी हि बन्धनम् ।ततोऽपि राजसौधश्च सामान्यं बन्धनं हि तत्। ॥५३॥ततोऽपि स्वगृहं तत्र शय्या स्वीया हि बन्धनम् ।साऽपि चाऽर्धा स्त्रीसहिता विना स्त्रियं न बन्धनम् ॥५४॥त्र्यपि कामक्रियामात्रं बन्धनं न ततः परम् ।तत्रापि वासना चेत् स्याद् बन्धनं संगमूलकम् ॥५५॥धातुलाभे कारणं च भोजनं चौषधादिकम् ।बन्धनं वै ततो राज्ञः सेवकादि च बन्धनम् ॥५६॥एवं स्त्र्यादिप्रसंगेन फलेनापीह युज्यते ।भोजनाच्छादनवस्त्राभूषणेषु च बन्धनम् ॥५७॥निग्रहानुग्रहौ चापि राज्ञो भवतो बन्धने ।पारतन्त्र्यं सदा राज्ञः स्वल्पकार्येऽपि मानतः ॥५८॥भृत्यवश्यत्वमेवापि युद्धसन्धिषु सर्वथा ।स्त्रीषु क्रीडाविहारेषु मन्त्रे चामात्यमण्डले ॥५९॥परोक्ताद्यनुगामित्वं कुतो राज्ञः स्वतन्त्रता ।मन्त्रिवशे स्थितश्चास्ते नेष्टं चाप्यवशश्चरेत् ॥६०॥निद्रां काले न लभते व्यापृतः स्वार्थिभिर्जनैः ।शयनेऽपि क्वचित् सुप्तश्चोत्थाप्यतेऽरिदूतकैः ॥६१॥दासीभिश्च क्वचिन्नित्यं चाज्ञायां क्रियते वशः ।उत्तिष्ठ स्नाहि संगृह्ण पिब प्राश ब्रवीहि च ॥६२॥शृणु चागच्छ च पश्य विरमस्व रमस्व च ।इत्येवं परतन्त्रोऽयं राजा संगवशः सदा ॥६३॥याचकाश्च समायान्ति दातुं नोत्सहतेऽपि च ।दाने कोषक्षये चिन्ता वैरं चादानके भवेत् ॥६४॥रक्षणे सततं चिन्ता चिन्तासंगी नृपः सदा ।राजा सर्वान् शंकते वै मृत्युभयेन नोदितः ॥६५॥परस्परं भयवन्तो भवन्ति नृपतज्जनाः ।सर्वः स्वे स्वे गृहे राजा सर्वः स्वे स्वे गृहे गृही ॥६६॥निग्रहानुग्रहवन्तः सर्वे तुल्या गृहे गृहे ।पुत्रा दारा गृहं चात्मा कोशो मित्राणि संचयाः ॥६७॥सर्वेषां तुल्यभावास्ते संगदा बन्धनानि वै ।हतो देशश्च ग्रामश्च दग्धो वाहो हतो मम ॥६८॥धनं नष्टं च सस्यानि दग्धानि च हिमाग्निना ।पक्षिभिर्भक्षितं क्षेत्रं चौरैर्हृताश्च धेनवः ॥६९॥रोगैर्हतं भोजनं मे स्वतन्त्रता हताऽरिभिः ।वाग्बाणाद्यैर्धर्षितोऽहं चोप्थापितो नृपासनात् ॥७०॥इत्येवं संगभावैश्च मिथ्याज्ञानैर्हि तप्यते ।नियन्तृजन्यदुःखैश्च मानसै रागरोषजैः ॥७१॥रोगाऽवमानजन्यैश्च दुःखैर्वै परितप्यते ।अमुक्तसंगः सततं प्रसह्य दुःखभोगवान् ॥७२॥तदल्पसुखमत्यर्थं बहुदुःखमसारवत् ।तप्तांगारासनं राज्यं कोऽभिपद्येत योगवित् ॥७३॥ममेदं नगरं राज्यं मन्यसे धनमुत्तमम् ।कस्त्वं कस्य धनं राज्यं नगरं वद चात्मवित् ॥७४॥पाञ्चभौतिकदेहोऽयं तव वह्नौ प्रवेक्ष्यति ।ममापि च तथा तत्र तुल्यता न विशेषता ॥७५॥देहस्य संगधर्मस्याऽसंगो नास्ति कुतश्चन ।आधाराधेयभावस्य प्राकृतस्य क्षयार्थिनः ॥७६॥चेतनस्य त्वसंगस्य नास्ति संगः कुतश्चन ।आधाराधेयशून्यस्याऽप्राकृतस्य सदा सतः ॥७७॥वद राजन् समर्थाऽहं ज्ञाने वक्तुं सहस्रधा ।स्त्रीदेहे नाभिषंगो मे कुतस्तव परिग्रहे ॥७८॥न स्त्रीं मत्वा संगभावं व्यक्तं वक्तुं त्वमर्हसि ।ननु नाम त्वया मोक्षः कृत्स्नः पत्नीव्रताच्छ्रतः ॥७९॥असंगश्चाप्यपाशस्त्वं कथं सक्तोऽसि राज्यके ।श्रुतं ते निष्फलं सर्वं देहभावेन संजुषः ॥८०॥श्रुतं वा निर्गतं कर्णात् शाठ्यमात्रेण वर्तसे ।यद्वा नैव धृतं वा पाचितं नैव त्वयाऽऽत्मना ॥८१॥येन त्वं तिष्ठसे संगे लौकिके दैहिकेऽधुना ।बद्धस्त्वं दृश्यसे चात्मन् प्राकृतो भिक्षुको यथा ॥८२॥मयाऽऽत्मना प्रवेशश्च कृतस्त्वय्यात्मनि प्रभौ ।किं तवाऽपकृतं तत्र नित्यमुक्तस्य मे वद ॥८३॥साधूनां शून्यवासित्वं नियमोऽस्ति सदा नृप ।शून्ये प्रवेशमासाद्य मया किं तेऽत्र दूषितम् ॥८४॥न बाहुभ्यां न चोरुभ्यां नांगैः स्पृशामि सर्वथा ।मा वक्तत्यं सभायां वै त्वया मया शुभाशुभम् ॥८५॥स्त्रीपुंसोः समवायाख्यं सदसद्वा कृतं मिथः ।साधवो गुरवश्चैते त्वं च राजा गुरूत्तमः ॥८६॥योगिषु योगिवादा वै न वक्तव्याः कदाचन ।पद्मपत्रे जलं तिष्ठदसंगं तिष्ठते यथा ॥८७॥तथा त्वयि निवत्स्यामि निःसंगेन निजात्मना ।योगिवृत्त्या निवत्स्यामि चात्मलाभाधिसिद्धये ॥८८॥यत्र वै साधवो धीरा यतयो योगपारगाः ।परमेशपदारूढाः समूर्ता निवसन्ति वै ॥८९॥तत्र वासं योगवृत्त्या क आत्मा नाऽभिवाञ्च्छति ।यदि त्वयि मम वासे स्पर्शं जानासि चेन्नृप ॥९०॥ज्ञानं कृतमबीजं ते सर्वं वै वाग्विभूषणम् ।स गार्हस्थ्याच्च्युतस्त्वं वै मुक्तिस्थितिं न विन्दसि ॥९१॥उभयोरन्तरालस्थो भवसीह विडम्बकः ।नहि मुक्तस्य मुक्तेन ज्ञस्य ज्ञेन समागमे ॥९२॥जायते धर्मसांकर्यं सधर्मयोर्हि योजनम् ।सत्त्वेन सत्त्वयोगश्चात्मना योगस्तथात्मनः ॥९३॥योगिना योगिनो योगस्तत्र संकरता न वै ।ब्रह्मज्ञस्त्वं तथा राजन् ब्रह्मज्ञाऽहं सवर्णिका ॥९४॥आवयोर्मेलने नैव वर्णसंकरता मता ।ब्रह्मपुत्रीदेहवाँश्च ब्रह्मा वै सोमनाथके ॥९५॥सोमनाथप्रतिष्ठार्थं चाहूतः शशिना पुरा ।तदा यज्ञे समुत्पन्ना मानसी कुशला क्रिया ॥९६॥सतीरूपाऽहमेवास्मि क्रियाख्या कुशलाभिधा ।क्रतुर्यज्ञस्तस्य पत्नी देहभावेन चेदृशी ॥९७॥आत्मभावेन साध्वी च योगपारंगताऽस्मि च ।तस्माद् राजन् भवाम्यत्र चात्मा नास्मि नरी विधा ॥९८॥नात्राऽस्ति संकरः कश्चित् समभावागमे पुनः ।मोक्षे ते भावितां बुद्धिं श्रुत्वा च कुशलैषिणी ॥९९॥कुशला तव मोक्षस्य जिज्ञासार्थमिहाऽऽगता ।सौराष्ट्रेऽत्राऽक्षरे क्षेत्रे चाश्वपट्टसरोवरे ॥१००॥कृतस्थाना कुंकुमाख्यवाप्यास्तीरे वसामि च ।एकरात्रिं शरीरे ते स्थित्वा यास्यामि मत्स्थलीम् ॥१०१॥नाऽहं लुब्धे चिरं राजन् तिष्ठामि ब्रह्मयोगिनी ।आतिथ्येनाऽऽत्मभावेन मानिता ज्ञानभोजनैः ॥१०२॥अप्राप्य तुल्ययोगस्थं श्वो गमिष्यामि मत्स्थलीम् ।यत्र तुल्यगतिश्चास्ते लोमशो योगवित्तमः ॥१०३॥स्वीयप्रकाशो भगवानात्मवित्तम इत्यपि ।तत्रैकीभूय कुशला ब्रह्मानन्दं वहामि वै ॥१०४॥राजन् धृतं मया रूपं कियद्योगबलां सभाम् ।वीक्षितुं वीक्षितं सर्वं यत्राऽग्र्यो देहदर्शनः ॥१०५॥इमे स्तब्धा हि मुनयो देहदर्शनयोगिनः ।किमहं ते प्रवक्ष्यामि मा स्तब्धो भव भूपते ॥१०६॥नैवं चात्मबलं राजन् वर्धते देहदर्शिनाम् ।नात्मलाभो भवेच्चापि सदृशानां विहारिणाम् ॥१०७॥न गार्हस्थ्याद् भवेन्मुक्तिश्चात्मरूपो न यावता ।वर्तते मुक्तसंगो वै तावत्संसारलग्नता ॥१०८॥आनर्त! मा रुषं धेहि तथ्यं भक्षय पाचय ।योगेश्वरतासिद्ध्यर्थं चाश्वपट्टसरो व्रज ॥१०९॥स्वीयप्रकाशं योगीन्द्रं लोमशं योगिसद्गुरुम् ।सन्तुष्टां योगिनीं देवीं संभजस्वाऽच्युतो भव ॥११०॥श्रीलोमश उवाच-इत्येवं वदमानां तां त्वानर्तो भूपतिस्तदा ।नेमे वासार्हहृदयं ददौ तत्र समाधिना ॥१११॥संवादं चात्मनोस्तत्र चाप्रातश्चक्रतुर्ह्युभौ ।ऋषयो ज्ञातभावाश्च स्वस्वस्थानं ययुस्ततः ॥११२॥अश्वपाटल! चानर्तो ज्ञात्वा नैजां हि निम्नताम् ।कुशलातः परां काष्ठां विवेद सहयोगिनः ॥११३॥ततस्तया समं प्रायादश्वपट्टसरोवरम् ।यत्र पूर्णं योगबलं ह्यवाप्य लोमशान्मुनेः ॥११४॥स्वस्य प्रकाशादात्मीयं बोधं प्राप्य महोत्तमम् ।सन्तुष्टायोगिनीतश्च ब्राह्मीं स्थितिं प्रशिक्ष्य च ॥११५॥आनर्तः प्रययौ नैजं चमत्कारपुरं प्रति ।तस्माद् राजन् गृहस्थानां त्यागित्वं समपेक्षते ॥११६॥यद्वा त्यागवतां योगान्मोक्षो हस्तगतो भवेत् ।साधूनां संगमात् कृष्णनारायणो मिलेद् ध्रुवम् ॥११७॥अपूर्णस्यापि पूर्णत्वं सर्वयत्ने समाप्यते ।असन्न्यस्ता गृहस्था वै सन्न्यस्ता गुरुयोगतः ॥११८॥प्रजायन्त कुशलाया योगेनाऽऽनर्तको यथा ।तादृशानां सतां योगाद् गृहस्थाः परमां गतिम् ॥११९॥प्रयान्त्येव न सन्देहो मायालुब्धा अपि ध्रुवम् ।इत्युक्त्वा राधिके श्रीमान् लोमशो मौनमावहत् ॥१२०॥अश्वपाटलराजाऽपि श्रुत्वा तृप्तिं जगाम ह ।तत्तीर्थं कुशलातीर्थं चानर्ततीर्थमित्यपि ॥१२१॥योगितीर्थं चाश्वपट्टसरोजले प्रविद्यते ।यत्स्नानाद् यद्वारिपानादात्मदर्शनमृच्छति ॥१२२॥इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने लोमशगीतायाम् आनर्तराजेन सह ब्रह्मपुत्रीकुशलासाध्व्या विवादो गार्हस्थ्येऽपि त्यागात् साधुसमागमाद्वा मुक्ति-रित्यादिनिरूपणनामाऽष्टपञ्चाशदधिकद्विशततमोऽध्यायः ॥२५८॥ N/A References : N/A Last Updated : May 02, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP