संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|त्रेतायुगसन्तानः| अध्यायः १३५ त्रेतायुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ अध्यायः २३८ अध्यायः २३९ अध्यायः २४० अध्यायः २४१ अध्यायः २४२ अध्यायः २४३ अध्यायः २४४ अध्यायः २४५ अध्यायः २४६ अध्यायः २४७ अध्यायः २४८ अध्यायः २४९ अध्यायः २५० अध्यायः २५१ अध्यायः २५२ अध्यायः २५३ अध्यायः २५४ अध्यायः २५५ अध्यायः २५६ अध्यायः २५७ अध्यायः २५८ अध्यायः २५९ अध्यायः २६० अध्यायः २६१ अध्यायः २६२ अध्यायः २६३ अध्यायः २६४ अध्यायः २६५ अध्यायः २६६ अध्यायः २६७ अध्यायः २६८ अध्यायः २६९ अध्यायः २७० अध्यायः २७१ अध्यायः २७२ अध्यायः २७३ अध्यायः २७४ अध्यायः २७५ अध्यायः २७६ अध्यायः २७७ अध्यायः २७८ अध्यायः २७९ अध्यायः २८० अध्यायः २८१ अध्यायः २८२ अध्यायः २८३ अध्यायः २८४ अध्यायः २८५ अध्यायः २८६ अध्यायः २८७ अध्यायः २८८ अध्यायः २८९ अध्यायः २९० अध्यायः २९१ अध्यायः २९२ अध्यायः २९३ अध्यायः २९४ अध्यायः २९५ अध्यायः २९६ अध्यायः २९७ अध्यायः २९८ अध्यायः २९९ अध्यायः ३०० विषयानुक्रमणिका त्रेतायुगसन्तानः - अध्यायः १३५ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः १३५ Translation - भाषांतर श्रीकृष्ण उवाच-शृणु त्वं राधिके! कृष्णो नारायणः परः प्रभुः ।शिबेः सौधे ह्युषित्वा तत्कृतां सेवां प्रगृह्य च ॥१॥विनिर्गमय्य च निशां माघाद्यदिवसे प्रगे ।नैत्यकं दैविकं कृत्वाऽऽदिश्य धर्मान् सुसात्त्वतान् ॥२॥प्राप्य दत्तां महापूजां भोजनं चोपदादिकम् ।सर्वान् शुभाशीर्वचनैः संप्रयुज्य प्रसाद्य च ॥३॥देवायतनकं भक्तं तथा श्रीलोमशादिकान् ।ब्रह्मप्रियास्तथा सर्वा अक्षरक्षेत्रवासिनः ॥४॥क्षेत्रपान् देवतीर्थानि कुटुम्बं पार्षदादिकान् ।मातरं पितरं चापि भ्रातॄन् भ्रातृवधूस्तथा ॥५॥भगिनीं तत्सखीं चापि राजाऽर्पिताश्च कन्यकाः ।सौराष्ट्रीयजनान् नैजान् विमानेषु नवेषु च ॥६॥निषाद्य स्वविमानेन व्योममार्गेण सञ्चरन् ।इन्दुकुशं समतीत्य सिन्धुव्योम विलंघ्य च ॥७॥बदरिकाश्रमं गत्वा दृष्ट्वा नरं नरायणम् ।ऋषीन् दृष्ट्वा तापसाँश्च ततः श्रीकाशिकां ययौ ॥८॥वरणायास्तटे नैजां लक्ष्मीं शिवसुतां सतीम् ।शिवराजं तथा कृष्णां चन्द्रं जयं च जानकीम् ॥९॥दृष्ट्वा सर्वान् सम्मिलित्वा स्नात्वा गंगाजले ततः ।विश्वेशं सर्वदेवांश्च दृष्ट्वा सम्पूज्य सर्वथा ॥१०॥विमानैः सहितैः सर्वैः श्रीहरिः पुरुषोत्तमः ।राधिके! चाययावश्वपट्टक्षेत्रं निजं शुभम् ॥११॥प्रजाभिर्जयकारैश्च वर्धितास्तीर्थकारिणः ।विमानानि त्वक्षरं तत् क्षेत्रं तु वारसप्तकम् ॥१२॥भ्रमित्वा कुंकुमवापीं विलोक्योद्यानवाटिकाः ।सर्वान् विज्ञाप्य च निजागमं वै पश्चिमे ततः ॥१३॥अवतेरुर्महोद्याने स्थैर्यमाप्तानि वै ततः ।पुष्पाक्षतैश्च लाजाभिः सत्कृतानि प्रजाजनैः ॥१४॥विमानेभ्यो बहिः सर्वे निर्गत्याऽऽपृच्छ्य वै मुहुः ।क्षेमं च कुशलं चानाऽमयं दत्वा स्रगादिकम् ॥१५॥सत्कृत्य च समाश्लिष्य स्वस्वस्थानं ययुर्जनाः ।निवासार्हेषु सौधेषु निजान् हरिर्न्यवासयत् ॥१६॥भोजयामास शीघ्रं च विशश्रमुश्च ते तथा ।प्राहिणोत् कन्यकाः सर्वास्तदा ब्रह्मप्रियायुताः ॥१७॥लोमशस्याऽऽश्रमे रम्ये सदा मायाविवर्जिते ।ररक्ष लोमशः सर्वा दिव्यमुक्तोत्तमो मुनिः ॥१८॥ऋषयो देवताद्याश्च क्षेत्रपास्तत्रवासिनः ।भुक्त्वा नैजान्निवासाँश्च ययुर्विश्रान्तिमागमन् ॥१९॥हरिः कुटुम्बसहितो भुक्त्वा विश्रान्तिमाप च ।द्वितीयाया दिने प्रातः कृत्वा स्वं नैत्यकं विधिम् ॥२०॥महीमानान् सुराष्ट्रीयान् भोजयामास भावतः ।कन्थाधराद्याश्च तथा रणंगमादयोऽपि च ॥२१॥विप्राः शीलव्रताद्याश्च महर्षयोऽपि साधवः ।आज्ञां प्राप्य हरेर्नैजान् ग्रामान् ययुः समन्ततः ॥२२॥देवायतनकं प्राह हरिः प्रसन्नमानसः ।त्वया भक्त कृतं सर्वं वैष्णवं राशिराज्यकम् ॥२३॥नैतादृशं महत् कार्यं विना भक्तेन जायते ।पाविताः किंपुरुषा वै नरा नार्यो नपुंसकाः ॥२४॥प्रसन्नोऽस्मि वदाऽदेयं तव मे नैव विद्यते ।शृणु सर्वं ददाम्येव यत्ते मनसि वर्तते ॥२५॥इत्युक्त्वा च समाकृष्य मिमिले वक्षसा स्वयम् ।मस्तके श्रीहरिस्तस्य हस्तौ तत्र न्यधात् क्षणम् ॥२६॥हृदये चरणौ दिव्यौ ददौ श्रीपुरुषोत्तमः ।देवायनोऽपि भक्तोऽसौ पूर्णकामोऽस्ति राधिके ॥२७॥ततो वव्रे भक्तराट् स गृहं ते वै भवाम्यहम् ।यत्र यत्र भवानास्ते पररूपः स्वयं हरिः ॥२८॥अवतारस्वरूपश्चैश्वरे दैवे च मानुषे ।विभवाख्योऽथवा व्यूहस्वरूपोऽप्यथवांऽशकः ॥२९॥अर्चारूपोऽथवाऽऽवेशकलाविभूतिरूपवान् ।शक्तिरूपो देवरूपो यत्रास्ते भगवान् भवान् ॥३०॥तत्र तत्र गृहं मेऽस्तु मद्गृहे वस सर्वदा ।हरिः प्राह च धन्योऽसि त्वदात्मकगृहेऽन्वहम् ॥३१॥यथा वसामि सौख्येन तथा त्वं भव मद्गृहम् ।चेतनो मुक्तरूपोऽसि सच्चिदानन्दविग्रहः ॥३२॥तथा कार्यस्वरूपोऽपि मम देवालयो भव ।देवालये सदा चाऽहं निवत्स्ये सृष्टिमण्डले॥३३॥प्रासादो मे भवत्वेव गतः प्रासादपात्रताम् ।यत्राऽहं तत्र सर्वत्र देवायतनको भव ॥३४॥अनेकशक्तिसम्पन्नश्चानेकरूपधृग्भव ।जडवद् दृश्यरूपस्त्वं तदधिष्ठातृदेवता ॥३५॥देवालनां सर्वेषां भव त्वष्टृप्रवर्धितः ।अधिदेवोऽतिरूपश्च दर्शनीयो हि देहिनाम् ॥३६॥दर्शयिष्ये च रूपाणि देवालयात्मकानि ते ।इत्युक्त्वा भगवानस्मै देवायतनकाय च ॥३७॥दर्शयामास शिखरान्वितं देवालयं शुभम् ।निजमूर्तौ ततो मूर्तिदेवालयेऽपि तिष्ठति ॥३८॥तादृशं दर्शयामास सर्वांगे देवतालयम् ।वेदिकां जगतीं भीटं पीठं मण्डोवरं तथा ॥३९॥शृंगं पद्मशिलां चापि कलशं ध्वजमित्यपि ।अग्रगं मण्डपं चापि गजासनं प्रदक्षिणम् ॥४०॥सर्वं मूर्तौ हरिर्नैजस्वरूपायां तदा मुहुः ।देवतायतनायैव देवतायतनात्मकम् ॥४१॥दर्शयामास विशदं ज्ञानं दिव्यं ददौ तथा ।देवायतनकः प्राप्य ज्ञानं च भवनात्मताम् ॥४२॥कृतकृत्योऽभवन्नम्रो बभूव द्वित्वरूपवान् ।मुक्तरूपस्तथा देवालयरूपोऽतिशोभनः ॥४३॥कुंकुमवापिकाक्षेत्रे दिव्यो देवालयोऽभवत् ।सहस्रः हस्तमानः स प्रासादोऽभवदम्बरे ॥४४॥यद्धटाश्चाब्भ्रसलिलैः स्नान्ति नित्यं ध्वजान्विताः ।तादृशं खलु भगवान् चकार स्वं शुभालयम् ॥४५॥विज्ञायैतदृषयश्च सिद्धाः देव्यश्च देवताः ।जलजाः स्थलजाश्चापि चतुःखनिसुसम्भवाः ॥४६॥ईशा ईश्वरमुख्याश्च तत्त्वानि चेतनान्यपि ।वृक्षा वल्ल्यश्चाकृतयो गरुडा गजवाजिनः ॥४७॥योगिन्यः पुष्पवल्ल्यश्च स्तम्बा मुमुक्षवस्तथा ।अरण्यस्था अम्बरस्था अन्येऽपि सौधयोगिनः ॥४८॥ज्ञात्वा देवायतनस्य देवालयस्वरूपताम् ।तत्र वासं चेहमानाश्चाययुर्हरिसन्निधौ ॥४९॥सदेहाः श्रीहरेः सेवामिच्छन्तो भक्तिभावुकाः ।प्रार्थयामासुरत्यर्थं पूजयित्वा हरिं हि ते ॥५०॥कृपानाथ दयासिन्धो सर्वात्मन् सर्वरक्षक ।सर्वाश्रयप्रदातस्त्वं देहि वासं निजालये ॥५१॥भक्तवत्सलसंज्ञोऽसि तव सर्वं शरीरकम् ।त्वां विना नैव लोकानां वासः सुखाय कल्प्यते ॥५२॥देवतायतनो भक्तो भक्त्या त्वदालयोऽभवत् ।वयं ते कृपया दासास्त्वदालयनिवासिनः ॥५३॥भवेम इति विश्वात्मन् धारयामः प्रदेहि तत् ।तानाह भगवान् कृष्णः सर्वश्रेयःपरायणः ॥५४॥दुर्लभं सुलभं मत्वा भवद्भिस्त्वर्थितं न्विह ।ममाऽऽलयो भवत्येव त्रेधा यत्र वसाम्यहम् ॥५५॥अक्षरं ब्रह्म परमं मुक्तिस्थानं ममाऽऽलयः ।यत्राऽक्षरं भवेद् ब्रह्म तत्राऽहं निवसामि वै ॥५६॥यत्र वासो हि मुक्तानां नाऽन्येषां भवति क्वचित् ।मायापारं गतानां च ब्रह्मविदां च योगिनाम् ॥५७॥यत्र पूर्वे सन्ति साध्या देवा नित्यनिवासिनः ।जीवभावं परित्यज्य चेशभावं विहाय च ॥५८॥मायाकर्माशयं दग्ध्वा ममाऽऽराधनतत्पराः ।मे ध्यानपरमा भूत्वा क्षालिताऽशेषकारणाः ॥५९॥शुद्धाः सञ्चिन्मयानन्दा मत्प्रपन्ना मदर्थकाः ।मन्मूर्तौ संयमपरास्ते यान्ति ब्रह्म चाऽक्षरम् ॥६०॥मत्कृपालेशतो दिव्या ये संभूता मदात्मकाः ।मदन्यलयभावास्ते मे यान्ति ब्रह्म चाक्षरम् ॥६१॥मायाविकृतिलुब्धानां मायामिष्टरसात्मनाम् ।मायाऽहंभावयुक्तानां मायास्वभावशालिनाम् ॥६२॥स्वार्थसाधनयत्नानां रागार्थं यततां सदा ।मद्भावनाविहीनानां न स्थानं ब्रह्मणि क्वचित् ॥६३॥मम भक्तिविहीनानां मम मार्गाऽविदां तथा ।मम मन्त्रादिशून्यानां न स्थानं ब्रह्मणि क्वचित् ॥६४॥इत्येवं परमं स्थानं मयोक्तं तन्ममाऽक्षरम् ।तदन्यद् वै द्वितीयं तु स्थानं मे हृदयं सताम् ॥६५॥यत्राऽहं सर्वदा वासं प्रकुर्वे चेतनालये ।मम मुक्ता महामुक्ताश्चाऽक्षरं ब्रह्म चेत्यपि ॥६६॥मुक्तानां हृदये नित्यं सतां वै जीवतामिह ।वसामो मिलिताः सर्वे हृदयेषु सतां वयम् ॥६७॥तत्र वै वासना नास्ति नास्ति मायाविकारिता ।तत्र मत्तोऽतिरिक्तं वै नास्ति ततो वसाम्यहम् ॥६८॥मम मूर्तिः सदा दिव्याऽक्षरधामनिवासिनी ।भक्तिधर्मयुता तत्र राजते हृदये सताम् ॥६९॥धर्मवंशो मम मूर्तो योऽस्ति दिव्यगुणात्मकः ।ते गुणास्तत्र राजन्ते हृदये वै सतां सदा ॥७०॥श्रद्धा शान्तिर्दया मेधा तुष्टिः पुष्टिर्गतिस्तथा ।लज्जा मैत्री तितिक्षा च बुद्धिर्मूर्तिः क्रियोन्नतिः ॥७१॥धर्मप्रिया वसन्त्येव साधूनां हृदये सदा ।ज्ञानं वैराग्यमैश्वर्यं चाऽभयं तप आर्जवम् ॥७२॥सत्यं क्षेमः सुखं शौचं स्थैर्यं धैर्यं च मार्दवम् ।निग्रहस्त्याग आस्तिक्यं सन्तोषश्च क्षमा स्मृतिः ॥७३॥दमो यज्ञः शमो योगश्चोपरतिरुपासना ।प्रसादश्च शुभं तेजः स्वाध्यायः प्रश्रयश्च मुद् ॥७४॥ध्यानं साम्यं ब्रह्मविद्या लाभः सामार्थ उद्यमः ।श्रवणाद्या भक्तिरूपा वसन्ति हृदये सताम् ॥७५॥तत्राऽहं सर्वदा शान्तो निवसामि प्रसन्नहृत् ।सदालयो मम यूयं तत्र वासोऽन्यदुर्लभः ॥७६॥अमुक्तानां मम मन्त्रविहीनानां कदाचन ।ममाऽभक्तिमतां वासो मम सत्सु न विद्यते ॥७७॥येषां वै त्वक्षरे वासो येषां च हृदये सताम् ।तेषां वासः सदा योग्यो मम देवालये शुभः ॥७८॥अथाऽयं भक्तवर्योऽद्य देवायतनकोऽभवत् ।देवालयस्वरूपोऽपि जडप्रख्योऽपि चेतनः ॥७९॥तत्र वासं जडचैत्ये प्रासादे यदि चेच्छथ ।मम मन्त्रान् प्रगृह्णन्तु मम भक्ता भवन्तु च ॥८०॥विना मे सात्त्वतान् भक्तान् स्थातुमर्हन्ति नेतरे ।लोमशोऽयमृषिश्रेष्ठो मन्त्रान् वः सम्प्रदास्यति ॥८१॥वैष्णवाः संभवन्त्वत्र ततो वसन्तु मद्गृहे ।इत्युक्ता देवताद्याश्च देहिनः श्रीहरिं तदा ॥८२॥नत्वा समर्च्य सम्पूज्याऽऽज्ञया श्रीलोमशं ययुः ।लोमशोऽपि ददौ तेभ्यो मन्त्रान् चकार वैष्णवान् ॥८३॥ततस्ते देवसदनं देवायतनमाययुः ।नेमुर्देवायतनकं निपेतुर्हरिपादयोः ॥८४॥हर्याज्ञया वैष्णवास्ते देवालयनिवासिनः ।भवितुं दीक्षिता जातास्तदा देवालयोऽब्रवीत् ॥८५॥भगवन् चंचला देवांश्चञ्चला देहिनस्तथा ।भीतियुक्ताः सदा त्वेते ह्यापत्काले समागते ॥८६॥आसुरोपद्रवं ज्ञात्वा विद्रवेयुर्न चेद् यदि ।मध्ये मध्ये विहायैव गच्छेयुर्न स्थलान्तरम् ॥८७॥नित्यवासप्रतिज्ञां चेत् कुर्युस्ते तव सन्निधौ ।तदा वासः प्रदेयः स्यादेभ्यश्चेति विधिं कुरु ॥८८॥बालकृष्णस्तु तच्छ्रुत्वा देवालयवचः शुभम् ।हितं पथ्यं तथा सत्यं प्राह प्रार्थयतस्तदा ॥८९॥यथा देवालयो वक्ति तथा चेन्मन्यते यदि ।शपथान् कुरुताऽत्रैव तदा वासं ददाम्यहम् ॥९०॥यावद् देवालयस्तिष्ठेज्जीर्णो वा भित्तिमात्रकः ।यावद्देवोऽपि तिष्ठेच्च तावत्स्थेयं तदालये ॥९१॥देवतायतनो देवो यदा स्थानं विहाय च ।सर्वकालार्थमुद्गच्छेत् तदा गम्यं न चान्यथा ॥९२॥इत्येवं वै प्रतिज्ञां च कुरुताऽत्र तदाऽप्यहम् ।वासं ददामि देवायतने देवालये सदा ॥९३॥इत्युक्तास्ते प्रतिज्ञां वै तथा चक्रुर्निरन्तराम् ।यावद् देवालयस्तिष्ठेद् यावत्तिष्ठेच्च देवता ॥९४॥तावद्वस्तव्यमेवाऽत्र महापत्कालकेऽपि च ।इत्युक्त्वा च जलं पीत्वा प्रासादिकं क्षितावपि ॥९५॥जलं प्रमुच्य चरणे हरेः सुरादयोऽस्पृशन् ।इत्येवं शपथं प्राप्ताः प्राप्ता वासं महालये ॥९६॥देवालये हरेर्वासे वासार्हा वैष्णवा हि ते ।यावद्देवालयस्तस्मात् तद्देवोऽपि च तिष्ठति ॥९७॥तावद्वै राधिके देवालयांऽगानि च सर्वदा ।तिष्ठन्त्येवेति भग्नाश्च खण्डिता अपि राधिके! ॥९८॥जीर्णोद्धारस्ततो देवालयस्य हितदो नृणाम् ।प्रसन्ना देवतांशास्ते सुखयन्ति सहायिनः ॥९९॥एवं प्रसन्नतां प्राप्य देवायतनको मुनिः ।देवालयात्मतां प्राप्तस्तथा देवा निवासनम् ॥१००॥कृपया श्रीहरेः प्राप्तास्तान् नमेद् दूरोऽपि वै ।शालग्रामे खण्डितेऽपि यथा वसामि सर्वदा ॥१०१॥देवालये प्रभग्नेऽपि जीर्णेऽपि मूर्तिसंयुते ।वसाम्येव त्वहं यावद् देवायतनकोऽपि च ॥१०२॥वसत्येव तु तावद्वै ममाऽऽज्ञां मूर्ध्नि धारयन् ।इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने श्रीहरेरश्वपट्टसरःक्षेत्रं प्रप्यागमनं, अक्षरधाम्नि सतां हृत्सु देवालयमूर्तौ चेति हरेस्त्रेधा वासः, देवायतनर्षेर्देवालयस्वरूपता, देवालयांगदेवानामपि स्थैर्यादि चेतिनिरूपणनामा पञ्चत्रिंशदधिकशततमोऽध्यायः ॥१३५॥ N/A References : N/A Last Updated : May 01, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP