संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|त्रेतायुगसन्तानः|
अध्यायः ३६

त्रेतायुगसन्तानः - अध्यायः ३६

लक्ष्मीनारायणसंहिता


श्रीकृष्ण उवाच-
अथाऽन्यत्ते प्रवक्ष्यामि चमत्कारं हरेः शृणु ।
पञ्चमे वत्सरे माघे गुरोर्बलं विलोक्य तु ॥१॥
गत्वा श्रीलोमशस्याग्रे बालकृष्णस्य शोभनम् ।
पिता हि विधिवद् विद्यारंभं तेनाऽप्यकारयत् ॥२॥
लक्ष्मीं नारायणं सरस्वतीं वेदानपूजयत् ।
गणेशस्याऽर्चनं कृत्वा घृतहोमं चकार सः ॥३॥
विप्रान् संभोजयामास गोदानानि चकार च ।
सरस्वती प्रसन्ना वै साक्षात्तदा समागता ॥४॥
मयूरासनशोभाढ्या हस्ते वीणां निधाय च ।
चतुर्दशस्वरूपाभिर्विद्याकन्याभिरर्चिता ॥५॥
सर्वाभूषणवस्त्रालंकारशोभासमन्विता ।
अनादिश्रीकृष्णनारायणं समर्च्य शारदा ॥६॥
बालकृष्णेऽदृश्यभावमुपागता हरेः प्रिया ।
ततस्तस्यास्तु याः सख्यः श्रुतयः स्मृतयस्तथा ॥७॥
आख्यायिकाश्च कवितास्तर्कशक्तिश्च काण्डिकाः ।
मिमांसाश्च समाधिश्च विविक्तिश्च कथास्तथा ॥८॥
मान्त्रिकी तान्त्रिकी चापि यान्त्रिकी भौतिकी तथा ।
कलाश्च गणनाश्चापि विन्यासाश्च क्रियास्तथा ॥९॥
रासायनी कल्पना च सांग्रामिकीन्द्रजालिका ।
ज्योतिर्मयी ऋचः साम्नी चाथर्वी च यजुर्मयी ॥१०॥
शाब्दी छान्दसी नैरुक्ती कार्षेयी लेखिनी तथा ।
सामुद्री वायवी चापि स्वाप्नी मोहिनी शाकुनी ॥११॥
शारीरिकी मानसी च जैवेयी सामरी तथा ।
सञ्जीवनी च वैवर्ती चार्तवी धातवी तथा ॥१२॥
चिकित्साऽस्त्रमयी दिव्या संहारिणी च पोषणी ।
शिल्पिनी भूस्तरी तत्त्वशोधिनी खनिमार्गिणी ॥१३॥
वैद्यती बहुभवनी सीवनी गर्भवेदिनी ।
द्राविणी मूर्छिनी चैवमाद्या विद्याश्च कन्यकाः ॥१४॥
धावल्यकान्तिधारिण्यश्चम्पकाभाः किशोरिकाः ।
सरस्वतीमनु कृष्णे विविशुः प्रतिमात्मिकाः ॥१५॥
एवं बाले गुरोद्वारा विद्याप्राप्तिरभूत्तदा ।
तथापि लोकरीत्यैव रेखाऽभ्यासं तदाऽकरोत् ॥१६॥
अक्षराणां च शब्दानामभ्यासं च तथाऽकरोत् ।
वेदशास्त्रादिविद्यानां निधानं दृश्यते जनैः ॥१७॥
अथ ताः कन्यकाः सर्वाः सेवन्ते बहिरेव तम् ।
अन्तर्हितास्तु वर्तन्ते सेवन्ते चान्तरे सदा ॥१८॥
प्राविर्भूताश्च वर्तन्ते सेवन्ते कान्तमेव तम् ।
शारदायास्तु ताः सख्यो वव्रिरे श्रीनरायणम् ॥१९॥
अनादिश्रीकृष्णबालं परमेशं पतिं प्रभुम् ।
समूर्तास्ताः सदा न्यूषुर्लोमशस्याश्रमे शुभाः ॥२०॥
कृष्णनारायणस्यैवाऽऽज्ञया विद्याः सुशोभनाः ।
नित्यं बालः प्रयात्येवाभ्यसनार्थं गुरुं प्रति  ॥१॥
लोमशस्तं सदा प्रातरध्यापयति सार्थकम् ।
गृह्णाति लोकवत् कृष्णो गुरुस्तुतोष चाप्यति ॥२२॥
सेवां गृह्णाति कन्यायां ततो याति गृहं निजम् ।
अथैकदा देवगुरुः समायाल्लोमशाश्रमम् ॥२३॥
बालकृष्णो ननामैनं बृहस्पतिं सुरेडितम् ।
वृहस्पतिस्तदा बुद्धिपरीक्षार्थं हरेः खलु ॥२४॥
सन्निधौ लोमशस्यैव पप्रच्छ तर्कसम्मितम् ।
गुञ्जाभारसुवर्णस्य कति मूल्यं भवेद् वद ॥२५॥
बालः प्राह स्थिरं चेत् स्याद् गुञ्जैकमात्रमूल्यकम् ।
यदि स्यान् नैकधा नित्यं क्रयविक्रययोजितम् ॥२६॥
स्वत्वानि परिवर्तन्ते यावत्संख्यानि तत्र तु ।
तावद्गुणं ददात्येव वस्तु भिन्नं विभिन्नकम् ॥२७॥
लक्षवर्षं कोटिवर्षं यावद्धस्तगतं भवेत् ।
तावद्गुणं भवेन्मूल्यं तस्मादनन्तमूल्यकम् ॥२८॥
गुञ्जामात्रं सुवर्णं तत् तदेव परिवर्तते ।
तत्क्रीतं नूतनं वस्तु नूतनं नूतनं मिलेत् ॥२९॥
एवमनन्तमूल्यं तत् सुवर्णं मीयते गुरो ।
श्रुत्वैवं चोत्तरं गुरुस्तुतोष तार्किकं च तम् ॥३०॥
आशीर्भिर्योजयामास सर्वज्ञः सर्वविद् भव ।
कौमारं पञ्चामाऽब्दान्तं पूर्णं भवतु पुष्टिदम् ॥३१॥
विद्योदययुतं स्तात्ते पौगण्डं दशमावधिम् ।
कैशोरमापञ्चदशान्महोदयपरं तव ॥३२॥
ततः परं यौवनं ते त्वनन्तानन्दभृद् भवेत् ।
शाश्वतं जीवनं तेऽस्तु सनातनस्वरूपता ॥३३॥
इत्येवमाशिषो दत्वा प्राप्य पूजां तदा कृताम् ।
पप्रच्छ श्रीहरिं यास्यन् वराटकं महासुरम् ॥३४॥
पश्चिमाब्धितटस्थं च तपन्तं तप उत्तमम् ।
अहिंसन्तं वदन् सत्यं व्रतमस्तेयमास्थितम् ॥३९॥
ब्रह्मचर्यपरं सर्वपरिग्रहविवर्जितम् ।
शोचान्वितं च सन्तुष्टं स्वाध्याये च रतं सदा ॥३६॥
ब्रह्मपरं समिच्छन्तं राज्यं सौराष्ट्रभूमयम् ।
समुद्रोत्थं सालमालासुरपुत्रं बलाधिकम् ॥३७॥
भगवन्नत्र सौराष्ट्रे पश्चिमाब्धितटान्तिके ।
तपत्युग्रं राज्यलब्ध्यै सालपुत्रो वराटकः ॥३८॥
पञ्चाग्नीँस्तपति ग्रीष्मे शिशिरे तिष्ठते जले ।
वर्षास्वेव तथा चास्ते वाय्वाहारो निरन्तरम् ॥३९॥
शिरो भूमौ चाम्बरे च पादौ कृत्वा दिवानिशम् ।
ओमितिव्याहरन्नास्ते राज्यार्थं स महासुरः ॥४०॥
इन्द्रेणैतत्तपो ज्ञात्वा प्रेषितोऽहं व्रजाम्यतः ।
उपदेक्ष्यामि तं तादृग् यतस्तपो निवर्तते ॥४१॥
उपदेशय मां तादृक् तन्निवृत्तिर्यथा भवेत् ।
अनादिश्रीकृष्णनारायणोऽसि परमेश्वरः ॥४२॥
देवानां रक्षकश्चाऽसि दैत्यानां दमनप्रदः ।
तद्यथा देवशूलोऽयं राज्यं नाऽऽसादयेत्तथा ॥४३॥
शाधि मां भगवन् गत्वा करिष्यामि च तत्तथा ।
श्रुत्वैव भगवानाह श्रीमत्कृष्णनरायणः ॥४४॥
इच्छाम्यहं च दैत्यस्य तपोरोधो यथा भवेत् ।
साम्ना दैत्यो वारणीयो गुरो तद्योग्यबोधिना ॥४५॥
कथयामि दैत्यधर्मान् दैत्यज्ञानक्रियादिकम् ।
त्वया ब्राह्मणरूपेण ह्युपदेशः प्रदीयताम् ॥४६॥
प्रायो दैत्या आसुराश्च दानवा इन्द्रियतृपाः ।
देहात्मवादमाश्रित्य वर्तन्ते कामकारतः ॥४७॥
दैत्यानां तु बलं धर्मो युद्धात्सम्पत्समर्जनम् ।
प्रसह्य हरणं कृत्वा स्वायत्तीकरणं तथा ॥४८॥
पराक्रमं दैत्यधर्मस्तपो धर्मो विरागिणाम् ।
तस्मात्तपसः प्रच्याव्य देहधर्मान्निबोधय ॥४९॥
देवधर्मविरोधं च नास्तिक्यं पापशून्यताम् ।
हिंसनं च पुरस्कृत्य दैत्यधमान्निबोधय ॥५०॥
प्रत्यक्षं च प्रमाणं वै परलोको न विद्यते ।
तपःफलं सदा फल्गु तथा तं वै निबोधय ॥५१॥
ईश्वरः पक्षपाती च देवानां हितकारकः ।
दैत्ये कापट्यमादाय विरुद्धोऽस्तीति बोधय ॥५२॥
वरदानेऽपि राज्येऽपि चान्ते दैत्यविनाशकः ।
परमेशश्च दैत्येन घात्य एवेति बोधय ॥५३॥
इत्येवं च समादिष्टो गुरुर्वृहस्पतिः स्वयम् ।
नत्वा कृष्णं हृदि कृत्वा लोमशं संप्रणम्य च ॥५४॥
ययौ वराटकं दैत्यं पश्चिमाऽब्धितटस्थितम् ।
विप्रो भूत्वाऽम्बरादेवाऽवततार महामुनिः ॥५५॥
तेजसा प्रज्वलन् सौम्यः प्रसादेन समन्वितः ।
ध्यानमग्नोऽभवद् दैत्यो भूमिकोऽम्बरपादवान् ॥५६॥
विप्रो विलोकयामास श्रद्धाकष्टसहं क्षणम् ।
ततः शनैर्जगादैनं वराटक! प्रपश्य माम् ॥५७॥
तव कामप्रपूर्त्यर्थं समागतोऽस्मि चाऽम्बरात् ।
पश्य वरय भद्र ते किमिच्छसि वदाऽधुना ॥५८॥
त्वयि सर्वं बलवति वर्तते पश्य मां द्विजम् ।
किमनेन महाघोरकष्टदेन तव प्रियम् ॥५९॥
कर्तव्यं तपसा तद्धि यदसाध्यं बलात् किल ।
बलसाध्यं बलेनैव चाप्तव्यं बलधर्मिणा ॥६०॥
इत्युक्तः स द्विजं दृष्ट्वा मनसा प्रणनाम ह ।
उवाच वद मे सर्वं देहि तथेप्सितं वरम् ॥६१॥
वृहस्पतिस्तदा तं तु राधिके समबोधयत् ।
किमिच्छसि वद कष्टं कथं समुह्यते न्विदम् ॥६२॥
आगतोऽस्मि वरं दातुं ब्राह्मणोऽहं सनातनः ।
श्रुत्वा वराटकः प्राह स्वागतं द्विज तेऽस्तु वै ॥६३॥
राज्यार्थं तु करोम्येतत्तपः परमदारुणम् ।
शाधि मां प्रतपन्तं च वरं देहि तथाविधम् ॥६४॥
यथा सौराष्ट्रराज्यं च प्रविन्दामि सुखप्रदम् ।
श्रुत्वा बृहस्पतिः प्राह शृणु दैत्य बली भवान् ॥६५॥
कथं कष्टं हि सहसे तपो धर्मो विरागिणाम् ।
राज्ञां धर्मस्तु समरो निर्बलानां वृषस्तपः ॥६६॥
सबलस्त्वं तपस्त्यक्त्वा समाचर पराक्रमम् ।
उद्यमेन प्रसिद्ध्यन्ति बलिनां वै मनोरथाः ॥६७॥
तपसा निर्बलानां च धर्मेण यज्विनां तथा ।
सैन्येन तु नृपाणां वै विद्यया विदुषां तथा ॥६८॥
रोदनेन तु बालानां मोहनेन तु योषिताम् ।
कृच्छ्रेण तु पराधीनवृत्तीनां सेवनादिभिः ॥६९॥
प्रायोपवेशनेनैव प्रजानां नृपतिं प्रति ।
शत्रूणां घातनेनैव सिद्धिर्भवति वै द्विषाम् ॥७०॥
एवं सर्वं समालोक्य यत्नं त्वं बलवान् कुरु ।
अन्यः कश्चित्प्रदाता मे तपसेति मतिं त्यज ॥७१॥
भूत्वा वै बलिनां श्रेष्ठः कृच्छ्रं सहसे यद्वृथा॥
शरीरं बलहीनं स्याद् भोगयोग्यं न वै भवेत्॥७२॥
परदत्तं प्रभुञ्जानः प्रशस्यते न सर्वथा ।
क्षुधया त्विन्द्रियग्रामः शैथिल्यं विन्दति द्रुतम् ॥७३॥
वार्धक्यं जायते शीघ्रं यद्वा नाशोऽपि जायते ।
तस्मात् क्षुधां परित्यज्य देहपुष्टिं विधत्स्व वै ॥७४॥
पुष्टिरेव परो धर्मो भोगा मोक्षः परोऽत्र वै ।
आनन्दः सुखवैपुल्यं स्वर्गं वै जीवतः स्मृतः ॥७५॥
भोगहीनं गतं चायुर्दिनं वा व्यर्थमेव तत् ।
देहनाशे कथं सौख्यं विगतं न हि लाभकृत् ॥७६॥
मृत्युत्तरं न चायाति वाङ्मात्रकल्पितं फलम् ।
अनेन यन्न वै दृष्टं परेण दृश्यते कथम् ॥७७॥
अत्र योग्येऽपि भुक्तं न चायोगे भुज्यते कथम् ।
ग्रहकाले परित्यागं मूर्खो मुख्यं समीहते ॥७८॥
शरीरं चेन्द्रियं जीवमनादृत्य स्वकं सुखम् ।
कष्टं सहते पापात्मा स्वघाती स तु गीयते ॥७९॥
सुखघातश्चात्मघातो नरकं दुःखवेदनम् ।
नरकं त्वं परित्यज्य निवर्तस्वात्मघातनात् ॥८०॥
केनाऽयं दोरकस्तेऽत्र प्रग्राहितस्तपोमयः ।
आत्महिंसामयो व्यर्थः पापोद्वेगाऽद्यशेवधिः ॥८१॥
देहिना देहसंसृष्टं मन्तव्यं सत्यमेव च ।
देहसंसर्गहीनं तु सर्वमसत्यमेव यत् ॥८२॥
रागोत्सवाश्च भोगाश्च देहे सत्येव सन्ति हि ।
भोगाभावस्तपस्तत्तु जरठानां स्वभावजम् ॥८३॥
बलेन प्राप्यते लक्ष्मीः पृथ्वी युद्धेन चाप्यते ।
भाग्येन चाप्यते नारी सम्पदुद्यमतो मता ॥८४॥
जन्मतो मरणान्तं च जीवनं न पुनर्भवः ।
दृष्टः केनापि तस्मात् त्वं तपो हित्वा सुखं व्रज ॥८५॥
जन्मतो जीव इत्युक्तो मरणे मोक्ष उच्यते ।
द्वयोर्मध्ये सुखं स्वर्गं देहश्चात्माश्रयो मतः ॥८६॥
विविधा विषयास्तत्र भोक्तव्या नित्यदाऽसुर ।
विना भोगं गतं चाऽहस्तदेव हानिकारकम् ॥८७॥
गतं तत्तु गतं नैतत् पुनरायास्यति क्वचित् ।
अभुक्तं च गतं दाने गतं तद् विफलं निजम् ॥८८॥
निजसौख्यप्रदं यत्तत्सफलं स्वस्य सौख्यदम् ।
न करोति स्वयं यत्नः कोऽन्यस्तस्मै प्रदास्यति ॥८९॥
तस्मादुत्तिष्ठ दुखात्त्वं यत्नं कुरु वराटक ।
पुण्यं तु सुखदं कर्म भोगात्मकं च तन्मतम् ॥९०॥
कुरु कर्म सुखदं वै मा तपो दुःखदं कुरु ।
प्रसुप्तस्य मुखे नैव कवलं जायते स्वतः ॥९१॥
प्रयतस्य करेऽवश्यं समायाति धनादिकम् ।
नहि कश्चित्फलदाता न च कश्चित्परेश्वरः ॥९२॥
आत्मनो न परः कश्चित् कं परं त्वं प्रतीक्षसे ।
त्यज सर्वं चेन्द्रजालं कुरु सन्नाहमुल्बणम् ॥९३॥
बहुसैन्यान्वितो भूत्वा स्वायत्तीकुरु मेदिनीम् ।
को निजः कः परश्चेति यद्भोग्यं तन्निजं मतम् ॥९४॥
यदभोग्यं परं तत्तु तद् बलादर्जयेद् बुधः ।
अभ्युदयेऽनुकूला ये ते धर्मा वस्तुतो मताः ॥९८६॥
तत्र ये प्रतिकूलास्ते परिहार्याः प्रयत्नतः ।
अनुकूलान् दैत्यवर्यान् संगृह्य राज्यमर्जय ॥९६॥
सुखं भुक्ष्व परं श्रेष्ठं दैत्याँश्च सुखिनः कुरु ।
यदि ते रोचते वाक्यं दमनं दैत्य चिन्तय ॥९७॥
शुक्राचार्यं तथा चान्यान् मिलित्वा बलमाप्य च ।
ईशमन्यान् विजयस्व दानवीयं वृषं चर ॥९८॥
मृषा पूजा मृषा ध्यानं संयमोऽपि मृषैव च ।
मृषा व्रतं मृषा पापं मृषा स्वानुपयोगि च ॥९९॥
मृषा चेशो मृषा चाऽऽस्था मृते सर्वं मृषा मृषा ।
मृषा चाऽऽशा निष्फला या मृषा वाणी ह्यनर्थिका ॥१००॥
मृषा बलं विना शौर्यं मृषा शौर्यं विना मतिम् ।
मृषा मतिर्दुःखफला मृषा सर्वं नपुंसके ॥१०१॥
यदि चेत्त्वं पुमानास्से मैतन्मृषाऽनुगो भव ।
यत्नसाध्यं कुरु शीघ्रं मा मृषा मद्वचः कुरु ॥१०२॥
पिपीलिकाश्च कीटाश्च यतन्ते ऋतुमाश्रिताः ।
कणान् संगृह्य बलतो भुञ्जते शीतपीडिताः ॥१०३॥
सिंहा विक्रममासाद्य लब्ध्वा वन्यगजादिकम् ।
बलेन भुञ्जते मेदं मेदिनीं भुंक्ष्व तत्तथा ॥१०४॥
भूमिर्नारी च सम्पच्च यत्नं विना न लभ्यते ।
यशः शौचं साधुता च तपो विना न लभ्यते ॥१०५॥
अन्यसाधनत तत्त्वं साधनान्तरतो न वै ।
विचार्य त्वं यथेष्टं वै कुरु दानवपुंगव ॥१०६॥
हंसा मानसरस्त्यक्त्वा समुद्रं यान्ति यत्नतः ।
मौक्तिकानां भोजनानि लभन्ते च वियन्ति च ॥१०७॥
काका अपि पर्युषितं लभन्ते यत्ननोदिताः ।
नीडे गता नाप्नुवन्ति चालसा इव मानवाः ॥१०८॥
कर्षुका यतमानास्तु लभन्ते सस्यजं फलम् ।
नहि तत्तपसा लभ्यमन्नं राज्यं च कामना ॥१०९॥
मुखे धृतं घृतं मिष्टरसं पुष्टिं ददाति हि।
नहि वह्नौ घृत तृप्तिं ददाति भस्मतां गतम् ॥११०॥
त्वं कथं यौवनं वीर्यं बलं शून्ये जुहोषि वै ।
किं फलं लप्स्यसे तत्र चोषरे तपआत्मनि ॥१११॥
तस्मादुत्तिष्ठ विज्ञानं मया दत्तमुपाश्रय ।
धर्मं दानववर्याणां गृहाण त्यज रोगिणाम् ॥११२॥
इत्युक्तो दानवस्तेन गुरुणा राधिके क्षणम् ।
विचार्य च तपस्त्यक्त्वा कृतार्थोऽस्मीत्यभाषत ॥११३॥
यदहं बोधितः सत्ये निराशापरिपन्थिनि ।
वरं देहि यथाहं स्यां भूभृत् तथा कृपां कुरु ॥११४॥
तथाऽस्त्विति गुरुः प्राह तपस्तत्याज दानव ।
विप्रो बृहस्पतिस्तुष्टस्तपोरोधनसत्फलः ॥११५॥
जगाद दानवैर्युक्तः समारभस्व मेदिनीम् ।
स्वायत्तीकर्तुमेवाऽस्मात् स्थानाद् राज्यं यथा भवेत् ॥११६॥
शुभं भूयाच्च सर्वेषां तव भूयाद् यथेष्टकम् ।
मम वरानुसारेण भूभृत्त्वं ते भविष्यति ॥११७॥
इत्युक्त्वा प्रययौ विप्रः पूजां नीत्वा दिवं प्रति ।
वराटकोऽपि दैत्येन्द्रान् संगृह्य मन्त्रणां व्यधात् ॥११८॥

इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने प्रभोर्विद्यारम्भे सर्वविद्याप्राप्तिः, बुद्धिपरीक्षा, बृहस्पतिकृतो वराटकदैत्याय यत्नशीलतोपदेशः, दैत्यस्य तपस्त्यागश्चेत्यादिनिरूपणनामा षट्त्रिंशोऽध्यायः ॥३६॥

N/A

References : N/A
Last Updated : April 30, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP