संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|त्रेतायुगसन्तानः| अध्यायः २६१ त्रेतायुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ अध्यायः २३८ अध्यायः २३९ अध्यायः २४० अध्यायः २४१ अध्यायः २४२ अध्यायः २४३ अध्यायः २४४ अध्यायः २४५ अध्यायः २४६ अध्यायः २४७ अध्यायः २४८ अध्यायः २४९ अध्यायः २५० अध्यायः २५१ अध्यायः २५२ अध्यायः २५३ अध्यायः २५४ अध्यायः २५५ अध्यायः २५६ अध्यायः २५७ अध्यायः २५८ अध्यायः २५९ अध्यायः २६० अध्यायः २६१ अध्यायः २६२ अध्यायः २६३ अध्यायः २६४ अध्यायः २६५ अध्यायः २६६ अध्यायः २६७ अध्यायः २६८ अध्यायः २६९ अध्यायः २७० अध्यायः २७१ अध्यायः २७२ अध्यायः २७३ अध्यायः २७४ अध्यायः २७५ अध्यायः २७६ अध्यायः २७७ अध्यायः २७८ अध्यायः २७९ अध्यायः २८० अध्यायः २८१ अध्यायः २८२ अध्यायः २८३ अध्यायः २८४ अध्यायः २८५ अध्यायः २८६ अध्यायः २८७ अध्यायः २८८ अध्यायः २८९ अध्यायः २९० अध्यायः २९१ अध्यायः २९२ अध्यायः २९३ अध्यायः २९४ अध्यायः २९५ अध्यायः २९६ अध्यायः २९७ अध्यायः २९८ अध्यायः २९९ अध्यायः ३०० विषयानुक्रमणिका त्रेतायुगसन्तानः - अध्यायः २६१ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः २६१ Translation - भाषांतर श्रीकृष्ण उवाच--शृणु त्वं राधिके पश्चादाश्वपट्टलभूपतिः ।प्रत्यक्षश्रीहरेर्बोधं पप्रच्छ मुनये तदा ॥१॥अश्वपाटल उवाच-मुने योऽयमनादिश्रीकृष्णनारायणः प्रभुः ।प्रत्यक्षो भगवानास्ते तद्बोधं कारय प्रभो ॥२॥तन्नाम्ना भजनं कुर्वे सार्थमानो यथाऽन्वहम् ।शाधि सर्वार्थसम्पन्नं बोधं मां पारमेश्वरम् ॥३॥श्रीलोमश उवाच-राजन्नैकान्तिका भक्ता विद्वांसो वेदपारगाः ।निरुक्तानि हरेर्नाम्नां जानन्ति नेतरे जनाः ॥४॥यतो ह्येकान्तिनः श्रेष्ठा ये चैवाऽनन्यदेवताः ।तदात्मानस्तत्परास्तच्छीलास्तत्सहक्रियाः ॥५॥कदा कुत्र कथं नाम केन जातं विदन्ति ते ।प्रगृणन्ति ततो भक्ताः पूर्वं प्रकाशितं च तैः ॥६॥आदिर्जन्मोद्भवश्चापि देहेन्द्रियादियोजनम् ।प्राग्विसर्गः पश्चसर्गे यन्मूर्तौ नैव विद्यते ॥७॥कालोऽक्षरं यदादौ न यस्मिन् क्वचिद् विलीयते ।सर्वेषां स्वेतरेषां स आदिरेव परः प्रभुः ॥८॥नान्यदादि ह्यभूद् यस्य तस्मादनादिरेव सः ।नित्यश्रीः श्रयति यं च दिव्यशोभोत्तमोत्तमा ॥९॥दिव्यवेषश्च रचना वाणी सम्पद्विभूतिका ।ऐश्वर्याणि गुणाः सर्वे श्रीपदा यत्र सन्ति ह ॥१०॥तस्माच्छ्रीः स श्रीतादात्म्याद् रमालक्ष्म्यादिसंश्रयः ।श्रीमान् स एव भगवान् प्रोक्तो वै परमेश्वरः ॥११॥नराणामात्मनां योऽयमयनं वै चिरन्तनम् ।नाराः सर्वा दिव्यरूपा_ शक्तयस्तन्निवासनम् ॥१२॥अरा माया च दारिद्र्यं नास्ति यत्र हि मुक्तिगाः ।मुक्ता नरास्तन्निवासो नारायणः स वै मतः ॥१३॥कर्षत्येव जगत्सर्वं सर्वाः सृष्टिस्तनौ क्वचित् ।नयत्येव लयं सर्वं कृष्णस्तेन प्रकीर्तितः ॥१४॥कृषिः कल्मषनाशश्च नश्च निर्वृत्तिरुच्यते ।तादृशः श्रीकृष्ण एवाऽनादिकृष्णनरायणः ॥१५॥कं सुखं शाश्वतं यच्च कं वा ब्रह्मपरं प्रभुम् ।बिभर्ति या निजे गर्भे कंभरा हृदये च वा ॥१६॥कंभरायाः सुतश्चात्र कांभरेयो हरिर्हि सः ।गाः किरणानि कृष्णस्य पालयत्येव यः स्वयम् ॥१७॥गाश्च धेनूः पृथिवीं गां गतिं दिव्यां च रक्षति ।गोपालश्च पिता तस्य नन्दो गोपालनन्दनः ॥१८॥पुराणि च शरीराणि चेतनानि जडानि च ।उपत्येव च तेषु श्रीहरिर्वै पुरुषोत्तमः ॥१९॥बृहत्वाद्व्यापकत्वाच्च परत्वाद् ब्रह्म यः परः ।परब्रह्म हरिश्चैव स एव भगवान् स्वयम् ॥२०॥परमाणि समग्राण्यैश्वर्याणि सन्ति तत्र च ।परमेश्वर एवाऽसौ परेश्वर_ प्रसिद्ध्यति ॥२१॥क्षरं मायात्मकं सर्वं तत्परं धाम चाक्षरम् ।तदतीतो हरिः सोऽयमक्षरातीत उच्यते ॥२२॥अवतारा हरेरेवाविर्भवन्ति समस्ततः ।अवतारी स्वयं तेषां मूलं श्रीहरिरुच्यते ॥२३॥हरिश्चायं हरत्येव भक्तानां मानसानि वै ।हरत्येव च दुःखानि हरिश्चायं प्रकीर्तितः ॥२४॥हरः संकर्षणश्चासाज्जायते कार्यकृत्प्रभुः ।हरी तेन तथोक्तश्चैश्वर्यवान् भगवानपि ॥२५॥वसत्ययं समस्तेषु दीव्यत्येवान्तरस्थितः ।वासुदेवः स वै प्रोक्तः परमेशः सनातनः ॥२६॥प्रकृतिर्यस्य वाञ्च्छाऽस्ति शक्तिः शालोऽपि वै तथा ।माया या प्रकृतिस्तस्य धवो माधव एव सः ॥२७॥कालात्माऽपि प्रभुः प्रोक्तः सर्वसर्जनशक्तिमान् ।विशन्ति सृष्टयो यत्र यस्माद्वा विष्णुरेव सः ॥२८॥वेवेष्टि व्याप्नोति चैषो व्यापको विष्णुरुच्यते ।दमनेन जना ऊर्ध्वमृच्छन्ति धाम मे परम् ॥२९॥तेन दामोदरः कृष्णो दाने मोदे रमत्ययम् ।केशास्तदंशवः प्रोक्तास्तद्वान् कृष्णो हि केशवः ॥३०॥अग्निः सोमो मम रूपे मुखं रसश्च तावुभौ ।अग्निष्टोमस्ततो नाम नारायणः स्वयं क्रतुः ॥३१॥अग्निः क्षत्रं द्विजः सोमस्तयोरैक्यं हरो हरिः ।अग्निर्नारी नरः सोमश्चाग्निष्टोमो नरायणः ॥३२॥नष्टां गां पृथिवीं चायमविन्दच्च पुरा ततः ।गोविन्द इति विख्यातो गोपालो गोप्रपालनात् ॥३३॥हृषीकानीन्द्रियाण्येष ईशते स हरिस्ततः ।हृषीकेशः समभवत् हृषीका तपसां स्थले ॥३४॥अधः सर्वं परं सर्वं पश्यत्यधोक्षजस्ततः ।वृषोधर्मस्तन्निवासः कपिर्वाराहरूप्ययम् ॥३५॥रमन्ते योगिनस्तत्र रामो रमणवान् प्रभुः ।गुणकर्मानुयोगेन नाम्नामस्यास्त्यनन्तकम् ॥३६॥अनादिश्रीकृष्णनारायणं ब्रह्मपरं भज ।बालरूपः स्वयं कृष्णः कुंकुमवापिकाऽक्षरे ॥३७॥क्षेत्रे विराजते यस्तं बालकृष्णं सदा भज ।बा-माया लयमेत्यत्र कृष्णेऽतो बालकृष्णकः ॥३८॥बालानज्ञानसंव्याप्तान् जनानादिश्य सत्पथम् ।कर्षत्यक्षरधामक्ष्मां परं सुखं ददाति च ॥३९॥बालकृष्णो हरिकृष्णः श्रीकृष्णः पुरुषोत्तमः ।अनादिश्रीकृष्णनारायणो ब्रह्मप्रियापतिः ॥४०॥सतां पतिर्मुक्तपतिः सर्वपतिर्जनार्दनः ।भक्तपतिर्निजपतिः सेव्यतां प्राप्यतां नृप ॥४१॥अश्वपाटल उवाच-अहो ज्ञानमहो बोधश्चाहोऽमृतं रसायनम् ।पायितं मे मुरोऽजस्रं दिव्यं दिव्यविमुक्तिदम् ॥४२॥तपोनिधे त्वयोक्तं मे नारायणकथामृतम् ।ईदृशो भगवान् मह्यं दर्शितो बोधितोऽन्तरे ॥४३॥अनादिश्रीकृष्णनारायणः साक्षान्निभालितः ।अग्निषोमात्मकः सोऽयं भगवाँस्तर्पितो मया ॥४४॥प्रसादितस्तथा साक्षात् समासादित एव सः ।न ततोऽस्ति परः कश्चिन्न तत्समोऽस्ति वेतरः ॥४५॥तत्कथातुल्यमाख्यानं नान्यत् सृष्टित्रयेऽपि वै ।विद्यते फलदं सर्वतीर्थानां पावनं परम् ॥४६॥न चात्राऽल्प मम पुण्यं वर्धितं भवता बहु ।कुंकुमक्ष्मां समासाद्य येनाऽहं दृष्टवान् हरिम् ॥४७॥इत्येवं राधिके मत्वा कृतकृत्यं निज नृपः ।पपात दण्डवद्भूमौ लोमशं स्वगुरुं प्रति ॥४८॥लोमशस्तं तदा प्राह हर्षाश्रुपुलकांचितम् ।धन्योऽस्त्यनुगृहीतोऽस्ति यद्भवान् दृष्टवान् हरिम् ॥४९॥अदृश्यदर्शने तत्र तद्दयैव हि कारणम् ।अवतारी हि भगवान् दुर्दर्शः पुरुषोत्तमः ॥५०॥नाऽस्य भक्तात् प्रियतरो लोकं कश्चन विद्यते ।ततः स्वयं दर्शितवान् स्वमात्मानं नृपोत्तम ॥५१॥तस्मादुत्तिष्ठते राजन् क्षमा या वै क्षितौ स्थिता ।तस्मादुत्तिष्ठते रसो येनाऽऽपो रससंभृताः ॥५२॥तस्मादुत्तिष्ठते रूपं येनाऽर्काद्याः सुरूपिणः ।तस्मादुत्तिष्ठते स्पर्शो येन प्राणाः सुयोगिनः ॥५३॥तस्मादुत्तिष्ठते शब्दो येन लोका गृणन्ति च ।तस्मादुत्तिष्ठते मनः प्रकाशगुणधारकम् ॥५४॥तस्मादुत्तिष्ठते बुद्धिस्तत्त्वनिर्णयकारिणी ।बुद्ध्या विदित्वा तं कृष्णं क्षेत्रज्ञं सात्त्वतां नृप ॥५५॥विशन्ति परमात्मानं हृदयस्थं समाहिताः ।भजैनं परमेशं तं राजन् कृष्णनरायणम् ॥५६॥दैवतं परमं यज्ञं परात्मानं सनातनम् ।ईष्यते सर्वयज्ञेषु नित्यं सोऽयं जगत्पतिः ॥५७॥ये यजन्ति सुरान् पितॄन् गुरून् साधूँस्तथाऽतिथीन् ।गाश्च विप्रान् दीनजनान् क्षितिं सतीं च मातरम् ॥५८॥ऋषीन् सेवापरान् भृत्यान् पत्नीं पतिं च बालकान् ।पूज्याननाथान् रंकाँश्च पशून् पतत्रिणस्तथा ॥५९॥स्तम्बान् वृक्षान् पक्षिणश्च विष्णुमेव यजन्ति ते ।अन्तर्गतः स भगवान् सर्वपिण्डे व्यवस्थितः ॥६०॥गृह्णाति श्रद्धया दत्तं जीवतृप्तिं समावहत् ।अनादिश्रीकृष्णनारायणः सोऽयं श्रुतौ श्रुतः ॥६१॥भज तं परमात्मानं राजन् प्रत्यक्षगोचरम् ।य एष गुरुरस्माकं कंभरानन्दनस्त्विह ॥६२॥को यायात् तं विना चात्र सर्वत्र क्षितिमण्डले ।प्रकुर्याच्च महायज्ञान् तारयेन्मोचयेज्जनान् ॥६३॥कथं विना तं श्रीकृष्णं सर्वजगन्मनोहरम् ।वृणुयुः कन्यका राज्ञां सहस्रशश्च कोटिशः ॥६४॥कथं देवाश्च ऋषयश्चेश्वराश्चेश्वरेश्वराः ।आगत्य पूजनं कुर्युर्मखेष्वस्य हरिं विना ॥६५॥कथं राधारमालक्ष्मीकमलाद्याश्च कोटिशः ।कृष्णपत्न्यश्चास्य सेवां कुर्युर्नारायणं विना ॥६६॥कथं चिह्नानि सर्वाणि सृष्टित्रयोर्ध्वगानि वै ।नारायणं विनाऽस्यैव मूर्तौ भवेयुरञ्जसा ॥६७॥स वै वेदनिधिः कृष्णस्तपसां निधिरेव च ।योगज्ञाननिधिश्चाऽयं सर्वोदरः स एव च ॥६८॥परब्रह्मपरा वेदाः परब्रह्मपरा मखाः ।परब्रह्मपरो मोक्षः परब्रह्मपरं तपः ॥६९॥परब्रह्मपरं सत्यं परब्रह्मपरमृतम् ।परब्रह्मपरं पुण्यं परब्रह्मपरा गतिः ॥७०॥प्रवृत्तिनिवृत्तिधर्मः परब्रह्मपरायणः ।परब्रह्मात्मको गन्धः पृथ्व्यां श्रेष्ठतमो नृप ॥७१॥परब्रह्मपरा चापां गुणा रसात्मकाः शुभाः ।परब्रह्मपरं रूपं ज्योतिषां रूपिणां तथा ॥७२॥परब्रह्मात्मकः स्पर्शः सर्वस्पृश्यस्थितोऽनुगः ।परब्रह्मात्मकः शब्दः सर्वशब्द्यानुपावृतः ॥७३॥परब्रह्मपरं चित्तं मनोऽहं बुद्धिरीश्वरी ।परब्रह्मात्मिका मात्राः परब्रह्मात्मका गुणाः ॥७४॥परब्रह्मात्मकः कालः परब्रह्मपरा कृतिः ।कीर्तिः श्रीर्देवता लक्ष्मीः परब्रह्मपरा च भूः ॥७५॥परब्रह्मपरा भूतिर्लीला सरस्वती सती ।परब्रह्मपराः सर्वाः ऋचो ब्रह्मप्रियास्तथा ॥७६॥परब्रह्मपरं ज्ञानं योगस्त्यागः शुभा क्रियाः ।कारणानि समस्तानि परब्रह्मपराणि च ॥७७॥तत्त्वं जिज्ञासमानानां परं तत्त्वं परेश्वरः ।सर्वेषां स विजानाति मनीषितं परः प्रभुः ॥७८॥दैवं पैत्र्यं तपो दानं सर्वाश्रयो हरिः स्वयम् ।सर्वभूतकृतावासः कुंकुमवापिकाऽऽलयः ॥७९॥अक्षरब्रह्मवासश्च बालकृष्णः स एव सः ।अनादिश्रीकृष्णनारायणो नारायणेश्वरः ॥८०॥स वै ह्येकान्तिनः सर्वान् प्रीणाति भगवान् हरिः ।विधिकृतां सुपूजां च गृह्णाति भगवान् स्वयम् ॥८१॥एकान्तिनो हि मनुजाः प्रयान्ति श्रीहरेः पदम् ।एकान्तधर्मसर्वस्वं परब्रह्मपरायणम् ॥८२॥सम्मितं सामवेदेन पुरैवादौ कृते युगे ।धार्यते बालकृष्णेन नारायणेश्वरेण ह ॥८३॥नारायणो यज्ञधर्मं स्वर्णरेखानदीतटे ।नारायणह्रदे दैवं पैत्र्यं न्यवर्तयत् पुरा ॥८४॥ऋषयो देवताद्याश्च सोमोऽपि मानवास्तथा ।मखधर्मं पुराकल्पे न्यवर्तयन् हरिश्रिताः ॥८५॥रुद्रः कृते युगे नारायणधर्मं ह्यपालयत् ।अशिक्षयत्तथा विप्रान् चाद्ये कृते युगे हरः ॥८६॥सुपर्णाख्यमहर्षिश्च प्राप्य श्रीपुरुषोत्तमात् ।यज्ञधर्मं पृथिव्यां सः प्रावर्तयत सद्विधिम् ॥८७॥समुद्रो यज्ञधर्मांश्च ततः प्रावर्तयन्नृप ।अथाऽऽरण्यकनामाऽपि मुनिः प्रावर्तयत्ततः ॥८८॥मनुस्ततो यज्ञधर्मान् प्रावर्तयत सात्त्ववान् ।सनत्कुमारो भगवान् प्रावर्तयत तत्परान् ॥८९॥वीरणः सुव्रतश्चापि बर्हिषदश्च दक्षकः ।विवस्वान् स्थापितवन्तो धर्ममेनं सनातनम् ॥९०॥सर्वार्पणात्मको धर्मः सात्त्वतो दुष्करो जनैः ।धार्यतेऽनादिकृष्णेन स्थाप्यते च पुनः क्षितौ ॥९१॥अनादिश्रीकृष्णनारायणेन मखरूपवान् ।सर्वार्पणात्मको धर्मो भूगोले स्थापिते नृप ॥९२॥स एव भगवांल्लोके संस्थाप्य धर्ममाच्युतम् ।यथेच्छति तथा पश्चात् क्रीडति शास्ति वै प्रजाः ॥९३॥एवमेकान्तधर्मस्ते कथितो नृपसत्तम ।एकान्तिनः क्षितौ राजन्! भवन्ति दुर्लभा जनाः ॥९४॥यद्येकान्तिभिराकीर्णं जगत् स्याद् वैष्णवं मिथः ।भवेद् ब्रह्मपुरं चात्र कृतं युगं विदोषकम् ॥९५॥यत्र चैकान्तिनः सन्ति परब्रह्मपरायणाः ।नरा नार्यः पशवश्च पक्षिणो देवतादयः ॥९६॥सर्वे वर्णा वैष्णवाश्च तत्राऽक्षरपदं मतम् ।अधर्मस्तत्र नास्त्येव नाधर्मवंशजा अपि ॥९७॥नरनारीव्यवहाराः सर्वे स्युर्मुक्तकोटिजाः ।वैकुष्ठं वा च गोलोको श्वेतो वा बदरीवनम् ॥९८॥भवेत्तत्र यदि क्ष्मायां सर्वे चैकान्तिनो जनाः ।सात्त्वता भक्तिमन्तो वै भवेयुर्मुक्तये ध्रुवम् ॥९९॥मनीषितं ह्यवाप्यैव भजेयुः पुरुषोत्तमम् ।एकान्तभक्ताः सततं परब्रह्मपरायणाः ॥१००॥तेषां हर्यंकनिष्ठानां योगक्षेमवहो हरिः ।जायमानं जनं नैजं कृत्वा यं वीक्षते हरिः ॥१०१॥सात्त्वतः स भवेदत्र धर्मैकान्तिकवान् स च ।परब्रह्मात्मके मोक्षे ततो याति परां गतिम् ॥१०२॥नारायणेन दृष्टो यः प्रतिबुद्धो भवेद्धि सः ।नात्मेच्छया तथा राजन् प्रतिबुद्धो भवेत् क्वचित् ॥१०३॥प्रवृत्तिलक्षणैर्युक्तं नैवेक्षति हरिः स्वयम् ।पश्यन्त्येनं महामाया ब्रह्मा देवाश्च मानवाः ॥१०४॥ततस्ते विकृताः सर्वे मायाबद्धा भवन्ति वै ।ते यदि सात्त्वतानां वै सेवां कुर्वन्ति भावतः ॥१०५॥तदा कालान्तरे प्राप्य नैर्गुण्यं यान्ति चाक्षरम् ।यद्वा सात्त्वतसंघाते कृपया सात्त्वतेक्षिताः ॥१०६॥भवेयुस्ते यदा चैकान्तिकसाधुकृपेक्षिताः ।तदा तेषां हृदयस्य परिवर्तनमाशु वै ॥१०७॥भविष्यति न सन्देहोऽथवा प्रसादभोजनैः ।हरेर्वा हरिभक्तानां जलान्नग्रासभोजनैः ॥१०८॥शुद्धा बुद्धिर्निर्गुणाभिमुखी शनैः प्रजायते ।निष्कल्मषा प्रसन्ना च ततः सात्त्वतमण्डले ॥१०९॥निवासेन शनैः सात्त्वतत्वमासाद्य मोक्षणम् ।गमिष्यन्ति न सन्देहः कृपासाध्या स्थितिर्हि सा ॥११०॥इत्युक्त्वा विररामैव महर्षिर्लोमशस्ततः ।राधिकेऽश्वपट्टलश्च पुपूज लोमशं मुनिम् ॥१११॥बहुसामग्रिकाभिश्च कृतकृत्यो बभूव ह ।अश्वपट्टसरसश्चोत्तरे तीर्थाभिवाञ्चछया ॥११२॥लोमशं प्रार्थयत्तेन लोमशेन समं ततः ।सरस्तीर्थानि च ययौ सर्वसार्थसमन्वितः ॥११३॥इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने लोमशगीतायां लोमशकृतमश्वपाटलायाऽनादिश्रीकृष्णनारायणसाक्षाद्भगवत्त्वबोधनं परब्रह्मपरायणधर्मबोधनं चेत्यादिनिरूपणनामैकषष्ठ्यधिकद्विशततमोऽध्यायः ॥२६१॥ N/A References : N/A Last Updated : May 02, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP