संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|त्रेतायुगसन्तानः|
अध्यायः १४९

त्रेतायुगसन्तानः - अध्यायः १४९

लक्ष्मीनारायणसंहिता


श्रीकृष्ण उवाच-
शृणु त्वं राधिके! पश्चाद् भगवान् पुरुषोत्तमः ।
देवायतनभक्ताय यज्जगाद वदामि ते ॥१॥
ओं नागमात्रे नम इति बलिकाष्ठानि पूजयेत् ।
चन्दनं कुसुमं धूपं दीपं नैवेद्यमर्पयेत् ॥२॥
ओं सर्वेभ्यो नम इति शाखोद्बन्धनमर्चयेत्!
चन्दनं कुसुमं धूपं दीपं नैवेद्यमर्पयेत् ॥३॥
निर्गत्य पश्चिमद्वारात् पूर्वद्वारस्य तोरणम् ।
पूजयेन्मण्डपात्पूर्वे हस्तमात्रे बहिःशुभम् ॥४॥
अश्वत्थं सुदृढाख्यं सिन्दूरवर्णं हि तोरणम् ।
महेन्द्रपर्वतयुतं शंखाकितं हि पूजयेत् ॥५॥
ओं अश्वत्थतोरणं चैनं यज्ञं रक्ष प्ररक्ष्य च ।
सर्वान् विघ्नान् वारयाऽत्र स्थितं स्थिरं नमामि ते ॥६॥
ओं अग्निमीले पुरोहितं यज्ञस्य देवमृत्विजम् ।
होतारं रत्नधातमं रक्ष मण्डपसार्थकम् ॥७॥
ओं ऋग्वेदाधिष्ठिताय सुदृढतोराणाय च ।
नमः सुदृढतोरण चावाहयामि ते नमः ॥८॥
गन्धं पुष्पं धूपदीपौ नैवेद्यं च फलं जलम् ।
ताम्बूलं दक्षिणां गृह्ण दृणतोरण ते नमः ॥९॥
ओमत्र तिष्ठते कृतयुगाय च नमो नमः ।
कृतं युगं तोरणे चावाहयामि च ते नमः ॥१०॥
गन्धं पुष्पं धूपदीपौ नैवेद्यं च फलं जलम् ।
ताम्बूलं दक्षिणां गृह्ण सत्ययुग च ते नमः ॥११॥
तत्रैव राहवे नम आवाहयामि राहुकम् ।
गन्धं पुष्पं धूपदीपौ नैवेद्यं च फलं जलम् ॥१२॥
ताम्बूलं दक्षिणां गृह्ण राहो देव च ते नमः ।
बृहस्पतये नम आवाहयामि बृहस्पतिम् ॥१३॥
गन्धं पुष्पं धूपदीपौ नैवेद्यं च फलं जलम् ।
ताम्बूलं दक्षिणां गृह्ण बृहस्पते च ते नमः ॥१४॥
तत्रैकं कलशं धृत्वा महीं स्पृष्ट्वा मनुं वदेत्॥
ओं मही द्यौः पृथिवी च नः इमं यज्ञं मिमिक्षताम् ॥१५॥
पिपृतान्नो भरीमभिः समृद्धान्नो रसादिभिः ।
तत्र चौषधयः क्षेप्या यवाः क्षेप्या मनुप्लुताः ॥१६॥
ओं ओषधयः समवदन्ते सोमेन सह राज्ञा ।
यस्मै कृणोति ब्राह्मणस्तं राजन् पारयामसि ॥१७॥
कलशं भूतले चाथ निधाय च मनु वदेत् ।
ओं आजिघ्र कलशं मह्या त्वा विशन्त्विन्दवः ॥१८॥
पुनरूर्जा निवर्तस्व शानः सहस्रं धुक्ष्व ।
उरुधारा पयस्वती पुनर्मा विशताद्रयिः ॥१९॥
जलेनाऽऽपूर्य कलशं तीर्थं स्मृत्वा मनु वदेत् ।
ओं वरुणस्योत्तम्भनमसि वरुणस्य स्कंभसर्जनीस्थः ॥२०॥
वरुणस्य ऋतसदन्यसि वरुणस्य ऋतसदनमसि ।
वरुणस्य ऋतसदनमासीद सर्वतीर्थमृतो भव ॥२१॥
अथ गन्धं प्रक्षिपेच्च कलशे तीर्थवारिषु ।
ओं गन्धद्वारां दुराधर्षां नित्यपुष्टां करिषिणीम् ॥२२॥
ईश्वरीं सर्वभूतानां तामिहोपह्वये श्रियम् ।
सर्वौषधीस्तत्र ततः क्षिपेत्तासां मनून् गृणन् ॥२३॥
ओं या ओषधीः पूर्वा याता देवेभ्यस्त्रियुगं पुरा ।
मनैनु बभ्रूणामहः शतं धामानि सप्त च ॥२४॥
अथ दूर्वाः क्षिपेत् तत्र दूर्वायाश्च मनुं गृणन् ।
ओं काण्डात्काण्डात्प्ररोहन्ती परुषः परुषस्परि ॥२५॥
एवा नो दूर्वे प्रतनु सहस्रेण शतेन च ।
अथ तत्र क्षिपेत् पञ्चपल्लवान् तन्मनुं गृणन् ॥२६॥
ओं अश्वत्थे वो निषदनं पर्णे वो वसतिः कृता ।
गोभाज इत् किलासथ यत्सनवथ पूरुषम् ॥२७॥
अथ सप्तमृत्तिकाश्चार्पयेत् तासां मनुं गृणन् ।
ओं स्योना पृथिवी नो भवानृक्षरा निवेशिनी ॥२८॥
यच्छा नः शर्म सप्रथाः पुष्टिदा भवथेह च ।
अथ पूगीफलं दद्यात् तस्यापि च मनुं गृणन् ॥२९॥
ओं याः फलिनीर्या अफला अपुष्पा याश्च पुष्पिणीः ।
बृहस्पतिप्रसूतास्ता नो मुञ्चन्त्वंहसः ॥३०॥
अथ पञ्चैव रत्नानि न्यसेत्तेषां मनुं गृणन् ।
ओं परि वाजपतिः कविरग्निर्हव्यान्यक्रमीत् ॥३१॥
दधद् रत्नानि दाशुषे सर्वरत्नानि चावह ।
अथ क्षिपेद्धिरण्यं च हिरण्यगर्भकं गृणन् ॥३२॥
ओं हिरण्यगर्भः समवर्तताग्रे भूतस्य जातः पतिरेक आसीत् ।
स दाधार पृथिवीं द्यामुतेमां कस्मै देवाय हविषा विधेम ॥३३॥
अथ वस्त्रं वेष्टयेच्च युवासुमन्त्रमुच्चरन् ।
तेजोवासांसि रम्याणि दत्स्व स्वर्णानि धारय ॥३४॥
ओं युवा सुवासाः परिवीत आगात्स
उ श्रेयान् भवति जायमानः ।
तं धीरासः कवयं उन्नयन्ति
स्वाध्यो मनसा देवयन्तः ॥३५॥
अथ धान्यादिना पूर्णं पात्रं निधाय तच्छिरः ।
ओं पूर्णा दर्वि परापत सुपूर्णा पुनरापत ॥३६॥
वस्नेव विक्रीणावहा इषमूर्ज्जं शतक्रतो ।
इतिमन्त्रेण संस्कृत्य कलशे ध्रुवमाह्वयेत् ॥३७॥
ओ ध्रुवं चावाहयामि स्थापयामि नमश्च ते ।
गन्धं पुष्पं धूपदीपौ नैवेद्यं चार्पयामि ते ॥३८॥
पूजयामि मखे चात्र ध्रुवो ध्रुवतरो भव ।
ततश्च दक्षिणे गत्वा औदुम्बरं च तोरणम् ॥३९॥
विकटाख्यं चक्रचिह्नं विन्ध्यनामाऽद्रिसंयुतम् ।
धूम्रवर्णं तोरणं चावाहयाम्यर्चयामि च ॥४०॥
एहि विकटतोरण त्वं यज्ञं रक्ष प्ररक्ष च ।
विघ्नान्निवारयेतस्तात् रसान् स्मृद्धिं प्रदापय ॥४१॥
ओं इषे त्वोर्जे त्वा वायव स्त्थ देवो वः ।
सविता प्रार्पयतु श्रेष्ठतमाय कर्मणः ।
आप्यायद्धमघ्न्या इन्द्राय भागं प्रजावतीरनमीवा अयक्ष्मा ॥४२॥
मावस्तेन ईशतमाऽघशंसो ध्रुवा अस्मिन् ।
गोपतौ स्यात बह्वीः यजमानस्य पशून् पाहि ।
गोमहिषीः गजाश्वान् गवयान् पाहि गोवृषांश्च ॥४३॥
ओं यजुर्वेदाधिष्ठिताय विकटतोरणाय ते ।
नमस्त्वामावाहयामि स्थापयामि च ते नमः ॥४४॥
गन्धं पुष्पं धूपदीपौ नैवेद्यं च फलं जलम् ।
ताम्बूलं दक्षिणां गृह्ण विकटतोरण ते नमः ॥४५॥
ओमत्र तिष्ठते त्रेतायुगाय च नमो नमः ।
त्रेतायुगं तोरणे चावाहयामि च ते नमः ॥४६॥
गन्धं पुष्पं धूपदीपो नैवेद्यं च फलं जलम् ।
ताम्बूलं दक्षिणां गृह्ण त्रेतायुगं च ते नमः ॥४७॥
तत्रैव सूर्याय नम आवाहयामि सूर्यकम् ।
अंगारकाय च नम आह्वयामि चांगारकम् ॥४८॥
गन्धं पुष्पं धूपदीपौ नैवेद्यं च फलं जलम् ।
ताम्बूलं दक्षिणां गृह्णतं युवाभ्यां नमो नमः ॥४९॥
तत्रैकः कलशः स्थाप्यः पूर्वोक्तविधिभिश्च सः ।
पूजनीयस्तत्र धरामाह्वयामि च ते नमः ॥५०॥
गन्धं पुष्पं धूपदीपौ नैवेद्यं च फल जलम् ।
ताम्बूलं दक्षिणां गृह्णं धरे सम्पद्धरा भव ॥५१॥
तत आचम्य च पश्चे गत्वा प्लाक्षं हि तोरणम् ।
सुभीमाख्यं स्वर्णरूपं गन्धमादनशोभितम् ॥५२॥
गदांकितं च विन्यस्य पूजयेत्तन्मनुं गृणन् ।
एह्येहि सुभीमतोरण यज्ञं रक्ष प्ररक्ष च ॥५३॥
सर्वविघ्नान्निवारय रसान् सर्वान् समाह्वय ।
ओं अग्न आयाहि वीतये गृणानो हव्यदातये ॥५४॥
निहोता सत्सि बर्हिषि सामसौख्यं विधेहि नः ।
ओं सामवेदाधिष्ठिताय सुभीमतोरणाय ते ॥५५॥
नमः आवाहयामि त्वां तस्मै ते च नमो नमः ।
तदत्र द्वापरयुगमाह्वयामि नमोऽस्तु च ॥५६॥
गन्धं पुष्पं धूपदीपौ नैवेद्यं च फलं जलम् ।
ताम्बूलं दक्षिणां गृह्ण द्वापराय च ते नमः ॥५७॥
तत्र शुक्राय च नमः शुक्रमावाहयामि च ।
तत्र बुधाय च नमो बुधमावाहयामि च ॥५८॥
गन्धं पुष्पं धूपदीपौ नैवेद्यं च फलं जलम् ।
ताम्बूलं दक्षिणां गृह्ण तं युवाभ्यां नमो नमः॥५९॥
तत्रैकः कलशः स्थाप्यः पूर्वोक्तविधिभिश्च सः ।
पूज्यस्तत्र वाक्पतिं चावाहयामि च ते नमः ॥६०॥
गन्धं पुष्पं धूपदीपौ नैवेद्यं च फलं जलम् ।
ताम्बूलं दक्षिणां गृह्ण वाक्पते वाक्प्रदो भव ॥६१॥
तत आचम्योत्तरे च गत्वा वटात्मतोरणम् ।
सुप्रभाख्यं श्वेतवर्णं हिमाद्रिशोभितं शुभम् ॥६२॥
पद्मांकितं च विन्यस्य पूजयेत् तन्मनुं .गृणन् ।
एह्येहि सुप्रभतोरण यज्ञं रक्ष प्ररक्ष च ॥६३॥
सर्वविघ्नान् निवारय प्रभाः सर्वाः समानय ।
ओं शन्नो देवीरभिष्टय आपो भवन्तु प्रीतये ॥६४॥
शंय्योरभि स्रवन्तु नः तेजांसि वर्धयन्तु नः ।
ओ अथर्ववेदाऽधिष्ठिताय सुप्रभातोरणाय ते ॥६५॥
नम आवाहयामि त्वां तस्मै ते च नमो नमः ।
तदत्र च कलियुगमाह्वयामि नमोऽस्तु च ॥६६॥
गन्धं पुष्पं धूपदीपौ नैवेद्यं च फलं जलम् ।
ताम्बूलं दक्षिणां गृह्णन् कलियुगाय ते नमः ॥६७॥
तत्र सोमाय च नमः सोममावाहयामि च
केतवे तत्र च नमः केतुमावाहयामि च॥६८॥
शनैश्चराय नमः शनिमावाहयामि च
गन्धं पुष्पं धूपदीपौ नैवेद्यं च फलं जलम्॥६९॥
ताम्बूलं दक्षिणां गृह्णतैतेभ्यश्च नमो नमः
तत्रैकः कलशः स्थाप्यः पूर्वोक्तविधिभिश्च सः॥७०॥
पूज्यस्तत्र च विघ्नेशमाह्वयामि च ते नमः
गन्धं पुष्पं धूपदीपौ नैवेद्यं च फलं जलम् ॥७१॥
ताम्बूलं दक्षिणां गृह्न विघ्नेश सिद्धिदो भव॥
ततः पूर्वे च गत्वैव महीद्यौरिति संगृणन् ॥७२॥
स्थापयेच्च प्रतिद्वारशाखं तु कलशद्वयम्
आवर्तनीया मन्त्रास्ते तत्तद्दिक्कलशप्रथाः ॥७३॥
पूर्वद्वारे कलशोभयके चैरावताभिधम् ।
दिग्गजं चावाहयामि ऐरावताय ते नमः ॥७४॥
गन्धाद्यं ताम्बूलकान्तं चार्पयामि च पूजनम् ।
कलशोपरि सन्देयो घृतदीपः सुशोभनः ॥७५॥
तत्र ऋग्विधिना प्राथ्यो ऋत्विजौ ब्रह्मदैवतौ ।
ऋग्वेदः पद्मपत्राक्षो गायत्रः सोमदैवतः ॥७६॥
अत्रिगोत्रस्तु विप्रेन्द्र ऋत्विक् त्वं मे भव ।
ओं अग्निमीळे पुरोहितं यज्ञस्य देवमृत्विजम् ॥७७॥
होतारं रत्नधातमं गन्धाद्यैः पूजयामि च ।
श्रीसूक्तं पावमानं च सोमसूक्तं सुमंगलम् ॥७८॥
पौरुषं रुद्रसूक्तं च वामदेव्यं च वै वदेत् ।
सहस्राक्षं गजस्थं सपीतकिरीटकुण्डलम् ॥७९॥
दक्षवामकरवज्रोत्पलं ध्यायेन्महेन्द्रकम् ।
आगच्छामरसंस्तुत्य रक्ष यज्ञ च ते नमः ॥८०॥
ओ भूर्भुवः स्वः इन्द्र इहागच्छ च तिष्ठ च ।
सांगं सपरिवारं सायुधं तथा सशक्तिकम् ॥८१॥
इन्द्रं च द्वारकलशे ह्वयामि पूजयामि च ।
समुच्छ्रेयेत्पीतवर्णौ पताकां ध्वजकौ तथा ॥८२॥
ओं त्रातारमिन्द्रमवितारमिन्द्रं हवे हवे सुहवं शूरमिन्द्रम् ।
ह्वयामि शक्रं पुरुहूतमिन्द्रं स्वस्ति नो मघवा धात्विन्द्रः ॥८३॥
शाखायां दक्षिणे धात्रे विधात्रे चोत्तरे नमः ।
द्वारश्रियै नमश्चोर्ध्वं गणाधिपतये नमः ॥८४॥
तदूर्ध्वे च नमो वास्तुपुरुषाय सुतेजसे ।
नमश्चाधो नु देहल्यै क्षमाशक्त्यै नमो नमः ॥८५॥
वामे स्तंभे गणेशाय दक्षे स्कन्दाय वै नमः ।
कलशयोश्च गंगायै यमुनायै नमो नमः ॥८६॥
इन्द्रादिभ्यः सुरभ्यश्च गन्धं पुष्पं जल फलम् ।
धूपं दीपं च नैवेद्यं दक्षिणामर्पयामि च ॥८७॥
सांगायेन्द्राय सपरिवाराय सायुधाय च ।
सशक्तिकाय च माषबलिं ददामि ते नमः ॥८८॥
इति दत्वा बलिं चाचामेच्चाग्नेयीं दिशं ततः ।
गत्वा च पूर्ववत् न्यस्य कलशं सर्व दैवतम् ॥८९॥
तत्र च पुण्डरीकाय नम आवाहयामि तम् ।
अमृताय नम अमृतं चाह्वयामि वै ततः ॥९०॥
गन्धाद्यैः परिसम्पूज्य प्रदातव्यश्च दीपकः ।
ततश्चाग्निं छागपृष्ठस्थितं रक्तं तजिह्वकम् ॥९१॥
दक्षे शक्तिं करे वामे कमण्डलुं शिरःशिखाम् ।
यज्ञसूत्रदधानं च ध्यायेदावाहयेन्मखी ॥९२॥
ओं एह्येहि सर्वामरहव्यवाह मुनिप्रवर्यैरभितोऽभिजुष्ट ।
तेजोवता लोकगणेन सार्धं ममाध्वरं पाहि कवे नमस्ते ॥९३॥
ओं भूर्भुवः स्वः अग्ने इहागच्छ च तिष्ठ च ।
कलशेऽत्र समागच्छ तिष्ठ चावाहयामि वै ॥९४॥
ओं त्वन्नो अग्ने तव देवपायुभिर्मघोनो रक्ष तन्वश्च वंद्य ।
त्राता तोकस्य तनये गवामस्य निमेषं रक्षमाणस्तव व्रते ॥९५॥
एवमभ्यर्च्य च गन्धादिभिर्नैवेद्यकान्तकैः ।
ओं अग्निं दूतं पुरोदधे हव्यवाहमुपब्रुवे ॥९६॥
देवान् आसादयादिहेत्युक्त्वा रक्तां ध्वजां तथा ।
रक्तां पताकां समुच्छ्रयेत् प्रशंप्रार्थयेत् ततः ॥९७॥
आग्नेयः पुरुषो रक्तः सर्वदेवमयोऽव्ययः ।
धूम्रकेतुरजोऽध्यक्षस्तस्मात् क्षमां समर्थये ॥९८॥
सांगाय अग्नये परिवाराऽऽयुधयुताय च ।
माषभक्तबलिं चार्पयामि सशक्तिकाय च ॥९९॥
इति दत्वा बलिं चाचामेच्च यायाच्च दक्षिणाम् ।
तत्र प्रतिद्वारशाखं संस्थाप्य कलशद्वयम् ॥१००॥
तत्रैव वामनाख्यं दिग्गजं चावाहयेत्ततः ।
पूजयेत् सुप्रदीपं च ददेत् संप्रणमेत्तथा ॥१०१॥
यजुर्वेदिद्वारपालौ वृणुयाद् वै मनुं गृणन् ।
कातराक्षो यजुर्वेदस्त्रैष्टुभो विष्णुदैवतः ॥१०२॥
काश्यपेयस्तु विप्रेन्द्र ऋत्विक् त्वं मे मखे भव ।
इति वृत्वा तु प्रत्येकं गन्धादिभिः प्रपूजयेत् ॥१०३॥
आ नो भद्रानुवाकश्च आशुः शिशानकस्तथा ।
यद्देवा त्रीणि च पठेत् ततोऽष्टौ च पुनन्तु माम् ॥१०४॥
महिषस्थं यमं दक्षवामयोः दण्डपाशिनम् ।
कृष्णं वह्निसमनेत्रं ध्यात्वा नमो मनुं वदेत् ॥१०५॥
एह्येहि वैवस्वत धर्मराज सर्वामरैरर्चितधर्ममूर्ते ।
शुभाशुभानन्दशुचामधीश शिवाय नः पाहि मखं नमस्ते ॥१०६॥
ओं भूर्भुवः स्वः यम इहागच्छ च तिष्ठ च ।
यम सांगं सकुटुम्बं चावाह्य कलशे ततः ॥१०७॥
ओं यमाय त्वां गिरस्वते पितृमते च स्वाहा ।
स्वाहा घर्माय स्वाहा घर्मः पित्रे यमाय नमः ॥१०८॥
गन्धादिभिस्तं संपूज्यश्च कृष्णपताकिकाध्वजौ ।
उच्छ्रयेच्च मखी गृणन् मन्त्रं यमाय वै नमः ॥१०९॥
ओम् आयङ्गौः प्रश्नीरक्रमीदसदन्मातरम्पुरः ।
पितरं च प्रयन्त्स्वः ततः संप्रार्थयेन्मखी ॥११०॥
वैवस्वत महादेव नमस्ते धर्मसाक्षिक ।
शिवाज्ञापिहितो देव दिशं रक्ष भवानिह ॥१११॥
बलाय सबलाय च नमो वै द्वारशाखयोः ।
श्रियै चोर्ध्वं नमो गणपतये च नमो नमः ॥११२॥
नमोऽधस्ताञ्च देहल्यै वास्तुपुंसे नमो नमः ।
स्तंभयोः पुष्पदन्ताय कपर्दिने नमो नमः ॥११३॥
गोदावर्यै च कृष्णायैः नमोऽस्तु कलशद्वये ।
यमाय सकुटुम्बाय माषभक्तबलिं ददे ।!११४॥
आचम्य च ततो गच्छेनैर्ऋत्यां कलशं ददेत् ।
कुमुदं दुर्जयं चावाहयामि वो नमो नमः ॥११५॥
दीपं दत्वा नरस्थं नैर्ऋतिं नीलं सखड्गकम् ।
रक्षोयुतं पीतभूषं ध्यात्वा चावाहयेच्च तम् ॥११६॥
रक्षःपिशाचवेतालैर्युतश्चैहि क्रतुं ह्यव ।
ओं भूर्भुवः स्वः निर्ऋते इहागच्छ च तिष्ठ च ॥११७॥
ओं असुन्वंतमयजमानमिच्छस्तेनस्येत्यामन्विहिस्तस्करस्य ।
अन्न्यमस्म्मदिच्छसातइत्यानमो देविनिर्ऋते तुभ्यमस्तु ॥११८॥
इति नत्वा च संपूज्य घटे नैर्ऋतमेव च ।
ओं मोषुणः परापरानिर्ऋतिर्दुर्हणावधीत् ॥११९॥
पदीष्ठतृष्णया सह नीलपताकाध्वजावुच्छ्रयेत् ।
शवस्थस्त्वं यज्ञरक्षां कुरु रक्षोभ्य एव च ॥१२०॥
निर्ऋतये सांगपरिवाराय प्रददामि च ।
माषभक्तबलिं नत्वा गत्वा च पश्चिमे ततः ॥१२१॥
स्थापयेच्च प्रतिशाखं पूर्ववत् कलशद्वयम् ।
तत्रांजनाभिधं चावाहयामि दिग्गजं ततः ॥१२२॥
पूजयामि ततः सामवेदिनौ द्वारपालकौ ।
सामवेदस्तु पिंगाक्षो जाग्रतः शक्रदैवतः ॥१२३॥
भारद्वाजस्तु विप्रेन्द्र ऋत्विक् त्वं मे मखे भव ।
वृत्वेति ओमग्ने आयाहि वीतये गृणानो हव्यदातये ॥१२४॥
निहोता सत्सि बर्हिषि इति गन्धादिभिस्तदा ।
सम्पूज्येन्द्राय च साम गायतो द्वौ सुगीतिकम् ॥१२५॥
अहमस्मि प्रथमजा सेतूं स्तरा स्वदिष्ट्या ।
गायन्ति त्वा गायत्रिणः द्वारपालजपो भवेत् ॥१२६॥
मकरस्थं पाशहस्तं ध्यात्वा च वरुणं सितम् ।
एहि यादोऽप्सरोमेघविद्याध्रैः पाहि ते नमः ॥१२७॥
ओं भूर्भुवः स्वः वरुण इहागच्छ च तिष्ठ च ।
कलशयोः सांगमावाहयामि त्वां नमामि च ॥१२८॥
तत्त्वा यामि ब्रह्मणा वन्दमानस्तदाशास्ते यजमानो हविर्भिः।
अहेडमानो वरुणेह बोद्ध्युरुशंसः मा न आयुः प्रमोषीः ॥१२९॥
वरुणाय नमः संपूजयामि गन्धवस्तुभिः ।
इमम्मे वरुण श्रुधी हवमद्या च मृडय ॥१३०॥
त्वामवस्युराचके श्वेतपताकाध्वजावुच्छ्रयेत् ।
नत्वा च वरुणं जयं विजयं द्वारशाखयोः ॥१३१॥
ऊर्ध्वं श्रियं गणपतिम् अधश्च देहलीं तथा ।
वास्तुपुंसं स्तंभयोर्नन्दिनं चन्द्रं नमामि च ॥१३२॥
रेवायै नर्मदायै च कलशयोर्नमामि च ।
पूजयामि वरुणं सकुटुम्बं माषयुग्बलिम् ॥१३३॥
अर्पयामि ततो गत्वा वायव्यां कलशं ददे ।
पुष्पदन्तं च सिद्धार्थं चाह्वयामि नमामि च ॥१३४॥
पूजयामि प्रदीपं च ददामि चिन्तयेऽनिलम् ।
मृगस्थं धूम्रवर्णं च चित्राम्बरं च चञ्चलम् ॥१३५॥
वरध्वजधरं दक्षवामयोः करयोस्ततः ।
एहि यज्ञे रक्षणाय पूजां गृह्ण च ते नमः ॥१३६॥
ओं भूर्भुवः स्वः वायो इहागच्छ च तिष्ठ च ।
प्रणमामि वह्निसखं पूजयामि मनुं गृणन् ॥१३७॥
ओं आनो नियुद्भिः शतिनीभिरध्वरं
सहस्रिणीभिरुपयाहि यज्ञम् ।
वायो अस्मिन् सवने मादयस्व
यूयं पात स्वस्तिभिः सदा नः ॥१३८॥
ओं वायो ये ते सहस्रिणो रथासस्तेभिरागहि ।
नियुत्वान्सोमपीतये धूम्रपताकाध्वजावुच्छ्रयेत् ॥१३९॥
वायुं नमामि सांगाय ददामि माषयुग्बलिम् ।
गत्वोत्तरे प्रतिशाखं निधाय कलशद्वयम् ॥१४०॥
तत्र सार्वभौमदिग्गजमाह्वयामि ते नमः ।
दीपं ददामि चाथर्ववेदिनौ द्वारपालकौ ॥१४१॥
बृहन्नेत्रोऽथर्ववेदो ह्यनुष्टुप् रुद्रदैवतः ।
वंशपायन विप्रेन्द्र ऋत्विक् त्वं मे मखे भव ॥१४२॥
वृत्वेति शन्नो देवीरभिष्टय आपो भवन्तु प्रीतये ।
शंय्योरभिस्रवन्तु नः गन्धाद्यैरर्चयामि च ॥१४३॥
अथर्वागिरसं चैव अथर्वशिरसं तथा ।
शान्त्याध्यायमित्यादिद्वारपालजयो भवेत्। ॥१४४॥
नरयानस्थमाभूषं वस्त्रगदाकरद्वयम् ।
हरिताभं कुबेरं च ध्यायामि पूजयामि च ॥१४५॥
एहि विधत्स्व रक्षां नो नक्षत्रौषधिपितृभिः ।
ओं भूर्भुवः स्वः कुबेर इहागच्छ च तिष्ठ च ॥१४६॥
ओं वयर्ठ सोमव्रते तव मनस्तनूषु बिभ्रतः ।
प्रजावन्तः सचेमहि नमामि पूजयामि च ॥१४७।
ओं आप्यायस्व समेतु ते विश्वतः सोम वृष्ण्यम् ।
भवा वाजस्य संगथे हरितौ पताकाध्वजावुच्छ्रयेत् ॥१४८॥
कुबेराय तु सोमाय नमामि द्वारशाखयोः ।
प्रचण्डाय च चण्डाय नमो द्वारश्रियै नमः ॥१४९॥
गणेशाय नमश्चाधो देहल्यै च नमो नमः ' ।
वास्तुपुंसे स्तम्भयोस्तु महाकालाय भृंगिणे ॥१५०॥
नमः कलशयोर्वारुण्यै वेण्यै च नमो नमः ।
नमः श्रीकलशायाऽस्तु तत्स्थसुरेभ्य ओं नमः ॥१५१॥
कुबेरसोमरूपाय सांगाय माषयुग्बलिम् ।
ददामि यामि चैशान्यां कलशं स्थापयामि च ॥१५२॥
सुप्रतीकाय च तत्र मंगलाय नमोऽर्चये ।
ददामि दीपकं वृषारूढं वस्त्रिशूलकम् ॥१५३॥
दक्षवामकरयोश्च दधतं त्र्यक्षमुज्ज्वलम् ।
ध्यायामीशानदेवं चावाहयामि नमामि च ॥१५४॥
एहि यज्ञस्य सिद्ध्यर्थं पूजां गृह्ण नमोऽस्तु ते ।
ओं भूर्भुवः स्वः ईशान इहागच्छ च तिष्ठ च ॥१५५॥
ओं तमीशानं जगतस्तस्थुषस्पतिं
धियं जिन्वमवसे हूमहे वयम् ।
पूषा नो यथा वेदसामसद्वृद्धे-
रक्षिता पायुरदब्धः स्वस्तये ॥१५६॥
इति संपूज्य च नत्वा शूलपाणिं त्रिनेत्रकम्॥
तमीशानेति मन्त्रेण पञ्चवर्णपताकाध्वजावुच्छ्रयेत् ॥१५७॥
सांगायेशानकायेमं माषयुग्बलिमर्पये ।
ईशानपूर्वयोर्मध्ये ऊर्ध्वमुद्दिश्य वै घटम् ॥१५८॥
निधाय तत्र ब्रह्माणं पूजयेद् गन्धवस्तुभिः ।
अक्षसूत्रकुशमुष्टिधरदक्षिणहस्तकम् ॥१५९॥
स्रुवकमण्डलुधरवामकरं चतुर्मुखम् ।
श्मश्रुलं जटिलं चाजं ध्यायामि पूजयामि च ॥१६०॥
एहि सर्वपितर्यज्ञे शिवं विधेहि नो मखे ।
ओं भूर्भुवः स्वः ब्रह्मन्निहागच्छ च तिष्ठ च ॥१६१॥
ओं ब्रह्मयज्ञानं प्रथमं पुरस्ताद्
विसीमतः सुरुचो वेन आवः ।
सवुध्न्या उपमा अस्य विष्ठाः
सन्तश्च योनिरसतश्च विवः ॥१६२॥
पूजयामि च गन्धाद्यैः रक्तपताकाध्वजावुच्छ्रयेत् ।
नत्वा तं ब्रह्मणे माषभक्तबलिं ददामि च ॥१६३॥
ततो निर्ऋतिवरुणान्तराले न्यस्य वै घटम् ।
तत्राऽधोऽनन्तशयनासीनं फणाभिमण्डितम् ॥१६४॥
पद्मशंखधरोर्ध्वाधोदक्षिणहस्तकद्वयम् ।
नीलं चानन्तकं ध्यात्वा एहीत्यावाहयेत् ततः ॥१६५॥
रक्ष नागाभिपूज्यांऽघ्रेऽध्वरं नस्तलधृक् प्रभो ।
ओं भूर्भुवः स्वः अनन्त इहागच्छ च तिष्ठ च ॥१६६॥
आवाहयामि सांगं सपरिवारं सशक्तिकम् ।
ओं आयं गौः प्रश्निरक्रमीदसदन्मातरं पुरः ॥१६७॥
पितरं च प्रियंस्स्वः अनन्ताय नमो नमः ।
आयंगौरिति धूम्रौ पताकाध्वजौ समुच्छ्रयेत् ॥१६८॥
अनन्ताय च सांगाय माषयुग्बलिमर्पयेत् ।
ततो मण्डपमध्ये चामरकिंकिणिकायुतः ॥१६९॥
षोडशहस्तको दण्डो दशहस्तमितोऽपि वा ।
त्रिहस्तलम्बहस्तायपञ्चवर्णध्वजान्वितः ॥१७०॥
ओमिन्द्रस्य वृष्णो इति मन्त्रेणोर्ध्वं धृतो भवेत् ।
ब्रह्मयज्ञानमिति च ब्रह्माणं पूजयेत् ततः ॥१७१॥
नमेत् षोडशस्तम्भस्थदेवान् ध्यात्वा पुनः पुनः ।
वंशेषु किन्नरेभ्यः पन्नगेभ्यः पृष्ठके नमः ॥१७२॥
पूजयित्वा च तान् पूर्वदिशि भूमिं विलिप्य च ।
मण्डपाद् बहिरेतस्यामुपविश्य वदेन्मखी ॥१७३॥
चतुर्दशस्तरवासा जाडाश्चेतनवर्गकाः ।
ब्रह्मविष्णुहरव्याप्ता रक्षन्तु च मखं हि नः ॥१७४॥
सिद्धाः ऋषयः पितरो देवा आसुरराक्षसाः ।
दानवा यक्षगन्धर्वा भूताः पिशाचकादयः ॥१७५॥
मानवाः पशवः पक्षिणश्च पादपजातयः ।
सूक्ष्मदेहाः सर्पगणा मखं रक्षन्तु नस्तथा ॥१७६॥
सर्वे देवा ईश्वराश्च ईश्वराण्यश्च भूमिपाः ।
क्षेत्रपा लोकपाः सर्वे मखं रक्षन्तु मण्डपम् ॥१७७॥
घ्नन्तु विघ्नान् दुरिताँश्च विरोधिनश्च वै मखे ।
स्थावराणि चराण्यावाहयामि पूजयामि च ॥१७८॥
नमामि संस्मराम्येव ब्रह्मणे विष्णवे नमः ।
देवेभ्यो दानवेभ्यश्च गन्धर्वेभ्यो नमो नमः ॥१७९॥
सिद्धर्षिभ्यश्च पितृभ्य आसुरेभ्यो नमो नमः ।
राक्षसेभ्यश्च यक्षेभ्यो भूतेभ्यश्च नमो नमः ॥१८०॥
पिशाचेभ्यो मानवेभ्यः पशुपक्षिभ्य इत्यपि ।
शाखिभ्यः सूक्ष्मदेहेभ्यः सर्पेभ्यश्च नमो नमः ॥१८१॥
ईशेभ्यश्चेश्वराणीभ्यो भूमिपेभ्यो नमो नमः ।
क्षेत्रपेभ्यो लोकपेभ्यो नमः स्थिरचरादये ॥१८२॥
मातृभ्यो ब्रह्मसतीभ्यो नमश्चावाहयामि तान् ।
पूजयामि स्मराम्येतान् ददामि योग्यभाजनम् ॥१८३॥
माषबलिं पायसादीन् फलाऽमृतादिकं तथा ।
इति पूजां विधायैव सर्वेभ्यो वै नमो नमः ॥१८४॥
यजमानस्तथाऽऽचार्यः ऋत्विक् धौतांघ्रिहस्तकाः ।
आचान्ताः पूर्वद्वारेण प्रविशेयुर्हि मण्डपम् ॥१८५॥

इतिश्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने तोरणकलशद्वारशाखादेहलीतद्देवादीनां षोडशोपचारपूजनादिनिरूपणनामा नवचत्वारिंशदधिकशततमोऽध्यायः ॥१४९॥

N/A

References : N/A
Last Updated : May 01, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP