संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|त्रेतायुगसन्तानः|

त्रेतायुगसन्तानः - अध्यायः १३०

लक्ष्मीनारायणसंहिता


श्रीकृष्ण उवाच-
शृणु त्वं राधिके! व्योम्नि शक्त्यक्षिनृपतेः क्षितेः ।
विशालं भूतलं यज्ञकृते वीक्ष्य सुसंस्कृतम् ॥१॥
अनादिश्रीकृष्णनारायणस्वामी पुमुत्तमः ।
आलनौकानदीपार्श्वे पश्चिमेऽनावरावधिम् ॥२॥
उत्तरेऽब्धितटं यावत् पञ्चाशत् क्रोशभूतले ।
विलोक्य मण्डपं रम्यं विमानं समतारयत् ॥३॥
प्रकाशः कोटिसूर्याणां तदा व्योम्न्यभवत् सितः ।
जयशब्दाः कीर्तनानि हर्षनादास्तदाऽभवन् ॥४॥
वेत्रबन्दीस्तवनानि जयकारैः सहाऽभवन् ।
वादित्राणि विविधान्यावाद्यन्त परितस्तदा ॥५॥
समुत्साहभराः सर्वे दुद्रुवुस्तद्विमानकम् ।
बालकृष्णं प्रभुं द्रष्टुं वर्धयितुं सुमादिभिः ॥६॥
सत्कर्तुं पुष्पहाराद्यैः राजा च जनता ययुः ।
नरा नार्योऽतिसम्मर्देऽवतरन्तं विमानतः ॥७॥
बालकृष्णं प्रसन्नास्यं वर्धयामासुरुत्सुकाः ।
लाजाभिश्चाऽक्षतैः पुष्पैः स्वागतं विदधुर्मुदा ॥८॥
अथ श्रीभगवान् कृष्णनारायणपुमुत्तमः ।
ययौ स्नातुं संगमे च समुद्रे च ततः परम् ॥९॥
शीघ्रमागत्य च यज्ञे मध्ये प्रतीक्षतां सताम् ।
स्वर्णासने नृपेणाऽभ्यर्पिते व्यराजत प्रभुः ॥१०॥
ऋषयो लोमशाद्याश्च ब्रह्मेन्द्राद्याः सुरेश्वराः ।
पत्नीव्रताद्या विप्राश्चा मुक्ता नारायणास्तथा ॥११॥
गणेशाद्या यज्ञदेवा देव्यश्च मातरस्तथा ।
सर्वसृष्टिसुराद्याश्च व्यराजन्त सुमण्डपे ॥१२॥
स्वस्तिवाचो देहशुद्धिः प्रकोष्ठबन्धनादिकम् ।
अंगदेवप्रतिष्ठानं मुख्यदेवाधिवासनम् ॥१३॥
वह्न्याधानं हवनादि यथापूर्वक्रतौ तथा ।
वेदघोषा गीतयश्च व्यजायन्त विधिक्रमात्। ॥१४॥
अनादिश्रीकृष्णनारायणश्रीपुरुषोत्तमः ।
हव्यं राज्ञाऽर्पितं द्रव्यैश्चाग्न्याननो भुनक्ति सः ॥१५॥
सप्ताहः स ऋतुर्जातो वैष्णवो यत्र देहिनः ।
सृष्टित्रयनिवासा वै तृप्ताः प्रत्यक्षभोजिनः ॥१६॥
मुक्ता ईशा अवतारा ईश्वराण्यः सुरादयः ।
सुराण्यो देवदेव्यश्च दिक्पाललोकपालिनः ॥१७॥
यज्ञदेवा लोकदेवाः क्षेत्रादिदेवतास्तथा ।
मानवा वायुलोकस्था जलस्थास्तलगा अपि ॥१८॥
पादपा वायुपाश्चापि शैत्यपाः प्राणिनस्तथा ।
तीर्थानि सन्तः ऋषयः पितरो दैत्यदानवाः ॥१९॥
रक्षांसि तामसाश्चापि जीवाः स्थावरजंगमाः ।
तृप्ता जाता हव्यमिष्टैस्तथा मिष्टान्नभोजनैः ॥२०॥
न्यूनं तत्र च नैवाऽस्ति कल्पद्रुमणिवल्लिभिः ।
समुत्थभक्ष्यभोज्यादि कामधेनुपयांसि च ॥२१॥
दक्षिणाः समवर्तन्त भूयस्यः स्वर्णरत्नजाः ।
अन्नवस्त्रविभूषाणां दानानि नाऽन्तवन्ति वै ॥२२॥
दत्तानि तत्र शक्त्यक्षिनृपेण हरिसन्निधौ ।
परिहारश्च सप्ताहे द्वितीयायां कृतस्ततः ॥२३॥
अवभृथं च मध्यान्ते कृतं चाऽब्धौ समागमे ।
आलनौकाजलमिश्रेऽनावराब्धिजलेऽपि च ॥२४॥
अनावरायां नद्यां च आलनौकासरित्यपि ।
तदा दानानि हस्तीनामश्वानामुष्ट्रगोगवाम् ॥२५॥
यानानां वाहनानां च क्षेत्रवाटिभुवां तथा ।
राज्ञा दत्तानि विप्रेभ्यो गृहाणामृद्धिसंयुजाम् ॥२६॥
कन्यादानानि दीनेभ्यो भोज्यदानानि वै तदा ।
स्वर्णरूप्यकभूषाणां दत्तानि दानकानि च ॥२७॥
देवायतनको भक्तो महिमानं जगाद च ।
अवभृथस्य सर्वेभ्यः शृणु त्वं राधिके! शुभम् ॥२८॥
अवतीर्य क्रतुं सर्वं निर्विघ्नं येन पूर्णता ।
कर्मणा चान्तिमेनाऽस्ति संभृतिः सा भृथात्मिका ॥२९॥
यज्ञे न्यूनं क्रमत्यागो जन्तूनां पीडनादिकम् ।
दुरीतं यत्र वै स्नाने सर्वं नश्यति तद् भृथम् ॥३०॥
अशुद्धिजं च वाग्जातं देहजं मानसं च वा ।
पापं तु यत्र वै स्नाने सर्वं नश्यति तद्भृथम् ॥३१॥
मन्त्राणां वै समुच्चारे हव्यदानेऽपि वै क्रतौ ।
लोभादिजं च यत्पापं सर्वं नश्यति तद् भयम् ॥३२॥
आशावतां जलान्नाद्यैर्दक्षिणाभिरतोषणम् ।
मनाग् वा चाऽणुमात्रं वा पापं नश्यति तद् भृथम् ॥३३॥
समित्प्रज्वालने जन्तुर्वह्नावाकस्मिकः पतेत् ।
सूक्ष्मोऽपि काष्ठसंवासः पापं नश्यति तद् भृथम् ॥३४॥
पात्राणां चापि हव्यानां संस्कृतौ यदि शुद्धता ।
पूर्णा न स्याच्च तत्पापं नश्यत्येव च तद् भृथम् ॥३५॥
देवानां यद्भवेदिष्टतमं तन्मिलितं न चेत् ।
हवने सा क्षतिः पापं नश्यत्येव च तद् भृथम् ॥३६॥
बीजानामङ्कुरार्हाणां वह्नौ या दग्धता तु सा ।
बीजघातात्मकं पापं नश्यत्येवेति तद् भृथम् ॥३७॥
गृध्रादिपक्षिणां चञ्च्वाः पतितं व्योमतोऽपि च ।
अशुद्धं वाऽन्यदेवाऽपि पापं नश्यति तद् भृथम् ॥३८॥
असंख्यानां तु देवानामावाहने क्वचित् क्रतौ ।
अनुपस्थितनिःश्वासः पापं नश्यति तद् भृथम् ॥३९॥
मन्त्रोच्चारणकालेऽपि स्वरैः साकं मुखान्ननु ।
थूककणा उत्पतन्ति पापं नश्यति तद् भृथम् ॥४०॥
कामक्रोधादियुक्तानां विप्राणां वरणे क्रतौ ।
संसर्गजं वा पापं तन्नश्यत्येव च तद् भृथम् ॥४१॥
यजमानस्य चिन्तायां दुःस्वप्नं वा समापतेत् ।
रोगो वा सूतकं पापं नश्यत्येव च तद् भृथम् ॥४२॥
अभीष्टव्ययतश्चोग्रे व्ययेऽकस्मादुपस्थिते ।
संकोचव्ययजं पापं नश्यत्येव च तद् भृथम् ॥४३॥
यज्ञे विघ्नस्य कर्तॄणां विनाशनं भवेत् क्वचित् ।
हिंसनं तत्तदा पापं नश्यत्येव च तद् भृथम् ॥४४॥
प्रायश्चित्तादिगौणत्वं ब्रह्मचर्यादिगौणता ।
कर्मकाण्डादिगौणत्वं पापं नश्यति तद् भृथम् ॥४५॥
यज्ञे नित्यं प्रतियज्ञं तदंगादिषु वै पृथक् ।
पुण्यमुत्पद्यते यत्तत् मिलित्वा पुण्यपर्वतः ॥४६॥
जायते यजमाने वै चेत् क्षतिर्नाशनं भृथम् ।
क्वचित् कालप्रभावेण नानुकूल्यं क्रतौ तु यत् ॥४७॥
तज्जं पापं क्रतौ जाते नश्यत्येव तु तद् भृथम् ।
देवानामवमानादि ह्यजानता भवेद् यदि ॥४८॥
पूज्यानामवमानादि जानताऽपि भवेद् यदि ।
अपूज्यपूज्यतापापं नश्यत्येव तु तद् भृथम् ॥४९॥
वरुणः सर्वदा साक्षी जलाधिदेवरूपकः ।
स्वर्गे सम्पत्प्रदः स्यात् स नारायणात्मको भृथम् ॥५०॥
यजमाने सर्वदेवा यजमान्यां च देविकाः ।
स्नानकाले वसन्त्येव तीर्थं सर्वात्मकं भृथम् ॥५१॥
आचार्ये श्रीहरिस्त्वास्ते याज्ञिकेष्ववतारकाः ।
ऋत्विक्षु चेश्वराः सन्ति तीर्थं सर्वात्मकं भृथम् ॥५२॥
जापकेषु च तीर्थानि तत्त्वानि कर्मचारिषु ।
साहाय्येषु च ऋषयस्तीर्थं सर्वात्मकं भृथम् ॥५३॥
यवांकुराः प्रदातव्या वरुणाय महात्मने ।
घृताद्यंगपंचकं च दातव्यं सलिले तदा ॥५४॥
पञ्चामृतानि दत्तानि लभ्यन्ते दिवि वै पुनः ।
षोडशोपसुवस्त्वाद्यैः पूजनीयो जलेश्वरः ॥५५॥
तत्र नारायणश्चास्तेऽक्षरेशः पुरुषोत्तमः ।
जले स्नानं हरौ स्नानं चावभृथं प्रपुण्यदम् ॥५६॥
यत्र यज्ञश्चान्नसत्रं पारायणं कथामृतम् ।
अवभृथं चाप्लवनं तत्तीर्थं शाश्वतं मतम् ॥५७॥
नदा नद्यस्तटाकानि सरांसि दीर्घिकास्तथा ।
अखातानि च खातानि तीर्थान्यवभृथेन वै ॥५८॥
अवभथक्षणे वारि ग्राह्यं पात्रेषु पावनम् ।
अन्तकालेर्पितं मर्त्यमुखे मोक्षप्रदं हि तत्। ॥५९॥
पापिनां पापनाशार्थं यज्ञदेवादयः सदा ।
अवभृथस्थले स्नात्वा तततिष्ठन्ति तत्र वै ॥६०॥
मृतस्यापि तु जान्तोर्वै यस्य कस्यापि देहिनः ।
अस्थिपत्रांगभागोऽल्पः पतितश्चेदवभृथे ॥६१॥
स याति परलोकस्थः प्रेतो वा याम्यलोकगः ।
असद्गतिं ततो वापि श्रीहरेर्धाम शाश्वतम् ॥६२॥
असत्कर्माणि नश्यन्ति जायन्ते पुण्यपर्वताः ।
अवभृथस्थले स्नातुः परलोकाः सुखप्रदाः ॥६३॥
अवभृथस्थलीलोके मासः श्रीपुरुषोत्तमः ।
बालकृष्णप्रतिमाश्च त्रयो मोक्षप्रदोत्तमाः ॥६४॥
साधवो वैष्णवा लोके सांख्ययोगिन्य इत्यपि ।
लक्ष्मीनारायणसंहितास्तिस्रो मूर्तयो हरेः ॥६५॥
ब्रह्मप्रिया ब्रह्ममुक्ता ब्रह्मकुंकुमवापिका ।
त्रयस्ते ब्रह्मतीर्थानि सर्वयज्ञभृथानि वै ॥६६॥
हृदये सर्वदा कृष्णनारायणस्य संस्मृतिः ।
करे तु तौलसी माला कण्ठे स्रगपि तौलसी ॥६७॥
प्रसादमात्रग्रहणं त्रयस्तेऽक्षरधामदाः ।
ललाटे तिलकं चन्द्रः बाह्वोश्चक्रादिलेखनम् ॥६८॥
जिह्वायां श्रीहरेर्नाम त्रयस्ते याम्यनाशकाः ।
गृहे तु वैष्णवा यस्य वाटिकायां तु तूलसी ॥६९॥
पशुष्वपि च गौर्यस्य त्रिनावो भवपारगाः ।
भार्या पतिव्रता यस्य कृपा यस्य च सद्गुरोः ॥७०॥
शास्त्रज्ञानं भक्तियुक्तं पारगः स भवाम्बुधेः ।
येन सर्वं हरौ कृष्णेऽर्पितं वर्ष्म च दैहिकम् ॥७१॥
शान्तवृत्तिनिरीहश्च त्रयं निर्लेपताप्रदम् ।
रात्रिर्यस्य हरावास्ते प्रातर्यस्य प्रपूजने ॥७२॥
मध्याह्नो ज्ञानभागे च स वै मुक्तोऽत्र साकृतिः ।
सतां योगाद् यज्ञयोगाद् योगात् प्रत्यक्षशार्ङ्गिणः ॥७३॥
नगे नारी नान्यतरो जायतेऽवभृथाधिकः ।
क्रतुस्नानं तिलस्नानं स्नानमामलकीफलैः ॥७४॥
स्मृत्वा तीर्थानि कुर्वीत जायतेऽवभृथाऽधिकम् ।
अन्तकाले यज्ञभूमिस्तथा नारायणो हरिः ॥७५॥
स्मर्यन्ते साधवः साध्व्यस्तत्फलं तु भृथाधिकम् ।
कोटिकन्याप्रदानेन सहस्रक्रतुभिश्च यत्। ॥७६॥
अन्नक्षेत्रसहस्रेण यत्फलं तदवभृथात् ।
चातुर्मास्यव्रतैश्चापि वेदाध्ययनकैस्तथा ॥७७॥
सहस्रवर्षतपसा गोसहस्रप्रदानकैः ।
यत्फलं लभ्यते भूमौ तत्फलं स्यादवभृथात् ॥७८॥
यात्राभिः सर्वतीर्थानां पितुर्मातुश्च सेवया ।
पत्युश्च सेवया गवां सेवया देवसेवया ॥७९॥
दैविक्षेत्रनिवासेन तुलसीसेवया तथा ।
यत्फलं लभ्यते तत्स्यात् साधोश्चरणसेवया ॥८०॥
बुद्ध्या हीनो नरो नारी कथां श्रुत्वा हरिं भजेत् ।
साधुं सेवेत सततं मोक्षोऽपि तद्बलाद् भवेत् ॥८१॥
यस्याऽग्रे नास्ति वै द्रव्यं क्षेत्रं वा वाटिकाऽपि वा ।
जीवनं श्रममात्रेण भृत्यदास्यादिभिस्तथा ॥८२॥
तेन वै मन्दिरं सेव्यं कृष्णनारायणस्य वै ।
मार्जनेन च लेपेन जलप्रक्षालनेन च ॥८३॥
कच्चराद्यपहारेण पुष्पमालाकलादिभिः ।
शिल्पनेन च वस्त्रादिक्षालनेन निरन्तरम् ॥८४॥
पात्राणां मञ्जनेनापि भित्तिकाघर्षणेन च ।
लुताजालाऽपहारेण रजोनिष्कासनेन च ॥८५॥
व्यवस्थया च वस्तूनां चत्वरे दीपकर्मणा ।
द्वारोद्धाटनकार्येण वादित्रनादनेन च ॥८६॥
कीर्तनेन च तालाद्यैर्गुणानां कथनेन च ।
जयशब्दैर्हरे शब्दैर्भजनैर्मालिकादिभिः ॥८७॥
पात्राणामानयनैश्च धान्यानां शुद्धिभिस्तथा ।
जलानां चाऽऽहरणैश्च स्तवनैश्च प्रदक्षिणैः ॥८८॥
दण्डवद्भिर्नमस्कारैर्गुणानां ग्रहणैस्तथा ।
भावैः प्रेमभरैर्दिव्यैर्मनोरञ्जनकार्यकैः ॥८९॥
मृत्तिकाऽऽनयनैश्चापि सेव्यं श्रीकृष्णमन्दिरम् ।
नार्या नरेण वा नान्यतरेणापि यथामति ॥९०॥
यथाबलं यथासाध्यं यथायोग्यं भवेत्तु यत् ।
तत्तथा सेवनं कार्यं मन्दिरस्य सतामपि ॥९१॥
इत्येवं सेवको यस्तु दासो भागवतो महान् ।
सर्वावभृथतः श्रेष्ठः पावनो वर्तते हि सः ॥९२॥
अवभृथे तदेत्येवं देवायतनको मुनिः ।
उपदिश्य विरराम ततः श्रीपुरुषोत्तमः ॥९३॥
प्राह चास्मि प्रसन्नोऽत्र क्रतौ राज्ञाऽर्पितं बहु ।
सेवया च प्रसन्नोऽस्मि जयत्वत्र सदा नृपः ॥९४॥
ततो राजा परमेशं श्रीहरिं चरणेऽपतत् ।
हरिणाऽर्पित एवाऽस्य कण्ठे हारः सुवर्णजः ॥९५॥
राज्ञा प्राघूणिकाः सर्वे पूजिता उपदादिभिः ।
आशीर्वादान् समगृह्य परिहारं ततोऽकरोत् ॥९६॥
आययुर्निजवासेषु विशश्रमुः क्षणं जनाः ।
राजा संभोजयामास सृष्टित्रयस्य देहिनः ॥९७॥
दक्षिणाश्च ददौ तत्र तुतुषुः सर्वदेहिनः ।
रात्रौ महोत्सवं लोका देवर्षयश्च चक्रिरे ॥९८॥
रासकीर्तननृत्यैश्च भगवत्तोषणाय वै ।
ततो निद्रां गताः प्रातः समुत्थाय च नैत्यकम् ॥९९॥
कृत्वा तत्र सभायां चागताः श्रीहरिणा तदा ।
पूजिता देवताद्याश्चाऽमूल्योपदासमर्पणैः ॥१००॥
ततः संभोजिताः सर्वं आज्ञप्ता हरिणा ततः ।
कर्तुं तु पञ्चमं यज्ञं गन्तव्यं सायमेव ह ॥१०१॥
कालिमाऽब्धितटे देशे कालिमानृपतेः क्षितौ ।
पञ्चम्यां पौषशुक्लस्य यज्ञारंभो भविष्यति ॥१०२॥
आगमिष्याम्यहं तत्र चतुर्थ्यां सायमेव च ।
इत्युक्त्वा भगवान् लोकान् मुमुक्षून् प्रददौ मनून् ॥१०३॥
नरान् नारीर्नान्यतरान् मुमुक्षून् शक्तिराज्यगान् ।
'शरणं श्रीकृष्णनारायणोऽस्तु मम सर्वदा' ॥१०४॥
 'ओं नमः श्रीकृष्णनारायणाय स्वामिने स्वाहा' ।
'कालमायापापकर्मशत्रुयाम्यकुहृद्भयात् ॥१०५॥
शूलमीनध्वजधनुश्चक्रस्वस्तिकवानव' ।
'ब्रह्माऽहं श्रीकृष्णनारायणभक्तोऽस्मि शाश्वतः ॥१०६॥
अनादिश्रीकृष्णनारायणः स्वामी पतिश्च मे' ।
'बालकृष्णः परब्रह्म मम वै शाश्वतः पतिः ॥१०७॥
पिता बन्धुः सुहृन्मित्रं रक्षकः पोषकोऽस्तु सः' ।
'श्रीकृष्णवल्लभस्वामीं श्रीहरिं शरणं मम' ॥१०८॥
इत्येतेभ्यो ददौ मन्त्रान् मुमुक्षुभ्यः स्वयं हरिः ।
अथ सर्वे ययुस्तत्राज्ञप्ता वै पञ्चमक्रतोः ॥१०९॥
यज्ञार्थं कालिमाशस्य राज्ये कालीसरित्तटे ।
श्रीहरिं राधिके! तत्र शक्त्यक्षिभूपसेवितः ॥११०॥
दिनद्वयं समुवासा नन्दयन् नृपमुत्सुकम् ।
ज्ञानं ददौ नृपादिभ्यः कृपया वल्लभः प्रभुः ॥१११॥

इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने शक्त्यक्षिनृपतेः राज्ये चतुर्थविष्णुयागकरणमवभृथार्थस्फुटतामहिमादि चेतिनिरूपणनामा त्रिंशदधिकशततमोऽध्यायः ॥१३०॥

N/A

References : N/A
Last Updated : May 01, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP