संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|त्रेतायुगसन्तानः|
अध्यायः २२०

त्रेतायुगसन्तानः - अध्यायः २२०

लक्ष्मीनारायणसंहिता


श्रीकृष्ण उवाच-
ततो वै राधिके कृष्णनारायणो महाप्रभुः ।
सज्जो भूत्वाऽर्हणां लब्धाऽम्बरे विमानगोऽभवत् ॥१॥
कुटुम्बं च विमाने चाऽभवन्महर्षिसंयुतम् ।
ब्रह्मप्रियाद्याः सर्वाश्च निषेदुस्तद्विमानके ॥२॥
कर्णफालऋषिश्चापि विमाने हरिणा सह ।
न्यषीदच्च नृपस्त्रेताकर्कशस्तु विमानके ॥३॥
निजे चारुह्य शीघ्रं वै प्राग् ययौ स्वागतार्थकः ।
हरेर्विदाये वाद्यानि त्ववाद्यन्त प्रजारवाः ॥४॥
जयकीर्तनरागाश्चाऽभवन् दिगन्तघोषिणः ।
प्रससार विमानं तु क्षणान्तरे ह्यवाप ह ॥५॥
बालावित्तकराष्ट्रं वै त्वम्बरे द्योततेऽर्कवत् ।
त्रेताकर्कशनृपतिः स्वागतं त्वाचरत्तदा ॥६॥
वाद्यैर्निनादैर्गीत्याद्यैः प्रजानां हर्षनादनैः ।
जयशब्दैः सैन्यवाद्यैर्नमनैः पुष्पकाऽक्षतैः ॥७॥
ऋषिदर्शितमार्गेणाऽवातारयद् विमानकम् ।
हरिस्तूर्णं विमानाद्वै बहिश्चाग्रे समाययौ ॥८॥
स्वर्णबृस्यां निषसाद राजा तं समपूजयत् ।
स्वर्णहारैरम्बराद्यैश्चन्दनाक्षतसत्फलैः ॥९॥
राज्ञी पादौ जलैश्चाभिषिञ्च्य पपौ जलामृतम् ।
प्रजाः पुपूजुरीशेशं हरिर्दुग्धं पपौ तदा ॥१०॥
महीमानान् समस्तांश्च पाययामास सत्पयः ।
भूपतिश्च तदा राज्ञी पाययामास योषितः ॥११॥
अथ सैन्यं महाशोभं तदा शृंगारितं ह्यभूत्॥
नगर्यां ब्रह्मणार्थं वै राजोद्यानमुखात्पुरः ॥१२॥
महास्वर्णरथे कृष्णं शतैकवृषयोजिते ।
न्यषादयन्महाराजस्त्रेताकर्कशभूपतिः ॥१३॥
शतैकस्वर्णकलशैश्चैकविंशतिचक्रके ।
बहुविस्तारके राजपथमात्रप्रवाहणे ॥१४॥
हरिणा सह मुनयः ऋषयः पार्षदास्तथा ।
भ्रातरश्च तथा राजा नृपस्यापि कुमारकाः ॥१५॥
निषेदुस्त्वन्यरथगा ब्रह्मप्रियास्तदाऽभवन् ।
वाद्यघोषैश्च नगरे वाहिनी सा विवेश ह ॥१६॥
जयशब्दाः प्रजानां वै तदाऽभवन् समन्ततः ।
पुष्पवृष्टिः फलवृष्टिश्चन्दनानां कणार्पणम् ॥१७॥
स्वर्णमुद्रार्पणं हारार्पणं पुष्पातिसारणम् ।
नमनं दर्शनं दानं पूजनं च व्यधुः प्रजाः ॥१८॥
अमरीणां गोतयश्चाऽभवन् व्योमाभिबोधनाः ।
दिव्यभावयुता नार्यो वर्धयामासुरच्युतम् ॥१९॥
प्रधानाः श्रेष्ठिनश्चापि प्रजाश्च परमेश्वरम् ।
पुपूजुः सर्वरत्नाद्यैर्भावनाभिः स्थले स्थले ॥२०॥
फांकलाशीनगर्यां संभ्रमित्वैवं नृपालयम् ।
समाययौ नृपस्तत्र पुपूज परमेश्वरम् ॥२१॥
स्वर्णसिंहासने रम्ये न्यषादयत् प्रभुं मुदा ।
कर्णफालऋषिर्न्यराजयत् कृष्णं परात्परम् ॥२२॥
राज्ञी कृष्णस्य तिलकं कुंकुमेनाऽक्षतैस्तथा ।
केसरेण व्यधात् हारं सुवर्णस्य ददौ गले ॥२३॥
युवत्यः कन्यकाः सप्त राज्ञ्या कृष्णं मनोहरम् ।
वीक्ष्य निश्चित्य हृदये कान्तं व्यधुः पतिं तदा ॥२४॥
मात्राज्ञया वरमालाः कृष्णकण्ठे न्यधुर्मुदा ।
आरार्त्रिकं प्रचक्रुश्चार्पिता इति जगुर्मुहुः ॥२५॥
राज्ञी राजा प्रसन्नौ च कृतकृत्याश्च कन्यकाः ।
अभवन् राधिके मोक्षे प्राप्यः प्राप्तोऽत्र माधवः ॥२६॥
उत्सवं नृत्यगीताद्यैर्नृपश्चक्रे दिने तथा ।
अनादिश्रीकृष्णनारायणश्चोपादिदेश ह ॥२७॥
मानवस्य तु देहस्य प्राप्तेः फलं सुखं हरेः ।
भक्त्युत्तरं महामुक्तिः सेवा सतां फलं महत् ॥२८॥
अरागद्वेषभावश्च सदा कृष्णकथारुचिः ।
तितिक्षा च विवेकश्च यस्य सः स्यात्सुखी जनः ॥२९॥
अरागता सुखं श्रेष्ठं द्वेषाभावः प्रशान्तिदः ।
सुखं स्वपिति निर्विण्णो निर्द्वेषः क्षमया युतः ॥३०॥
यः कामानाप्नुयात् सर्वान् यश्च कामान् परित्यजेत् ।
तयोस्त्यागी महासौख्यं विन्दति न तु सर्ववान् ॥३१॥
नान्तं गतोऽस्ति कामानां पूर्वः कश्चिन्न चाऽपरः ।
गमिष्यतीति तृष्णायाः क्षयात् प्रसाधयेत् सुखम् ॥३२॥
भुक्तमुक्तस्य कामस्य नान्तं गच्छति कश्चन ।
सञ्चितस्य धनस्यापि नान्तं गच्छति कश्चन ॥३३॥
त्यक्त्वा सर्वसमारंभान् सुखमाप्नोति मानवः ।
अधनस्य भवेद् रागो लब्ध्वा तु वर्धते पुनः ॥३४॥
लब्धनाशे तु मृत्युः स्याद् यद्वा शोचति नित्यशः ।
पुनर्लब्धं न भवति ततो दुःखतरं नु किम् ॥३५॥
न हि तुष्टिस्तु लब्धेन भूय एव च मृग्यति ।
अनुतर्षुल एवात्र दुःखी स्याद्वै मुहुर्मुहुः ॥३६॥
धननाशेऽधिकं दुःखं सर्वेभ्यश्चाऽवमाननम् ।
धने सुखकला या सा सहस्रदुःखमातृका ॥३७॥
धनवन्तं विनिघ्नन्ति दस्यवोऽन्ये हरन्ति च ।
तस्मादाशां परित्यज्य माधवं समुपाश्रयेत् ॥३८॥
निर्वेदं च निवृत्तिं च तृप्तिं शान्तिं क्षमा दमम् ।
आश्रयेच्चापि सन्तोषं सा स्यात् सुखी सदाऽत्र वै ॥३९॥
कामं लोभं च तृष्णां च स्पृहां कार्पण्यमित्यपि ।
त्यक्त्वा भवेज्जनो लोके सुखी मुक्तो जनो यथा ॥४०॥
स्वीयप्रकाशं पप्रच्छ भगवान् नारदः पुरा ।
कथं त्वं वर्तसे ब्रह्मन् सुखे यत्र न शोचनम् ॥४१॥
यदा यदा तु पश्यामि तदा तदा सुखेऽसि वै ।
न शोके वै मया दृष्टः किमत्र कारणं वद ॥४२॥
स्वीयप्रकाशस्तं प्राह शृणु विद्वन् मतिं मम ।
सदा पश्यामि सुखिनं कथं किं सुखमस्य नु ॥४३॥
साधनं चास्य वै कीदृक् कथं चास्ते सुखी तथा ।
वृषभः शकटीं कर्षन् मया पृष्टः कथं सुखी ॥४४॥
स चाह मे न वै चिन्ता भोज्यवस्त्रगृहादिभिः ।
कर्षुकेण धृता सा तु मद्बलाधीनवर्तिना ॥४५॥
तथाऽहं त्रिविधार्थं सञ्चिन्तयामि न सर्वथा ।
तस्मात् सुखी सदा चास्मि भोज्यवस्त्रगृहादिभिः ॥४६॥
सत्रभोजी मया पृष्टः कथं त्वं वर्तसे सुखी ।
स चाह मेऽन्नपूर्त्यर्थं धनं चार्जयते धनी ॥४७॥
अपरोऽयं पाचयित्वा मह्यं ददाति नित्यशः ।
ततो धनान्नपाकानां चिन्ता मे नास्ति सर्वथा ॥४८॥
तद्विचार्य मया सापि क्रियते न वृथा यतः ।
शुकः पृष्टो मयाऽरण्ये किं त्वं प्रमोदसे वने ॥४९॥
स चाह मे न बन्धोऽस्ति यत्र क्वापि चरामि वै ।
नीडे वा गृहनाले वा स्वपिम्यपि यथामनः ॥५०॥
उड्डीयाऽऽरण्यकं गत्वा भक्षयामि फलादिकम् ।
नास्ति चिन्ता सञ्चयस्य नास्ति मे रक्षणस्य च ॥५१॥
नास्ति गृहादिचिन्ता वा कुटुम्बं नास्ति मे यतः ।
तस्मात्सुखी प्रमोदेऽहं सदा चिन्ताविवर्जितः ॥५२॥
तद्विचार्य मया सापि त्यक्ता निर्बन्धनोऽस्मि च ।
अथ पृष्टो महा सिंहः कथं सुखी विभाससे ॥५३॥
स चाह भोजनं दैवगत्या प्राप्य त्र्यहान्तरे ।
न मे हन्ता वने कश्चिदिति मत्वा स्वपिम्यहम् ॥५४॥
तद्विचार्य मया भीतिः कालादेः परिवर्जिता ।
तस्मात् सुखी निर्भयश्च विचरामि स्वपिम्यपि ॥५५॥
सुखं जीवन्ति मुनयः परब्रह्मसमाश्रिताः ।
ह्रासं वृद्धिं विनाशं चोद्भवं भूतगतानिमान् ॥५६॥
न मां लुम्पन्ति मत्वैवं विचरामि सदा सुखी ।
संयोगान् विरहान्ताँश्च संचयान् शीर्णतान्नकान् ॥५७॥
उत्पन्नान् चान्तयुक्ताँश्च ज्ञात्वा शोचामि नैव च ।
शयनं निद्रया व्याप्तं रोदनं हानिलेपितम् ॥५८॥
हर्षणं प्राप्तिसञ्जन्यं त्रयं त्यक्त्वा सुखी सदा ।
सती शंभोः मया पृष्टा पराधीना कथं सुखा ॥५९॥
साऽऽह मां वै मया दार्ढ्यं कृतं स्वामिनिदेशनम् ।
मम धर्मो न चान्योऽस्ति ममानुकूल एव सः ॥६०॥
अतो मया महत्सौख्यं स्वामिन्येवाऽनुभूयते ।
तद्विचार्यं मया चेशे परमेशेऽनुकूलता ॥६१॥
सर्वविधा कृता चास्ते पातिव्रत्यविधोत्तमा ।
आत्मनिवेद्यहं कृष्णनारायणे परेश्वरे ॥६२॥
तस्येच्छा मम भाग्यं वै भाग्यचिन्ताऽर्पिता हरौ ।
विशेषतश्च तेनाऽहं सुखी सुखाश्रयेण वै ॥६३॥
श्रुत्वैवं नारदश्चापि जग्राह तादृशीं स्थितिम् ।
सुख्यभूच्च सदा लोके निरालम्बश्चरन् मुनिः ॥६४॥
स्वीयप्रकाशो भगवान् सनत्कुमारकस्तथा ।
लोमशर्षिस्तथा शंभुः सुखिनस्ते हि शाश्वताः ॥६५॥
इन्द्रियाणि तदर्थाश्च वशे येषां भवन्ति वै ।
ऐश्वर्याणि च भूतानि वशे येषां भवन्ति वै ॥६६॥
चमत्काराः सिद्धयश्च वशे येषां भवन्ति वै ।
कालः कर्म स्वभावश्च माया येषां वशे सदा ॥६७॥
आत्मा वशे च येषां वै ये वशे परमात्मनः ।
ते सदा सुखिनः सन्ति सृष्टौ वाऽक्षरधामनि ॥६८॥
सती रमा ब्रह्मप्रियास्तथा मुक्तास्तथाविधाः ।
सुखिनः शाश्वताश्चैते हर्यर्थात्मनिवेदिनः ॥६९॥
तस्मात्सर्वैर्हरेर्वश्यैर्भाव्यं नान्यवशानुगैः ।
हरिः शाश्वतसुखवान् सुखीकरोति सेवकान् ॥७०॥
इत्युपादिश्य भगवान् ददौ मन्त्रान् ततः परम् ।
उपारराम नृपतिस्त्वानर्च राधिके हृरिम् ॥७१॥
तावत्तत्र विमानेन प्रार्थनार्थं समाययौ ।
अधश्चिलीराष्ट्रशास्ता आण्डजराख्यभूपतिः ॥७२॥
मन्त्राग्निकर्षिसहितो नमाम बहुभावतः ।
लब्धस्वागतसम्मानोऽर्थयास हरिं नृपः ॥७३॥
भगवन्मे पुरीमन्तःप्रागस्थां पावय प्रभो ।
तथास्त्विति हरिः प्राह सज्जस्तूर्णो बभूव ह ॥७४॥
त्रेताकर्कशराजा च विदायं यौतकं ददौ ।
सैन्येन च व्यधात् कृष्णनारायणस्य माननम्॥७५॥
हरिः कुटुम्बसहितो विमाने चाऽम्बरेऽभवत् ।
मन्त्राग्निकर्षिसहितस्तथा सार्थसमन्वितः ॥७६॥
राजा चाण्डजराभूपः पूर्वं स्वागतकार्थकः ।
ययौ राष्ट्रं तदा तूर्णं सैन्यं प्राक् समसज्जयत् ॥७७॥
तावद्धरिः समायातो विमानवरवाहनः ।
दृष्ट्वा प्रजाजनाः कृष्णनारायणो जयत्विति ॥७८॥
हर्षनादान् जयनादान् तूर्यनादान् प्रचक्रिरे ।
राजदर्शितमार्गेण ऋषिणा सह माधवः ॥७९॥
उद्यानेऽन्तःप्रागस्थाया नगर्याः सन्निधौ निजम् ।
शृण्वन् स्वागतघोषाँश्चाऽवतारयद् विमानकम् ॥८०॥
आययौ श्रीहरिस्तूर्णं विमानाग्रे बहिस्तदा ।
चिल्ल्यो नार्यो हर्षनादैः श्रीपतिं कृष्णवल्लभम् ॥८१॥
चिरंजीवेति वचनै रक्षरक्षेतिभावनैः ।
सुखं देहीति हृदयैर्वर्धयामासुरच्युतम् ॥८२॥
राजा पूजां चकारादौ चन्दनाऽक्षतपुष्पकैः ।
राज्ञी पूजां चकाराऽपि प्रजा नेमुश्च भावतः ॥८३॥
ततो राजा बालकृष्णं न्यषादयन्महागजे ।
स्वर्णाम्बालिकया युक्ते तथाऽन्याश्च रथादिषु ॥८४॥
हारगुच्छार्चितान् सर्वान् ससैन्यो भूपतिस्तदा ।
निन्ये स्वां नगरीमन्तःप्रागस्थां च विभूषिताम् ॥८५॥
भ्रामयितुं राजमार्गे वाद्यकीर्तनगीतिभिः ।
गोपुरेऽपूजयत् कृष्णं प्रधानाः श्रेष्ठिनस्ततः ॥८६॥
चत्वरादौ धनाढ्याश्चापणेषु पणिनस्तथा ।
रथ्यामुखेषु चिल्ल्यश्च नार्यो भावभरास्तदा ॥८७॥
पुपूजुः परमात्मानं हारचन्दनकुंकुमैः ।
अक्षताद्यैः फलैर्नारिकेलाद्यैः शर्करादिभिः ॥८८॥
कृतकृत्याश्चाभवँश्च वीक्ष्य प्रपूज्य माधवम् ।
ततो राजाऽऽनयत् कृष्णं निजं विशालमन्दिरम् ॥८९॥
आरार्त्रिकं चकाराऽथ मुकुटं मस्तके ददौ ।
कण्ठे सौवर्णरत्नानां हारान् ददौ नृपस्तदा ॥९०॥
चरणामृतपानं च प्रचकाराभिपूज्य च ।
कृतार्थोऽस्मीत्युवाचाऽथ राज्ञी पूजां व्यधापयत् ॥९१॥
सुवर्णमुद्रास्थालं श्रीहरेश्चरणयोर्न्यधात् ।
चन्दनाऽक्षतपुष्पाद्यैरानर्च परमेश्वरम् ॥९२॥
अस्यास्तु कन्यकाश्चिल्ल्यो युवत्यो भक्तिसंयुताः ।
चतस्रोऽपि हृदि कृत्वा मात्राज्ञया तु मालिकाः ॥९३॥
हरेः कण्ठे न्यधुर्हृष्टाश्चार्पणविधिना पतिम् ।
प्राप्य कृतार्थकार्यास्ता बभूवुर्भाग्यनोदिताः ॥९४॥
राजा चातिप्रसन्नोऽभून्महोत्सवमकारयत् ।
हरिश्चोपादिदेशाऽथ राधे प्रजाजनान् निशि ॥९५॥

इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने आश्विनकृष्णद्वितीयायां प्रातः फान्कलाशीनगर्यां गमनं भ्रमणं पूजनं भोजनमुपदेशनं विदायं मध्याह्नोत्तरम्
आण्डजरानृपरैष्ट्रगमनम् आन्तःप्रागस्थानगर्यां भ्रमणं पूजनं चेत्यादिनिरूपणनामा विंशत्यधिकद्विशततमोऽध्यायः ॥२२०॥

N/A

References : N/A
Last Updated : May 02, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP