संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|त्रेतायुगसन्तानः| अध्यायः २१९ त्रेतायुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ अध्यायः २३८ अध्यायः २३९ अध्यायः २४० अध्यायः २४१ अध्यायः २४२ अध्यायः २४३ अध्यायः २४४ अध्यायः २४५ अध्यायः २४६ अध्यायः २४७ अध्यायः २४८ अध्यायः २४९ अध्यायः २५० अध्यायः २५१ अध्यायः २५२ अध्यायः २५३ अध्यायः २५४ अध्यायः २५५ अध्यायः २५६ अध्यायः २५७ अध्यायः २५८ अध्यायः २५९ अध्यायः २६० अध्यायः २६१ अध्यायः २६२ अध्यायः २६३ अध्यायः २६४ अध्यायः २६५ अध्यायः २६६ अध्यायः २६७ अध्यायः २६८ अध्यायः २६९ अध्यायः २७० अध्यायः २७१ अध्यायः २७२ अध्यायः २७३ अध्यायः २७४ अध्यायः २७५ अध्यायः २७६ अध्यायः २७७ अध्यायः २७८ अध्यायः २७९ अध्यायः २८० अध्यायः २८१ अध्यायः २८२ अध्यायः २८३ अध्यायः २८४ अध्यायः २८५ अध्यायः २८६ अध्यायः २८७ अध्यायः २८८ अध्यायः २८९ अध्यायः २९० अध्यायः २९१ अध्यायः २९२ अध्यायः २९३ अध्यायः २९४ अध्यायः २९५ अध्यायः २९६ अध्यायः २९७ अध्यायः २९८ अध्यायः २९९ अध्यायः ३०० विषयानुक्रमणिका त्रेतायुगसन्तानः - अध्यायः २१९ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः २१९ Translation - भाषांतर श्रीकृष्ण उवाच-राधिकेऽनादिकृष्णस्य गजपृष्ठे गजान्तरे ।पितरौ च ततो गजान्तरे स्वभ्रातरस्त्रयः ॥१॥ततो ब्रह्मप्रियादीनां शिबिकाद्यास्तथाऽभवन् ।अमर्यश्चाऽभवन् पश्चाद् गीतिकारसिकास्तथा ॥२॥अग्रे डंकानिशानादि पटहाद्यास्तथाऽभवन् ।सैन्यवाद्यान्यवाद्यन्त जयनादास्तथाऽभवन् ॥३॥यन्त्रशब्दा विप्रघोषा जायन्ते स्माऽतिगर्जनाः ।सञ्चालायां गोपुरादौ चन्द्रशालासु शाखिषु ॥४॥रथ्यासु राजमार्गेषु गृहेषु वल्लभीष्वपि ।हष्टेषु वेदिकास्वेव चैत्येषु दुर्गमस्तके ॥५॥सौधेषु मध्यमार्गेषूद्यानेषु च समन्ततः ।प्रजानना नरा नार्यो बालकृष्णं विलोकितुम् ॥६॥उपस्थितास्तदाऽऽसँश्च धृतपूजाः करादिषु ।नगर्यां गोपुरे कृष्णं पुपूजामात्यमण्डलम् ॥७॥चत्वरेषु धनाढ्याश्चोद्यानकेषु प्रधानकाः ।रथ्यासु चापणेष्वेते चत्वरेषु प्रजाजनाः ॥८॥अपूजयन् हरिं पुष्पाम्बरभूषाफलादिभिः ।हारैः पौष्पैर्हीरकाद्यैः रत्नमालाभिरित्यपि ॥९॥अमर्यः कन्यकाश्चापि पुपूजुरक्षतादिभिः ।स्थलपद्मादिहारैश्चोर्मिकाभिः शर्करादिभिः ॥१०॥एवं भ्रमित्वा भगवान् नगर्यामथ मन्दिरम् ।राज्ञः समाययौ तूर्णं जलपानमथाऽकरोत् ॥११॥उपादिदेश भगवान् प्रजाभ्यश्च नृपादये ।भुक्तिमुक्तिप्रदान् रम्यान् सद्धर्मान् वै निशीथके ॥१२॥देशे काले तथा व्यक्तौ कालपर्याय उल्बणः ।अनिष्टोऽपि समायाति विरागजनकः सदा ॥१३॥लोकोऽयं बहुदोषोऽस्ति निर्दोषाः साधवोऽत्र वै ।भगवद्योगयुक्तास्ते कालपाशविवर्जिताः ॥१४॥आत्ममोक्षकराः सन्तो मम योगाद् भवन्ति वै ।सर्वं विलोक्य निःसारं दुःखबाहुल्यसंभृतम् ॥१५॥आत्ममोक्षनिमित्तं वै यतेत मतिमान् जनः ।नष्टे धने च दारेषु पुत्रे पितरि स्वामिनि ॥१६॥दुःखं याति विमूढोऽयं लोको ममत्वकर्षितः ।तच्छोकं नाशयत्येव साधुरेव न चेतरः ॥१७॥यथा काष्ठं च काष्ठं च समेयातां महाजले ।समेत्य च व्यपेयातां तद्वद् देहिसमागमः ॥१८॥एवं पौत्रास्तथा पुत्रा दाराः पुत्र्यश्च बान्धवाः ।सत्यश्च पतयश्चापि वियोगोत्तरनिर्णयाः ॥१९॥तत्र स्नेहो न कर्तव्यो वियोगो तैर्हि वै ध्रुवः ।अदृष्टश्चागतः पूर्वं गते पुनर्न दर्शनम् ॥२०॥एवं ज्ञात्वा जगत् सर्वं महीमानस्वरूपवत् ।यथा शोको न जायेत तथ वृत्त्यं सुधाजनैः ॥२१॥तृष्णास्नेहोत्थदुखं वै दुःखाद् दुःखं पुनः पुनः ।प्राप्तौ सुखं गते दुःखं शोको दुखं पुनः पुनः ॥२२॥सुखदुःखे जनानां वै जायेते चक्रमे मुहुः ।शरीरं विद्यते त्वायतनं द्वयोर्विवर्ततोः ॥२३॥तद् दुःखं न पुनः स्याद्वै वर्तितव्यं तथा पथि ।अनादिश्रीहरिः पन्थाः सर्वदुःखविनाशकृत् ॥२४॥आश्रयणीयः सोऽहं दुःखान्तौषधमस्मि यत् ।अनाश्रितास्तु साधून् ये मां तथा परमेश्वरम् ॥२५॥विदन्ति दुःखभागं ते सुखशून्या भवन्ति हि ।स्नेहपाशैरनेकैस्ते निबद्धा विषयेहया ॥२६॥अकृतार्था हि सीदन्ति मृगतृष्णाजलभ्रमाः ।स्नेहेन तिलवद् यन्त्रे सर्गे सर्वं निपीड्यते ॥२७॥स्नेहबद्धः करोत्यस्मै कर्म पापभरं ततः ।तेन क्लेशानवाप्नोति परत्रेह पुनः पुनः ॥२८॥पुत्रदारकुटुम्बेषु प्रसक्ताः सर्वदेहिनः ।शोकसागरमग्नास्ते सुखिनो न भवन्ति वै ॥२९॥इष्टनाशे यथा प्राप्तो दावाग्निस्तत्समो जनः ।दह्यते वै वृथा भस्मीभवितुं न फलं शुभम् ॥३०॥नालं सुखं प्रदातुं वै सुहृदो बान्धवा अपि ।नाऽलं दुःखं प्रदातुं च शत्रवोऽन्ये परेऽपि च ॥३१॥नालं चार्थाः सुखं दातुं नालं तत्साधनान्यपि ।न दारिद्र्यं दुःखदातृ प्राज्ञो जानाति नोऽपरः ॥३२॥विवेकी च विरागी च मद्भक्तो वै भवेत् सुखी ।अहं धेनुस्वरूपोऽस्मि दोग्धारः सुखिनो मम ॥३३॥धेनुर्वत्सस्य गोपस्य स्वामिनस्तस्करस्य च ।पयःपिबस्य सर्वस्य सुखदा वै तथान्वहम् ॥३४॥मम भक्तेः पानकर्ता सुखी स्यान्नात्र संशयः ।बुद्धिमाश्रित्य जननीं विवेकिनीं च पोषिणीम् ॥३५॥सुखं समर्जयेत् प्राज्ञो नाऽन्तरे क्लेशवान् भवेत् ।विवेकाल्लभ्यते शान्तिः सुखं चानन्द इत्यपि ॥३६॥ये विवेकसुखं प्राप्ता द्वन्द्वातीता निरीहका ।तान्नैवाऽर्था न चाऽनर्था व्यथयन्ति कदाचन ॥३७॥अबुद्धाश्चाऽविवेकाश्च मूढाः स्वभावकर्षिताः ।प्रहृष्यन्ति च यावन्तस्तप्यन्ते शतधाऽधिकम् ॥३८॥विवेकप्रसवा शान्तिः सन्तोषसहकारिणी ।भूतिः स्मृद्धिः श्रिया सार्धं दक्षे वसति नाऽलसे ॥३९॥मूढं स्मृतिहनं तृष्णायुतं च स्पर्द्धिनं तथा ।ईर्ष्यायुक्तं जनं शोकश्चाविशति सहस्रधा ॥४०॥ममाश्रितं सतां भक्तं विवेकिनं सुबुद्धिकम् ।असूयेर्ष्यावर्जितं तु शोको न स्पृशति क्वचित् ॥४१॥आत्मसत्तासमोपेतं ब्रह्मनिष्ठानिषेविणम् ।सत्समागमकर्तारं न शोकः स्प्रष्टुमर्हति ॥४२॥यन्निमित्तो भवेच्छोकस्तापो दुःखं च विग्नता ।अशान्तिर्वा यतो मूलात् तत् त्यजेत् स सुखी भवेत्। ॥४३॥ममत्वेन निजस्वार्थे कल्पितं यत्नितं च वा ।सद्यस्तत्परितापार्थं सम्पद्यते निजात्मनि ॥४४॥कामानां त्यागकर्ताऽत्र सुखेन पूर्यते सदा ।कामानुपाती सतृष्णः कामाननु विनश्यति ॥४५॥तृष्णाक्षयो महान् प्रोक्तो योगिनां सुखरूपकः ।तृष्णायुतस्य लोकस्य धावतश्चेहयाऽभितः ॥४६॥अतिशोकोऽभिपद्येत किल देहात्मवादिनः ।खङ्गधारेऽमृतं लिप्तं जिह्वया लेढुमिच्छतः ॥४७॥अप्राप्तिर्भेदनं कष्टं त्रेधा दुःखं प्रजायते ।तथा प्रियेषु मग्नस्य कामलेढुर्जनस्य वै ॥४८॥क्षणाद्दुःखं प्रजायेत कामं त्यक्त्वा सुखी भवेत् ।सर्वान् कामान् जुगुप्सेद्वै कामो मृत्युर्मनोभवः ॥४९॥संहृत्य कामसंकल्पान् भयं त्यक्त्वा भवेत् सुखी ।यदा नेच्छा न च द्वेषस्तदा ब्रह्मगतो भवेत् ॥५०॥दुर्मतिभिर्या दुस्त्याज्या न या जीर्णा तु जीर्यतः ।प्राणग्रासकरो रोगस्तां तृष्णां त्यजतः सुखम् ॥५१॥मृत्युनाऽभ्याहतो लोको जरया वेष्टितः सदा ।कालग्रस्तोऽपि न वेत्ति त्वात्मश्रेयःप्रसाधनम् ॥५२॥दिवा रात्रिर्विना भक्तिं मोघा यातो हि देहिनः ।एवं जानन् भजेत् कृष्णनारायणं तु मां हरिम् ॥५३॥याते प्रयाते दिवसे जनायुः श्रीयते सदा ।विना भक्तिं दिवा वन्ध्यो देहिना याति सर्वथा ॥५४॥अतीव तृष्णया याति सुखार्थी गहने तले ।अनवाप्ते तु कामे वै मृत्युरभ्येति भक्षकः ॥५५॥विचिन्वन्तं सुखं रक्तं दूरे चासक्तमानसम् ।सर्पो भेकीमिवाऽऽसाद्य मृत्युर्ग्रस्त्वा प्रगच्छति ॥५६॥अद्यैव श्रेयः कर्तव्यं कालक्षेपो न लाभकृत् ।असंपूर्णेषु कार्येषु मृत्युरादाय यास्यति ॥५७॥आत्मकार्यं द्रुतं चाऽद्य कुर्वीत सावधानकः ।अस्याऽपूर्णमिदं कार्यं चेति कालो न पश्यति ॥५८॥कदा मृत्युर्भवेत् कस्य नैव जानाति कश्चन ।तस्मान्मोक्षार्थकं कार्यं प्राक् कर्तव्यं विजानता ॥५९॥आबाल्याद्वै भजनीयः श्रीपतिः पुरुषोत्तमः ।तुष्टे कृष्णे भवेत् सौख्यं शाश्वतं निर्मलं यशः ॥६०॥मोहाविष्टं धनदारपुत्रक्षेत्रातिमग्नकम् ।क्षेत्रपश्वादिसम्पन्नं सुप्तं मृत्युर्हरिष्यति ॥६१॥अवितृप्तं यतमानं कामार्थं बहुवेगिनम् ।धावन्तं चानुधावन् वै मृत्युरादाय गच्छति ॥६२॥करिष्ये श्वः परं कार्यं ततोऽन्यच्च ततः परम् ।एवं वै चिन्तयानं तं कृतान्तः सन्नयिष्यति ॥६३॥आरब्धानां फलं नाऽऽप्तं संसक्तं चान्यकर्मणि ।कृतानां दुःखभोक्तारं यमश्चादाय गच्छति ॥६४॥राजानं च दरिद्रं च विज्ञं भृत्यमनाथकम् ।सर्वथा रक्षितं चापि मृत्युरादाय गच्छति ॥६५॥मृत्युं जरां च शैथिल्यं पारवश्यं विमाननाम् ।व्याधिमशक्तिं देहेऽत्र वीक्ष्य विज्ञो हरिं भजेत् ॥६६॥जातोऽनिर्धारितो बालोऽनिर्धारिता मृतिस्तथा ।आगमिष्यत्यकस्माद्वै तद्विचार्य हरिं भजेत् ॥६७॥मृत्युस्थानं विषयेषु रतिरेव हि देहिनः ।विरतिर्वै महारण्यं योगिनामिव शान्तिदा ॥६८॥पाशरज्जुर्विषयाढ्या वृत्तिर्या देहिनां सदा ।छित्वा तां श्रीहरेः पादौ समाश्रयेत् स बुद्धिमान् ॥६९॥न योद्धा जयति केश्चिदायान्तीं मृत्युवाहिनीम् ।सत्ययोद्धा जयप्येनां हरौ सत्येऽमृतं स्थितम् ॥७०॥सत्यं ब्रह्मेति वै प्रोक्तं परब्रह्मपरो भवेत् ।सत्यव्रते स्थितश्चापि सत्ययोगं समाश्रितः ॥७१॥सत्समागमनिरतः सद्योगेनाऽन्तकं जयेत् ।मोहमृत्युं विजित्यैवाऽमृतं सत्संगतो लभेत् ॥७२॥साध्वर्थी परमेशार्थी सेवार्थी चात्मनिष्ठितः ।मृत्युं तीर्त्वा महानन्दाऽमृतं प्राप्नोति मोदते ॥७३॥साधुयज्ञस्थितो दान्तो ब्रह्मयज्ञे रतिं गतः ।परब्रह्मार्पणमग्नो महामोक्षं प्रयाति हि ॥७४॥यस्य कृष्णः सदा तुष्टः साधवोऽनुग्रहान्विताः ।कृपावर्षिणः पितरः स वै सर्वमवाप्नुयात् ॥७५॥विद्याचक्षुर्दिव्यनेत्रं ब्रह्मव्रतं परं तपः ।साधुसेवा परं पुण्यं त्यागः सुखं तु शाश्वतम् ॥७६॥आत्मना वर्तमानस्य परमेशे स्थितस्य च ।वीतरागस्य मुक्तस्य किं पुनस्तारकान्तरम् ॥७७॥वित्तं दिव्यं साधवो वै रत्नं दिव्यं हरिः स्वयम् ।प्रवृत्तिर्भजनं यस्य तस्य किमन्यसाधनैः ॥७८॥अकिञ्चनः सुखं शेते सुखं प्रबोधतेऽपि च ।सुखं पथ्यं शिवं कृष्णं प्राप्य प्रमोदते सुखी ॥७९॥हरिं विना न यस्याऽस्ति द्रव्यं चाकिंचनो हि सः ।आकैंचन्यं परं सौख्यं सृष्टित्रयातिरेकि तत् ॥८०॥आकैंचन्ये तथा राज्ये विशेषो वर्तते महान् ।राज्यवान्नित्यमुद्विग्नो निरुद्वेगो ह्यकिञ्चनः ॥८१॥नाऽग्नेर्मृत्योश्चाऽस्य भीतिर्न चौराऽरिष्टकादपि ।न शत्रोः कालवेगाद्वा भयं तस्य प्रजायते ॥८२॥त्यागिनं भगवद्भक्तं देहगृहं हरिश्रयम् ।साधुसेवापरं शान्तं प्रशंसन्ति हरादयः ॥८३॥नाऽत्यक्त्वा सुखमाप्नोति नाऽत्यक्त्वा ब्रह्म विन्दति ।नाऽत्यक्त्वा निर्भयश्चास्ते त्यागं लब्ध्वा सुखी भवेत्। ॥८४॥ईहाकृष्टस्य दीनस्य प्रमादमाविशेद् भृशम् ।प्रमत्तं त्यक्तमर्यादं ह्युपयान्ति महापदः ॥८२॥तासां विनाशकं श्रेष्ठं भेषजं साधुसेवनम् ।येषां संगाज्ज्ञानलाभश्चेहानां विलयो भवेत् ॥८६॥स्नेहधारा भवेत् कृष्णे मयि श्रीशे परेश्वरे ।शाश्वतानन्दसम्पूर्णे मद्योगान्मामकः सुखी ॥८७॥शाश्वतानन्दपूर्णः स्यात् तत्कार्यं मानवैरिह ।इत्युक्त्वा राधिकेऽनादिश्रीशनारायणः प्रभुः ॥८८॥ 'ओंनमः श्रीकृष्णनारायणाय पतये स्वाहा' ।इतिमन्त्रं ददौ सर्वेभ्यश्च सर्वाभ्य इत्यपि ॥८९॥'शरणं श्रीकृष्णनारायणोऽस्तु मम सर्वदा' ।इत्येवं शरणं ददौ सर्वेभ्य एव सः ॥९०॥'कालमायापापकर्मशत्रुयाम्य कुहृद्भयात् ।शूलमीनध्वजधनुश्चक्रस्वस्तिकवानव' ॥९१॥इत्येवं रक्षणमन्त्रं जनेभ्यः प्रददौ तदा ।'ब्रह्माऽहं श्रीकृष्णनारायणभक्तोऽस्मि शाश्वतः ॥९२॥अनादिश्रीकृष्णानारायणः स्वामी पतिश्च मे' ।इत्येवं वै ब्रह्मभावमनुं ददौ च वै हरिः ॥९३॥'बालकृष्णः परब्रह्म मम वै शाश्वतः पतिः ।पिता बन्धुः सुहृन्मित्रं रक्षकः पालकोऽस्तु सः' ॥९४॥आत्मनिवेदनमन्त्रं ददावेव हरिः स्वयम् ।'ओं नमः श्रीकृष्णनारायणाय स्वामिने नमः' ॥९५॥इत्येवं श्रावयामास नमस्कारार्चनं ततः ।'श्रीश्रीकृष्णस्य भक्तोहं श्रीहरिः शरणं मम' ॥९६॥'श्रीकृष्णवल्लभेशोऽयं श्रीस्वामी शरणं मम' ।'श्रीकृष्णवल्लभस्वामी श्रीहरिः शरणं मम' ॥९७॥इत्येवं निजमन्त्राँश्च प्रददौ भगवान् स्वयम् ।अथ प्रजा हरिं नत्वा पूजयामासुरादरात् ॥९८॥श्रीसतीशनृपराज्ञी पुपूज परमेश्वरम् ।श्रीसतीशनृपकन्यास्तिस्रो युवत्य एव तम् ॥९९॥हरिं कान्तं मनोभाव्यं प्राप्य कण्ठे तु मालिका ।वरमालात्मिका दत्वाऽर्पणं न्यवेदयन् स्वकम् ॥१००॥हरिस्तासां करान् धृत्वा तासां नाथो बभूव ह ।राज्ञी राजा मुमुदाते कृतकृत्याश्च कन्यकाः ॥१०१॥तदुत्सवं नृपश्चक्रे यौतकं बहुधा ददौ ।आरार्त्रिकं ततश्चक्रे राजा स भोजनं ददौ ॥१०२॥महीमानान् मिष्टवर्यैर्भोजयामास वै ततः ।विशश्राम हरी रात्रौ त्रिकन्यास्तं सिषेविरे ॥१०३॥प्रातर्मांगल्यवाद्यैश्च गीतिकाभिः स्तवादिभिः ।प्रबुबोध हरिकृष्णो नारायणो नराधिपः ॥१०४॥कृताह्निकं कृतपूजं हरिं राजा ह्युपाययौ ।दुग्धं वै पाययामास सर्वान् सुखेन भूपतिः ॥१०५॥सिषेवे चेष्टदानाद्यैराशीर्वादानवाप च ।तावत्तत्र समायातो नेतुं श्रीहरिमच्युतम् ॥१०६॥त्रेताकर्कशराजर्षिः कर्णफालर्षिसंयुतः ।बालावित्तकराष्ट्रेशः फान्कलाशीपुरीं प्रति ॥१०७॥नेतुं समार्थयत् कृष्णं दण्डवत् प्रचकार ह ।तथास्त्विति हरिः प्राह स्वागतं भूपतेर्नृपः ॥१०८॥व्यधात्ततोऽभवत्सज्जो राधिके परमेश्वरः ।राजा विदायं प्रददौ सैन्येन माननं ददौ ॥१०९॥इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने सञ्चालानगर्यां हरेर्भ्रमणं पूजनं चोपदेशनं भोजनं रात्रौ विश्रमणं द्वितीयाप्रातर्विदायं सम्माननं चेत्यादिनिरूपणनामा नवदशाधिकद्विशततमोऽध्यायः ॥२१९॥ N/A References : N/A Last Updated : May 02, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP