संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|त्रेतायुगसन्तानः|
अध्यायः २६०

त्रेतायुगसन्तानः - अध्यायः २६०

लक्ष्मीनारायणसंहिता


श्रीकृष्ण उवाच-
शृणु त्वं राधिके श्रीमानश्वपाटलभूपतिः ।
लोमशं यत्पुनश्चापि पप्रच्छ सुखसाधनम् ॥१॥
अश्वपाटल उवाच-
दत्तमिष्टं तपश्चापि गुरोः शुश्रूषणादिकम् ।
योगिनाऽपि कृतं मोक्षे निष्फलं वा फलप्रदम् ॥२॥
श्रीलोमश उवाच-
राजन् कृतं कदाचिन्न निष्फलं चेह लीयते ।
फलं भुक्त्वैव सहसा लीयते योगिनामपि ॥३॥
सर्वेषां फलभोगोऽस्ति कर्मणां सर्वसृष्टिषु ।
दाने कृते न वै तत्र भोगो दातुर्भवेदिति ॥४॥
सर्वकर्माणि देयानि चार्पणीयानि सत्पतौ ।
पुण्यं वा यदि वा पापं चार्पितं नैव भुज्यते ॥५॥
हरावर्पितमेवैतन्नैर्गुण्यं समपद्यते ।
अर्पणस्य फलं तत्र हरेः प्रसन्नता भवेत्। ॥६॥
तया भक्तस्याऽर्पयितुर्लब्धिर्हरिश्रितात्मता ।
हरेर्धाम्नि निवासः स्यान्मोक्षाऽऽनन्दः फलं मतम् ॥७॥
प्राकृतं कर्म कृष्णे चेद् दत्त फलमप्राकृतम् ।
कृष्णाऽनर्पितमेतद्वै भुज्यते चेश्वरादिषु ॥८॥
देवेषु मानवेष्वन्ययोनिषूच्चावचादिषु ।
कलुषं नीयते क्लेशे कर्तारं प्राप्तकालिकम् ॥९॥
दारिद्र्याच्चापि दारिद्र्यं रोगाद् रोगं भयाद् भयम् ।
दुर्भिक्षादेव दुर्भिक्षं यान्ति वै पापिनो मुहुः ॥१०॥
स्मृद्धेः स्मृद्धिं प्रमोदाच्च प्रमोदं च दिवो दिवम् ।
सुखात् सुखं प्रयान्त्येव पुण्यकृतो महोत्सवान् ॥११॥
अदातारो हस्तहीना व्यालाः सरीसृपादयः ।
जायन्ते तामसा नैजनास्तिक्यफलदेहिनः ॥१२॥
दातारो देवता वा च साध्याः स्थानिन ईश्वराः ।
प्रियदेवाऽतिथिविप्रसाधवः संभवन्ति वै ॥१३॥
अदातारो जना लोके धान्येषु पुलका इव ।
गजभुक्तकपित्था वा पूत्यण्डा इव पक्षिषु ॥१४॥
येषां धर्मो न चास्तिक्यं न दानं नाप्युपकृतिः ।
उदरं भरिणस्ते वै प्राप्स्यन्ति नोत्तरं नवम् ॥१५॥
भुंजते पापमेवाऽत्र स्वोदरंभरिणो जनाः ।
अदत्तेभ्यो न दास्यन्ति चान्ये चान्येषु जन्मसु ॥१६॥
श्वेताख्यो नृपतिः स्वर्गे न लेभेऽन्नं जलं तथा ।
यदत्र नैव दत्तं वै दाने मत्वाऽल्पकं हि तत् ॥१७॥
दत्तं स्वर्णहीरकादि यानं वाहनमित्यपि ।
तत्सर्वं तेन लब्धं वै स्वर्गे नाऽन्नं न वा जलम् ॥१८॥
क्षुधितश्च ततः स्वर्गादागत्य स्वशवोद्भवम् ।
भस्मलेहं विधायैव तृप्त्यर्थं यत्नमाचरत् ॥१९॥
तं दृष्ट्वा नारदेनापि तदर्थं श्राद्धमुत्तमम् ।
तत्पुत्रैः कारितं चान्नजलदानादिकं बहु ॥२०॥
ततस्तृप्तिमवापाऽसौ राजा श्वेताभिधः खलु ।
तस्माद् राजन् कर्मभूमौ दत्तं सर्वमवाप्यते ॥२१॥
नाऽदत्तं प्राप्यते क्वापि तस्माद् देयं विधानतः ।
कृतं कर्म सितं कृष्णं धावन्तमनुधावति ॥२२॥
तत्तदेवोत्तरं भुक्तं लग्नं छायेव चात्मनः ।
कर्मावृतं सविक्षेपं समिच्छन्तं सुखायतिम् ॥२३॥
विविधं भूतसंघातावृतं कालोऽपकर्षति ।
नैसर्गिकानि पुष्पाणि फलानि शाखिनं यथा ॥२४॥
तथा कालेन तिष्ठन्ति कृतकर्माणि देहिनः ।
तत्फलं च सुखं दुःखं लाभाऽलाभौ क्षयाऽक्षयौ ॥२५॥
मानावमाने दारिद्र्यस्मृद्धी चोत्सवशोचने ।
आमृत्यन्त प्रवर्तन्ते निवर्तन्ते न ताडिताः ॥२६॥
आत्मना चार्जितं कष्टं गर्भशय्यादिकं ततः ।
पुनः कृतं कृतं पूर्वं सर्वं भुंक्ते क्रमात् क्रमात् ॥२७॥
यथा वत्सः स्वकां धेनुसहस्रेष्वपि मातरम् ।
मार्गयत्येव कर्मोऽपि स्वकर्तारं प्रपद्यते ॥२८॥
क्षारेण वस्त्रमालिन्यं सवारिणा विशीर्यते ।
तपसाऽऽन्तरमालिन्यं सधर्मेण विलीयते ॥२९॥
जले मत्स्यपदं नैव दृश्यते च तपस्विनि ।
तथा कर्मपदं नैव भासते ज्ञानशेवधौ ॥३०॥
अलमप्राप्तकरणैरलं कठिनसाधनैः ।
गुरोः शुश्रूषणेनैव सर्वा सिद्धिः करे स्थिता ॥३१॥
तपसेन्द्रियरोधेन सिद्धिमाप्नोति यादृशीम् ।
ततः सहस्रगुणितां योगेनाऽऽप्नोति मानवः ॥३२॥
ततश्चाऽयुतगुणितां प्राप्नोति कृपया गुरोः ।
अश्वमेधसहस्रादिफलं योगकलानिभम् ॥३३॥
योगं विना विना ज्ञानं विना विज्ञानमित्यपि ।
गुरोः सेवां विना चापि राजन् मोक्षो हि दुर्लभः ॥३४॥
गुरोर्ज्ञानं समासाद्य संसेव्य गुरुमुत्तमम् ।
भक्तिं कृत्वा हरेस्तूर्णं मोक्षं परममाप्नुयात् ॥३५॥
ज्ञानविज्ञानशुद्धात्मा गुर्वाशीर्वादपेटिका ।
भूत्वा ब्रह्मवती चापि मोक्षं शीघ्रमवाप्नुयात् ॥३६॥
प्रथमे त्वाश्रमे शीली गुरोर्वै कृपया द्रुतम् ।
मोक्षमासादयत्येव किमन्याश्रमयत्नकैः ॥३७॥
राजसाँस्तामसान् भावान् हित्वा ब्रह्मव्रताश्रमे ।
सत्त्वमार्गे समास्थाय पश्येदात्मानमात्मना ॥३८॥
सर्वात्मभूतमात्मानं परेशं चात्मनि स्थितम् ।
वीक्ष्य सर्वस्थितं तं च कर्मबन्धं प्रहापयेत् ॥३९॥
अब्धिं मेघा विहायैव यथा यान्ति स्थलीं प्रति ।
मुक्तास्तथा भुवं हित्वा यान्ति ब्रह्मस्थलीं प्रति ॥४०॥
ज्योतिरात्मनि संयुक्तं सर्वदेहेषु राजते ।
तपसा शक्यते द्रष्टुं भक्त्या च कृपयाऽपि च ॥४१॥
स्वस्माद् भयं परेषां न परेभ्यः स्वस्य नो भयम् ।
द्वेषरागविहीनस्य परब्रह्म प्रकाशते ॥४२॥
पापभावविहीनस्य ब्रह्मभावयुतस्य ह ।
आत्मनिष्ठास्थितस्यैव परब्रह्म प्रकाशते ॥४३॥
आत्मानं श्रीहरौ युक्त्वा त्यक्त्वा मायां तु मोहिनीम् ।
ब्रह्मह्रदे निमग्नस्य परब्रह्म प्रकाशते ॥४४॥
बाह्ये तथाऽऽन्तरे त्वाद्ये समवृत्तिमुपागतः ।
विषमेऽपि समश्चास्ते ब्रह्म सम्पद्यते तदा ॥४५॥
स्तुतिं निन्दाम् अयः स्वर्णं सुखदुःखे प्रियाऽप्रिये ।
अर्थाऽनर्थौ च शीतोष्णे जीवनं मरणं तथा ॥४६॥
नैजं परं जडं चैत्यं बाह्यमान्तरमित्यपि ।
यदेक्षेत समत्वेन ब्रह्म सम्पद्यते तदा ॥४७॥
तमोव्याप्तं गह्वरं च यथा पश्येत् स्वतेजसा ।
तथाऽऽत्मज्ञानदीपेन ब्रह्म शक्यं निरीक्षितुम् ॥४८॥
नास्ति ज्ञानसमं चक्षुर्नास्ति ब्रह्मसमं गृहम् ।
नास्ति तृष्णासमं दुःखं नास्ति तोषसमं सुखम् ॥४९॥
वासनाया विनिर्वृत्तिः सततं ब्रह्मशीलता ।
साधुवृत्तिः सतां सेवा श्रेय एतत् प्रमोक्षदम् ॥५०॥
संगी भूत्वा यदि कश्चिन्मन्येताऽहं सुखीति च ।
नाऽयं सुखीति मन्तव्यः संगो हि दुःखसंभृतः ॥५१॥
सक्तस्य बुद्धिश्चलति मोहजालं तनोति च ।
जालबद्धस्य परितो दुःखोपदा मिलन्ति वै ॥५२॥
श्रेयोघातकरौ चोभौ कामक्रोधौ हि देहिनः ।
रागद्वेषात्मकौ तौ च दोषौ निरयदो मतौ ॥५३॥
आत्मानं सततं रक्षेत् ताभ्यां समाहितः शुभः ।
ताभ्यां हीनः सदा साधुस्ताभ्यां हीना सती तदा ॥५४॥
ययोस्त्यागे महाँस्त्यागः सर्वत्यागी स जायते ।
ताभ्यामसज्जमानो यः स चाप्नोत्यक्षरं पदम् ॥५५॥
ताभ्यां हीनो भूतहीनः संघातकर्षणोज्झितः ।
स विमुक्तः परंश्रेयो न चिरेणाऽतितिष्ठति ॥५६॥
अकैंचन्यं सुसन्तोषो निराशीस्त्वमचापलम् ।
एतत्प्रोक्तं श्रेय एव तेनाऽऽप्नुयात्परं पदम् ॥५७॥
परिग्रहे भवेच्छोकस्तच्छून्ये शोचनं कथम् ।
निर्गुणं नाश्रयन्तेऽभिजनाः पौराश्च राष्ट्रजाः ॥५८॥
विज्ञाय निर्गुणं शान्तं कान्ताऽपि विमनायते ।
मायापि निर्गुणं शान्तं त्यक्त्वा संगं विलीयते ॥५९॥
निरामिषं न वल्गन्ति सामिषा रागिणोऽम्बरे ।
उदासीनं न भाषन्ते भाषयन्त्यपि नैव च ॥६०॥
प्रज्ञातृप्तं ज्ञानतृप्तं ब्रह्मानन्दपरिप्लुतम् ।
भ्रममोहसुखा लोकास्त्यजन्ति च विचित्तवत् ॥६१॥
अन्तो नास्ति पिपासायास्तुष्टिर्वै परमं सुखम् ।
प्रज्ञासन्तोषमासाद्य ब्रह्मानन्दप्लुतो भवेत् ॥६२॥
अध्यात्मकुशलैर्वासं व्यवहारं च योगिभिः ।
मैत्रीं ब्रह्मविदां श्रेष्ठैः कृत्वा ब्रह्मसुखं लभेत् ॥६३॥
सर्वथा राजसा लोकास्तामसाश्चार्धसात्त्विकाः ।
गुर्वाशीर्वादरहिता दृश्यन्ते निरयार्हणाः ॥६४॥
वञ्चनायां कृतवासा हिंसायां कृतमानसाः ।
अनादृत्य गुरुं धर्मं जीयन्ते निरयाय तैः ॥६५॥
पूर्णसात्त्विकवर्गेषु श्रीः कंचिदुपतिष्ठते ।
यत्र नारायणवासस्तत्र सिद्धिः प्रमोक्षणम् ॥६६॥
उपर्युपरि लोकस्य सर्वो गन्तुं समीहते ।
यतते भिन्नमार्गेण न च याति यथेष्टकम् ॥६७॥
तस्माद् राजन् योगमार्गं हरेर्मार्गं परात्परम् ।
समालम्ब्य प्रयातव्यं कृपापाथेययोगिना ॥६८॥
न तु योगमृते शक्यं प्राप्तुं ब्रह्म सनातनम् ।
विना योगं कर्मबन्धः क्षेप्तुं शक्योऽपि नैव च ॥६९॥
राजन् कृष्णे चित्तवासो योगः परममोक्षदः ।
राजन् कृष्णे चात्मवासो मुक्तिः सा शाश्वती मता ॥७०॥
नरो नारायणश्चापि हरिः कृष्णश्च धर्मजाः ।
भ्रातरोऽपि परब्रह्म ध्यात्वा तन्मयतां गतः ॥७१॥
कपिलः ऋषभो दत्तः सनकाद्याश्च नारदः ।
पृथुश्च वामनः पर्शुरामो रामादयस्तथा ॥७२॥
श्वेतव्यासादयश्चान्ये ब्रह्मविष्णुमहेश्वराः ।
साधयित्वा परब्रह्मयोगं तन्मयतां गताः ॥७३॥
निर्वाणं सर्वधर्माणां निवृत्तिः परमा मता ।
अनादिश्रीकृष्णनारायणेऽर्पिता क्रिया हि सा ॥७४॥
श्रीर्लक्ष्मीः कमला राधा भूर्लीला पार्वती सती ।
रमा कृष्णा माणिकी च गंगा दुर्गा सरस्वती ॥७५॥
रमा जया च विरजा ब्रह्मप्रियादिकाश्च याः ।
साधयित्वा परब्रह्मयोगं तन्मयतां गताः ॥७६॥
यज्ञः प्रवृत्तिरूपोऽस्ति परे देवे समर्पितः ।
निवृत्तिरूप एवाऽयं त्वया राजन् विनिर्मितः ॥७७॥
तेन त्वं सर्वयज्ञानां फलं वै लब्धवान् परम् ।
यदत्राऽऽगत्य भगवाननादिश्रीनरायणः ॥७८॥
प्रातरेव ददौ तुभ्यं दर्शनं परमेश्वरः ।
देवाः सर्वे हरौ तृप्ते तृप्तास्तवाऽध्वरे नृप ॥७९॥
कृतकृत्यो भवस्यद्य पुरुषार्थचतुष्टये ।
स्वस्ति तेऽस्तु च लोकानां सेवाधर्मजुषां सदा ॥८०॥
अश्वपाटल उवाच-
कथं यज्ञेष्वग्रहरो भगवान् समजायत ।
कथं यज्ञे च भागार्हा देवता हरिणा कृताः ॥८१॥
श्रीलोमश उपाच-
यथावृत्तं हि कल्पादौ सृष्ट्यारम्भे च तच्छृणु ।
देवता ब्रह्मणा सार्धमृषयश्च तपोधनाः ॥८२॥
तेजोवृद्धीच्छया जग्मुः क्षीरोदोत्तरगं तटम् ।
तपश्चक्रुश्चोर्ध्वदृष्टिबाहवश्चैकपत्स्थिताः ॥८३॥
सहस्रवत्सरान्ते ते शुश्रुवुश्चाम्बरीं गिरम् ।
भोभोः सब्रह्मका देवाः ऋषयश्च तपोधनाः ॥८४॥
प्रवृत्तिकार्यं कर्तव्यं युष्मद्बलाभिवर्धनम् ।
ममाराधनतपसः फलं भोक्ष्यथ चोत्तमम् ॥८५॥
यूयं सर्वे यजध्वं मां कल्पयध्वं ममांशकम् ।
अध्वरे च भजध्वं मां मत्सेवा हि बलप्रदा ॥८६॥
राजँस्ते भुवमागत्य कृष्णमणिजनुं शुभाम् ।
सुराष्ट्राख्यां मखं चक्रुश्चात्र यत्र त्वया कृतः ॥८७॥
अहमासं तदा त्वत्र महर्षिमण्डले नृप ।
प्रथमोऽत्र क्रतुर्दिव्यो देवादिभिः कृतस्तदा ॥८८॥
वेददृष्टेन विधिना वैष्णवः सार्वमेधिकः ।
तत्र सत्रे स्वयं ब्रह्मा हरेर्भागमकल्पयत् ॥८९॥
देवा देवर्षयश्चापि हरेर्भागानकल्पयन् ।
स्वस्वभागेर्दधुः सर्वे यज्ञाय परमात्मने ॥९०॥
ते कार्तयुगधर्माणो भागा दिव्यास्तदाऽभवन् ।
अर्पिताः श्रीहरौ सर्वे ब्रह्मरूपास्तदाऽभवन् ॥९१॥
ते भागा मुक्तपुरुषा अस्तुवन् परमेश्वरम् ।
आदित्यवर्णं तमसः परस्तात् पुरुषोत्तमम् ॥९२॥
वरदानाय देवेभ्यस्ततः स वरदो हरिः ।
अशरीरोऽम्बरे स्थित्वा बभाषाऽश्वसरोऽन्तिकम् ॥९३॥
येन यः कल्पितो भागः स सर्वो मामुपागतः ।
प्रसन्नोऽहं वरं वोऽत्र ददामि बलदायकम् ॥९४॥
यूयं सर्वे स्वयं यज्ञैर्यजमानाः सुदक्षिणैः ।
युगे युगे भविष्यध्वं प्रवृत्तिफलभागिनः ॥९५॥
भवद्यज्ञानुसारेण ये यक्ष्यन्ति परे जनाः ।
भवद्भागान् कल्पयित्वा ते यास्यन्ति फलं परम् ॥९६॥
दीयमानाँश्च वो भागान् तान् यूयं समवाप्स्यथ ।
युगे युगे भविष्यध्वं प्रवृत्तिफलभागिनः ॥९७॥
प्रवृत्तिर्निवृत्तिरूपा मय्यर्पिता भविष्यति ।
यथा भवद्भिर्ये भागाः कल्पिताश्चात्र ते तथा ॥९८॥
भागा भागप्रदात्तॄणां कल्प्यन्ते त्वध्वरे मया ।
यूयं लोकान् भावयध्वं यज्ञभागफलप्रदाः ॥९९॥
मम भागफलं प्राप्य बलं यूयं मखे सुराः ।
मुहुश्चाप्यायितबला लोकान् वै धारयिष्यथ ॥१००॥
यूयं वै भाविता यज्ञैः सर्वयज्ञेषु मानवैः ।
भावयिष्यथ मां चैषा भावना मम वो मता ॥१०१॥
सा विध्यर्थस्वरूपा वै वेदवाक्ये मयाऽऽहिता ।
यज्ञान् कृत्वा मखे भुक्त्वा चिन्तयध्वं प्रजाहितम् ॥१०२॥
वसिष्ठाद्याः ऋषयश्च सनकाद्या महर्षयः ।
ब्रह्माद्या ईश्वराश्चापि आदित्याद्याश्च देवताः ॥१०३॥
अन्येऽपि मानवाद्याश्च यज्ञमार्गेऽधिकारिणः ।
गच्छध्वं स्वानधिकारान् वर्तयध्वं महामखान् ॥१०४॥
प्रवर्तन्तां क्रियायज्ञाः प्रादिश्यत विधींस्तथा ।
इदं कृतयुगं नाम कालः श्रेष्ठः प्रवर्तते ॥१०५॥
चतुष्पात् सकलो धर्मः प्रवर्ततेऽत्र दैविकः ।
इत्युक्त्वा ब्रह्मणे कृष्णो नैजं रूपमदर्शयत् ॥१०६॥
हयग्रीवस्वरूपं वै वेदानावर्तयत् शुभम् ।
परिष्वज्याऽऽह च ब्रह्मन् भारं त्वयि क्षिपाम्यहम् ॥१०७॥
असह्ये सुरकार्येऽहं ज्ञानदस्ते मुहुर्मुहुः ।
प्राविर्भावं गमिष्यामीत्युक्त्वा चान्तरधीयत ॥१०८॥
हयग्रीवमहातीर्थं तत् सरसि व्यजायत ।
तत्र स्नानाज्जलपानाद् वेदविज्ञानवान् भवेत् ॥१०९॥
ब्रह्मा जगाम स्वलोकं देवा जग्मुर्दिवादिकम् ।
एवं राजन् हरिर्यज्ञेऽग्रहरः समजायत ॥११०॥
देवभागान् ददौ चापि प्रवृत्तिं च निवर्तनम् ।
नैष्कर्म्यं बलदं कृष्णः स्वयं चकार वै तदा ॥१११॥
एष एव परब्रह्माऽनादिकृष्णनरायणः ।
कथितस्ते जगतां मे मोक्षदः कम्भरासुतः ॥११२॥
क्रियतां मद्वचो राजन् सेव्यतां बालकृष्णकः ।
गीयतां सततं कृष्णः पूज्यतां चान्तरे स्थितः ॥११३॥
गम्यतां चाक्षरं धाम भुज्यतां शाश्वतं सुखम् ।
इत्युपादिश्य च राधे लोमशो विरराम ह ॥११४॥

इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने लोमशगीतायां योगिनोऽपि दत्तेष्टगुरुशुश्रूषादिफलावाप्तिर्यज्ञे हरेर्देवतानां च भागाद्युत्पत्तिरित्यादिनिरूपण-
नामा षष्ट्यधिकद्विशततमोऽध्यायः ॥२६०॥

N/A

References : N/A
Last Updated : May 02, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP