संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|त्रेतायुगसन्तानः|
अध्यायः १५४

त्रेतायुगसन्तानः - अध्यायः १५४

लक्ष्मीनारायणसंहिता


श्रीकृष्ण उवाच-
ततश्च श्रीहरिः प्राह देवायतनकाय यम् ।
ब्रह्मप्रियादिहोमं च राधे तं ते वदाम्यपि ॥१॥
अनादिश्रीकृष्णनारायणस्य ब्राह्मरूपिणीः ।
ब्रह्मप्रियश्चत्वारिंशत् शतं चावाह्य पूजयेत्। ॥२॥
स्वर्णसिहासनं ध्यात्वा विशालं ताः समाह्वयेत् ।
तण्डुलेष्वथ वा पूगीफलेषु चार्चयेद् द्रवैः ॥३॥
ओं श्रीश्च ते लक्ष्मीश्च पत्न्यावहोरात्रे पार्श्वे-
नक्षत्राणि रूपमश्विनौ व्यातंन् इष्णं ।
निषाणमुम्मईषाण सर्वलोकम्मइषाणः ॥४॥
प्रथमं षण्महाब्राह्मीप्रियाश्चावाहयेन्मखी ।
ओं श्रीराधिकायै स्वाहा इदं राधिकायै नमम ॥५॥
आह्वयामि स्थापयामि पूजयामि नमामि ताम् ।
धूपं दीपं चन्दनादि नैवेद्यं जलमित्यपि ॥६॥
ताम्बूलकं तथा नीराजनं समर्पयामि च ।
ओं श्रीलक्ष्म्यै तथा स्वाहा इदं लक्ष्म्यै नमम ओम् ॥७॥
आह्वयामि स्थापयामि पूजयामि नमामि च ।
धूपं दीपं चन्दनादि नैवेद्यं जलमित्यपि ॥८॥
ताम्बूलकं तथा नीराजनं समर्पयामि च ।
ओं श्रीमाणिक्यायै स्वाहेदं माणिक्यायै नमम ॥९॥
ओं श्रीब्रह्मविद्यायै स्वाहा इदं ब्रह्मविद्यायै नमम ।
ओ श्रीरमायै च स्वाहा इदं रमायै च नमम ॥१०॥
ओं श्रियै च तथा स्वाहा इदं श्रियै च वै नमम ।
आह्वयामि स्थापयामि पूजयामि नमामि च ॥११॥
धूपं दीपं चन्दनादि नैवेद्यं जलमित्यपि ।
ताम्बूलकं तथा नीराजनं समर्पयामि च ॥१२॥
परविद्यां चाह्वयामि पूजयामि नमामि च ।
धूपं दीपं सुनैवेद्यं समर्पयामि ओं नमम ॥१३॥
ब्रह्मप्रियास्तथा गीता उपनिषद इत्यपि ।
जयन्तीश्चैकादशीश्चाऽऽराधनां चाह्वयामि च ॥१४॥
महालक्ष्मीं तथा भक्तिं राधां रमां पतिव्रताम् ।
गंगां च रोहिणीं कामदुघां च पृथिवीं तथा ॥१५॥
आह्वयामि स्थापयामि पूजयामि नमामि च ।
धूपं दीपं चन्दनादि नैवेद्यं जलमित्यपि ॥१६॥
ताम्बूलकं तथा नीराजनं समर्पयामि च ।
संज्ञा विभूतिं दुःखहालक्ष्मीं च कमलां तथा ॥१७॥
सिद्धिं मोहिनीमुर्वशीं मुक्तां बुद्धिं च पार्वतीम् ।
दीक्षां लीलां विरजां च वृन्दां नारायणीं तथा ॥१८॥
सरस्वतीं स्वर्णरेखां सितां च देविकां तथा ।
विभावरीं च तुलसीं मूर्तिं जयां च गोमतीम् ॥१९॥
आह्वयामि स्थापयामि पूजयामि नमामि च ।
धूपं दीपं चन्दनादि नैवेद्यं जलमित्यपि ॥२०॥
ताम्बूलकं तथा नीराजनं समर्पयामि च ।
प्रेमसखीं रुक्मिणीं गोदावरीं मञ्जुलां तथा ॥२१॥
हंसां सुगुणां ललितां धात्रीं रंभां कुमुद्वतीम् ।
चम्पां च शीतलां स्वर्णगौरीं नन्दां दयां कलाम् ॥२२॥
दुर्गां च नन्दिनीं साध्यां विजयां वञ्जुलीं तथा ।
धन्या दोलां च सावित्रीं पुण्यां च कोकिलां मनुम् ॥२३॥
आह्वयामि स्थापयामि पूजयामि नमामि च ।
धूपं दीपं च नैवेद्यं चन्दनादि जलं तथा ॥२४॥
ताम्बूलकं तथा नीराजनं समर्पयामि च ।
चित्रलेखां पूर्णिमां शारदां मां मञ्जरीं तथा ॥२५॥
देविकां प्रेयसीं श्रेयसीं विकुण्ठां तथाऽरुणाम् ।
ज्योष्ट्रीं शबरीं पम्पां च गालवीं सुदुघां तथा ॥२६॥
याज्ञसेनीं वसुमतीं पद्मावतीं च भार्गवीम् ।
पद्मिनीं श्रीमतीं जरत्कार्वीं लीलावतीं तथा ॥२७॥
कलावतीं च कदलीं रेवां कान्तिमतीं तथा ।
कालिन्दीं वर्धिनीं पुण्यनैधेयिकां सुमित्रिकाम् ॥२८॥
आह्वयामि स्थापयामि पूजयामि नमामि च ।
धूपं दीपं चन्दनादि नैवेद्यं च जलं तथा ॥२९॥
ताम्बूलकं तथा नीराजनं समर्पयामि च ।
बन्दुलां च सुशीलां च मानसां माधवीं तथा ॥३०॥
शर्मवतीं दीर्घिकां कर्णोत्पलामक्षमालिकाम् ।
उदुम्बरीं बदरीं कुब्जिकां हैमीमृतम्भराम् ॥३१॥
मंगलां चाऽमृतां महावेदीं कृष्णां हरिप्रियाः ।
आह्वयामि स्थापयामि पूजयामि नमामि च ॥३२॥
धूपं दीपं चन्दनादि नैवेद्यं च जलं तथा ।
ताम्बूलकं तथा नीराजनं समर्पयामि च ॥३३॥
सन्तोषां कंभरालक्ष्मीमाह्वयामि नमामि च ।
स्थापयामि पूजयामि धूपदीपजलादिभिः ॥३४॥
नैवेद्यं चन्दनं ताम्बूलकं समर्पयामि च ।
ओं राधाषट्काय च स्वाहेदं राधाषट्काय नमम ॥३५॥
पायसं पोलिका मिष्टान्नादि सद्व्यंजनानि च ।
भक्ष्यभोज्यानि लेह्यानि चोश्यानि चार्पयामि च ॥३६॥
ओं पराविद्यादिकानां चत्वारिंशद्युजे शताय च ।
स्वाहा इदं पराविद्यादिभ्य ओं ताभ्यो नमम ॥३७॥
पायसं पोलिका मिष्टान्नादि सद्व्यंजनानि च ।
भक्ष्यभोज्यानि लेह्यानि चोश्यानि चार्पयामि च ॥३८॥
ओं सन्तोषायैः कंभरालक्ष्म्यै स्वाहा ताभ्यां नमम ।
पायसं पोलिका मिष्टान्नानि सद्व्यंजनानि च ॥३९॥
भक्ष्यभोज्यानि लेह्यानि चोश्यानि चार्पयामि च ।
इति ब्राह्मीः पूजयित्वा ह्यवतारान् प्रपूजयेत् ॥४०॥
मत्स्यं कूर्मं च वाराहं कपिलं च हरिं तथा ।
वासुदेवं पृथुं दत्तात्रेयं हंसं नृसिंहकम् ॥४१॥
ऋषभं वामनं पर्शुरामं यज्ञं कुमारकान् ।
रामं हयग्रीवदेवं नारदं राजराजकम् ॥४२॥
व्यासं कृष्णं च गोपालं बुद्धं कलिकं च मोहिनीम् ।
धन्वन्तरिं बालकृष्णं नारायणं नरं तथा ॥४३॥
सहस्रहस्तं व्यूहं च स्थापयेत् स्वर्णमूर्तिषु ।
तन्दुलेषु पूगिकासु मणिष्वपि निधापयेत् ॥४४॥
आह्वयामि स्थापयामि पूजयामि नमामि च ।
धूपं दीपं चन्दनादि नैवेद्यं जलमित्यपि ॥४५॥
ताम्बूलकं नीराजनं समर्पयामि ओं नमः ।
ओं मत्स्यादिभ्यश्च स्वाहा इदं मत्स्यादिभ्यो नमम ॥४६॥
पायसं पोलिका मिष्टान्नानि सद्व्यंजनानि च ।
भक्ष्यभोज्यानि लेह्यानि चोश्यानि चार्पयामि च ॥४७॥
सशक्तिकाः सायुधाश्च सभूषाश्च ससेवकाः ।
प्रगृह्णन्त्वष्ट्युक्छतं भोज्यानां तु मखेऽर्पितम् ॥४८॥
ओं यज्ञेन यज्ञमयजन्त देवास्तानि
धर्माणि प्रथमान्यासन् ।
ते ह नाकं महिमानः सचन्त
यत्र पूर्वे साध्याः सन्ति देवाः ॥४९॥
इत्येवं त्ववताराणां होममष्टोत्तरं शतम् ।
यद्वा प्रत्येकमेवाऽपि कुर्यान्मखी यथाबलम् ॥५०॥
अथ सिंहासने स्वर्णे सगुणं तु चतुष्टयम् ।
वासुदेवं चानिरुद्धं प्रद्युम्नं च संकर्षणम् ॥५१॥
आह्वयामि स्थापयामि पूजयामि नमामि च ।
अष्टोत्तरशतद्रव्यैरर्चयामि सशक्तिकम् ॥५२॥
वासुदेवादिभ्यः स्वाहा इद्ं चतुष्ट्याय नमम ।
पायसं पोलिकाः शाकान्यपि रसाँश्च मिष्टकान् ॥५३॥
अथ सिंहासने स्वर्णे निर्गुणं तु चतुष्टयम् ।
अनादिश्रीकृष्णनारायणं कृष्णनरायणम् ॥५४॥
लक्ष्मीनारायणं नरनारायणं समाह्वयेत् ।
आह्वयामि स्थापयामि पूजयामि नमामि च ॥५५॥
अष्टोत्तरशतद्रव्यैरर्चयामि सशक्तिकम् ।
अनादिश्रीकृष्णनारायणादिभ्यश्च वै स्वाहा ॥५६॥
इदं तेभ्यश्च नमम नीराजयामि वै नमः ।
पायसं पोलिकाः शाकान्यपि रसांश्च मिष्टकान् ॥५७॥
इति सम्पूज्य परमेश्वरान् हवनमाचरेत् ।
तत्तन्नाम्नाऽष्टाहुतीश्चार्पयेत्पायसाज्यकैः ॥५८॥
विष्णोर्मासूरमयश्चरुः क्षीरमयश्चरुः शुभः ।
इदं विष्णुरिति गृणान् द्वादशाऽक्षरविद्यया ॥५९॥
ओं नमः श्रीकृष्णनारायणाय स्वामिने स्वाहा ।
षोडशाक्षरमनुना सहस्रं साष्टकं शतम् ॥६०॥
चरुं जुहुयात् ओं नमो भगवते वासुदेवाय स्वाहा ।
समिद्भिश्चाज्ययवतिलैः फलैर्जुहुयात्तथा ॥६१॥
ओं इदं विष्णुर्विचक्रमे त्रेधा निदधे पदम् ।
समूढमस्य पांसुरे स्वाहा इदं तु विष्णवे ॥६२॥
अनेन चापि सहस्रं साष्टकं शतमर्पयेत् ।
ओमग्नये स्विष्टकृते स्वाहेदमग्नये नमम ॥६३॥
तत ओं भूः स्वाहेदमग्नये नमम शं मखे कुरु ।
ओं भुवः स्वाहेदं वायवे नमम शं मखे कुरु ॥६४॥
ओं स्वः स्वाहेदं सूर्याय नमम शं मखे कुरु ।
इतिव्याहृतिहोमं च कृत्वा तु मण्डपस्थितान् ॥६५॥
सम्पूज्य च बलिं दद्यात् सर्वदेवेभ्य एव च ।
ततश्च बहिरागत्य लोकपालेभ्य आर्पयेत् ॥६६॥
पूर्वे इन्द्र समागच्छ रक्षाऽध्वरं नमोऽस्तु ते ।
दिशं रक्ष बलिं भक्ष यजमानोदयं कुरु ॥६७॥
इन्द्रस्याऽनुचराः सर्वे भक्षयन्तु बलिं सुखाः ।
आग्नेय्यामग्ने आगच्छ रक्षाऽध्वरं नमोऽस्तु ते ॥६८॥
दिशं रक्ष बलिं भक्ष यजमानोदयं कुरु ।
अग्नेश्चानुसराः सर्वे भक्षयन्तु बलिं सुखाः ॥६९॥
दक्षिणे यम आगच्छ नैर्ऋत्यामेहि नैर्ऋते ।
पश्चिमे वरुणाऽऽगच्छ वायव्यामेहि वायुराट् ॥७०॥
उत्तरस्यां कुबेरैहि ऐशान्यामेहि ईश्वर ।
दिशं रक्ष बलिं भक्ष यजमानोदयं कुरु ॥७१॥
तत्तदनुचराः सर्वे भक्षयन्तु बलिं सुखाः ।
ईपूमध्ये एहि ब्रह्मन् निपमध्ये ह्यनन्तराट् ॥७२॥
दिशं च रक्षतं बलिं भक्षतं सानुसेवकौ ।
कुरुतं यजमानस्याऽभ्युदयं च मखोदयम् ॥७३॥
अथ क्षेत्रपाल बलिं गृह्ण रक्ष मखं सदा ।
सानुचरो यजमानोदयं कुरु सुखं कुरु ॥७४॥
दधिमाषादिकं भक्षेत्युक्त्वा तु तण्डुलान् क्षिपेत् ।
अथ चतुष्पथे भूता बलिं गृह्णन्तु शूर्पगम् ॥७५॥
पिष्टं माषान्नदध्योदनहरिद्रादिकज्जलम् ।
सिन्दूरकं गन्धरक्तपुष्पादि चत्वरे मखी ॥७६॥
गन्धपुष्पार्चितं शूर्पं स्थापयेद्वै गृणन् मनून् ।
बलिं गृह्णन्तु ते देवा आदित्या वसवस्तथा ॥७७॥
मरुतश्चाश्विनौ रुद्राः सुपर्णाः पन्नगा ग्रहाः ।
जृम्भकाः सिद्धगन्धर्वा माला विद्याधरा नगाः ॥७८॥
असुरा यातुधानाश्च पिशाचा डाकिनीगणाः ।
शक्तयो यक्षवेताला ये च विघ्नविनायकाः ॥७९॥
भूताः प्रेताश्च कूष्माण्डाः शाकिन्यो मातरस्तथा ।
तृप्ता भवन्तु बलिना यज्ञप्रसादरूपिणा ॥८०॥
मा विघ्नं यजमानस्य रोगं दुःखमनिष्टकम् ।
कुर्वन्तु तत्कुटुम्बस्य मा सन्तु परिपन्थिनः ॥८१॥
सर्वे भवन्तु तृप्ताश्च रक्षां कुर्वन्तु मेऽध्वरे ।
देवताभ्यश्च पितृभ्यो भूतेभ्यः सहजन्तुभिः ॥८२॥
एतत्स्थानाधिवासिभ्यः प्रयच्छामि बलिं नमम ।
त्रैलोक्ये यानि भूतानि स्थावराणि चराणि च ॥८३॥
देवदानवगन्धर्वा यक्षराक्षसपन्नगाः ।
किंपुरुषाः किन्नराश्च साध्या सन्तश्च साध्विकाः ॥८४॥
ऋषयो मुनयो गावो देवमातर इत्यपि ।
काश्यप्यस्तस्य वंशीया राजसास्तामसाः सिताः ॥८५॥
एते ममाऽध्वरे रक्षां कुर्वन्तु देहधारिणः ।
मूर्ताऽमूर्तस्वरूपाश्च यमा याम्याश्चरन्तु शम् ॥८६॥
एतेभ्यश्चापि सर्वेभ्यः स्वाहा बलिं च ओं नमम।
कृत्वाऽथाचमनं शुद्धिं यायान्मण्डपसन्निधौ ॥८७॥
विश्रम्य यूपकार्यं च तत आचार्य आचरेत् ।
इति राधे प्रभूक्तं ते मयोक्तं ब्राह्मकर्म तत् ॥८८॥

इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने राधिकादिषट्कपराविद्याचत्वारिंशद्धिकशतसन्तुष्टाकम्भराद्वयपरमेशावतारविष्णुलोकपालभूतादिपूजाबलिसमर्पणादिनामा चतुष्पञ्चाशदधिकशततमोऽध्यायः ॥१५४॥

N/A

References : N/A
Last Updated : May 01, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP