संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|त्रेतायुगसन्तानः|

त्रेतायुगसन्तानः - अध्यायः २२६

लक्ष्मीनारायणसंहिता


श्रीकृष्ण उवाच-
शृणु त्वं राधिके श्रीमत्कृष्णनारायणो हरिः ।
यमुपदेशं प्रददौ स्वात्मकल्याणकारकम् ॥१॥
तमहं ते प्रवक्ष्यामि प्रजाभ्यः प्रददौ प्रभुः ।
परब्रह्मप्रयुक्तेन ब्रह्मणा चाक्षरेण वै ॥२॥
प्रेर्यते पुरुषो धाम्नि स्थितः सृष्टिविधापने ।
युयुजे निजशक्त्या स मायया तेन मायिकाः ॥३॥
मायालीनाऽनादिनो ये आत्मानस्ते स्वकर्मभिः ।
प्रेरिता ईश्वरा यद्वा जीवा भवन्ति देहिनः ॥४॥
देहेन्द्रियान्तःकरणतन्मात्राभूतसंज्ञकम् ।
संघातं तु निजं मत्वा बध्यते तत्र कर्मभिः ॥५॥
संघातरूपान् भावान् वै गृह्णन्ति प्राणिनो मुहुः ।
पुनर्वियोगं संयन्ति चक्रवत्परियन्ति च ॥६॥
शान्तघोरविमूढांश्च भावान् प्रयान्ति सर्वतः ।
रोमलोहितमांसानि भावा वै मातृसंभवाः ॥७॥
मज्जाऽस्थिस्नायवो भावा भवन्ति पितृसंभवाः ।
सुखदुःखविमोहाढ्याः शीतोष्णदाहकाः सदा ॥८॥
तान् भावान् समवाप्याऽपि तैर्न यो भावितो भवेत् ।
सोऽहं सोऽहं विचिन्त्य स्याद् भावबन्धनवर्जितः ॥९॥
नवद्वारं पुरं रम्यं तत्तद्भावैः समन्वितम् ।
व्याप्य शेते चेतनात्मा पुरुषः सोऽयमुच्यते ॥१०॥
तेभ्यः पुरुषसंज्ञेभ्योऽनन्तेभ्यश्चोत्तमोऽस्म्यहम् ।
अन्तरात्मा विराजेऽहं ब्रह्मलोके यथाऽस्म्यहम् ॥११॥
पुरुषोत्तम एवाऽहं भवामि सर्वशासकः ।
सर्वेषु चेतनेषु यद्वदहं निवसामि ह ॥१२॥
तथा सर्वजडेऽप्यस्मि शरीरी तत्त्ववधारकः ।
तं मां विज्ञाय भक्तो मे विदेहो जायतेऽचिरात् ॥१३॥
अजरः सोऽमरश्चैव सूक्ष्मो मम वृषान्वितः ।
मम मूर्तौ मम भक्तौ सर्वार्पणो विमुच्यते ॥१४॥
अग्निश्चास्ते सदा दारौ दारुनाशे वियुज्यते ।
परे तत्त्वे प्रयात्येव तथाऽऽत्मा देहनाशने ॥१५॥
तं परं परमात्मानं मामाश्रित्याऽपि पापिनः ।
पुण्यवन्तो भवन्त्येवाऽङ्गारा इवाऽग्नियोगतः ॥१६॥
मम सतां प्रसंगेन ममैश्वर्यातियोगतः ।
ममांऽशगुणलाभाच्च भक्तो मत्समतां व्रजेत् ॥१७॥
स्वप्नदृश्यान् पदार्थान् वै त्यक्त्वा चायाति जाग्रति ।
तथा मायादिकास्त्यक्त्वा सर्वद्रष्टरि याति वै ॥१८॥
भूमिं त्यक्त्वा यथा वारि सरिद्द्वारा महार्णवम् ।
याति तद्वद् विहायेदं वर्ष्मात्मा मां पुमुत्तमम् ॥१९॥
कृतकार्या निवर्तन्ते यथा वै कर्मचारिणः ।
भुक्तभोगा निर्वतन्ते तथाऽऽत्मानश्च देहिनः ॥२०॥
वेगहीनः शरो यद्वन्निष्क्रियो याति भूतलम् ।
वासनावेगहीनोऽयं जीवो याति ममाऽक्षरम् ॥२१॥
निराशो जायते यद्वन्निवृत्तः कर्मणस्तथा ।
सर्वाशावर्जितो लोके निवृत्तो मां प्रयाति वै ॥२२॥
सर्वभावैर्वर्जितो यत् ततो याति ममास्पदम् ।
मदभ्यासान्मयि सक्तो न याति प्रकृतिं पुनः ॥२३॥
बीजान्यग्न्युपदग्धानि न प्ररोहन्ति सर्वथा ।
तथाऽस्य सर्वबीजानि न प्ररोहन्ति वै पुनः ॥२४॥
अमृतास्वादसंसक्तः स्वादान्तरे न सज्जते ।
मम स्वादे प्रसक्तः स गुणस्वादे न सज्जते ॥२५॥
दुर्लभा मम वेत्तारो जगत्यत्र भवन्ति वै ।
सुलभाः सर्वतो जीवा देहेन्द्रियार्थपोषकाः ॥२६॥
निम्नभावे वेगवन्तो यान्ति वारिप्रवाहणाः ।
निम्नग्राम्ये तथावेगा यान्ति वै प्रायशो जनाः ॥२७॥
वह्निस्वभावाः सन्तस्तु यान्त्यूर्ध्वं ब्रह्मवेदिनः ।
सतां प्रसंगतो भक्ताः प्रयान्तूर्ध्वं ममाऽक्षरम् ॥२८॥
एवं विचार्य सततं भजनीयः परेश्वरः ।
सतां संगेन कर्तव्या भक्तिर्मे धामदायिनी ॥२९॥
सर्वार्पणं मयि कृष्णे नारायणे परेश्वरे ।
ये कुर्वन्ति न वै तेषां माया बाधकरी भवेत् ॥३०॥
यः स्नेहः पुत्रवित्तादौ यः स्नेहः प्रमदादिषु ।
यः स्नेहो निजदेहादौ तं स्नेहं त्वर्जयेन्मयि ॥३१॥
या तृष्णा विषये सौख्ये या तृष्णा भोगसाधने ।
या तृष्णा मानयशसोः सा कार्या मयि माधवे ॥३२॥
यो वेगः स्वार्थसम्प्राप्तौ यो वेगोऽरिजयादिषु ।
यो वेगोऽहंकृतौ चास्ते स कार्यो मयि केशवे ॥३३॥
या तृप्तिश्चेष्टलाभेऽस्ति या तृप्तिर्भोगनिर्गमे ।
या तृप्तिर्बहुसन्तोषे सा कार्या मयि सर्वथा ॥३४॥
यत्सुखं सात्त्विके भावे निर्द्वन्द्वे चापि यत्सुखम् ।
यत्सुखं च विवेकेन तत् कार्यं मयि सर्वथा ॥३५॥
या पुष्टिः सम्पदा स्याच्च या पुष्टिर्बलसंग्रहैः ।
या पुष्टिः शास्त्रविषयैः सा कार्या मयि सर्वदा ॥३६॥
यत्स्थानं चाश्रये नित्यं यत्स्थानं च सहायदे ।
यत्स्थानं स्वस्य हृदये तत्कार्यं मयि सर्वथा ॥३७॥
यत् तादात्म्यं च देहादौ यत्तादात्म्यं च गौरवे ।
यत्तादात्म्यं निजे सौख्ये तत्कार्यं मयि सत्पतौ ॥३८॥
या शुभाशा निजे पुत्रे या चाऽऽशा त्वायतौ सुखे ।
या चाशा लाभसँलग्ना सा कार्या मयि सर्वदा ॥३९॥
उपार्जिते या ममता तादात्म्ये ममता च या ।
याऽभिमते च ममता सा कार्या मयि मुक्तये ॥४०॥
यः प्रयत्नो विषयार्थं धनार्थं यः प्रयत्नकः ।
प्राणार्थं यः प्रयत्नश्च कार्यः स मयि माधवे ॥४१॥
शरीरवानुपादत्ते मोहात् सर्वान् परिग्रहान् ।
तेन वै बन्धनं स्याच्च निरयं त्वभियाति सः ॥४२॥
नाऽशुद्धमाचरेत्तस्मात् समिच्छन् ब्रह्मसद्गतिम् ।
कर्मणां विघ्नरूपाणां फलं नेच्छेत् सुबुद्धिमान् ॥४३॥
यश्च कर्माऽऽचरेल्लोभान्मोहान्मदाच्च मत्सरात् ।
मोक्षपन्थानमुत्क्रम्य सानुबन्धः स नश्यति ॥४४॥
तस्माद् रागयुजा नैव भाव्यं क्वचिद् विवेकिना ।
बालिशेन न वै भाव्यं वा मुग्धेन जडात्मना ॥४५॥
मृन्मयं तु गृहं यद्वन्मृदा सम्परिलिप्यते ।
अन्नमयं तथा वर्ष्म लेपनीयं तथान्नकैः ॥४६॥
पार्थिवं वर्ष्म चैवैतत् पार्थिवैः पुष्टिमेति हि ।
नैतावता ममत्वेन कार्याऽऽसक्तिर्हि वर्ष्मणि ॥४७॥
मिष्टं तिक्तं घृतं तैलं स्निग्धं धान्यफलादिकम् ।
मृद्विकारा मृदो देहेऽपेक्षणीया हि सन्ति वै ॥४८॥
तावन्तश्चोपयोक्तव्या बन्धनादिविवर्जिताः ।
एवं यात्रां विनिर्वाह्य भवपारं प्रयाति वै ॥४९॥
यथाऽरण्यं गतो योगी क्वचिद्भोज्यं हि पत्तनात् ।
गृह्णात्यपि न तत्रापि बध्यते रागतस्तथा ॥५०॥
संसारारण्यमातिष्ठन् श्रमवान् यात्रिको भवन् ।
यात्रार्थमद्यादाहारं यथा बन्धाय नो भवेत् ॥५१॥
इन्द्रियैर्मनसा बुद्ध्या समीक्ष्य विषयानपि ।
शान्तिमिच्छन्न लुब्धः स्यात्तदा निर्बन्धनो भवेत् ॥५२॥
वासनाभिभूतलोका मोहिता मायया मम ।
चक्रवत् परिवर्तन्ते जन्ममृत्युभवभ्रमे ॥५३॥
तस्मादज्ञानजान् दोषान् त्यक्त्वा च बन्धनान्यपि ।
मम मार्गं समाश्रित्य मोक्षभाक् स्याद्विवेकवान् ॥५४॥
अकालपुरुषात् सर्वं चाहंकारे भ्रमत्यपि ।
फलं चाहंकृतं भुंक्ते पुनर्मायां प्रगच्छति ॥५५॥
रजोजन्यं स्वर्गरूपं स्थानं वै बन्धनं परम् ।
तमोजन्यं राक्षसादि स्थानं वै बन्धनं परम् ॥५६॥
तस्मादात्मवता वर्ज्यं रजश्च तम इत्यपि ।
रजस्तमोभ्यां शून्यं च सत्त्वं निर्मलतामियात् ॥५७॥
नैर्मल्ये चेतनः सम्यक् प्रसादवान् प्रजायते ।
प्रसादरूपः प्राप्नुयात् परमेशप्रसन्नताम् ॥५८॥
नित्यप्रसन्नताप्राप्तो मोक्षं समधिगच्छति ।
आत्मा नर इतिप्रोक्तो नारी तु वासना मता ॥५९॥
कृत्या ह्येषा घोरभावा गर्ते नयति कामिनः ।
रजस्तमोमयीमूर्तिरिन्द्रियाणां बलप्रदा ॥६०॥
वासना डाकिनी दुष्टा नरं क्षिपति सागरे ।
नरदेहे च वा नारीदेहे मोहस्य कारिणी ॥६१॥
पातयत्येव संघातेऽशुचौ मलिनमन्दिरे ।
असंस्कृतमहामार्गे रूपरागप्रलेपिते ॥६२॥
मोहात्पतितः पुरुषो बीजं वपति मायिकम् ।
जायन्ते जन्तवो बीजात् पुत्रपुत्रीतिनामकाः ॥६३॥
सादृश्येऽत्र विशेषोऽस्ति साम्येऽपि स्वेदजैः सुतैः ।
स्वेदजाः क्रमयः प्रोक्ता धातुजाः सुतसंज्ञकाः ॥६४॥
मोक्षार्थी तु क्रमीन् पुत्रान् स्वजातान् साम्यभाववान् ।
विरागेण विवेकेन विसृज्य मां समाश्रयेत् ॥६५॥
जनौ दुःखे पारवश्ये बालभावेऽपि दुःखकम् ।
यौवने विषयेच्छाभिश्चेन्द्रियपरतन्त्रता ॥६६॥
वार्धक्ये पारवश्ये च पुनर्दुःखं तदुत्तरम् ।
दुःखाद्यन्तैर्दुःखमध्यैर्नरः शारीरमानसैः ॥६७॥
विज्ञायेदं दुःखसौधं तदुपेक्षेत् मां श्रयेत् ।
उपादानान्निमित्ताच्च सहकारित इत्यपि ॥६८॥
आपूरकात्तथा सर्वं दुःखमेव हि वर्ष्मणि ।
तादृशं समनादृत्य त्यागान्निरोधमाश्रयेत् ॥६९॥
मयि रोधं प्रपन्नस्याऽतर्षुलस्य विवेकिनः ।
भक्तस्य मम योगेन मुक्तिरेव न संशयः ॥७०॥
तत्त्वज्ञानामृतभुजो भक्तिरसपिबस्य वै ।
मम स्नेहसुधाक्तस्य ममाऽक्षरपदं मतम् ॥७१॥
ब्रह्मचर्यं ब्रह्मरूपं शीलं चिदम्बरं मतम्।
चिदाकाशं समालम्ब्य ममाकाशमुपाव्रजेत् ॥७२॥
देहाकाशं तथेन्द्रियाकाशं चान्तर्विकाशकम् ।
ब्रह्माकाशेन संयुज्य हर्याकाशेऽर्पयेत् कृती ॥७३॥
एवं मुक्तो भवत्येव मम योगमुपागतः ।
कृत्वैवं नित्यमभ्यासं कर्तव्यं नावशिष्यते ॥७४॥
इत्युक्त्वा विररामाऽसौ भगवान् कृष्णवल्लभः ।
राधिके स ततो मन्त्रान् ददौ भक्तेभ्य आर्थितान् ॥७५॥
ततो रात्रौ परां शान्तिं योगनिद्रात्मिकां ययौ ।
प्रातर्वाद्यादिमांगल्यैः कीर्तनैर्यशसां श्रवैः ॥७६॥
जजागार स्वयं नाथस्त्रैलोक्यां मंगलं व्यधात् ।
कृताह्निकः कृतपूजः कृतसम्भावनः प्रभुः ॥७७॥
सर्वान् भक्तान् महीमानान् संभाव्य मण्डपं ययौ ।
तदा वाद्यान्यवाद्यन्त मखोत्साहप्रवृत्तये ॥७८॥
मंगला गीतयश्चासन् नारीणां ब्रह्मयोषिताम् ।
वेदघोषा अभवँश्च वैदिकानां समन्ततः ॥७९॥
आययुश्च क्रतुस्थानं मखीयाः कर्मठा द्रुतम् ।
अवताराश्च मुक्ताश्चेश्वरा देवा महर्षयः ॥८०॥
पितरो मानवा दैत्या यक्षाः सुराश्च दानवाः ।
काश्यप्यश्च प्रजाः सर्वा देव्यश्च ब्रह्मयोषितः ॥८१॥
नागाः सर्पाः खनिजाश्चाययुर्वै जडचेतनाः ।
षष्ठ्यां प्रातर्यज्ञकार्यं पूर्ववन्मुनिभिस्तदा ॥८२॥
प्रवर्तितं यथायोग्यं स्वस्तिवाचनपूर्वकम् ।
देवानां पूजनं जातं तथा बलिनिवेदनम् ॥८३॥
हव्यदानं च वह्नौ चाहुतिप्रदानकं तथा ।
पितॄणां तर्पणं चापि पुष्पाञ्जलिश्च दक्षिणाः ॥८४॥
आरार्त्रिकं परिहारः सर्वं जातं यथोचितम् ।
विप्राणां भोजनं चापि महीमानादिभोजनम् ॥८५॥
यजमानादिलोकानां भोजनानि शुभान्यपि ।
जातान्यथ सुविश्रम्य हरिः सायं सभां शुभाम् ॥८६॥
अकारयत् स्वयं तत्र स्वामीश्रीकृष्णवल्लभः ।
आचार्यवर्यो भगवान् जनेभ्यः प्रददौ मनून् ॥८७॥
ततश्चोपादिदेशापि मोक्षदं हितकृच्च वै ।
राधिकेऽनादिकृष्णः श्रीपतिर्गोपालबालकः ॥८८॥
श्रीकृष्णवल्लभाचार्यः कोटिमुक्ताभिवन्दितः ।
धामधामेश्वरनाथः सर्वावतारकारणम् ॥८९॥
असंख्यब्राह्मीसेवाभिप्रसादितपरेश्वरः ।
यज्ञे तृप्तः सुराद्यैश्च पूजितो मोक्षदः प्रभुः ॥९०॥
कारुणिकः कांभरेयोऽनन्तशक्तिपतिर्हरिः ।
उपदेशक्षणे सर्वैस्त्वेकवृत्त्या विलोकितः ॥९१॥

इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने पञ्चम्यां रात्रौ प्रजाभ्य उपदेशनं रात्रौ विश्रमणं षष्ठ्यां प्रातश्चाह्निकोत्तरं यज्ञसमस्तकार्यनिर्वर्तनं भोजनादि चेत्यादिनिरूपणनामा षड्विंशत्यधिकद्विशततमोऽध्यायः ॥२२६॥

N/A

References : N/A
Last Updated : May 02, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP