संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|त्रेतायुगसन्तानः|
अध्यायः ९

त्रेतायुगसन्तानः - अध्यायः ९

लक्ष्मीनारायणसंहिता


श्रीकृष्ण उवाच-
शृणु चान्यच्चरित्रं च राधिके परमात्मनः ।
मासे याते द्वितीये च तृतीये शुक्लपक्षके ॥१॥
गृहाद् बहिर्निष्क्रमणं चक्रे माता सुतस्य वै ।
पुण्याहवाचनं तत्र नान्दीश्राद्धादिकं तथा ॥२॥
अकारयत् पिता विप्रैराशीर्भिः समयोजयत् ।
लोमशस्याऽऽश्रमं गत्वा ह्यनामयच्च पादयोः ॥३॥
गुरुस्तस्य हि तिलकं भाले कुंकुमचन्द्रकम् ।
कृत्वा के स्वकरौ दत्वा ददौ मन्त्रं च कर्णके ॥४॥
'अनादिश्रीकृष्णनारायाणो मे शरणं नमः ।
'ओं नमः श्रीकृष्णनारायणाय स्वामिने स्वाहा ॥५॥
बालः श्रुत्वा प्रत्युवाच मन्त्रं वारत्रयं पुनः ।
लोमशर्षिस्तथा माता जनकाद्या मुदं ययुः ॥६॥
कण्ठीं द्विरावृतां कण्ठे तौलसीं स न्यधारयत् ।
पुष्पहारं ददौ कण्ठे कृष्णस्य लोमशो मुनिः ॥७॥
मुखे कणं शर्कराया ददौ हस्तेन लोमशः ।
दुग्धं चापाययत् कृष्णं मुहुः पस्पर्श पाणिना ॥८॥
ददौ माता तदा बालं खेलनार्थं तदाश्रमे ।
स्थिताभ्यः कन्यकाभ्यः श्रीकृष्णकान्ताभ्य एव च ॥९॥
ताश्चुचुम्बुर्मुहुः कान्त हासयामासुरुत्सुकाः ।
निन्युरुद्यानकं पार्श्वे पुष्पवल्लीनिकुंजके ॥१०॥
अहं पूर्वमहं पूर्वमित्यास कलहस्तदा ।
कान्तं चैकं रामयितु कन्यकानां च योषिताम् ॥११॥
कोटीनां कन्यकानां च विलोक्य भावना प्रभुः ।
कोटिरूपाणि च चक्रू तदुद्याने विशेषतः ॥१२॥
बालचन्द्रो यथा तासां सुखदः संभवेत् तथा ।
प्रावर्तत सदा तासां त्वधीनः कृष्णकान्तकः ॥१३॥
काचित्कृष्णं रमयति चुम्बयति मुहुर्मुहुः ।
काचित्तु वक्षसि कृत्वा दत्वा स्नेहभरं वचः ॥१४॥
हासयति स्वकं कान्तं बालरूपं मनोहरम् ।
काचिदंके निधायैनं गण्डयोः करशाखया ॥१५॥
स्पृष्ट्वा मुहुर्मुहुः कान्तं चित्तं रञ्जयति स्थिरम् ।
काचित्तन्मस्तके दत्वा हैयंगवीनमुत्तमम् ॥१६॥
शनैर्मर्दयति हस्ततलेन बालरूपिणम् ।
काचिच्छलाकया बिन्द्वीं ददाति भालकेऽरुणाम् ॥१७॥
काचित् करोति तिलकं रक्तं स्वर्णशलाकया ।
कौंकुमं राजसं मनोहरं चाकर्षकं प्रभुम् ॥१८॥
काचिद् बालं गण्डके च चिबुके च मनोहराम् ।
बिन्द्वीं करोति रक्तां च मानसस्य सुखावहाम् ॥१९॥
काचित्तु स्थलपद्मानां दलानां मालिकां नवाम् ।
मृद्वीं कृत्वा गले तस्य ददाति शान्तगन्धिनीम् ॥२०॥
अन्या तु नेत्रयोस्तस्य घृतजं कज्जलं शुभम् ।
अञ्जयति प्रतेजोऽर्थं रूपार्थं रङ्गमादिनी ॥२१॥
अन्या बालं करे प्रोच्छालयत्येव तदाऽम्बरे ।
अपरा वक्षसि त्वेनं तथोदरे मुहुर्मुहुः ॥२२॥
मुखेनोष्ठेन प्राणेन भंभंभंभं करोति च ।
वादयते शनैर्गालं किल्किलायति चापरा ॥२३॥
काचित् स्ववक्षसि पादौ तस्य धृत्वा प्रमोदते ।
काचित् कट्यां तु संस्थाप्य बाहुना तं धृतं प्रभुम् ॥२४॥
नृत्यन्तं च मयूरं वै दर्शयत्येव चेष्टया ।
इतरा पादयोस्तस्य करयोश्च मनोहरम् ॥२५॥
मनाक् संरञ्जनद्रव्यं योजयति सुदर्शनम् ।
अन्या कूजन्तमेवैनं कोकिलं त्वाम्रसंगतम् ॥२६॥
दर्शयति प्रतिकूजयति हासयते हरिम् ।
काचित् कृष्णस्य वैं नासां संस्करोत्यम्बरेण च ॥२७॥
काचिच्च वायुना लग्नं रजो मार्जयति द्रुतम् ।
अन्याऽङ्गुल्या शाखिसंस्थं मर्कटं दर्शयत्यपि ॥२८॥
तथाऽन्या शुक्लपुष्पाणां गुच्छान् धृत्वा नवान्नवान् ।
सौगन्ध्यं बालकृष्णाय समर्पयति सादरम्॥२९॥
तमन्या गद्गदं शब्दं श्रावयते च मोदते ।
अपरा तु रसं मिष्टं मनाग्ददाति वै मधु ॥३०॥
तथाऽन्या गायति गीतिं काचिन्नृत्यति भूतले ।
अपरा चक्रवद् बालं भ्रामयति भ्रमत्यपि ॥३१॥
काचित् सौगन्धिकं विष्णुतैलं सम्मर्दयत्यपि ।
तथाऽन्या वल्लिकादोलामारुह्याऽऽन्दोलयत्यपि ॥३२॥
द्वितीया शीतनाशार्थं कम्बलिकां ददात्यपि ।
अन्या वह्निं ज्वालयित्वा पार्श्वे तिष्ठति तद्युता ॥३३॥
अपरा मृगपृष्ठे तं समारोहयति प्रिया ।
तथाऽन्या मृगशावाग्रे नीत्वा स्थापयति प्रियम् ॥३४॥
गवां वत्सान् प्रति नीत्वा तांश्च दर्शयति प्रियान् ।
शशकर्णौ परा धृत्वा कृष्णं दर्शयते तु खे ॥३५॥
दर्पणे च मुखं तस्य तथा दर्शयति प्रिया ।
पराभ्यः संश्रावयन्ति त्वन्याश्चिह्नानि यानि च ॥३६॥
नूतनाश्च समागत्य पश्यन्ति तानि वै मुदा ।
श्रीकृष्णश्चाम्बरं दृष्ट्वा किल्किलेति करोति च ॥३७॥
काँश्चिन्मुखं स्वमुद्घाट्य ब्रह्माण्डं दर्शयत्यपि ।
अन्या गोलोकमाद्यं चाक्षर वैकुण्ठमित्यपि ॥३८॥
स्वतनौ भगवाँस्तत्र निजाभ्यो दर्शयत्यपि ।
एवं सर्वाः कुमार्यश्च मोदन्ते कृष्णलीलया ॥३९॥
आनन्दं ब्रह्मणो लब्ध्वा बभूवुः कृतवाञ्च्छिताः ।
ततः श्रीभगवाँस्तानि रूपाण्यन्तर्जहार च ॥४०॥
एक एवाऽभवल्लक्ष्मीकरगो वै चतुर्भुजः ।
माणिक्यायास्तथा चांऽके द्विभुजो हि ततोऽभवत् ॥४१॥
ततः श्रीकम्भरालक्ष्मीकट्यामेकलकोऽभवत् ।
सर्वा विलोक्य सामर्थ्यं तृप्ता जातास्ततः पिता ॥४२॥
पूजयामास विधिना लोमशं च गुरुं मुनिम् ।
चन्दनेनाऽर्चयामास ललाटं तिलकान्वितम् ॥४३॥
चन्द्रकं कारयामासाऽक्षतैर्लाजासुपुष्पकैः ।
हारैश्च पादुकाभिश्च फलैः पत्रैः सुकन्दकैः ॥४४॥
मूलैर्मृगाजीनवर्यैर्दुग्धैर्घृतैश्च तन्दुलैः ।
वस्त्रैश्च वल्कलैः क्रतावुपयुक्तसुवस्तुभिः ॥४५॥
लोमशं तोषयामास जगृहुस्तस्य चाशिषः ।
. कन्यकाभ्यश्च सौभाग्यद्रव्याणि जननी ददौ ॥४६॥
वस्त्राणि वलयाँश्चापि तथोपकरणानि च ।
भक्ष्यभोज्यानि पेयानि मृष्टान्नानि घृतानि च ॥४७॥
ददौ माता च केशानां प्रसाधनानि वै तदा ।
अनन्तानि तदिष्टानि सर्ववस्तूनि वै ददौ ॥४८॥
माता रक्षति कौमारे सर्वास्ताः पुत्रिका यथा ।
स्वर्गं द्वितीयं वै तत्र ब्रह्मचर्याश्रमं महत् ॥४९॥
वैकुण्ठमिव मायादिशून्यं हरेरनुग्रहात् ।
लोमशस्याऽऽश्रमं त्वासीन्मुक्तकन्याविराजितम् ॥५०॥
अहर्निशं हरिः कृष्णो नारायणोऽत्र चिन्त्यते ।
नारायणप्रियाः सर्वे सर्वाश्चासन् न चेतरे ॥५१॥
लोमशो वर्तते नित्यमुक्तो मायाविवर्जितः ।
अक्षरोऽव्यय एवाऽसौ मुक्तात्मा ब्रह्मपारगः ॥५२॥
यदाश्रमे न कामोऽस्ति न च क्रोधो विराजते ।
न लोभो नैव मोहोऽस्ति मदाद्यास्तु कथं तदा ॥५३॥
यत्र लिंगविकारो न यत्र योनिक्रिया न च ।
यत्र कामो न वै चाऽस्ति लोमशस्याऽऽश्रमस्तथा ॥५४॥
लीनमूर्ध्वं महत्स्थानं शान्तिर्यत्र तु शाश्वती ।
लोमशश्चाऽऽक्षराणां वै चतुष्टयं शुभार्थकम् ॥५५॥
एतादृशं ब्रह्मविदं यदा पूजयते पिता ।
तदा प्रभाभिधा कन्या बालकृष्णं प्रिय प्रभुम् ॥५६॥
रन्तुं रमयितुं नीत्वा ययावुद्यानजं द्रुमम् ।
राजचम्पकवृक्षं तं समाश्रित्य प्रिया सखी ॥५७॥
निषसाद ददौ बाला वृत्तीः सर्वा हरौ किल ।
तावत् तत्र समायातो व्योम्ना क्रोधनकोऽसुरः॥६८॥
यस्तु रुद्रललाटाद्वै जलमध्ये व्यजायत ।
ब्राह्मणा स्वललाटाद्वै यदा रुद्रः प्रकाशितः ॥५९॥
उक्तः सृष्ट्यर्थमेवाऽथ स वै व्याकुलमानसः ।
जलाऽन्तःस्थोऽभवत् तत्रोद्वेगं प्राप क्षणं स्मरन् ॥६०॥
तेन जातो ललाटेऽस्य रुद्रस्य स्वेदबिन्दुकः ।
तद्बिन्दुजोऽभवत् क्रूरो देवद्वेष्टा सुरेतरः॥६१॥
क्रोधनोऽयं बलवाँश्च तपस्तेपेऽतिदारुणम् ।
तपसा सिद्धिमापन्नो व्योमगः कामरूपधृक्॥६२॥
सोऽयं योगेन वै ज्ञात्वा कुंकुमवापिकाभुवि ।
अनादिश्रीकृष्णनारायणं दैत्यविरोधिनम् ॥६३॥
उद्याने वर्तते कन्याकरे मत्वेति वै तदा ।
जिघृक्षुर्बालकं तत्र त्वाययौ रभसाऽसुरः॥६४॥
कन्यारूपधरो भूत्वा रामयितुं समागतः ।
प्रभाहस्तगतं कृष्णमनापृच्छ्य तदाऽऽददे ॥६५॥
बालकृष्णो विदित्वैव तस्य वै दुष्टभावनाम् ।
हस्तौ कृत्वा लम्बमानौ तस्य विनाशनाय च ॥६६॥
मुक्तिदानाय च देवस्तस्या हस्तगतोऽभवत् ।
प्रभा ज्ञात्वा सखी कांचिद् ददौ तस्मै तु बालकम् ॥६७॥
क्रोधना कन्यका सा तु बालं नीत्वा क्षणान्तरे ।
वृक्षवल्लीषु च तूर्णमदृश्यभावतां गता ॥६८॥
प्रभा न पश्यति त्वेनां समाजुहाव तां तदा ।
क्रोधना त्वम्बरे नीत्वा ययावभ्रपथं द्रुतम् ॥६९॥
मारयितुं च तं बालं कृतयत्ना मुहुर्मुहुः ।
गले पाशं ददात्येषा किन्तु सा हस्तयोस्तदा ॥७०॥
वह्निना दह्यमाना च बालकण्ठं प्रमुञ्चति ।
आकाशस्था वह्निदग्धा शिखाव्याप्ताऽभवत्तदा ॥७१॥
श्रीकृष्णदेहजाद् वह्नेर्ज्वालाभिर्दग्धदेहिका ।
हाहेत्यवोचत् कृष्णं संप्राक्षिपद् भूतले तदा ॥७२॥
किन्तु कृष्णशरीरोत्थो वह्निस्तां नैव मुञ्चति ।
वह्निर्ज्वलंश्च बहुधा धूम्रकेतुर्यथा च खे ॥७३॥
तां कन्यां दहति क्रूरो वह्निस्त्राणं न विद्यते ।
तदा सा क्षिप्रमुत्प्लुत्य बालमनु ह्यवातरत् ॥७४॥
बालस्तु प्रभया गत्वा धृतः शीघ्रं करेण ह ।
प्रभा प्राप्तं हरिं धृत्वा दुद्राव लोमशं प्रति ॥७५॥
तावत् सा क्रोधना प्राह स्वसमेऽग्निं प्रशामय ।
ज्वलामि कर्मणा मेऽत्र रक्ष दुष्टां तु पापिनीम् ॥७६॥
इत्युक्त्वा चाग्रतो मार्गं रुद्ध्वा तुष्टाव बालकम् ।
नाथ कृष्ण कृपासिन्धो मां त्वं तारय कष्टतः ॥७७॥
शंकरस्य तु पुत्रोऽहं नाम्ना क्रोधनकोऽस्मि च ।
सुराणां द्वेषकर्ताऽहं तालनाम्नाऽसुरेण च ॥७८॥
प्रेषितस्तव नाशार्थं पापं चोपार्जितं मया ।
अघात्ये यन्मम बुद्धिर्घातनार्थमुपासिता ॥७९॥
तदहं च क्षमां याचे रक्ष मां मोक्षणं कुरु ।
इत्युक्तो बालकृष्णोऽसौ करुणावरुणालयः ॥८०॥
नैसर्गिककृपापूर्णः क्रोधनं प्राह वै तदा ।
कथं त्वं कन्यका जाता मम नाशाय मानिनि! ॥८१॥
नैव जानासि मां सर्वान्तरात्मानं परेश्वरम् ।
नाडीप्राणा मम हस्ते सृष्टेर्मुक्तेर्भवन्ति च ॥८२॥
वद त्वं चापराधं मे कृतवत्यसि शोभने ।
कं दण्डं निर्ममे तेऽर्थ वदाऽत्र तत् करोमि ते ॥८३॥
क्रोधना प्राह तं कृष्ण कान्तं मनोहरं प्रभुम् ।
उवाच मे गात्रदाहं प्रशामय प्रभो तथा ॥८४॥
कान्तो मे भव देवेश कन्या त्वां प्रवृणोम्यहम् ।
मानसं मे त्वयि कृष्णनारायण प्रधावति ॥८५॥
मोक्षं देहि तथा चान्ते त्वासुरत्वं विनाशय ।
हरिः प्राह तथाऽस्त्वेतत् तव सर्वं भविष्यति ॥८६॥
मम स्पर्शात् तव गात्रं दिव्यं सदा तु कान्यकम् ।
मदर्थं जायतां रम्यं लोमशाश्रमवृत्ति च ॥८७॥
कन्यासु च त्वया स्थेयं कन्यारूपेण भामिनि! ।
द्वितीयं ते तथारूपं मोक्षं यात्वक्षरं पदम् ॥८८॥
तृतीयं ते तथा रूपं पौरुषं वह्निसदृशम् ।
क्रोधनं सर्वथा क्रूरं क्रोधनाख्यं भुवस्तले ॥८९॥
मुनिरूपं भवत्वेव क्रोधनस्त्वं सदा भव ।
एवं रूपत्रयं कृष्णो दत्तवान् क्रोधनाय वै ॥९०॥
जन्मान्तरे च दुर्वासाः क्रोधनोऽयं भविष्यति ।
सर्वदा वैष्णवश्रेष्ठो नारायणसमो गुणेब ॥९१॥
नारायणाऽवतारेषु निमित्तोऽयं भविष्यति ।
इत्युक्त्वा भगवान् राधे क्रोधनां कन्यकां शुभामब्ब ॥९२॥
कृत्वा शश्वत्कन्यकां सुरूपां तस्यास्तथेष्टकम् ।
द्वितीयं कान्यकं रूपं चापि तस्याः सुमोक्षगम् ॥९३॥
कृत्वप्विप्रेषयद् धामाऽक्षरं विमानतः क्षणात् ।
तृतीयं पौरुषं रूपं तामसं च तत्पाऽभवत् ॥९४॥
तपश्चचार परमं लोमशाश्रमसन्निधौ ।
क्रोधनाख्यं परं तीर्थ चाश्वपट्टसरस्तटे ॥९५॥
जातं तदिति विज्ञेयं राधे मोक्षप्रदं शुभम् ।
अथ प्रभा तथा कन्या क्रोधना बालकृष्णकम् ॥९६॥
नीत्वा लोमशपूजायाः स्थानमाययतुस्तदा ।
नवीना कन्यका केयं चेति पृष्टा प्रभाऽवदत् ॥९७॥
नारायणचमत्कारं श्रुत्वाऽऽश्चर्यं ययुर्हि ते ।
लोमशस्य पूजनं च कृत्वा माता पिता हरिः ॥९८॥
ययुर्गृहं कन्यका सा कन्यासु हरिवाञ्च्छया ।
सदा निवासमकरोत् कृष्णकान्तप्रियाऽभवत् ॥९९॥
अथ प्रदोषसमये विधिवच्छशिनोऽर्चनम् ।
अकारयत् पिता माता वामदेव्यमगापयत् ॥१००॥
पुत्रस्याऽकारयन्माता सौम्यं वै विधुदर्शनम् ।
चन्द्रपत्न्यस्तथा चन्द्रो जहृषुर्वीक्ष्य माधवम् ॥१०१॥
हरिश्चन्द्रं विलोक्यैवाऽङ्गुल्याऽऽह मातरं तदा ।
चन्द्रमानय मातर्मे सन्निधौ चेति वै हृदा ॥१०२॥
चन्द्रो ज्ञात्वा हरेर्भावं सप्तविंशतिसंयुतः ।
सप्तविंशतिपत्नीनां रथैर्युक्तः समाययौ ॥१०३॥
कुंकुमवापिकाक्षेत्रं चान्द्रमण्डलसदृशम् ।
अभवत् सर्वथा दिव्यं यदा चन्द्रोऽगमत् तदा ॥१०४॥
चन्द्रेण तु समानीता मणयो विविधास्तथा ।
मालिका दिव्यतेजःसंभृताः शीताऽमृतावहाः ॥१०५॥
हरये त्वर्पितास्तत्र मात्रा चन्द्रमसस्तथा ।
तत्पत्नीनां स्वागतादिसत्कारश्च कृतः शुभः ॥१०६॥
पाद्यं चार्घ्यं मधुपर्कं दत्तं भोजनपानकम् ।
पूजयित्वा हरिं चन्द्र आशीर्वादान् प्रयुज्य च ॥१०७॥
ययौ स्वभवनं स्वर्गे श्रीकृष्णो मुदितोऽभवत् ।
अथ सर्वेऽपि पित्राद्या लोमशं मुनिसत्तमम् ॥१०८॥
कृत्वा च दण्डवद्भक्त्या समर्प्योपायनानि च ।
सुप्रसादं गृहीत्वापि गृहीत्वाऽऽशिष एव च ॥१०९॥
कन्याभ्यश्चाशिषो दत्वा ययुः स्वं भवनं प्रति ।
एवं वै राधिकेऽनादिकृष्णनारायणस्य हि ॥११०॥
संस्कारं पावनं चमत्कारयुक्तं सुखावहम् ।
श्रोतॄणां मुक्तिदं तस्य स्मर्तॄणां सम्पदांप्रदम् ॥१११॥
लोकपुत्रधनेच्छूनां स्वर्गाऽपत्यधनप्रदम् ।
विद्यैश्वैर्यादिवाञ्छानां विद्यासिद्धिप्रदं परम् ॥११२॥
भुक्तिदं मुक्तिदं चापि सौभाग्यदं तु योषिताम् ।
आवेदितं च ते राधे! बालरूपस्य पावनम् ॥११३॥
सर्वतीर्थफलाऽवाप्तिरस्य वै चिन्तया भवेत् ।
सर्वक्रतूनामवभृथजं पुण्यं लभेत्तथा ॥११४॥
सर्वदानफलं चापि सर्वयोगफलं तथा ।
प्राप्तौ श्रीकृष्णकान्तस्य समाप्यते तु राधिके ॥११५॥

इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने बालकृष्णप्रभोस्तृतीये मासि शुक्लदले बहिर्निष्क्रमणसंस्कारे योषिद्भिः कारिते लालनरमणे बहुरूपता, दिव्यदर्शनम्, लोमशाश्रमे प्रभा कृष्णकान्तं नीत्वा ययौ, तत्र क्रोधनोऽसुरः क्रोधना कन्या भूत्वा हरिमहरत् । व्योम्नि सा हरिणा दग्धा तं मुमोच, तां दिव्यां त्रिरूपां कृत्वा लोमशाश्रमे, मोक्षे, दुर्वासोभाविजन्मनि चेतिन्यरूपयत् । विधुदर्शनं चमत्कारश्चेत्येवमादिनिरूपणनामा नवमोऽध्यायः ॥९॥

N/A

References : N/A
Last Updated : April 02, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP