संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|त्रेतायुगसन्तानः|
अध्यायः ८२

त्रेतायुगसन्तानः - अध्यायः ८२

लक्ष्मीनारायणसंहिता


श्रीकृष्ण उवाच-
शृणु राधे प्रवक्ष्यामि प्रत्यक्षपुरुषोत्तमम् ।
विश्वामित्रेण सन्दिष्टं जयध्वजाय वै क्रतौ ॥१॥
चन्द्रवंशोऽभवद्राजा सहस्रार्जुनसंज्ञकः ।
सहस्रबाहुर्द्युतिमान् धनुर्वेदविदां वरः ॥२॥
तस्य सुताः पञ्चशतान्यासन् सर्वे महारथाः ।
कृतास्त्रा वलिनः शूरा धर्मात्मानः सुरार्चकाः ॥३॥
केचिद् रुद्रं पूजयन्ति केचित् सूर्यं परे क्रतुम् ।
अन्ये वह्निं पूजयन्ति विष्णुमन्ये सतीं परे ॥४॥
अजं चान्ये गणेशं च परेऽर्चयन्ति चन्द्रकम् ।
जयध्वजः कनिष्ठश्च सर्वाऽवरज एव यः ॥५॥
अनादिश्रीकृष्णनारायणस्वामिपरोऽभवत् ।
नित्यं स मतिमान् देवं नारायणहरिं प्रभुम् ॥६॥
तिष्ठते शरणं विष्णुं दैवतं ब्रह्मतः परम् ।
तमूचुरितरे पुत्राः शृणु चानुज धार्मिकम् ॥७॥
पिताऽस्माकं वह्निदेव शिवं दत्तमुनिं तथा ।
अभजत् तान् भजस्वाऽत्र मा भजस्व नरायणम् ॥८॥
जयध्वजोऽब्रवीत्ताँस्तु मम धर्मः परो मतः ।
विष्णोरंशेन संभूता राजानोऽत्र महीतले ॥९॥
राज्यपालयिता तेषां भगवान्पुरुषोत्तमः ।
पूजनीयोऽजितो विष्णुः पालको जगतां हरिः ॥१०॥
श्रीहरिर्हि भवद्भिस्तु पूजनीयोऽपि सर्वथा ।
सृजेद् ब्रह्मा रजोमूर्तिः संहरेत् तामसो हरः ॥११॥
सत्त्वात्मा भगवान् विष्णुः सम्पोषयति सर्वदा ।
तस्मान्महीपतीनान्तु राज्यं पालयतामयम् ॥१२॥
आराध्यो भगवान् विष्णुर्नारायणपरेश्वरः ।
सत्त्वेन मुच्यते जन्तुः सत्त्वात्मा भगवान् हरिः ॥१३॥
सत्त्वधर्मः सदा श्रेष्ठो योगिभिश्च विनिश्चितः ।
सर्वशुद्धौ सत्त्वशुद्धिर्वैशारद्यं विशद्यते ॥१४॥
विष्णौ सा सात्त्विकी शुद्धिर्वैशारद्यं हि शाश्वतम् ।
शंभौ वह्नौ तथा सूर्यं तमोमात्रा विशेषिता ॥१५॥
क्रतौ सत्यां गणेशेऽजे रजोऽधिकं च चन्द्रके ।
सत्त्वं देवेश्वरे विष्णौ नारायणे विशिष्यते ॥१६॥
स पूज्यः सर्वदा युष्मद्भिश्चापि भ्रातरः! सदा ।
विष्णुः सम्पोषकः शास्ता राजधर्मोऽपि तत्र हि ॥१७॥
स्वधर्मो मुक्तये युक्तो नान्यो राज्ञां प्रमुक्तये ।
नारायणीं महाशक्तिं नृपाणां दधतां सदा ॥१८॥
अनादिश्रीकृष्णनारायणाराधनमुत्तमम् ।
श्रुत्वैवं त्वग्रजाः प्राहुः पितुर्धर्मः परो वृषः ॥१९॥
पित्रा त्वाराधितो वह्निः शंभुर्दत्तः प्रभुस्तथा ।
त एवाऽऽराधने ग्राह्याः पितृधर्मेण मोक्षणम् ॥२०॥
जयध्वजश्च तान् प्राह युक्तमुक्तं ममाऽग्रजैः ।
पितृधर्मो रक्षणीयो यथापेक्षो च चाऽधिकः ॥२१॥
परन्त्वत्र क्रतौ कार्ये सर्वेज्यसमवायके ।
कः पूज्यश्च समाराध्य इत्यत्रोत्तरमच्युतः ॥२२॥
प्रमाणवृषयो ह्यत्र यद् ब्रूयुस्ते तथैव तत् ।
अथाऽऽहूता ऋषयश्च वशिष्ठाद्याः प्रजावृषाः ॥२३॥
पृष्ठा धर्मविवादे तु देवाराधनरूपिणि ।
क्रतौ वा चान्यदा कश्चाराध्यो देवो वदन्तु नः ॥२४॥
तानब्रुवँस्ते ऋषयो वशिष्ठाद्या यथार्थतः ।
या यस्याऽभिमता पुंसः सा हि तस्यैव देवता ॥२५॥
किन्तु कार्यविशेषेण पूज्यते चेष्टदाऽपि च ।
देवता बहुलाः सन्ति ब्रह्मणः प्रतिमा हि ताः ॥२६॥
भिन्नार्थिनश्च विद्यन्ते यथार्थो देवता तथा ।
कार्यवशात् कालवशान्नियोगाच्छासनात्तथा ॥रे७॥
राज्ञा कार्यवशात् क्वापि किंकरः समुपास्यते ।
किंकरः किंकरं चाप्युपास्ते कार्यवशादपि ॥२८॥
श्रेष्ठाः कार्यवशाच्चापि कनिष्ठान् समुपासते ।
भिन्नास्तु जातयः सन्ति देहसंस्थानयोगतः ॥२९॥
यत्कार्यं जायते यस्मात् तत्तदर्थमपास्यते ।
श्रेष्ठमिष्टफलाद्यर्थं खाद्यं सस्यान्युपासते ॥३०॥
रसप्राप्त्यर्थमेवाथ पृथ्वीं जलं ह्युपासते ।
रसानां पक्वतार्थं च सूर्यं चन्द्रं ह्युपासते ॥३१॥
नृपाणां दैवतं विष्णुस्तथैव च पुरन्दरः ।
विप्राणामग्निरादित्यो विष्णुब्रह्मशिवाः सुराः ॥३२॥
देवानां दैवतं विष्णुर्दानवानां हरः सदा ।
गन्धर्वाणां च यक्षाणां दैवतं सोम उच्यते ॥३३॥
विद्याधराणां वाग्देवी सिद्धानां भगवान् हरिः ।
रक्षसां शंकरो देवः किन्नराणां तु पार्वती ॥३४॥
ऋषीणां दैवतं ब्रह्मा शिवः पितृगणाः सुराः ।
रविरग्निश्च विश्वे च देवास्तथा जनार्दनः ॥३५॥
स्त्रीणां च दैवतं लक्ष्मीसमा रतिः पतिव्रता ।
पतिः परेश्वरः शंभुः सौभाग्यश्रीरपीति च ॥२६॥
गृहस्थानां यथापेक्षं देवा देव्यश्च दैवतम् ।
परब्रह्म स्वयं देवो यतीनां ब्रह्मचारिणाम् ॥३७॥
साधूनां तु क्षमा देवी दैवतं शीलमित्यपि ।
बालानां जनकौ दैवं पशूनां पालकः सुरः ॥३८॥
गणानां शंकरो दैवं भक्तानां परमेश्वरः ।
ईश्वराणां वासुदेवो वृक्षाणां दैवतं जलम् ॥३९॥
सर्वोषां दैवतं चान्तर्यामी श्रीपरमेश्वरः ।
रोगिणामोषधं दैवं चौराणां दण्ड इत्यपि ॥४०॥
एवं जडं चेतनं वा दैवं स्वेष्टं भवत्यपि ।
सर्वत्र वर्तमानः श्रीहरिः सर्वस्य दैवतम् ॥४१॥
अतो जयध्वजो नूनं विष्णवाराधनमर्हति ।
हरौ रुद्रस्य विष्णोश्च तादात्म्यं ब्रह्मणोऽपि च ॥४२॥
बुध्वा हरिः सदा पूज्यः सर्वेश्वरेश्वरेश्वरः ।
तत्र सर्वेऽवताराश्च वासुदेवादयस्तथा ॥४३॥
महाविष्णुप्रभृतयो वैराजा अंशरूपिणः ।
आवेशा वा कलाश्चापि विभूतयः सुरादयः ॥४४॥
समन्वयं प्रगच्छन्ति श्रीहरौ परमात्मनि ।
देवा देव्यो गुरुः सन्तो विप्रा गावः पतिव्रताः ॥४५॥
इत्युक्त्वा ऋषयः सर्वे क्रतुं तस्य हि चक्रिरे ।
वैष्णवः परमो यज्ञः सप्ताहकृतसत्क्रियः ॥४६॥
यत्रेश्वराः समस्ताश्च ऋषयो देवतास्तथा ।
समस्ताः स्वर्गनिलया ग्रहमानवभूसुराः ॥४७॥
बुभुजुर्बहुपक्वान्नपायसान्नानि सर्वथा ।
तृप्तिं प्रापुः परां सोमामृतभोजनपानकैः ॥४८॥
वह्नयो मरुतः सर्वे तत्र यज्ञेऽतिभावतः ।
बुभुजुर्दत्तहव्यादि त्रैलोक्यं तृप्तिमावहत् ॥४९॥
बुभुजे दिव्यमूर्तिश्च साक्षाद् वह्नौ समुत्थितः ।
अनादिश्रीकृष्णनारायणः श्रीपुरुषोत्तमः ॥५०॥
एवं यज्ञे सुनिष्पन्ने दक्षिणादानकर्मणि ।
शेषे च हवने चापि सम्पन्नेऽवभृथाप्लवे ॥२१॥
भोजनं चक्रिरे सर्वे पंक्तिशो भूसुरादयः ।
तावत्तत्र समायातो विदेहो नाम राक्षसः ॥५२॥
दंष्ट्राकरालो दीप्ताक्षः शूलभृन्नादयन् दिशः ।
तं दृष्ट्वा दुद्रुवुर्मर्त्या भयेनाऽऽरण्यकं प्रति ॥५३॥
अथाऽर्जुनस्य सत्पुत्राः सर्वे यत्ता महाबलाः ।
युयुधुर्दानवं शक्तिगिरिकूटाऽसिमुद्गरैः ॥५४॥
प्राजापत्यं वारुणं च रौद्रं वायव्यमस्त्रकम् ।
कौबेरमैन्द्रमाग्नेयं चिक्षिपुस्तत्र भूमिपाः ॥५५॥
दानवः शूलमादाय सूर्याभं परितो भ्रमन् ।
भ्रामयन् भञ्जयामास तान्यस्त्राणि समन्ततः ॥५६॥
शूलस्थवह्निना तान्याकर्षयामास सर्वथा ।
ततो भूपा गदाभिस्तं ताडयामासुरुल्बणाः ॥५७॥
स्पृष्टमात्रा गदाः सर्वा भग्ना लोष्टाद्रिवर्ष्मणि ।
न दानवं चालयितुं शेकुर्गदाभिरीश्वराः ॥५८॥
ततस्ते भयमापन्ना दुद्रुवुर्वीक्ष्य पौरुषम् ।
भग्नोत्साहाः समभवन् दृष्ट्वा तस्याऽतिपौरुषम् ॥५९॥
अथ पञ्चशतानां तु कुमाराणां पलायनम् ।
वीक्ष्य सस्मार च जयध्वजो नारायणं हरिम् ॥६०॥
अनादिश्रीकृष्णनारायणस्वामिपुमुत्तमम् ।
ध्यात्वा क्षणं जजापैनं रक्ष रक्ष पुमुत्तम ॥६१॥
शरणागतरक्ष त्वं समायाहि परेश्वर ।
एवं वै स्मर्यमाणः स भगवान् श्रीहरिः स्वयम् ॥६२॥
तूर्णं तत्राययौ चक्रशंखपद्मगदायुधः ।
विष्णुर्जयिष्णुर्लोकादिश्चाप्रमेयो निरामयः ॥६३॥
भक्तत्राता श्रीहरिर्यः पूर्वपूरुष उत्तमः ।
ददौ जयध्वजायैव चक्रं स्वस्य सुदर्शनम् ॥६४॥
जग्राह श्रीहरिं नत्वा राजा हस्ते सुदर्शनम् ।
प्राहिणोत्तु विदेहाय राक्षसे स्कन्धयोस्तदा ॥६५॥
तूर्णं तन्मस्तकं स्कन्धात् पातयामास भूतले ।
राक्षसो विहतस्तत्र शैलतुल्यशरीरवान् ॥६६॥
इति ज्ञात्वा ऋषिर्विश्वामित्रो द्रष्टुं समाययौ ।
भ्रातरश्च प्रसन्नास्तं प्रशशंसुर्जयध्वजम् ॥६७॥
विश्वामित्राय मुनये ददुश्चोत्तममासनम् ।
निषसाद मुनिस्तत्र कुशलं पृष्ठवांस्ततः ॥५८॥
जयध्वजो मुनिं प्राह प्रसादाद् भवतोऽसुरः ।
निपातितोऽत्र चक्रेण विदेहो दानवो महान् ॥६९॥
त्वद्वाक्यान्नित्यदा चाऽहमभजं श्रीनरायणम् ।
न्यपतं शरणं तस्य प्रसादस्तेन मे कृतः ॥७०॥
यक्ष्यामि राक्षसहत्यापापनाशार्थमित्यतः ।
कथं केन विधानेन सम्पूज्यो हरिरीश्वरः ॥७१॥
कोऽयं नारायणः पूज्यः किम्प्रभावः क्रताविह ।
सर्वमेतत् समाचक्ष्व प्रसादयामि तं प्रभुम् ॥७२॥
जयध्वजस्य वचनं श्रुत्वा मनिर्जगाद तम् ।
परमेशस्य भक्ताऽग्र्यं प्रपन्नं च जयध्वजम् ॥७३॥
यतः प्रवृत्तिर्भूतानां यस्मिन् सर्वं यतो जगत् ।
तमनादिं कृष्णनारायणं यज परेश्वरम् ॥७४॥
यमक्षरात्परतरात्परं प्राहुर्गुहाश्रयम् ।
आनन्दं परमं व्योम परे धाम्नि स्थितं प्रभुम् ॥७५॥
परात्परः परब्रह्म परनारायणात्परः ॥
अक्षराधिपतिर्मुक्तिप्रदो मुक्तपतिर्हि सः ॥७६॥
अवतारसहस्त्राणां हेतुर्यः पुरुषोत्तमः ।
चतुर्व्यूहधरश्चापि चाऽव्यूहश्च निरञ्जनः ॥७७॥
परमात्मा परंधाम परंव्योम परंपदम् ।
त्रिपादमक्षरंब्रह्म यस्याऽऽहुर्ब्रह्मवादिनः ॥७८॥
वासुदेवेश्वरो योगिसिद्धः श्रीपुरुषोत्तमः ।
यस्यांऽशसंभवा ईशा ब्रह्मविष्णुमहेश्वराः ॥७९॥
वैराजश्च महाविष्णुर्भूमा कालो यदंशजाः ।
प्रधानस्य पतिर्मायापतिर्यः पुरुषोऽपि च ॥८०॥
महापूरुष इत्येषो यस्यांऽशो विद्यते तथा ।
सर्वेषां च भगवतां यः परो भगवान् स्वयम् ॥८१॥
निष्कामिन्या प्रपत्त्या स चाराध्यः पुरुषोत्तमः ।
यज्ञं तं तु पुना राजन् प्रसादय परेश्वरम् ॥८२॥
इत्युक्त्वा विररामाऽसौ विश्वामित्रो महामुनिः ।
राज्ञा क्रतुः समारब्धस्तत्र नारायणं प्रभुम् ॥८३॥
अनादिश्रीकृष्णदेवं विश्वामित्रः सभूसुरः ।
याजयामास सर्वेशं परमेशं परात्परम् ॥८४॥
यज्ञे समाप्तिमापन्ने तत्र साक्षात् स्वयं हरिः ।
आविरासीत् स भगवान् पुनः पुनर्हविर्ग्रसन् ॥८५॥
वरं वृणु क्षितेर्नाथ यत्ते मनसि वर्तते ।
इत्येवं च हरिः प्राह राजोवाच पदं तव ॥८६॥
शाश्वतं परमं धामं दिव्यं नय दयाधर ।
हरिः प्राह समीचीनं चाऽर्थितं ते तथाऽस्तु वै ॥८७॥
इत्युक्त्वाऽदृश्यतां यातस्तावत्तत्र चतुष्टयम् ।
तापसानां समायातं भिक्षां देहीति वादि च ॥८८॥
राजा भिक्षां ददौ तेभ्यो भोजनं पायसोद्भवम् ।
जगृहुस्ते च बुभुजुः राजा स दक्षिणां ददौ ॥८९॥
कृष्णवर्णास्तु ते रूक्षा भिक्षवो रोमशास्तदा ।
कामरूपधराश्चासन् वनेचराः कुरूपिणः ॥९०॥
भुक्त्वा जलं पपुश्चाथ निषेदुर्वृक्षमाश्रिताः ।
यथा मूढा हि चत्वारः शान्ताः शान्तघना इव ॥९१॥
यज्ञकार्ये सुनिर्वृत्तेऽवभृथस्नानहेतवे ।
नर्मदायां ययुः सर्वे चत्वारोऽपि ययुः सह ॥९२॥
स्नाताः सर्वेऽपि ऋषयो देवा भक्ताश्च वैष्णवाः ।
महीमाना मानवाश्च विप्राः सत्यश्च साधवः ॥१३॥
निम्नभागे तु चत्वारः स्नातास्ते कृष्णवर्णकाः ।
स्नानपुण्यप्रतापेन जातास्ते श्वेतवर्णकाः ॥९४॥
सूर्यचन्द्रसमाभाश्च महेन्द्रसमरूपिणः ।
विष्णुतुल्यसुवर्ष्माणो दिव्याः स्वर्गसुरा इव ॥९५॥
तान् दृष्ट्वाऽवभृथस्नाताः पप्रच्छुस्तान् कुलं प्रति ।
ते प्राहुः स्वस्वनामानि श्रीशैलः प्रथमो ह्ययम् ॥९६॥
नीलगिरिर्द्वितीयोऽयम् एलाद्रिश्च तृतीयकः ।
द्रोणाचलश्चतुर्थोऽयं वयं मेरुकुलोद्भवाः ॥९७॥
कामरूपधराः शैलाः स्मोऽत्र स्नातुं समिच्छवः ।
पापक्षालनकामाश्च वैष्णवाः स्मः स्थिराद्रयः ॥९८॥
अस्मासु हिंसकाः सर्वेऽरण्येषु च गुहासु च ।
कुर्वन्ति यानि पापानि तैर्थिका अपि वासिनः ॥९९॥
तेषां पापानि दत्वा नः शुद्धास्ते वै प्रयान्ति हि ।
तैः पापैः कृष्णवर्णाः स्मो जाताः स्नानेन चार्जुनाः ॥१००॥
अत्राऽनादिकृष्णनारायणः श्रीभगवान् स्वयम् ।
आययौ यज्ञभागार्थं स्नानार्थं चापि तेन तु ॥१०१॥
वैष्णवानां प्रसादेन पापं नष्टं समस्तकम् ।
अथ शैला गमिष्यामो निजावासान् नमोऽस्तु वः ॥१०२॥
यत्र श्रीभगवान् साक्षात् कृष्णनारायणः प्रभुः ।
तस्य भक्ता जले सस्नुस्तीर्थं चैतद्धि नार्मदम् ॥१०३॥
जयध्वजश्च तान् प्राह करिष्येऽतिथिसत्क्रियाम् ।
मम गृहेऽत्र वासं वै प्रकुर्वन्तु नगोत्तमाः ॥१०४॥
इत्युक्त्वा राधिके शैलान् स्वर्णवर्णसमान् नृपः ।
अवभृथान्ते निलयं निनाय बहुभावतः ॥१०५॥
अन्ये सर्वे महीमाना भुक्त्वा सम्प्राप्य पूजनम् ।
ययुर्नैजान् गृहान् लोकान् विशश्राम जयध्वजः ॥१०६॥
प्रजा भुक्त्वाऽनाथदीनाः किंकरा दासदासिकाः ।
तुतुषुश्चातिभोज्येन कीटाः पिपीलिकादयः ॥१०७॥
एनं सशृणुयाद्भक्त्या पाठयेच्च पठेच्च वा ।
भुक्तिर्मुक्तिर्भवेत्तस्य नारायणकृपाबलात् ॥१०८॥

इतिश्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने जयध्वजस्य राज्ञो विश्वामित्रोपदिष्टपरब्रह्मोपासनाबलाद् यज्ञे श्रीहरिप्राप्तिः, विदेहराक्षसविनाशः, चतुःपर्वताना-
मवभृथस्नानादि चेत्यादिनिरूपणनामाद्व्यशीतितमोऽध्यायः ॥८२॥

N/A

References : N/A
Last Updated : May 01, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP