संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|त्रेतायुगसन्तानः| अध्यायः २०८ त्रेतायुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ अध्यायः २३८ अध्यायः २३९ अध्यायः २४० अध्यायः २४१ अध्यायः २४२ अध्यायः २४३ अध्यायः २४४ अध्यायः २४५ अध्यायः २४६ अध्यायः २४७ अध्यायः २४८ अध्यायः २४९ अध्यायः २५० अध्यायः २५१ अध्यायः २५२ अध्यायः २५३ अध्यायः २५४ अध्यायः २५५ अध्यायः २५६ अध्यायः २५७ अध्यायः २५८ अध्यायः २५९ अध्यायः २६० अध्यायः २६१ अध्यायः २६२ अध्यायः २६३ अध्यायः २६४ अध्यायः २६५ अध्यायः २६६ अध्यायः २६७ अध्यायः २६८ अध्यायः २६९ अध्यायः २७० अध्यायः २७१ अध्यायः २७२ अध्यायः २७३ अध्यायः २७४ अध्यायः २७५ अध्यायः २७६ अध्यायः २७७ अध्यायः २७८ अध्यायः २७९ अध्यायः २८० अध्यायः २८१ अध्यायः २८२ अध्यायः २८३ अध्यायः २८४ अध्यायः २८५ अध्यायः २८६ अध्यायः २८७ अध्यायः २८८ अध्यायः २८९ अध्यायः २९० अध्यायः २९१ अध्यायः २९२ अध्यायः २९३ अध्यायः २९४ अध्यायः २९५ अध्यायः २९६ अध्यायः २९७ अध्यायः २९८ अध्यायः २९९ अध्यायः ३०० विषयानुक्रमणिका त्रेतायुगसन्तानः - अध्यायः २०८ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः २०८ Translation - भाषांतर श्रीकृष्ण उवाच-शृणु त्वं राधिके श्रीमद्बालकृष्णोऽतिहेतुभिः ।उपदेशं ददौ तेभ्यः कथयामि निबोध मे ॥१॥मया सृष्टं हरिः प्राह जगत् सर्वं हि गत्वरम् ।न स्थिरं जायते तत्त्वं दीर्घकालेऽपि नश्यति ॥२॥अविनाशी महानात्मा सच्चिदानन्दलक्षणः ।निजानन्दमयो देहे कर्मानुगफलादनः ॥३॥यावत्कर्म स्थिरस्तावत् ततो यान्ति गृहान्तरम् ।अत्र कृतं परे लोके भुंक्ते फलात्मकं हि तत् ॥४॥विहाय सर्वं गन्तव्यं सर्वैर्लोकान्तरे ध्रुवम् ।यत्र गत्वा भवेत् सौख्यं कर्तव्यं साधनं हि तत् ॥५॥लोकान्तराणि सर्वाणि स्वरादीनि सुखानि वै ।बहुपुण्येन दानेन परोपकृतिकर्मभिः ॥६॥लभ्यते सेवया चापि वृद्धानां च सतां तथा ।आशीर्वादात्मपुण्येन जायते स्वर्गमुत्तमम् ॥७॥ततोऽपि चोत्तमं स्वर्गं वैकुण्ठं वा ततः परम् ।गोलोकं वाऽक्षरं धाम परंधाम ममापि च ॥८॥वैकुण्ठे मे भवन्त्येव कुटुम्बानि शुभानि वै ।पार्षदानां तथा पार्षदानीनां मण्डलानि च ॥९॥युगलानि भवन्त्येव दिव्यानि युगलोऽप्यहम् ।लक्ष्म्यादिकोटिदासीभिः सेव्यमानोऽस्मि तत्र ह ॥१०॥गोलोकेऽपि तथा चाहं श्रीकृष्णो राधया युतः ।कोट्यब्जगोपगोपीभिर्युगलैः सम्प्रसेवितः ॥११॥राजाधिराजो वर्तेऽहं सदानन्दमहाम्बुधिः ।युगलानां महत् सौख्यं शाश्वतं तत्र वर्तते ॥१२॥सर्वं दिव्यं मम योगान्मोक्षस्थानमगत्वरम् ।नित्यं विवर्धमानं तत् ह्रासशून्य परं सुखम् ॥१३॥तद्वत् सुखं सदा चास्ते कैलासे नित्ययोगिभिः ।आश्रिते शांकरे लोके गोलोकादध एव ह ॥१४॥गणैश्च गणीभिर्दिव्ययोगिनीभिः प्रसेव्यते ।शंकरोऽहं वसाम्येव तत्र कैलासके शुभे ॥१५॥मया रूपं धृतं तद्वै गार्हस्थ्ययोगिदर्शकम् ।योगी तिष्ठामि गार्हस्थ्ये सत्यपि शंकरात्मकः ॥१६॥तत्सुखं शाश्वतं चापि युगलानां सतां ध्रुवम् ।सतीसेवां च गृह्णामि योगिनीनां पतिः प्रभुः ॥१७॥ततः श्रेष्ठं सुखं चास्ते त्रिभ्यो लोकेभ्य उत्तमम् ।अक्षरे मे नित्यधाम्नि यथेष्टं पारमेश्वरम् ॥१८॥सर्वैश्वर्यमयं सर्वयोगात्मकं सुखोत्तमम् ।कामरूपधरं नैकरूपभोग्यं सुखात्सुखम् ॥१९॥सर्वरूपधरत्वं वै वर्तते तत्र चोत्तमम् ।स्वातन्त्र्यं दिव्यमुक्तानां सर्वशक्तिजुषां सदा ॥२०॥सुखस्याऽन्तः क्वचिन्नास्ति कदाचित् ह्रास एव न ।वर्धन्ते सुखसन्देहाः सदा आनन्दवार्धयः ॥२१॥अनेकेन्द्रियविषया दिव्या अक्षरसंज्ञिताः ।शब्दाः स्पर्शा रसा गन्धा दृश्या दिव्या भवन्ति वै ॥२२॥आनन्दाख्याः सुखशैला आत्मानो भुञ्जते सदा ।अक्षरे तत्र कोट्यब्जगोलोकानां सुखाधिकम् ॥२३॥तथा कोट्यब्जवैकुण्ठकैलासानां सुखाधिकम् ।सुखं सर्वविधं चास्ते मुक्तानां मानसेप्सितम् ॥२४॥ततोऽप्यधिकं चैवास्ते परेधाम्नि सुखं मम ।मम योगेन भक्तानां सुखं सर्वोत्तमोत्तमम् ॥२५॥अनन्तं मन्मूर्तिलभ्यं सर्वेन्द्रियसुगोचरम् ।निरवध्यधिकं चैव निरतिशायि शाश्वतम् ॥२६॥यथेष्टं चैकमूर्त्या वा लभ्यं च युगलेन वा ।ऐक्यभावेन लभ्यं वा सर्वभावार्जितं च वा ॥२७॥यथेष्टेष्टेष्टेष्टतमं राधे निरूपणात्परम् ।एवं हरिर्निजं सौख्यं वर्णयामास मूर्तिजम् ॥२८॥अथाहेह सुखार्थं च राधिके वर्तनं शुभम् ।मारुतोदकवेगेन ये नमन्त्युन्नमन्ति च ॥२९॥ओषधयो द्रुमा गुल्मा न ते यान्ति पराभवम् ।तथा सचेता भूत्वैव प्रसहेता गतं परात्। ॥३०॥प्रातिकूल्यं निगिलता प्राप्यते विजयः सदा ।सुकृतं लभ्यते तेन सहमानेन सर्वथा ॥३१॥दुष्कृतं नाश्यते तेन नम्यमानेन सर्वदा ।देहेन्द्रियादिभिः क्वापि दीयमाने निजात्मने ॥३२॥क्लेशो वाऽऽतुरता चापि सहनीया सुबुद्धिभिः ।लोकैर्वा निजलोकैर्वा भूतैर्वा तत्त्वसत्तमैः ॥३३॥दीयमानं महाकष्टं सहते यश्च देहवान् ।स एव विजयं याति परे स्वर्गेऽपि मोदते ॥३४॥प्रत्यक्षं वा परोक्षं वा योऽपरानिह निन्दति ।निन्दावृत्तिः श्ववल्लोके मृततुल्यः शवादिवत् ॥३५॥निन्दकं वै नर्तमानं मयूरं नग्नपुच्छकम् ।वर्जयेन्मृततुल्यं वै तादृशं पापचेतसम् ॥३६॥शालावृकं च मातंगं चारिव्रतं विमार्गिणम् ।वर्जयेत् सर्वथा क्रुद्धं स स्यात् सुखी जनेष्वपि ॥३७॥यस्य भृत्यजनः सर्वो ज्ञानविज्ञानकोविदः ।हितैषी वचने सक्तः स्निग्धः स जायते सुखी ॥३८॥मन्त्रिणो यस्य हितदा मतिदाश्चोन्नतिप्रदाः ।अनागतविवेक्तारः स सदा जायते सुखी ॥३९॥समदुःखसुखा यस्य सहायाः प्रियकारिणः ।हितचिन्तापराः सत्याः स सदा जायते सुखी ॥४०॥यस्य नार्तः श्रितवर्गो भावतो निकटागमः ।सेवाधर्मपरो दक्षः स सदा जायते सुखी ॥४१॥भाव्यं राज्ञा हितकर्त्रा सेवकेनापि सर्वथा ।ऐश्वर्यभागिना चापि विन्दतः सुखमेव तौ ॥४२॥यस्मात्प्राप्तं महैश्वर्यं प्रजया चाश्रितेन च ।तेन वा च तया वा तद् विस्मर्तव्यं न वै क्वचिद् ॥४३॥कृतघ्नत्वे पुनर्नाशो भवेदेव न संशयः ।दुःखमासाद्यते तेन विपरीतार्थगामिना ॥४४॥आसीद् वने महारण्ये मुनिर्मोक्षपरायणः ।कृपायनो द्विजश्रेष्ठो महाभागवतः शुचिः ॥४५॥भजमानो हरिं नित्यं नियतो तप आस्थितः ।ऐश्वर्याधार एवाऽसौ फलमूलादनः सुखी ॥४६॥सत्त्वभावेन निवसन् बह्वाश्रयप्रदोऽभवत् ।तमेनं सत्त्वसम्पन्नं चाहिंसकं समदृशम् ॥४७॥विज्ञाय वनिनः सत्त्वाः समीपे निवसन्त्यपि ।मूषका नकुलाश्चापि मार्जाराः सारमेयकाः ॥४८॥द्वीपिनो भल्लुकाश्चापि व्याघ्रा गजा महागजाः ।सिंहाश्चान्ये खङ्गमृगा गण्डका हरिणास्तथा ॥४९॥वैरं त्यक्त्वैव तिष्ठन्ति यान्ति चारण्यके दिने ।रात्रौ वाऽऽहारलाभार्थं पुनश्चायान्ति तत्र च ॥५०॥मूषकस्त्वेकदा यातो निजाहारार्थमेकलः ।दूरं तदाश्रमात्तत्र मार्जारो मिलितस्तदा ॥५१॥क्षुधया च पतन् धर्तुं पृष्ठेऽभवद्बलाद् यदा ।मूषकः सोऽतिवेगेन ऋष्यंके न्यपतद् भयात् ॥५२॥प्रार्थयन्मे भयं चास्मान्मार्जाराज्जायते ऋषे ।निर्भयं कुरु विप्रेन्द्र यथा सुखं वसाम्यहम् ॥५३॥ऋषिः प्राह भवैवात्र मार्जारस्त्वं सुखी भव ।जातः सोऽपि च मार्जारस्तं धर्तुं श्वा समागतः ॥५४॥पुनश्चैवं प्रार्थयच्च ऋषिः प्राह कृपायनः ।श्वा भवेति द्रुतं सोऽभूत् श्वा तदा निर्भयोऽनिशम् ॥५५॥अथैकदा समायातो वृकस्तं धर्तुमापतत् ।श्वा प्राह च ऋषिं गत्वा निर्भयं मां विधेहि च ॥५६॥ऋषिः प्राह वृकोऽत्र त्वं भवैवं निर्भयो भव ।वृके जातेऽथ च ततो व्याघ्रः क्षुधाकुलो वने ॥५७॥समायातो वृकं हन्तुं वृको भयान्वितो मुनिम् ।प्रार्थयन्निर्भयं भावं मुनिस्तं व्याघ्रतां ददौ ॥५८॥व्याघ्रो भूत्वा निर्भयोऽभूत् मुन्याश्रमे सुखस्थितः ।कदाचिन्मत्तभावेन महादन्तेन हस्तिना ॥५९॥दृष्टश्च ताडितुं शीघ्रं समायातेन वेगतः ।उवाचैवं मुनिं गत्वा दन्त्ययं मां हनिष्यति ॥६०॥ऋषिः प्राह भवात्रैव दन्ती बली महावपुः ।व्याघ्रः शीघ्रं हस्तिभावं गतोऽतिबलपुष्टिमान् ॥६१॥तावत् कश्चित् कदाचिद्वै केसरी दृष्टवान् गजम् ।धर्तुं यावत् समायाति गजस्तावन्मुनिं प्रति ॥६२॥समागत्य भयं प्राह निर्भयत्वमयाचत ।ऋषिस्तस्मै ददौ शीघ्रं केसरित्वं कृपायनः ॥६३॥अथायातः कदाचिद्वै शरभस्तत्र दैवतः ।धर्तुं केसरिणं तावद् भयेन केसरी मुनिम् ॥६४॥प्रार्थयन्निर्भयं भावं मुनिः प्राह कृपायनः ।भव त्वं शरभः पुत्र माऽस्तु भयं कदाचन ॥६५॥शरभः स तदा जातः केसरिप्राणनाशनः ।निर्भयोऽस्ति वने तावत् कदाचिद् दिनसप्तके ॥६६॥अतिवर्षा अभवँश्च न प्रापच्छरभोऽदनम् ।तदा व्यचिन्तयच्चैनमृषिं संभक्षयामि वै ॥६७॥ध्यानयोगबलेनापि महर्षिस्तं तथामतिम् ।ज्ञात्वाऽऽह मूषकं त्वां तु मदैश्वर्यबलेन ह ॥६८॥शरभत्वं दत्तवाँश्च सर्वश्रेष्ठं च निर्भयम् ।तथैश्वर्यप्रदातारं कृपया रक्षकं प्रभुम् ॥६९॥अपापं प्राणदातारं यतो हिंसितुमिच्छसि ।तस्मात्पुनर्मूषकत्वं प्रयाहि पापयोनिज ॥७०॥एवं शप्तो मूषिकत्वं प्राप्तः शरभता गता ।दीनतां वै गतः पश्चादृषिणा स बहिष्कृतः ॥७१॥एवं विज्ञाय पात्रादि सात्त्विकं सत्त्ववर्जितम् ।वा तथा तत्र वै देयं चैश्वर्यं नाधिकं क्वचित् ॥७२॥एतादृशानां लोकानां विश्वासो न हितावहः ।स्वामिना श्रेष्ठिना राज्ञा ज्ञातव्यं वै सुखार्थिना ॥७३॥नाऽपरीक्ष्य कदाचिद्वै देयं सर्व कुपात्रके ।कुपात्रपाशमापन्नो न कदाचिद् सुखं व्रजेत् ॥७४॥कुलीनः प्राकृतोऽप्यत्र दुःखमाप्तोऽपि वै क्वचित् ।न पापे कुरुते बुद्धिं भिद्यमानोऽपि सात्त्विकः ॥७५॥कुलीनभिन्नपुरुषो बुद्ध्या हीनोऽतिमूर्खराट् ।दुर्लभैश्चरतां चापि प्रापितः शत्रुतां व्रजेत् ॥७६॥कुलीनं शिक्षितं प्राज्ञं ज्ञानविज्ञानपारगम् ।कृतज्ञं च सहिष्णुं च सन्तुष्टं च जितेन्द्रियम् ॥७७॥हितैषिणं सतां सेवां कुर्वन्तं पितृसेविनम् ।ब्रह्मसेवापरं चेष्टदेवार्पणवृषान्वितम् ॥७८॥युक्ताचारं शुभचिन्तापरं विनयवेदिनम् ।इंगितज्ञं नीतियुक्तं कुशलं गुणसंभृतम् ॥७९॥सेवाज्ञं लाभहान्यादिवेदिनं सत्त्वमाश्रितम् ।दुर्लभैश्वर्यवन्तं यः कुरुते ज्ञानवान् पतिः ॥८०॥स्वामी राजाऽथवाऽन्यश्च स सुखी जायते सदा ।एवं शिष्यं प्रविज्ञाय राजँस्तेऽत्र ददाम्यहम् ॥८१॥योगैश्वर्यं समाधिस्थं भावं मम स्वरूपके ।पश्य नित्यं दिव्यभावं मम त्वं रणजित्! सदा ॥८२॥येन ते परमा सिद्धिर्मोक्षदा हस्तगा भवेत् ।इत्युक्त्वा प्रददौ दिव्यं भावं रणजिते हरिः ॥८३॥विंशतिकन्यकापित्रे श्वशुराय महात्मने ।स चापि भावमापन्नो दिव्यं दिव्यसुनेत्रकः ॥८४॥दृष्टवान् कुंकुमवापीं दिव्यां स्मृद्धां महापुरीम् ।दृष्टवान् दिव्यवैकुण्ठं गोलोकं चाक्षरं तथा ॥८५॥अक्षरेशं कांभरेयं बालकृष्णं सुतापतिम् ।ततो हरिः प्रजाभ्यश्च स्वं दिव्यं दर्शनं ददौ ॥८६॥क्षणान्ते मानवं भावं प्राप्य मन्त्रं निजं ददौ ।वैष्णवास्ते तदा जाताः प्रजालोकाः सहस्रशः ॥८७॥अथ युकासनानद्यां स्नातुं गोपालनन्दनः ।ययौ स्नात्वा ध्यानपूजां कृत्वा शीघ्रं नृपार्पिताम् ॥८८॥पूजां प्रगृह्य दुग्धादिपानं कृत्वा विहायसा ।विमानेन कृतं प्राप्य सम्मानं प्रययौ ततः ॥८९॥आलायसर्षिसहितो भूभृता सहितस्तथा ।विंशतिकन्यकायुक्तो हरिः पितृसमन्वितः ॥९०॥यज्ञभूमिं चाययौ वै लक्षकोटिकमुद्रिकाः ।यज्ञे समर्पयामास दानार्थं कोशरक्षिणे ॥९१॥रात्रौ च भोजनं चक्रे महोत्सवं तथोत्तमम् ।भोजयित्वा जनान् सर्वान् सुष्वाप परमेश्वरः ॥९२॥सप्तम्यां देशजाश्चान्यदेशीया मानवास्तदा ।ऋषयो मुनयश्चान्ये धर्माख्यानपरा जनाः ॥९३॥लक्ष्मीनारायणसंहितायाः कथानकानि वै ।जगुस्तत्र महोत्साहयुता मखेऽतिशोभने ॥९४॥कीर्तनानि भवन्त्येव लीलाश्चर्यमयानि च ।शेषकाष्ठवनानद्यास्तीरे सतां निवासने ॥९५॥रासभावेन सर्वाश्चामर्यो रमन्त इत्यपि ।नाट्यभावेन नरका नाट्यं कुर्वन्ति वै निशि ॥९६॥अथ राधे प्रसेवन्ते विंशतिकन्यका हरिम् ।निशि श्रीपतिमीशेशं कान्तं कान्तिमनोहरम् ॥९७॥शाश्वतं सुखमापुस्ताः सेवयित्वा नवं प्रभुम् ।कृतकृत्या अभवँश्च योगैश्वर्यप्रतापिनम् ॥९८॥प्रातर्जातं हरिर्निद्रां तत्याज मंगलश्रवैः ।ध्यानैर्मंगलतूर्योत्थैः सूतमागधजैः रवैः ॥९९॥गीतिकाभिश्च वै ब्रह्मप्रियाणां योषितां सताम् ।कीर्तनैर्भजनैश्चापि प्रबुबोध जनार्दनः ॥१००॥इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने मीनार्ककृष्णपत्तने रायरणजित्प्रभृतिजनान् हरिः समुपादिदेश, यज्ञभूमिमाजगाम, रात्रौ सुष्वाप, प्रातः प्रबुबोधेत्यादिनिरूपणनामाऽष्टाऽधिकद्विशततमोऽध्यायः ॥२०८॥ N/A References : N/A Last Updated : May 02, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP