संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|त्रेतायुगसन्तानः| अध्यायः १०७ त्रेतायुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ अध्यायः २३८ अध्यायः २३९ अध्यायः २४० अध्यायः २४१ अध्यायः २४२ अध्यायः २४३ अध्यायः २४४ अध्यायः २४५ अध्यायः २४६ अध्यायः २४७ अध्यायः २४८ अध्यायः २४९ अध्यायः २५० अध्यायः २५१ अध्यायः २५२ अध्यायः २५३ अध्यायः २५४ अध्यायः २५५ अध्यायः २५६ अध्यायः २५७ अध्यायः २५८ अध्यायः २५९ अध्यायः २६० अध्यायः २६१ अध्यायः २६२ अध्यायः २६३ अध्यायः २६४ अध्यायः २६५ अध्यायः २६६ अध्यायः २६७ अध्यायः २६८ अध्यायः २६९ अध्यायः २७० अध्यायः २७१ अध्यायः २७२ अध्यायः २७३ अध्यायः २७४ अध्यायः २७५ अध्यायः २७६ अध्यायः २७७ अध्यायः २७८ अध्यायः २७९ अध्यायः २८० अध्यायः २८१ अध्यायः २८२ अध्यायः २८३ अध्यायः २८४ अध्यायः २८५ अध्यायः २८६ अध्यायः २८७ अध्यायः २८८ अध्यायः २८९ अध्यायः २९० अध्यायः २९१ अध्यायः २९२ अध्यायः २९३ अध्यायः २९४ अध्यायः २९५ अध्यायः २९६ अध्यायः २९७ अध्यायः २९८ अध्यायः २९९ अध्यायः ३०० विषयानुक्रमणिका त्रेतायुगसन्तानः - अध्यायः १०७ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः १०७ Translation - भाषांतर श्रीकृष्ण उवाच-शृणु त्वं राधिके चान्यं चमत्कारं हरेस्ततः ।भक्तसाहाय्यकृत्कृष्णनारायणोऽभवद् यथा ॥१॥एकदा भूतलं द्रष्टुं पितॄणां जनवासिनाम् ।मानस्यः कन्यका बह्व्यो विमानेन समागताः ॥२॥ब्रह्मपुत्री लवहीता चन्द्रावती इरावती ।शालावती मीनकङ्गू लाटिशा कानिशा तथा ॥३॥मापींगा चापि शीक्यांगा अंगस्वांगा हरांगहा ।मौक्तिका तारिमा चापि पन्नामा त्वांगहा तथा ॥४॥मीनामी तानसरिमा सीना गान्धर्ववेदिका ।नृत्यगायनकुशलारागरागिण्यभिज्ञिकाः ॥५॥सुरूपा यौवनभराश्चन्द्रास्याः सूर्यभासुराः ।वह्निशुद्धांशुकवस्त्रा दिव्यभूषाः प्रभान्विताः ॥६॥विंशतिसंख्यकाः कन्यास्तासां दास्यः सहस्रशः ।कामरूपधाराः सिद्धैश्वर्यसामर्थ्यराजिताः ॥७॥अस्त्रशस्त्रधारिकाश्च देव्योऽप्रधृष्यसद्बलाः ।निजलोकात्तु दिव्येन विमानेन शुभांगनाः ॥८॥ययुः सत्यं नमस्कृत्य विष्णुं शंभुमजं तथा ।ब्रह्मसभास्थितान् देवान् नत्वा कृतसुमंगलाः ॥९॥मेरोः शिखरात् प्रथमं मेरुद्रोणीमुपाययुः ।मेरुं प्रदक्षिणां कृत्वा दृष्ट्वा देवालयान् बहून् ॥१०॥ब्रह्मलोकालयसमान् सौधोद्यानमहालयान् ।स्वर्गातिस्वर्गशोभाढ्यान् दिक्पालानां तथालयान् ॥११॥प्रासादान् ग्रहनक्षत्रतारकाणां महोज्ज्वलान् ।योगिनां च ऋषीणां च गान्धर्वाणां तथाऽऽलयान् ॥१२॥दैत्यदानवसौधानि किन्नराणां गृहाणि च ।स्थानानि किंपुरुषाणां तापसानां तथाऽऽश्रमान् ॥१३॥विलोक्यैलावृतं पश्चात् वियुक्तां जाम्बवीं भुवम् ।पृथ्व्यां समाययुर्व्योम्ना ताः किंपुरुषखण्डकम् ॥१४॥आपतायीपर्वतं च गोपीरणं तथाऽक्षिगम् ।पर्वतं कुनलीनाद्रिं कारुकोरं त्रियानशम् ॥१५॥चिपिंगं प्राचीनभाग दृष्ट्वा पीतसमुद्रकम् ।अंगशिक्षांगसरितं शिक्षांगिकां नदीं तथा ॥१६॥जलपानप्रदेशाँश्च फुल्लिपानप्रदेशकान् ।वारणीयद्वीपगणान् दृष्ट्वा सुमातृकां ययुः ॥१७॥ततः परावृत्त्य ययुर्मीनकङ्गूनदीं प्रति ।इरावतीं चन्द्रवीनां पतत्कायाद्रिमाययुः ॥१८॥तावत् कन्याविमानं च वीक्ष्य सामुद्रराक्षसाः ।जलपानप्रदेशस्था व्योमयानविहारिणः ॥१९॥पिशंगवर्णा दीर्घाश्च पर्वतशृंगसदृशाः ।सशस्त्रा स्त्वाययुर्हर्तुं कन्यारत्नानि चाम्बरे ॥२०॥एवं फुल्लिपानदेशप्रजाता दानवा अपि ।व्योममार्गेण यानेन कन्या हर्तुं समाययुः ॥२१॥मायाविनो विकराला यथेष्टरूपधारिणः ।अस्त्रशस्त्रधरा व्योम्नि विहाराश्चाब्धिवर्तिनः ॥२२॥पर्वतप्रायदेहाश्च विद्युच्छस्त्रा भयंकराः ।निर्दयाः पिङ्गवर्णाश्च रूक्षदेहाः प्रदाहकाः ॥२३॥एवमन्ये वारणीयद्वीपदैत्या भयंकराः ।निर्घृणा मानुषादाश्च वह्निपाषाणशस्त्रिणः ॥२४॥व्रजक्षेपणबाणाद्यैर्युक्ता व्योमविहारिणः ।कन्यकानां विमानं तद् रम्यं क्रोशायतं शुभम् ॥२५॥सूर्यप्रभं विलोक्यैते हर्तुं कन्याः समाययुः ।आदमनद्वीपतश्च कृष्णानागाश्च कष्मलाः ॥२६॥आययुस्तं प्रविज्ञाय कन्यागणं सुरूपिणाम् ।एवं ते राक्षसाः पञ्चशतानि च सहस्रशः ॥२७॥दैत्याश्च दानवाः कृष्णनागाश्चापि सहस्रशः ।सर्वे ते पञ्चसाहस्राः परितश्चाययुस्तदा ॥२८॥पतत्काये महाशैले विमानं रुरुधुश्च ते ।सर्वाः शरणमायान्त्वन्यथा नङ्क्ष्यथ वै द्रुतम् ॥२९॥इत्युक्त्वा चासुराः सर्वे विमानं प्रविविक्षवः ।प्रविष्टुं त्वरमाणाश्च दुद्रुवुः परितो यदा ॥३०॥विमान पुण्यतत्त्वस्य पापिनां स्पर्शवर्जितम् ।रक्षोदानवदैत्यानामप्रधृष्यं तदाऽम्बरे ॥३१॥निरोधं नाऽऽप च यदा तदा ते चासुराः पुनः ।मायां वै निजपापानां कृत्वा धृत्वा च तत्क्षणम् ॥३२॥पापतत्त्वस्य रूपाणि पापातत्त्वायुधानि च ।पापास्त्राणि च पापानां शस्त्राणि पापपाशकान् ॥३३॥पापमन्त्रितनाराचान् धनुःखड्गादिकाँस्तथा ।वह्निपाषाणबाणाँश्च गदातोमरमुद्गलान् ॥३४॥गोलकान् वह्निचूर्णाढ्यान् विस्फोटकाँस्तथाविधान् ।विमानं चाऽवरुरुधुस्तासां जिवृक्षवो हि ते ॥३५॥पापतत्त्वेन मेघेन गतिं रुरुधुरेव ते ।द्वाराण्युपरुरुधुश्च विविशुश्च विमानकम् ॥३६॥हाहाकारो महानासीद्विमाने कन्यकागणे ।न कश्चिद् विद्यते त्राता विमाने सन्निधावपि ॥३७॥भूतले चाऽम्बरे वाऽपि पर्वते वारिधावपि ।कन्यका दुःखमापेदुरर्यमाणं च सस्मरुः ॥३८॥पितरं रक्षकं नैजं जनकं दुःखवारकम् ।तावच्छीघ्रं समायातस्त्वर्यमा स्वगणैः सह ॥३९॥स्मृतमात्रो विमानेऽसावदृश्यत शतप्रभः ।सहस्रशरवर्षाभिर्वारयामास राक्षसान् ॥४०॥राक्षसा दानवा दैत्याः कृष्णनागाश्च वै तदा ।परितो बाणवर्षाभिरर्दयामासुरार्यकम् ॥४१॥अर्यमा वह्निमुत्पाद्य प्रेषयामास सर्वतः ।राक्षसादीन् प्रदग्धुं स ददाह सर्वतो दिशः ॥४२॥जलपानीयरक्षांसि जलान्युत्पाद्य मायया ।शान्तयामासुरनलं ततोऽयमर्यमा पिता ॥४३॥अरुणानयुतान् सृष्ट्वा प्रेषयामास सर्वतः ।तीक्ष्णज्वालाऽणुशस्त्रास्ते दाहयामासुरीश्वराः ॥४४॥राक्षसान् दानवान् दैत्यान् कृष्णनागाँश्च सर्वशः ।तदाऽसुरा मृषारूपधराः स्वमाययाऽभवन् ॥४५॥मूलरूपाणि चाच्छाद्य युयुधुश्चारुणैः समम् ।आरुणा अर्यमदूतास्तीक्ष्णोष्णरश्मिहेतिभिः ॥४६॥अन्विष्याऽन्विष्य दैत्यादीन् दाहयामासुरासुरान् ।दग्धास्तु बहवस्तत्र नवोत्पन्नाश्च भस्मतः ॥४७॥अयुताऽयुतलक्षाणि राक्षसा अभवँस्तदा ।युद्धं तच्चाम्बरे सर्वं सर्वस्वध्वंसकारकम् ॥४८॥आरुणानां रक्षसां चाऽभवत्तर्कपरं महत् ।अर्यम्णा सूर्यमन्त्रैश्चोत्पाद्यन्तेऽरुणकोटयः ॥४५॥रक्षोभिः राक्षसैर्मन्त्रैरुत्पाद्यन्ते च राक्षसाः ।नान्तस्त्वायाति सैन्यानां वर्धन्ते सैन्यकोटयः ॥५०॥आयुधान्यपि वर्धन्ते वर्धन्ते शस्त्रराशयः ।विभिद्यन्ते विछिद्यन्ते म्रियन्ते च पतन्ति च ॥५१॥रक्तं रक्तमयं जातं चाम्बरं भूतलं तथा ।कायव्यूहाः पतन्त्यत्र लक्षशो वै समन्ततः ॥५२॥आरुणानां राक्षसानामद्रिशृंगसमा हताः ।देहाः कायाः पतन्तश्च सञ्चया उच्छ्रयास्तथा ॥५३॥मेघानुल्लंघ्य गगने सञ्जाताः पर्वता यथा ।शतयोजनविस्तारे भूतले पर्वतोच्छ्रयाः ॥५४॥नग्नानां वै शवानां ते पर्वता वै तदाऽभवन् ।पतत्कायाः पर्वतास्ते नग्नशैला हि तेऽभवन् ॥५५॥पिंगोच्चयाः समभवन् ये नष्टा युद्धकोविदाः ।आसप्ताहं महायुद्धं दिवानिशं त्ववर्तत ।न विरामोऽभवत्तत्र तदाऽर्यमा स्वयं रविः ॥५६॥पितृकक्षः प्रसस्मार विष्णुं शिवमजं त्रयम् ।रक्षार्थं देवदेवेशान् पितृरूपान् पितामहान् ॥५७॥रक्षार्थं देवदेवेशाः समायान्तु द्रुतं क्षणात् ।रक्षन्तु कन्यकाः सर्वा नाशयन्त्वसुरानिति ॥५८॥तावत्तत्र समायाता ब्रह्मविष्णुमहेश्वराः ।विमानत्रयमारूढा दिव्यसैन्यसमन्विताः ॥५९॥एतस्मिन्नेव काले तु दैत्यदानवराक्षसाः ।सस्मरुश्च महादैत्यं महामायाविशारदम् ॥६०॥कालप्रालेयनामानं कोटिसैन्यसमन्वितम् ।महाकालसमं महामायोत्थं मेरुसदृशम् ॥६१॥सहस्रमस्तकं प्रत्यानने शताऽजचर्वणम् ।द्रागेव स समायातः कम्पयन् भुवनानि वै ॥६२॥यस्याट्टहास्यमात्रेण निपेतुर्ग्रहसञ्चयाः ।चुक्षुभुः सागराः सर्वे मेदिनी चाऽप्यकम्पत ॥६३॥शिखराणि निपेतुश्च भूतानि तत्यजुर्ध्रुवम् ।महावज्रनिपातेन समा जाताश्च गर्जनाः ॥६४॥मन्दरस्य शिखरं वै हस्तेनैकेन संधृतम् ।कालप्रालेयकेनाऽन्यकरेण केतवो धृताः ॥६५॥एतादृशो महाकायोऽसुरो यस्याऽऽननं तदा ।व्यात्तं समभवद् विकासितं तु दशयोजनम् ॥६६॥एवं सहस्रवदनो दृष्ट्वाऽजविष्णुशंकरान् ।सक्थिस्फोटैराजुहावाऽम्बरे कोटिसुरान्वितान् ॥६७॥अथ देवास्तु तं वीक्ष्य वैराजप्रतिरूपकम् ।संकर्षणं महाकायं सस्मरुः कालनाशकम् ॥६८॥तूर्णं संकर्षणो देवस्तत्राम्बरे समाययौ ।तुष्टुवुस्ते त्रयो देवा रक्षार्थं सगदं प्रभुम् ॥६९॥संकर्षणो गदां तस्य मूर्ध्नि बलान्न्यपातयत् ।कालप्रालेयकः शीघ्रं वञ्चयित्वा तु तां गदाम् ॥७०॥संकर्षणं स गदया तताड मस्तकोपरि ।संकर्षणः स्वगदया चूर्णयामास तद्गदाम् ॥७१॥कालप्रालेयकं मूर्ध्नि तताड वेगतस्ततः ।गदा भग्नाऽभवद् दण्डाद् दैत्यमूर्धा बभंज न ॥७२॥दैत्यस्त्रिशूलमादाय हन्तुं दुद्राव तत्क्षणम् ।संकर्षणः स्वशूलेनाऽभिनद् वक्षसि कालकम् ॥७३॥निपपात तदा पूर्वसमुद्रे पर्वतोच्छ्रयः ।शक्त्या हतस्ततः कण्ठे वज्रेण च तथोदरे ॥७४॥मर्दितः पर्वतैश्चापि कूर्चितः पत्तलैस्तथा ।व्यसुर्यथा तथा जातः क्षणान्मूर्छामवाप्य सः ॥७८॥उत्थाय जीवरक्षार्थ चकार स पलायनम् ।मेरुं प्रदक्षिणं कृत्वा दुद्राव च बहिर्यदा ॥७६॥संकर्षणस्तु तं लोकाऽलोकाचलाऽवधिं ययौ ।पृष्ठदेशे ययौ येनाऽसुरः स कालकालयः ॥७७॥लोकालोकं विहायैवाऽलोकं व्योम ययौ बहिः ।सकर्षणभयात् सोऽप्यनन्ताऽसंख्याम्बरे ययौ ॥७८॥संकर्षणोऽपि देवस्तु शंभ्वादीन् सूक्ष्मरूपतः ।निर्भयं संप्रदत्वैव ययावीश्वरधाम च ॥७९॥अथ दैत्यैर्दानवैश्च युयुधुः शंकरादयः ।निजघ्नुः सर्वतो दैत्यान् कालप्रालेयपक्षकान् ॥८०॥त्रिशूलैश्चक्रकैर्विद्युत्पाशैः पाशैश्च तोमरैः ।खड्गैः प्रक्षेपणैः शैलैरसिभिः शक्तिभिस्तथा ॥८१॥वाय्वस्त्रैः पर्वतास्त्रैश्च मेघास्त्रैरनलास्त्रकैः ।नागास्त्रैर्गरुडास्त्रैश्च सिंहास्त्रैः शरभास्त्रकैः ॥८२॥वाराहास्त्रैः कृकलास्त्रैः कर्कस्त्रैर्वृश्चिकास्त्रकैः ।यमास्त्रै राक्षसास्त्रैश्च मकरास्त्रैर्जलास्त्रकैः ॥८३॥व्याघ्रास्त्रैदीपकास्त्रैश्चोन्मादास्त्रैर्मूर्च्छनास्त्रकैः ।क्षुधास्त्रैश्च तृषास्त्रैश्चोन्मत्तास्त्रैर्जघ्नुरामिथः ॥८४॥ब्रह्मादीनां च सैन्यानि दैत्यदानवराक्षसान् ।अर्दयामासुरत्यर्थं नाशयामासुरन्ततः ॥८५॥कोटिसंख्या आसुरास्ते हता युद्धे समन्ततः ।कृत्रिमाश्चाऽकृत्रिमाश्च मायिकाश्चाप्यमायिकाः ॥८६॥आरुणानां च सैन्यानि ब्राह्मानां पृतनास्तथा ।शांकराणां गणाश्चापि वैष्णवानां च पार्षदाः ॥८७॥हता युद्धे कोटिशश्च तान् सर्वांस्तेऽसुरास्त्रयः ।जीवयामासुराम्नायमन्त्रैः संकल्पसिद्धिभिः ॥८८॥ब्रह्माद्याश्चाहुरेतेभ्यो वरदानार्थमिष्टदाः ।वव्रुस्ते परमं मोक्षं ये सर्वे जीविताश्च ते ॥८९॥ब्रह्माद्यास्तु तदा प्राहुर्वृणुताऽन्यद्धि मोक्षणात् ।जीविताश्चारुणाद्यास्ते मोक्षान्यं नैव वव्रिरे ॥९ ०॥विष्णुः प्राह ततस्ताँश्च मोक्षाः सन्ति ह्यनेकशः ।नरनारायणलोकं बद्रिकाश्रममित्युत ॥९१॥पयोनिधिं वा युष्मभ्यः श्वेतद्वीपं ददामि वा ।ते प्राहुर्नैव तद्धाम शाश्वतं न ततो वयम् ॥९२॥समिच्छामः किन्तु चेच्छामः श्रेष्ठं शाश्वतं परम् ।विष्णुः प्राह तु वैकुण्ठं जलस्यावरणोपरि ॥९३॥वर्तते तद् ददाम्येव वैराजं धाम वोत्तमम् ।ते प्राहुर्नहि वैकुण्ठं वैराजं वाऽपि शाश्वतम् ॥९४॥तस्मादिच्छाम एवान्यद्धाम मोक्षाभिधं परम् ।विष्णुः प्राहाऽमृतं धाम भूम्नो ददामि चैव वः ॥९५॥यद्वाऽव्याकृतसंज्ञं च वैकुण्ठं वा ददामि वः ।ते प्राहुर्नैव चेच्छामस्तद्धाम किन्तु तत्परम् ॥९६॥विष्णुः प्राह ददाम्येव गोलोकं परम पदम् ।ते प्राहुर्नैव वाञ्च्छामो वाञ्च्छामस्तु ततः परम् ॥९७॥शाश्वतं चाऽक्षरब्रह्मपदं वेदान्तबोधितम् ।सर्वधाम्नां परं धामोपनिषद्वर्णितं शुभम् ॥९८॥यत्समं यत्परं नास्ति तद्धाम परमं हरेः ।इच्छामो देहि तद्धाम परब्रह्मसमाश्रितम् ॥९९॥विष्णुः प्राह न मे शक्तिर्विद्यतेऽर्पयितुं तु तत् ।अनादिश्रीकृष्णनारायणः श्रीपुरुषोत्तमः ॥१००॥परमात्मा परब्रह्म सर्वावतारधारकः ।दातुं शक्तोऽस्ति तद्धाम स वै दास्यति तत्पदम् ॥१०१॥इत्युक्ताः सस्मरुस्तूर्णं तं वै श्रीपुरुषोत्तमम् ।अनादिश्रीकृष्णनारायणस्वामिपुमुत्तमम् ॥१०२॥ध्यानमग्नाश्च सहसा ह्यभवँस्तत्क्षणे तु ते ।आत्मात्मन्यवगाह्यैवाऽस्मरन् सर्वावतारिणम् ॥१०३॥इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने पितृकन्यकानां किम्पुरुषखण्डे राक्षसादिकृतस्य निरोधस्य निवृत्तये ब्रह्मादिदेवकृतयुद्धं मृतानां प्राणदानं, जीवितैर्मोक्षो याचितः परममोक्षदस्तु अनादिश्रीकृष्णनारायण एवेत्यादिनिरूपणनामा सप्ताधिकशततमोऽध्यायः ॥१०७॥ N/A References : N/A Last Updated : May 01, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP