संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|त्रेतायुगसन्तानः| अध्यायः २०२ त्रेतायुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ अध्यायः २३८ अध्यायः २३९ अध्यायः २४० अध्यायः २४१ अध्यायः २४२ अध्यायः २४३ अध्यायः २४४ अध्यायः २४५ अध्यायः २४६ अध्यायः २४७ अध्यायः २४८ अध्यायः २४९ अध्यायः २५० अध्यायः २५१ अध्यायः २५२ अध्यायः २५३ अध्यायः २५४ अध्यायः २५५ अध्यायः २५६ अध्यायः २५७ अध्यायः २५८ अध्यायः २५९ अध्यायः २६० अध्यायः २६१ अध्यायः २६२ अध्यायः २६३ अध्यायः २६४ अध्यायः २६५ अध्यायः २६६ अध्यायः २६७ अध्यायः २६८ अध्यायः २६९ अध्यायः २७० अध्यायः २७१ अध्यायः २७२ अध्यायः २७३ अध्यायः २७४ अध्यायः २७५ अध्यायः २७६ अध्यायः २७७ अध्यायः २७८ अध्यायः २७९ अध्यायः २८० अध्यायः २८१ अध्यायः २८२ अध्यायः २८३ अध्यायः २८४ अध्यायः २८५ अध्यायः २८६ अध्यायः २८७ अध्यायः २८८ अध्यायः २८९ अध्यायः २९० अध्यायः २९१ अध्यायः २९२ अध्यायः २९३ अध्यायः २९४ अध्यायः २९५ अध्यायः २९६ अध्यायः २९७ अध्यायः २९८ अध्यायः २९९ अध्यायः ३०० विषयानुक्रमणिका त्रेतायुगसन्तानः - अध्यायः २०२ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः २०२ Translation - भाषांतर श्रीकृष्ण उवाच-राधिके रायकिन्नारः शीघ्रं सैन्यमसज्जयत् ।हस्त्यश्वरथसंशोभद्वाद्यमानववाहनम् ॥१॥श्वेतहस्ती चतुर्दन्तः पर्वतशृंगकोच्छ्रयः ।साऽम्बालिकोऽतिचित्राढ्यः स्वर्णकूथसुशोभितः ॥२॥राजाऽऽज्ञया हरेरर्थे हस्तिपकेन नोदितः ।आययौ शीघ्रमेवाऽग्रे चारुरोह गजं हरिः ॥३॥अन्ये गजास्तथोर्ध्वा वै षट् तत्रैवोपतस्थिरे ।पितरौ भ्रातरश्चापि स्वसा भ्रातृप्रिया ह्यपि ॥४॥आरुरुहुर्गजान् ताँश्च लोमशस्तुषितस्तथा ।लालायनस्तथा चेशानः स्वयं गजमुत्तमम् ॥५॥आरुरुहुर्नरयानेष्वपि ब्रह्मप्रियाः स्त्रियः ।सावरणेषु यानेषु रंगिन्यो नवयौवनाः ॥६॥कन्यका गौरिकाश्चापि पिशंग्यो हारितास्तथा ।रथेष्वपि च गांगेया महर्षयस्तथाऽपरे ॥७॥निषेदुः सुखसम्पन्ना भ्रमितुं मणिपत्तनम् ।महीमानेषु सर्वेषु तूपविष्टेषु तत्तथा ॥८॥वाहृनेषु ततो लोकजनानां सैन्यकानि हि ।अग्रे वाद्यसुयुक्तानि ध्वजापताकिकादिभिः ॥९॥चेलुर्गायन्त एवाऽऽद्यनारायणमहद्यशः ।ततो हस्ती महान् यातीशानदेवस्य शोभनः ॥१०॥कुटुम्बिनां गजाः पश्चात्ततो महर्षिवारणाः ।ब्रह्मप्रियादीनां नरयानानि यान्ति हि ॥११॥रथाः प्रयान्ति शोभाढ्याः सौवर्णकलशान्विताः ।चित्रपट्टावृताश्चापि शुभाः श्वेताश्ववाहिताः ॥१२॥ततो हस्ती महान् याति श्रीपतिकृष्णशोभितः ।राजा किन्नारको यत्र छत्रं दधार पृष्ठके ॥१३॥पार्श्वे कुमारकौ धृत्वा चामरौ समतिष्ठतः ।ततो राज्ञां वाहनानि निर्ययुः शोभनानि वै ॥१४॥अमर्यः कन्यकाः पश्चाद्गीतनारायणाभिधाः ।कृतकौतुकवेषाश्च शृंगारभावमंगलाः ॥१५॥मौक्तिकासनकलशाः सफलाः शुभपल्लवाः ।सर्वशोभाम्बरभूषा यान्ति गायन्त्य ऐश्वरम् ॥१६॥कीर्तनं कांभरेयस्य श्रीपतेः कमलापतेः ।नरयानेषु तन्मध्ये राधा लक्ष्मीः प्रभा सती ॥१७॥पार्वती माणिकी हंसा मंजुला सगुणाऽम्बिका ।सन्तोषा चाऽमृता मुक्तिर्देवी च ललिता जया ॥१८॥एता अन्याश्च राजन्ते भूषिताश्चापराः स्त्रियः ।प्रयान्ति राजमार्गेऽन्या अश्ववाराश्च रक्षकाः ॥१९॥राजाज्ञाकृज्जनादिष्टमहामार्गेण संचरन् ।श्रीहरिः शोभतेऽर्कद्युतिस्तदा जनतार्चितः ॥२०॥एवं सैन्यं चचालैतन् मणिपुर्यां हरेस्तदा ।प्रथमं राजशोभाढ्यं ययौ तद्राजमन्दिरम् ॥२१॥राज्याऽऽसनेऽतिसौवर्णे मणिरत्नसमुज्ज्वले ।राजा वाहादवतीर्य हरिं न्यषादयन्नरः ॥२२॥जयशब्दाश्चाभवँश्च पुष्पवृष्टिरभूत्तथा ।प्रधानाद्यैः कुमाराद्यै राज्ञीभिश्च कृतोत्तमा ॥२३॥राज्ञी मुख्या सती देवी पुपूज परमेश्वरम् ।तिलकं कुकुमेनाऽपि चन्दनेनाऽक्षतैस्तथा ॥२४॥अकरोच्छ्रीहरेर्भाले दुःखहाञ्जलिमाचरत् ।पुष्पैर्विकीर्य कृष्णस्य मस्तके नमनं व्यधात् ॥२५॥पादौ प्रक्षाल्य दुग्धेन स्थाल्यां दुग्धं समानयत् ।पपौ प्रासादिकं शीघ्रं राजकुटुम्बमेव तत् ॥२६॥वारिणा चरणौ पश्चात्प्रक्षाल्य परमात्मनः ।सन्निधौ हारभूषादिर्द्रव्यं कोटिमितं न्यधात् ॥२७॥यज्ञेऽर्पितं मया कृष्ण नृपाज्ञया तवाऽस्ति तत्॥इत्युक्त्वा पार्श्वमागत्य स्थिरेक्षणा ददर्श तम् ॥२८॥राधिके च तदा राजा ननाम हरिपादयोः ।कुटुम्बं मणिरत्नादि प्रददौ पूजने तदा ॥२९॥बालकृष्णो ददौ तेभ्यस्तदा नेत्रे सुदिव्यके ।पररूपग्राहिणी च ततो नैजं त्वलौकिकम् ॥३०॥दर्शनं प्रददौ कृष्णः सुदिव्यं सुमनोहरम् ।रूपानुरूपावयवं कोटिमन्मथसुन्दरम् ॥३१॥कोटिमुक्तैः कोटिशक्तिभिश्च संसेवितं परम् ।अनन्तानन्तमुक्तैश्चेश्वराद्यैर्जुष्टमुत्तमम् ॥३२॥ब्रह्माद्यैर्वन्दितं दिव्याम्बरभूषाविराजितम् ।राधारमादिसंजुष्टं कान्तकान्तातिकान्तिकम् ॥३३॥अवतारैस्तथा व्यूहैर्देवेश्चरैः प्रसेवितम् ।विलोक्य राजकुलिनो मुमुहुस्तत्र माधवे ॥३४॥आश्चर्यं परमं वीक्ष्य क्षणं स्तब्धा इवाऽभवन् ।ततो राजा स्तुतिं चक्रे दिव्यभावेन नोदितः ॥३५॥महातेजःपुञ्जात्मकपरमधामस्थरुचिरोमहामुक्तैः सेवापरिचरणतुष्टो विजयते ।अनादिश्रीकृष्णोऽनवधिगुणधारी परतरो-ऽक्षरेशः शक्त्याद्यैरधिगतपदः संविजयते ॥३६॥त्वमेवाऽऽस्से दिव्येऽक्षरपरमधाम्नि स्वनिलयेस एवास्से कृशा द्विभुजवररूपोऽतिसुखकृत् ।गवां लोके गोपीगणसुरचितार्घ्यः स्वभवनेस एवास्ते लक्ष्मीपरिचरितवैकुण्ठभवने ॥३७॥त्वमेवास्से भूमन्नमृतपरिपूर्तेश्वरपदेस एवास्ते व्यूहात्मकतनुमयोऽव्याकृतभुवि ।विराज त्वं चास्से भवसि च हिरण्यर्भ पुरुष-स्त्रिदेव त्वं विष्णो भवसि मनुजानां हितकरः ॥३८॥सुरा दैत्याश्चान्ये पितर इह विप्राः ऋषिगणानृपाः पातालस्था जडचिदभिधं सा तव तनूः ।नरो नाराद्या ये मुनय इह बद्रीशतनुगंभजन्त्येवात्मज्ञा युगलतनुगं मुक्तिलषिणः ॥३९॥तथा श्वेते लोके धवलरुचिदेहास्तव जनाःप्रसेवन्ते लक्ष्मीकृतचरणसेवं फणिशयम् ।त्वमेव त्वं चन्द्रे रविपरिधिग त्वं हृदयगो-ऽनले त्वं श्रीकृष्णो भवसि तमसां लोपकृतिमान् ॥४०॥इदं दिव्यं रूपं तव जडचितिस्थं निजदृशाप्रपश्येऽहं विष्णो भवदतिकृपालेशबलतः ।त्वमेवादौ चाभूः सपरिकरतत्त्वादिसृजिकृत्प्रविष्टस्त्वं पोष्टा भवसि परिहारेऽपि लयकृत् ॥४१॥त्वमेवास्सेऽसंख्यऽवतरणसुमूर्तिध्रगपि यःपरंश्रेयःकर्ता भवजलधिमग्नस्य कृपया ।स एवात्र प्राप्तो भवसि भगवन् यज्ञतनुमान्प्रभोक्ता त्वं यज्ञे कुरु निजजनानां सुखमयम् ॥४२॥मया दत्तं द्रव्यं तव भवति भोग्यं ननु पुरासमस्तं राज्याद्यं तव चरणयोराहितमिदम् ।अहं वर्ते राज्ये ननु सततमागन्तुक इतिमहाराज त्वं वै गृहपतिरसि स्वीयविषयः ॥४३॥इत्यभीष्टूय राजा स बालकृष्णं तु राधिके ।मौनं जग्राह च ततो भगवान् दिव्यदर्शनम् ॥४४॥तिरोभावयदथ ते ददृशुः स्वर्णकासने ।नेमुः प्रणेमुः सहसा साश्रुनेत्राः सहृद्गदाः ॥४५॥राज्ञ्यः सर्वाश्च चरणौ धृत्वा तदा तु शार्ङ्गिणः ।अलिहन् द्वे तले प्रेम्णा ज्ञात्वा श्रीपरमेश्वरम् ॥४६॥कन्यकास्तत्र च राज्ञस्त्वेकपञ्चाशदुत्तमाः ।आसन् दर्शनकर्त्र्यस्ता मुमुहुः पुरुषोत्तमे ॥४७॥वरमालां करयोश्च धृत्वा कण्ठे हरेरेर्न्यधुः ।बालकृष्णो नृपादिष्टः करान् जग्राह वै तदा ॥४८॥प्राप्य कृष्णं कान्तमीशं ता आसन् कृतकार्यिकाः ।राजानं श्रीहरिस्तत्राशीर्वचांसि प्रदाय तु ॥४९॥यज्ञद्रव्यं दिनमानर्षयेऽधीनं विधाय ह ।उत्तस्थौ त्वासनाद् राजा कृतकृत्यो बभूव ह ॥५०॥मन्दिरे त्वालये राज्ञः सर्वत्र भगवाँस्तदा ।विचचार बहुभौमे शतभूम्यादिसंयुते ॥५१॥राजोद्यानं विचचार पादपूतं विधाय च ।राजमन्दिरमेवादौ ततः प्रधानमन्दिरम् ॥५२॥श्रेष्ठिणामालयाँश्चापि ततो नगरवासिनाम् ।गृहेषु चरणौ न्यस्याऽऽदाय पूजां क्रतोः कृते ॥५३॥राजमार्गे चापणेषु चत्वरेषु स्थले स्थले ।पूजां प्राप्य हरिः सर्वं यज्ञार्थं तत् समार्पयत् ॥५४॥एवं नगर्यामभितो बहुमानपुरःसरम् ।विचचार जनानां तु मनांसि स्वे जहार च ॥५५॥राजमार्गे भ्रमन्तं तं महाहस्तिस्थितं प्रभुम् ।विलोक्य प्रमदाः सर्वा अमर्यः सञ्जगुर्यशः ॥५६॥धन्यास्ता राजकन्या या वव्रुः श्रीपतिमीश्वरम् ।कृतपूर्वतपःपूजाफलमापुः कुतोऽन्यथा ॥५७॥नारायणः पतिः कान्तो गृहे मिलेत् स्त्रियस्त्विह ।यं राधा कमला पद्मा लक्ष्मीः प्रभा च पार्वती ॥५८॥माणिक्याद्याः प्रसेवन्ते तं प्राप्ता भाग्यगौरवात् ।यं सेवन्ते ब्रह्मप्रिया यं सेवन्तेऽन्यकन्यकाः ॥५९॥यं सेवन्ते गौरिकाश्च तं प्राप्ता भाग्यगौरवात् ।यं सेवन्ते हारिताश्च देव्योऽसंख्यगुणाश्रयम् ॥६०॥प्रपश्यन्तु मुखं त्वस्य चन्द्रबिम्बोज्ज्वलं परम् ।भ्रूकुट्यां वर्तते बाणः कामदेवस्य संस्थितः ॥६१॥धनुर्भ्रुवोर्वर्ततेऽस्य देहेऽस्य रामणीयकम् ।हास्ये महाँश्चमत्कारः समाकर्षणमोहनः ॥६२॥नेत्रकोणेऽस्य रुचिरा चमत्कान्तिर्विराजते ।ओष्ठमध्येऽतिसौन्दर्यं समाकर्षणकारकम् ॥६३॥पश्यन्तु चालयस्त्वस्य विशालं समुरःस्थलम् ।कौस्तुभश्रीसमाधारं सबलं मोहकं वपुः ॥६४॥अलक्तातिगशोभाढ्ये पश्यन्तु करपत्तले ।कदलीस्तंभशोभाढ्यौ पश्यन्तूरू हरेः स्त्रियः ॥६५॥पूर्तिस्त्वस्याऽतितेजोऽभिव्याप्ता पारदृशिश्रया ।मूर्तिस्त्वस्याऽतितेजोऽभिव्याप्ता पारदृशिश्रया ।नाऽयं मानुषदेहोऽस्ति दिव्योऽस्ति परमेश्वरः ॥६६॥नास्य मूर्ताववयवा दृश्यन्ते सन्धियोजिताः ।सख्यः पश्यन्तु सौन्दर्यं बहिश्चान्तः समन्ततः ॥६७॥अमलं चास्थिनाड्यादिक्लृप्तिघटनावर्जितम् ।एकतत्त्वं विभात्येषोऽवश्यं श्रीपुरुषोत्तमः ॥६८॥सच्चिदानन्दरूपोऽस्ति परात्परः परेश्वर ।श्रुतो यः शास्त्रकथने स एवायं वितर्क्यते ॥६९॥अस्य दर्शनमात्राद्वै सुखानन्त्यं समर्ज्यते ।आनन्दघन एवाऽयं सर्वगन्धरसाश्रयः ॥७०॥आत्मज्योतिःप्रदश्चायं हरत्यन्तर्मनो हि नः ।प्राप्तव्यः सर्वथा चायं मरणान्ते परेऽक्षरे ॥७१॥मन्त्रं तस्य ग्रहीष्यामो यज्ञेऽवश्यं हि योषितः ।प्राप्स्यामस्तं परं कान्तं बालकृष्णं जनार्दनम् ॥७२॥तेजःपुञ्जोऽस्य तनुतो निर्याति कीदृशोऽतिगः ।सुखो निमेषहृत्सौम्यः शीलशान्तिप्रदोऽव्ययः ॥७३॥एवं परस्परं राधे मणिपुर्यां तु योषितः ।अमरीजातीयनार्यो वदन्ति स्मातिमोहिताः ॥७४॥मार्गे मार्गे गृहाग्रे च चत्वरे सौधसन्निधौ ।लाजाऽक्षतैः सुमैर्वर्धयन्ति स्म परमेश्वरम् ॥७५॥जयशब्दान् समुच्चार्य रञ्जयन्ति सतां पतिम् ।नमन्ति तु गवाक्षेभ्यः पश्यन्त्यः कान्तमीश्वरम् ॥७६॥भुक्तिदं मुक्तिदं देवेश्वरेश्वरं गुहाश्रयम् ।एवं भ्रमित्वा नगरीं मणिपूर्यभिधां हरिः ॥७७॥यज्ञपत्तनमुत्कृष्टं वीक्षितुं संययौ ततः ।महीमाना नरा नार्यो दृष्ट्वा देवेश्वरेश्वरम् ॥७८॥वर्धयामासुरिष्टाभिर्दत्ताभिश्चोपदादिभिः ।पूजयामासुरत्यर्थं चक्रुः स्वागतमुत्तमम् ॥७९॥धनैर्द्रव्यै रसैः क्षारैर्वेषवारैः कणादिभिः ।गव्यैर्हव्यैः शालिभिश्चाऽक्षताद्यैरार्चयन् प्रभुम् ॥८०॥वस्त्रैः शुभासनैः पात्रैः कम्बलैश्चोलकञ्चुकैः ।वर्मभिश्च विभूषाभिर्मुकुटाद्यैश्च कुण्डलैः ॥८१॥चन्दनैरतिमिष्टान्नैः फलैः शुष्कफलादिभिः ।मुखसौगन्ध्यवासैश्च रत्नहारालिभिस्तथा ॥८२॥दक्षिणाभिर्विविधाभिः सुवर्णकूप्यताम्रकैः ।बालकृष्णं प्रजाः सर्वाः पूजयामासुरेव ह ॥८३॥सैन्येनोत्साहितः कृष्णो दत्वैवं दर्शनं परम् ।आशीर्वादैर्योजयित्वा जनान् प्राप्य तथोपदाः ॥८४॥आययौ राजवर्गाद्यैः सहितौ निजसंश्रयम् ।राजसौधं रुमावासयोग्यं स्वर्गसमं हरिः ॥८५॥ददौ सर्वं चागतं वै धनं धान्यादिकं मखे ।सायं विनोदकायेव राजा प्राकारयन् मुदा ॥८६॥निशायां नर्तनोत्साहं महोत्सवमकारयत् ।कन्यार्पणनिमित्तं च धनार्पणमथाऽकरोत् ॥८७॥हरिर्भुक्त्वा भोजयित्वा कुटुम्बिनः समाश्रितान् ।महीमानान् मुनीन् सर्वान् ब्रह्मप्रियाश्च योषितः ॥८८॥प्रजाजनान् सुखं पश्चात् सुष्वापाऽमरिकाशये ।अमर्यस्तं नवं कान्तं सिषेविरेऽतिसेवया ॥८९॥प्रातस्तूर्याण्यवाद्यन्त प्रबोधयितुमीश्वरम् ।मंगलानि कीर्तनानि गीतिकाश्च स्त्रियो व्यधुः ॥९०॥वादित्रनिनदा मिष्टाः श्रवणेऽप्यभवँस्तदा ।जजागार हरिकृष्णः कृताह्निकः सभां ययौ ॥९१॥दुग्धपानादिकं कृत्वा वीक्षितुं मण्डपं ययौ ।विश्वकर्मादिभिः रात्रौ रचितं शोभनं परम् ॥९२॥विशालं तु दशक्रोशं चायुतासनशोभितम् ।कोटिदेवसमावेशं चित्रध्वजसमन्वितम् ॥९३॥कुण्डानि नव तत्रैव तथैकं परमं परम् ।वीक्ष्य वेदीश्च पात्राणि शालाश्च हव्यशालिकाः ॥९४॥होमसमिधः संवीक्ष्य कव्यानि वीक्ष्य चापि वै ।तुतोष भगवान् चाभूत्प्रसन्नश्चातिहर्षितः ॥९५॥सुदिव्यादिव्यसिद्धीनां योगिनीनां गणास्तथा ।देवीनां मातृकानां च सतीनां मण्डलानि च ॥९६॥मण्डलानि सांख्ययोगिनीनामैश्वर्यजूंषि च ।महानसानां रक्षार्थं वर्तन्ते पाकसिद्धये ॥९७॥तद्विलोक्याऽतितुष्टोऽभूद् भगवान् कृष्णवल्लभः ।देवीं धरणिं चाहूयाऽधिकारिणीं तदाऽकरोत् ॥९८॥अन्नपूर्णां तथा लक्ष्मीं ददौ सहाय्यदां हरिः ।धरण्यै सर्वलोकानां भोजनादिप्रपूर्तये ॥९९॥वरुणाय जलार्थं दक्षिणार्थं तु कुबेरकम् ।न्ययोजयद्धरिस्तत्राऽऽरोग्यार्थं चाश्विनौ सुतौ ॥१००॥रक्षार्थं धर्मराजं च विघ्नेशं विघ्नशान्तये ।अक्षयार्थं सूर्यदेवं शासनार्थं तु शूलिनम् ॥१०१॥दानार्थं गोचरं विष्णुं व्यवस्थार्थं तु वेधसम् ।सन्मानार्थं त्वागतानां महेन्द्रं समयोजयत् ॥१०२॥पाचनार्थं वह्निदेवं प्रकाशार्थं तु पार्वणम् ।ध्वन्यादिपरिवृद्ध्यर्थं विद्युतः समयोजयत् ॥१०३॥इत्येवं राधिके श्रीमद्बालकृष्णः प्रभातके ।न्ययोजयत् कर्मचारान् षष्ठ्यां भाद्रे सिते दले ॥१०४॥इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने मणिसेवापुर्यां यज्ञपत्तने च हरेर्विहरणं पूजनं भोजनं रात्रौ विश्रमणं भाद्रशुक्लषष्ठ्यां प्रातः कर्मचारयोजनेत्यादि निरूपणनामा द्व्यधिकद्विशततमोऽध्यायः ॥२०२॥ N/A References : N/A Last Updated : May 02, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP