संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|त्रेतायुगसन्तानः|
अध्यायः ९०

त्रेतायुगसन्तानः - अध्यायः ९०

लक्ष्मीनारायणसंहिता


श्रीकृष्ण उवाच-
शृणु राधे चमत्कारं कृष्णनारायणस्य वै ।
अन्यं ते संकथयामि लोकरक्षाकरं परम् ॥१॥
नरनारायणौ देवौ धर्मपुत्रौ हिमालये ।
बदर्यां श्रीकृष्णनारायणं सस्मरतुः पुरा ॥२॥
ऊर्जकृष्णैकादश्यां तौ तापसौ स्वोद्भवं प्रभुम् ।
गंगातीरे दध्यतुश्च स्वाश्रमे दर्शनोत्सुकौ ॥३॥
पृथिव्यां पश्चिमे प्रान्ते सौराष्ट्रे चाजनाभजे ।
क्षेत्रे कुंकुमवाप्याख्ये कम्भराश्रीगृहे हरिः ॥४॥
यस्त्वास्ते बालरूपोऽसौ परब्रह्म परः प्रभुः ।
सर्वावतारहेतुः सः कदा दास्यति दर्शनम् ॥५॥
इत्येवं स्मरतोर्भ्रात्रोर्नरनारायणात्मनोः ।
संकल्पं सम्पूरयितुं कृष्णनारायणः स्वयम् ॥६॥
अश्वपट्टसरःक्षेत्रगतान् भक्तान् प्रभाष्य च ।
ययौ यानेन दित्येन हैमाद्रिबदरीवनम् ॥७॥
लोमशं सह नीत्वैव शेषान् संस्थाप्य तत्र च ।
रक्षणार्थं कथयित्वा हराय क्षेत्रपाय च ॥८॥
एकादश्यां गतं कृष्णनारायणं तु बान्धवौ ।
पुपूजतुर्जलैः पुष्पैः फलैः कार्तिकपक्षके ॥९॥
सेवनं तौ चक्रतुश्च धर्मभक्ती तथर्षयः ।
तापसा अपि चक्रुश्च सेवनं प्रत्यहं प्रभोः ॥१०॥
मार्गशीर्षं श्रेष्ठमासं यज्ञीयं वीक्ष्य तापसाः ।
प्रचक्रे वैष्णवं यज्ञं बदर्यां ते महर्षयः ॥११॥
पर्णशालां ददौ नित्यं निवासार्थं यथोचिताम् ।
लोमशाय तथा बालकृष्णाय श्रीनरायणः ॥१२॥
मार्गशीर्षे बभूवाऽयं यज्ञोत्सवो महान् शुभः ।
तत्र देवो हरिः साक्षात्परमात्मा परेश्वरः ॥१३॥
यज्ञेश्वरोऽनले स्थित्वा हव्यानि वुभुजे तदा ।
साक्षाद् दिव्याक्षरमुक्तास्तथा गोलोकवासिनः ॥१४॥
वैकुण्ठवासिमुक्ताश्च तथाऽन्यधामवासिनः ।
समाययुः क्रतौ तत्र प्रसादलालसा हरेः ॥१५॥
सुरा महर्षयो देव्यस्तीर्थानि पितरस्तथा ।
सिद्धाश्चारणगन्धर्वा भूसुरा व्योमगामिनः ॥१६॥
भक्ता दैत्या दानवाश्च समाययुः क्रतौ तदा ।
एवं हि भगवाँस्तत्र राजते परमेश्वरः ॥१७॥
एतस्मिन्नेव समये कार्तिके तु सुराष्ट्रके ।
शंभोर्दूती महामारी शंभोर्निदेशतो निशि ॥१८॥
अश्वपट्टसरःक्षेत्रं सीम्नि स्थिता प्ररक्षति ।
तदा वै सिंहलद्वीपात् स्मृत्वा वै भ्रातृपुत्रकम् ॥१९॥
कुभीनसी तथा शृंगी राक्षस्योऽन्याः शतद्वयम् ।
व्योमगाः कामरूपिण्यो मायाजालविशारदाः ॥२०॥
ज्ञात्वा त्वधर्मजीवस्य मरणं वै सुराष्ट्रके ।
वैरं निर्यापयितुं शस्त्राऽस्त्रयुक्ताः समाययुः ॥२१॥
सिंहारण्यानि चोल्लंघ्य व्योम्ना सौराष्ट्रमाययुः ।
कृष्णायां तु चतुर्दश्यां कार्तिकस्याऽसिते दले ॥२२॥
दीपोत्सवात् पूर्वरात्र्यां चावतेरुस्तदाऽम्बरात् ।
उल्मुकान् दर्शयन्त्यश्च वह्निज्वालास्तथा मुखात् ॥२३॥
मूर्धजेभ्यस्त्रिशूलाँश्च दर्शयन्त्यो हि वह्निमान् ।
मारयैताः खादयैताः शत्रोः प्रियाः कुमारिकाः ॥२४॥
भेदयैताश्चर्वयैता नयैता राक्षसार्थकम् ।
ज्वालयैता धर्षयैताः सर्वाः कृष्णप्रिया बलात् ॥२५॥
नास्त्यासां रक्षकश्चाऽत्र समयो विजयस्य नः ।
इत्येवं भाषमाणास्ता लोमशस्याऽऽश्रमे द्रुतम् ॥२६॥
निपेतुर्धर्षणार्थं वै राक्षस्यः क्रूरयोषितः ।
सीमरक्षाकरी दूती महामारी हि भैरवी ॥२७॥
ज्ञात्वाऽऽकस्मिकसंघर्ष युद्धोपद्रवमित्यपि ।
सहस्ररूपिणी भूत्वा सशस्त्रा त्वभ्यधावत ॥२८॥
कन्यावासेषु सर्वत्र रात्रावाक्रोश उल्बणः ।
अभवत् त्रासकृत् तत्र राक्षसीनामुपद्रवात् ॥२९॥
भैरवी पाशमादाय सम्मन्त्र्य नागबन्धनैः ।
मुमोच राक्षसीसंघे राक्षस्यो वन्धनान्तरे ॥३०॥
नागैर्बद्धाश्चाऽभवँश्च निगडैश्चौरवत्तदा ।
हस्तेष्वपि तथा कट्यामुदरे च गलेष्वपि ॥३१॥
सर्वा एव तु नागानां पाशैर्नद्धा विचेष्टिताः ।
अभवन्न्यपतन् भूमौ विषदग्धास्तथाऽभवन् ॥३२॥
अथ सा भैरवी शंभुं सुप्तं चागत्य संस्तवैः ।
बोधयामास शीघ्रं चाऽऽवेदयामास घर्षणम् ॥३३॥
श्रुत्वोपद्रवमीशानो लोमशाश्रममाययौ ।
दृष्ट्वा नागास्त्रसन्नद्धा राक्षसीस्तुष्टमानसः ॥३४॥
प्राहैनां भैरवीं दूतीं कुर्वेता गतबन्धनाः ।
युद्धं कृत्वा तु ताः सर्वा विनाशाय विलोकये ॥३५॥
इत्याज्ञप्ता भैरवी सा नत्वा शंकरपादयोः ।
राक्षसीस्ता बन्धहीनाश्चकार शंकराज्ञया ॥३६॥
उवाचैता रणं कर्तुं राक्षस्यो बलगर्विताः ।
युद्धं चक्रुः शस्त्रधर्त्र्यो विविधैर्युद्धतर्कटैः ॥३७॥
शक्तिभिर्मुद्गरैश्चापि यष्टिभिः प्रस्तरैस्तथा ।
खड्गैरसिभिश्छुरिकामुष्ट्याद्यैः पादताडनैः ॥३८॥
पर्वतप्रायदेहाश्च वृष्टिभिश्चाभिचारकैः ।
युयुधुस्ता व्योमगा हि भैरवीभिर्निरन्तरम् ॥३९॥
भैरव्यो रुद्रबलतो वज्रदेहास्तदाऽभवन् ।
संकल्पजा बहुरूपा युयुधुस्तत्र हेतिभिः ॥४०॥
कृपाणैः परशुभिश्च कुठारैश्च त्रिशूलकैः ।
चक्रैर्भल्लैस्तथा स्तम्भैर्वज्रैर्दण्डैश्च जालकैः ॥४१॥
शलाकाभिः क्षेपणैश्च स्फोटगोलैश्च शाखिभिः ।
निजघ्नुश्चातिरुष्टास्ता भैरव्यो राक्षसीस्त्वति ॥४२॥
चित्कृत्योत्प्लुत्य चाकाशे निपेतुस्ताः परस्परम् ।
राक्षस्यो मायया नैकरूपिण्यो जघ्नुरीश्वरीः ॥४३॥
ईशान्यो जघ्नुरीशस्य मन्त्रयुक्शूलशक्तिभिः ।
सीताभिर्भल्लकैर्जघ्नुर्बिभिदुर्हृदयानि हि ॥४४॥
राक्षसीनां महासैन्यं कृत्रिमं समजायत ।
कृत्रिमा भैरवीयोषा विद्यत्पाशैस्तु तास्तदा ॥४५॥
बबन्धुर्ज्वालयामासुरवचित्य च मूलिनीम् ।
एवं युद्धे महाघोरे जायमाने सहस्रशः ॥४६॥
निपेतुस्तत्कबन्धाश्च शैलप्राया विहायसः ।
कुंभीनसी तथा शृंगी दुद्रुवतुर्भयाद् बहिः ॥४७॥
तदन्याः शतसंख्याश्च भैरवीभिस्तु भक्षिताः ।
शतसंख्याः परास्तत्र भिन्ना मृताश्च जीवतः ॥४८॥
भैरवीनां तदा जातो विजयः शांकराद् बलात्॥
शंभुस्ताभ्यः प्रसन्नोऽभूत् क्षेत्ररक्षा यतः कृता ॥४९॥
लोमशस्याश्रमस्यापि कन्यकानां च रक्षणम् ।
कृतं रात्रौ महायुद्धं कृत्वा वचःप्रपालनम् ॥५०॥
प्रसन्नः सन्नुवाचैता महामारीर्वरप्रदः ।
प्रसन्नोऽस्मि वरदानं याचध्वं प्रददामि वः ॥५१॥
महामार्यस्तदा प्राहुर्नत्वा श्रीशंकरं तथा ।
मूलां तां भैरवीं पूज्यां मातरं जननीं पराम् ॥५२॥
यदि शंभो प्रसन्नोऽसि यदि देयो वरोऽस्ति नः ।
तदा क्षुधासमव्याप्ता वयं तृषाऽऽकुलास्तथा ॥५३॥
तन्निवृत्तिकरं भोज्यं परिश्रमविनाशकम् ।
पुष्टिदं बलदं पेयं तामसं देहि नः प्रभो ॥५४॥
तमोजन्या वयं सर्वास्तामस्यो युद्धदुर्मदाः ।
युद्धजं मांसरक्तादि भक्षयन्त्योऽतिपुष्टिदम् ॥५५॥
तदेव भोजनं पेयं समिच्छामो ददासि चेत् ।
इत्युक्तः शंकरः प्राह धर्मक्षेत्रे सुराष्ट्रके ॥५६॥
परब्रह्मनिवासेऽत्र तद्दानं चातिदुष्करम् ।
कथं कृपालुनाथस्य देशेऽत्र तद्धि संभवेत् ॥५७॥
तदा प्राहुस्तु ताः सर्वा हरेर्भक्तान् विहाय वै ।
तामसान् पापिनः क्रूरान्नास्तिकान् भक्तिवर्जितान् ॥५८॥
अनाचारान् दुराचारान् पूजापाठविवर्जितान् ।
अस्नातान् तीर्थयात्रादिवर्जितान् दांभिकान् शठान् ॥५९॥
हरेः प्रसादहीनाँश्च तुलसीस्रग्विवर्जितान् ।
अशांभवन् सत्त्वहीनान् अवैष्णवान् परार्तिदान् ॥६०॥
परद्रव्याद्यपहारकारकान् पुण्यवर्जितान् ।
यमयात्रार्थयोग्याँश्च भक्षयिष्याम एव तान् ॥६१॥
तादृशीश्च मलिनाश्च नारीर्धर्मविवर्जिताः ।
उपासनाविहीनाश्च भक्षयिष्याम एव ताः ॥६२॥
एवं कृते भगवाँस्तु न रोषं समुपेष्यति ।
अधार्मिकाणां पापानां दण्डार्थं यमपत्तनम् ॥६३॥
कृतं तेनैव स कस्माद् दुष्टानां भक्षणे कृते ।
सन्तुष्टो न भवेन्नाथो वयं तं प्रभुमीश्वरम् ॥६४॥
प्रतोषितं विधास्यामः सेवया किंकरीस्त्रियः ।
इत्युक्त्वा ता विरेमुश्च शंभुः कृपापरस्तु ताः ॥६५॥
प्राह तथास्विति भोज्यं पानं दुष्टप्रजास्वदात् ।
महामार्यस्तु तं नत्वा नत्वा चापि हरिप्रियाः ॥६६॥
नत्वा च कुंकुमवापीं नत्वाऽश्वपट्टसारसम् ।
नत्वा श्रीकम्भरालक्ष्मीं नत्वा गोपालकृष्णकम् ॥६७॥
स्मृत्वा गोपालतनयं श्रीपतिं स्वामिनं प्रभुम् ।
दशयोजनतः क्षेत्राद् बहिस्ताः प्रययुर्मुदा ॥६८॥
मृतानां राक्षसीनां तु देहान् उत्थाप्य पश्चिमे ।
महागर्ते विनिःक्षिप्य मानवेषु द्रुतं च ताः ॥६९॥
विविशुश्चाऽवैष्णवेषु शैवभिन्नेषु वै द्रुतम् ।
अभक्तेषु च दुष्टेषु दंभिषु नास्तिकेषु च ॥७०॥
शठेषु धर्महीनेषु बाह्यतश्चिह्नधारिषु ।
आन्तरेषु तु मालिन्यसंभृतेषु जनेषु च ॥७१॥
भक्तनिभेषु ख्यातेषु बाह्यतोऽन्तश्च पापिषु ।
नरेषु तादृशीषु स्त्रीष्वपि प्रविविशुश्च ताः ॥७२॥
महामारीसहस्रं तत् सहस्राणां सहस्रकम् ।
सौराष्ट्रे गौर्जरे चापि महाराष्ट्रे च दक्षिणे ॥७३॥
मध्ये पूर्वे चोत्तरे च पश्चिमे सर्वभूमिषु ।
महामार्योऽभवन् व्याप्ता अदृश्या वायुविग्रहाः ॥७४॥
तूर्णं प्रविश्य देहेषु तिष्ठन्ति हृदयेषु च ।
मांसं रक्तं द्रुतं ह्युष्णं खादन्ति च पिबन्ति च ॥७५॥
नरा नार्यो भवन्त्येव क्षणान्ते प्राणवर्जिताः ।
आसमुद्रान्तमेवैता गत्वा गत्वा प्रजाजनान् ॥७६॥
पापिष्ठान्नरनार्यादीन् प्रभक्षयन्ति लक्षशः ।
ग्रामे ग्रामे नरा नार्या म्रियन्ते प्रत्यक्षं तदा ॥७७॥
विंशत्यंशाः प्रजानां वै प्रतिसाहस्रमेव ह ।
महामार्यस्तदा क्रूरा गणयन्ति न बालकान् ॥७८॥
कन्यका न वधूंश्चापि यूनो वृद्धान्न गर्भिणीः ।
अनाथान्नाप्यतिथीँश्च महीमानान्न देशिकान् ॥७९॥
न राज्ञो न तथा राज्ञीर्न धनाढ्यान्न निर्धनान् ।
न कषायधृगश्चापि न वा सूतकसंस्थितान् ॥८०॥
न यज्ञहोमकर्माढ्यान् न पूजापाठकारिणः ।
पापयुक्तान् विलोक्यैव भक्षयन्ति नरान् स्त्रियः ॥८१॥
म्रियन्ते प्रत्यहं नार्यो नराश्च भुवि लक्षशः ।
एकं धृत्वा बहिर्यान्ति मृतस्तावत्परो भवेत् ॥८२॥
परं मृतं विनिष्कास्य यावदायान्ति वै गृहम् ।
तावदन्ये मृताः सन्ति पञ्च सहैव तत्क्षणे ॥८३॥
पञ्च निष्कास्य च यावदायान्ति ग्रामगोपुरम् ।
तावदन्ये दश सन्ति मृता वा च ततोऽधिकाः ॥८४॥
केषाञ्चिद् गृहवर्त्येव कुटुम्बं निधनं गतम् ।
केषाञ्चित्त्वर्धभागेन मानवा निधनं गताः ॥८५॥
कुत्रचिच्छिष्यते बालः कुत्रचित्तु नवा वधूः ।
कुत्रचिद् वृद्धजरठः कुत्रचित्पशुमात्रकम् ॥८६॥
कुत्रचिन्नगरे लक्षे सहस्रं त्ववशेषितम् ।
कुत्रचिद् ग्रामभागे तु ग्रामार्धं सर्वशो मृतम् ॥८७॥
कुत्रचिन्मानवैः शून्या ग्रामा जाता भयंकराः ।
म्रियमाणप्रजानां च जलदाता न विद्यते ॥८८॥
कुतोऽन्नदाता लभ्येत यत्र नास्त्येव दर्शकः ।
एवं नाशो महानासीन्मर्दनं बहुशोऽप्यभूत् ॥८९॥
मासमध्ये तु लोकानामर्धे पृच्छां मृतं ह्यभूत् ।
कोटिशस्तु महामार्योऽभक्षयन् पापिनो जनान् ॥९०॥
राक्षसा अपि दैत्यांश्च दानवानासुराँस्तथा ।
शठान्नैष्कृतिकाँश्चापि नास्तिकान् धर्मवर्जितान् ॥९१॥
अभक्षयन् हि मासान्ते हाहाकारो दिगन्तरे ।
अभवद् वै तदा लोकास्त्यक्त्वा ग्रामान् गृहाण्यपि ॥९२॥
पत्तनानि नगराणि ययुर्भयादरण्यकम् ।
वनेषु वनिवद् वासान् चक्रुः कालभयार्दिताः ॥९३॥
अरण्यानि नगराणि नगराणि वनानि तु ।
वैपरीत्येन जातानि महामारीभयात्तदा ॥९४॥
अश्वपट्टाक्षरक्षेत्रे दशयोजनविस्तृते ।
महामारीभयं नाऽभूद् भक्तेष्वेव तदा प्रिये ॥९५॥
अभक्ता येऽपि तत्रस्थास्तत्तद्भाग्येन देशिताः ।
ययुर्बहिर्हि ये क्षेत्रं त्यक्त्वा ते निधनं गताः ॥९६॥
त्राहि त्राहि प्रजाश्चोचुः सस्मरुः परमेश्वरम् ।
रोगस्याऽस्य विनाशार्थं प्रजाश्चक्रुर्हि मानताम् ॥९७॥
नैवेद्यानि विविधानि दास्यामो देवतागृहे ।
वस्त्रभूषाम्बरस्वर्णं दास्यामो देवसन्निधौ ॥९८॥
करिष्यामोऽन्नसत्राणि पारायणानि सन्मखान् ।
धर्मकार्याणि धर्माश्च करिष्यामः प्रसेवनम् ॥९९॥
हरेस्तदीयसाधूनां पूजनं देवसेवनम् ।
भजनं संकरिष्यामः संत्यक्ष्यामोऽघपातकम् ॥१००॥
सूर्यं शिवं सतीं लक्ष्मीं पूजयिष्याम ईशिनीम् ।
गणेशं च महाकालं मातृकाः पितृदेवताः ॥१०१॥
तीर्थयात्रां करिष्यामश्चाश्वपट्टसरोवरे ।
यत्र नास्ति महामारी बालकृष्णप्रभावतः ॥१०२॥
प्रजाः सर्वत्र च भयान्मरणस्यातिविह्वलाः ।
प्रतिज्ञां संप्रचक्रुश्च कृष्णनारायणं प्रभुम् ॥१०३॥
भीजष्यामो यदा जीविप्प्राणाः स्थास्याम एव तु ।
भैरवि! ते महामारि! कृष्णनारायणस्य ते ॥१०४॥
शपथोऽस्ति यदि मां त्वं स्पृशसि तत्र मा स्पृश ।
आणं ददुः प्रजास्त्वेवं हाहाकारोऽभवद् भुवि ॥१०५॥
शंकरस्य शपथस्ते पित्रोस्ते शपथस्तथा ।
मा स्पृशाऽस्मान् महामारि! दद्मः संयावमत्र ते ॥१०६॥
इत्येवं राधिके लोका मानताः संप्रचक्रिरे ।
सत्यः साध्व्यो द्विजाः सन्तो व्योम्ना श्रीबदरीं ययुः ॥१०७॥
सद्योजातमहादेवाय ते चास्तु नमो मुहुः ।
महाकालाय च कालभैरवाय च ते नमः ॥१०८॥
अजापालाय च वीरभद्राय ते नमो मुहुः ।
मृत्युंजयाय च महाकाल्यै चाण्ड्यै नमो मुहु ॥१०९॥
दुर्गायै नम इत्येव दीनप्रजास्तदोचिरे ।
श्रीहरिर्ज्ञातवान् सर्वं पूर्वमेनमुपद्रवम् ॥११०॥

इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने प्रभोर्बदर्यां गमनं, राक्षसीनां कुंकुमवाप्यामागमनम्, महामार्या राक्षसीनां नाशनम्, ततः पापिप्रजासु
भक्षणार्थं व्यापकता, चेत्यादिनिरूपणनामा नवतितमोऽध्यायः ॥९०॥

N/A

References : N/A
Last Updated : May 01, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP