संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|त्रेतायुगसन्तानः|

त्रेतायुगसन्तानः - अध्यायः ११६

लक्ष्मीनारायणसंहिता


श्रीकृष्ण उवाच-
शृणु त्वं राधिकेऽनादिकृष्णनारायणस्य वै ।
जन्ममासः कार्तिको वै कृष्णपक्षात्मकः शुभः ॥१॥
अष्टमीदिव्यदिवसस्त्रयोदशः समागतः ।
तदुत्सवं विधातुं प्राग्ज्योतिषां वैष्णवा जनाः ॥२॥
प्राचीनदेशभक्ताश्च श्यामब्रह्मप्रदेशजाः ।
त्रिवित्तदेशजाश्चापि काश्मेराऽऽसामवासिनः ॥३॥
तथाऽन्ये हिमदेशस्थाः शंभुदेशसमुद्भवाः।
नरा नार्यो बालकाश्च बालिका वृद्धसेविनः ॥४॥
विमानैराययुस्त्वश्वपट्टतीर्थं महर्षयः ।
साधवश्च तथा सत्यः प्रगृह्य विविधोपदाः ॥५॥
आययुर्बालकृष्णस्य पूजार्थं वै समुत्सुकाः ।
उष्ट्रालयप्रदेशाच्च तथाऽब्रिक्तप्रदेशजाः ॥६॥
आरबीजप्रदेशाच्च कुमारीक्षेत्रजास्तथा ।
अन्ये वै चाजनाभीयाः कच्छदेशोद्भवास्तथा ॥७॥
आययुः कृष्णपूजार्थं चोत्सुकाः सोपदादयः ।
प्रातर्वै मण्डपं रम्यं चक्रे गोपालकृष्णकः ॥८॥
गजासने बालकृष्णः स्नात्वा धृत्वाऽम्बराणि च ।
शृंगाराभूषणादीनि धृत्वा सदसि चाययौ ॥९॥
तत्र देवाः पितरश्च मुनयोऽक्षरमुक्तिगाः ।
अन्यधामनिवासाश्चेश्वरा देवाश्च मानवाः ॥१०॥
आययुः श्रीहरेस्तस्य पूजार्थं तस्य संसदि ।
अवाद्यन्त सुवाद्यानि जयशब्दास्तथाऽभवन् ॥११॥
विरेजे श्रीबालकृष्णो वर्धितश्च निजासने ।
समाजे लोमशो विप्रः पूजयामास चाच्युतम् ॥१२॥
मुकुटं धारयामास प्रददौ कुण्डले ततः ।
तिलकं साक्षतचन्द्रं चक्रे भाले हरेस्ततः ॥१३॥
आरार्त्रिकं चकाराऽस्य पुष्पहारान् ददौ गले ।
आशीर्वादान् ददौ पश्चात् पूजयामासुरीश्वराः ॥१४॥
राधिके! च ततो लक्ष्म्यो ब्रह्मप्रियास्ततोऽपि च ।
देव्यो गान्धर्व्य आर्याश्च ऋषिपत्न्यस्ततः परम् ॥१५॥
देवा देव्यस्तथा वै प्राग्ज्योतिषां वैष्णवीप्रजा ।
देशान्तरागताश्चापि महीमानाश्च तं प्रभुम् ॥१६॥
पूजयामासुरत्यर्थं दिव्यैः सर्वोपचारकैः ।
आरार्त्रिकं च ते चक्रुर्ददुश्चाग्रे महोपदाः ॥१७॥
विविधान्यम्बराण्याभूषणानि मौक्तिकानि च ।
हारान् सुवर्णरूप्योत्थान् हीरकान् रशनायुतान् ॥१८॥
यानानि वारणाँश्चाश्वान् अलंकाराँस्तथोत्तमान् ।
ददुर्भोज्यानि पानानि फलानि चामृतानि च ॥१९॥
एवं सम्पूज्य ते सर्वे बालकृष्णं सुमण्डपे ।
मातरं श्रीं च गोपालं पितरं श्रीहरिस्तदा ॥२०॥
नत्वा श्रीलोमशं चर्षीन् जनरीत्या गजासनात् ।
उत्थाय च सभासंस्थान् वृद्धान् प्रणम्य वै ततः ॥२१॥
ययौ निजालयं पितृसम्मतः पुरुषोत्तमः ।
महीमानान् भोजयित्वा श्रीमद्गोपालकृष्णकः ॥२२॥
विसर्जयामास लोकान् स्वस्वान् सतीश्च वै ततः ।
पूजयामास लक्ष्मीश्रीकम्भरा भावतस्तदा ॥२३॥
भोजयित्वा च ता विसर्जयामास निजालयान् ।
एवं त्रयोदशसंख्यः श्रीहरेर्जननोत्सवः ॥२४॥
सुसम्पन्नो महीमाना ययुर्नैजान् प्रदेशकान् ।
द्वितीयेऽह्न्यभवत्तत्राश्चर्यं संशृणु राधिके। ॥२५॥
दत्तात्रेयेण गुरुणा भगवता परात्मना ।
प्रेषितः शरभः कश्चित् कृष्णनारायणान्तिकम् ॥२६॥
आययौ तत्र मोक्षार्थं तुष्टाव श्रीहरिं ततः ।
दिव्यदेहश्च वै भूत्वा ययौ धामाऽक्षराभिधम् ॥२७॥
श्रीराधिकोवाच-
क आसीच्छरभः कृष्ण दत्तात्रेयेण नोदितः ।
वद मे तत्कथां सर्वां श्रोतुमिच्छामि सर्वशः ॥२८॥
श्रीकृष्ण उवाच-
शृणु राधे कथयामि शरभस्य कथां शुभाम् ।
समीरणोऽभवद् राजा सूर्यवंशसमुद्भवः ॥२९॥
आजनाभस्य खण्डस्य पश्चिमाया भुवः शुभः ।
गौर्जराणां च कच्छानां सौराष्ट्राणां नृपाधिपः ॥३०॥
प्रजापालनकरुणो भक्तो नारायणस्य च ।
धर्मकर्मपरो नित्यं दानहोमपरायणः ॥३१॥
अखण्डकीर्तिमानासीद् दीनरक्षापरस्तथा ।
गोभूब्राह्मणसाधूनां रक्षाकरः प्ररक्षकः ॥३२॥
यस्य राज्ये कदाचिद्वै दुर्भिक्षं नाऽभवत्पुरा ।
शरणागतरक्षाकृत् देशरक्षाकरस्तथा ॥३३॥
धनुर्धरः स्वयं नित्यं देवसेवां करोति च ।
राजधान्यभवत्तस्य शत्रुंजीतानदीतटे ॥३४॥
कुण्डलाख्या महादिव्या नगरी विप्रशोभिता ।
क्षत्रीयवैश्यशूद्रादिसौम्यप्रजानिवासिता ॥३५॥
यज्ञयागपरा यत्र विप्राश्च वेदघोषिणः ।
साधवो यतयो यत्र कृष्णध्यानपरास्तथा ॥३६॥
वनिनोऽपि न यद्राज्ये कष्टं विन्दन्ति कुत्रचित्॥
नार्यो नराश्च सुखिनो यदाश्रयेऽभवन् सदा ॥३७॥
समीरणस्य राज्ये वै विशेषोऽयमभूत् सदा ।
प्रातर्निनाद्यते नित्यं पटहो राजपूरुषैः ॥३८॥
दीनोऽन्धः कृपणः कश्चिन्निराधारो निराश्रयः ।
निरन्नोऽनाथबालो वा वृद्धो वा भिक्षुकोऽपि वा ॥३९॥
नारी निराश्रया वृद्धा विधवा चाऽकुटुम्बिनी ।
साधुः साध्वी योगिनी वा तापसी धनवर्जिता ॥४०॥
दरिद्रो वाऽधनो वा च षण्ढो वा षण्ढिका तथा ।
प्रातरागत्य मद्द्वारे गृह्णातु चान्नभोजनम् ॥४१॥
मम ग्रामे च नगरे पत्तने च प्रजासु च ।
यत्र यत्र ममाऽन्नानामागाराणि भवन्ति वै ॥४२॥
तत्र तत्र समागत्य गृह्णातु चान्नभोजनम् ।
वस्त्रं पात्रं प्रगृह्णातु भजतां पुरुषोत्तमम् ॥४३॥
इत्येवं पटहस्तस्य प्रातर्नदति बोधयन् ।
मानवा निर्धनास्तस्य भुञ्जतेऽन्नं स्थले स्थले ॥४४॥
भुक्त्वा तृप्यन्ति सततं ददत्याशीर्वचांसि च ।
एवं पुण्ययुतो राजा त्वेकदा भृत्यमण्डलम् ॥४५॥
गृहीत्वा प्रययौ व्याघ्रारण्यं विहर्तुमुत्सुकः ।
भृत्याश्च गजघोटाश्च दासा अपि ययुः सह ॥४६॥
मध्यारण्ये दीर्घिकायास्तटे वृक्षेषु वै तदा ।
निवासं गजघोटादेः कारयित्वा स भूपतिः ॥४७॥
राजधर्मेण मृगयां कर्तुं वनं विवेश ह ।
भृत्या अपि ययुः केचित् सार्धं राज्ञा सवाहनाः ॥४८॥
गवयं संविलोक्यैव राजा पृष्ठमनुव्रजन् ।
अरण्ये गवयेनाऽयं विवेश गहने मुधा ॥४९॥
धनुर्धरोऽश्वमारूढो वेगाद् राजा पशुप्रियः ।
नदीं रम्यां प्राप तत्र जलपूरवतीं शुभाम् ॥५०॥
तस्यास्तीरेऽभवत् तत्राश्रमो रम्योऽतिसुन्दरः ।
फलपुष्पादियुक्तानां वृक्षाणां सुघटासु वै ॥५१॥
मुनीनां चातिविश्वासुमृगपक्ष्यादिशोभनः ।
हिंस्राणां हिंस्रवृत्त्यादिशान्तिकृच्चातिनिर्मलः ।५२॥
मुनिशिष्यैः प्रशिष्यैश्च सेवितो ब्रह्मधामवत् ।
कामक्रोधातिलोभानां दोषाणां यत्र नोद्भवः ॥५३॥
मायाऽनृतादिदोषाश्च पशुष्वपि न यत्र वै ।
पक्षिणो मधुरान् रावान् गायन्ति स्म द्रुमादिषु ॥५४॥
वेदवाक्यानि च शुका मयूरा मिलितास्तदा ।
कोकिला राजहंसाश्च प्रगायन्ति स्वभाषया ॥५५॥
देवा देव्योऽपि नाकाच्च यत्राऽऽगत्य वसन्ति हि ।
ऋषिं नत्वा प्रयान्त्येव मन्वानाः कृतकृत्यताम् ॥५६॥
एतादृशे चाश्रमे तु पार्ष्णिगृहो महामुनिः ।
तपः करोति विपुलं लोककल्याणहेतवे ॥५७॥
ग्रीष्मे पञ्चाग्निमध्ये च निषीदति निरन्तरम् ।
वर्षायां भूतले वर्षाधारास्वेव निषीदति ॥५८॥
शैत्ये जले कृताऽऽवासो दिवा तिष्ठति सर्वथा ।
रात्रौ वृक्षतले तत्र वर्तते वै निरावृतौ ॥५९॥
क्वचित्फल क्वचित्पुष्पं क्वचिन्मुन्यन्नमित्यपि ।
क्वचिज्जलं क्वचित्पानीयकं गृह्णाति वार्दलम् ॥६०॥
निराहारः क्वत्त्वास्ते भजते श्रीनरायणम् ।
सुस्वामिश्रीकृष्णनारायण संभजते हृदि ॥६१॥
तादृशोऽयं मुनिर्यत्र वृक्षेऽधो वर्तते तदा ।
तस्य पुरः स गवयः समागत्याऽतिभीतितः ॥६२॥
अभवत् सुस्थिरस्तत्र ऋषेः शरणमाश्रितः ।
राजा दूरादनावीक्ष्याऽऽश्रमं तं च मुनिं तथा ॥६३॥
मृगयालग्नचित्तोऽसौ जघान गवयं बलात् ।
शरेण तीक्ष्णधारेण ह्युदरान्तःप्रवेशिना ॥६४॥
सशरो गवयस्तत्राऽऽक्रोशं कृत्वा ऋषेः पुरः ।
निपपात यथा पुत्रस्तथा रक्षार्थमेव तु ॥६५॥
दीनवत्तं मुनिं पश्यन् तदा दीनेन चक्षुषा ।
पतितं शरसहितं वीक्ष्य पार्ष्णिगृहो मुनिः ॥६६॥
दयालुः शीघ्रमेवैनं पशुं पस्पर्श पाणिना ।
जलं ददौ मुखे तस्याऽपश्यल्लग्नं शरं तदा ॥६७॥
तथा त्रासेन हरिणान् पलायनपरान् पशून् ।
परितो धावमानाँश्च विलोक्य कष्टमाप्तवान् ॥६८॥
अहो ममाश्रमे कोऽयं घातकश्चाद्य संगतः ।
पशूनां त्रासकृद् दुष्टो निर्मर्यादोऽतिदारुणः ॥६९॥
निर्दोषं गवयं योऽत्र जघान प्राणत शरैः ।
एवं यावन्मुनिश्रेष्ठो विचारं प्रकरोति हि ॥७०॥
तावद्राजा तुरंगस्थस्तत्र सृत्या समागतः ।
ददर्श ब्राह्मणं मालाजटाश्मश्रुधरं शुभम् ॥७१॥
पतितं पादविक्षेपान् कुर्वन्तं गवयं तथा ।
मनसा मृदुभावेन तदाश्रमप्रसंगतः ॥७२॥
दूयमानः स वै राजा पार्ष्णिगृहं प्रवीक्ष्य च ।
आयातश्चाश्वमाबद्ध्य वृक्षमूले पदक्रमैः ॥७३॥
भीतः पपात स ऋषेः पादयोः शीघ्रमेव तु ।
तावद् ऋषिस्तमुवाच कथं दुष्ट! .हतः पशुः ॥७४॥
त्वया व्याधेन निर्दोषो ममाऽरण्यनिवासकृत् ।
दुष्टस्त्वं दृश्यसे राजा कृत्यं करोषि हिंस्रकम् ॥७५॥
व्याधवत् क्रूरकर्मा त्वं मुनीनामाश्रमेष्वपि ।
दुष्टकार्यं प्रकर्तुं किं लज्जसे न नराधिप ॥७६॥
शरेण भग्ना हरिणा ममाश्रमनिवासिनाः ।
गवयोऽयं मृतश्चात्र भवत्येव क्षणान्तरे ॥७७॥
शरे विकर्षणं प्राप्ते नाऽस्य प्राणोऽवतिष्ठति।
पश्य पाप निजं पुत्रं कथं घातयसे न वै ॥७८॥
मृगया ते न वै योग्या ऋषिविश्वस्तजन्तुषु ।
मृगाः पुत्रा मम तुल्या ममाऽऽश्रमसमीपतः ॥७९॥
तव भीत्या दुद्रुवुवै प्राणरक्षणवाञ्च्छया ।
शरेण भग्ना हरिणा ममाश्रमसमीपतः ॥८०॥
शरभो भव राजेन्द्र! वनाऽऽवासोऽतिकष्टवान् ।
पुनर्नैवं दण्डशिक्षः करिष्यसि वधं क्वचित् ॥८१॥
इत्युक्तः ऋषिणा राजा तत्रैव शरभोऽभवत् ।
विहाय मानवं रूपं पाशवं रूपमाप्तवान् ॥८२॥
इत्येवं स ऋषिणा वै शप्तो राजा समीरणः ।
शरभः स पशुर्भूत्वा तदाश्रमाद् विनिर्ययौ ॥८३॥
शापमोक्षणमत्रैव प्रार्थयितुं न चाऽवदत् ।
भीतश्चातीव दोषेण कोपेनाऽपि ऋषेस्तदा ॥८४॥
शीघ्रं तदाश्रमं त्यक्त्वा सिंहारण्यं विवेश ह ।
दुःखातिदुःखसंमग्नः सुखं नाऽवाप कुत्रचित् ॥८५॥
जातिस्मरः सदा स्वस्य दुःखान्तं कर्तुमेव तु ।
चिन्तयत्येव सततं चरन् वने मुहुर्मुहुः ॥८६॥
राजभृत्यास्तु वै ज्ञात्वा वृत्तान्तं तं ततः किल ।
भीता निजप्राणारक्षां ज्ञात्वा गृहान् द्रुतं ययुः ॥८७॥
गवये च ऋषिणैव मन्त्रपुष्पाञ्जलिस्तदा ।
सन्धिन्या सहितः क्षिप्तस्तेनोज्जीवनमाहितम् ॥८८॥
राजा शापनिवृत्त्यर्थं भ्रमित्वा तद्वनं ततः ।
पार्ष्णिगृहं समागत्य प्रार्थयामास मोक्षणम् ॥८९॥
ऋषिः प्राह महारण्ये पातालीये सरोवरे ।
रैवताद्रिः समागत्य निजाऽऽवासं करिष्यति ॥९०॥
तत्र वै भगवान् साक्षाद् दत्तात्रेयो महाप्रभुः ।
शिखरे तु जनैहीने त्वगम्ये व्योमगामिनि ॥९१॥
स्वयं तपो महच्चोग्रं करिष्यति यदा तदा ।
शैलद्रोण्यां त्वया तत्र स्थितेन भगवान् हि सः ॥९२॥
दृष्टश्चाराधितश्चापि कृपया त्वां सुनेष्यति ।
क्षेत्रं कुंकुमवाप्याख्यं तत्र स्थास्यति चाऽत्रिजः ॥९३॥
अश्वपट्टसरस्तीरे पश्चिमे तपसा हरिम् ।
अनादिश्रीकृष्णनारायणमाराधयँस्तदा ॥९४॥
दत्तात्रेयस्य कृपयाऽनादिकृष्णनरायणम् ।
वीक्ष्य त्वं तत्पादयोश्च पीत्वा जलं प्रसादजम् ॥९५॥
शीघ्रं शापान्मम मुक्तो भविष्यसि न संशयः ।
इत्युक्तः स तु राजर्षिः शरभस्य तु देहवान् ॥९६॥
अरण्यं प्रययौ तस्मान्महासरोवरान्तिके ।
ततः कालान्तरे तत्र रैवताद्रिः समाययौ ॥९७॥
तत्रैव भगवानत्रिपुत्रस्तपश्चचार ह ।
शिखरे तं ददर्शाऽसौ शरभो जपमाचरत् ॥९८॥
दत्तात्रेयो दयालुः स चैनमादाय तद्गृहम् ।
समायातोऽस्ति भगवानश्वपट्टसरोवरे ॥९९॥
अदृश्यस्तिष्ठति चास्य शापमोक्षार्थमेव तु ।
दत्तात्रेयाभिधं तीर्थं तदत्राऽश्वसरोवरे ॥१००॥
शापपापविनाशार्थं वर्तते पावनं हि तत्॥
तत्र वै शरभो गत्वाऽनादिकृष्णनरायणम् ॥१०१॥
वीक्ष्य पादजलं पीत्वा शापान्मोक्षमवाप्तवान् ।
राजरूपं शुभं प्राप्तस्ततोऽपि तीर्थवीर्यतः ॥१०२॥
दिव्यरूपोऽत्र भूत्वैवाऽक्षरं लोकं ययौ शुभम् ।
इत्येवं राधिके चाश्वसरोवरं वरं सदा ॥१०३॥
सायं स शरभः पीत्वा जलं पादजलं हरेः ।
मुक्तिं जगाम परमां ब्राह्मीं दिव्यां तु शाश्वतीम् ॥१०४॥
पठनाच्छ्रवणाच्चास्य भुक्तिर्मुक्तिर्भवेदपि ।
सकामानां वंशवृद्धिर्दुःखमुक्तिर्भवेदपि ॥१०५॥

इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने प्रभोस्त्रयोदशजन्मदिनोत्सवः, समीरणराज्ञो मृगयार्थं गतस्य वने पार्ष्णिगृहर्षिशापेन शरभत्वं, ततो रैवताद्रौ दत्तात्रेयद्वारा कुंकुमवापीक्षेत्रे मोक्षणम्, अश्वपट्टसरसि दत्तात्रेयतीर्थं चेत्यादिनिरूपणनामा षड्दशाधिकशततमोऽध्यायः ॥११६॥

N/A

References : N/A
Last Updated : May 01, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP