संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|त्रेतायुगसन्तानः| अध्यायः ५० त्रेतायुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ अध्यायः २३८ अध्यायः २३९ अध्यायः २४० अध्यायः २४१ अध्यायः २४२ अध्यायः २४३ अध्यायः २४४ अध्यायः २४५ अध्यायः २४६ अध्यायः २४७ अध्यायः २४८ अध्यायः २४९ अध्यायः २५० अध्यायः २५१ अध्यायः २५२ अध्यायः २५३ अध्यायः २५४ अध्यायः २५५ अध्यायः २५६ अध्यायः २५७ अध्यायः २५८ अध्यायः २५९ अध्यायः २६० अध्यायः २६१ अध्यायः २६२ अध्यायः २६३ अध्यायः २६४ अध्यायः २६५ अध्यायः २६६ अध्यायः २६७ अध्यायः २६८ अध्यायः २६९ अध्यायः २७० अध्यायः २७१ अध्यायः २७२ अध्यायः २७३ अध्यायः २७४ अध्यायः २७५ अध्यायः २७६ अध्यायः २७७ अध्यायः २७८ अध्यायः २७९ अध्यायः २८० अध्यायः २८१ अध्यायः २८२ अध्यायः २८३ अध्यायः २८४ अध्यायः २८५ अध्यायः २८६ अध्यायः २८७ अध्यायः २८८ अध्यायः २८९ अध्यायः २९० अध्यायः २९१ अध्यायः २९२ अध्यायः २९३ अध्यायः २९४ अध्यायः २९५ अध्यायः २९६ अध्यायः २९७ अध्यायः २९८ अध्यायः २९९ अध्यायः ३०० विषयानुक्रमणिका त्रेतायुगसन्तानः - अध्यायः ५० लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः ५० Translation - भाषांतर श्रीकृष्ण उवाच-शृणु त्वं राधिके! दिव्यं चमत्कारं हरेस्तथा ।वीणाभंगस्य च फलं यानस्थास्वभवत्तदा ॥१॥अब्रिक्तदेशवासा ये म्लेच्छा राक्षसयोनयः ।आरण्यकाश्च ग्रामस्था वनपर्वतवासिनः ॥२॥सहस्रयोजनस्थास्ते व्यलोकयन् तदाम्बरे ।शतसूर्यसमं तत्तु विमानं भास्वराम्बरम् ॥३॥सूर्यतेजोऽतितेजोभिर्दशगुणान् प्रभावतः ।किरणान् व्यसृजद् व्योम्नि अनुष्णाशीतसंसहान् ॥४॥सुदृश्यान् सुस्पृशश्चापि मष्टामोदभराँस्तथा ।आनन्दोत्पादकान् शान्तिप्रदान् विचित्रभासुरान् ॥५॥ब्रह्मणा श्रीकृष्णनारायणार्थं चार्पितं तु यत् ।कि न्यूनं तत्र वै राधे! विमाने मानवद् भवेत् ॥६॥घृतदुग्धदधिकुल्या अमृतवारिसद्ध्रदाः ।गन्धसारद्रवसारचूर्णसारादिगूटिकाः ॥७॥रससाराऽऽमोदसारचर्वणोत्तमवीटिकाः ।विद्यन्ते यत्र सततं कल्पस्तम्बेषु शाश्वताः ॥८॥रत्नद्वीपा दर्शनार्हा नैकरङ्गादिभासुराः ।स्वर्णचम्पकवर्णाभकन्यकाहृदयंगमाः ॥९॥हारतोरणकुञ्जादिहरिद्वर्णनिकुञ्जकाः ।रम्यस्थेयोद्यानमध्यासनशाद्वलराजिताः ॥१०॥स्थल्यो यत्र प्रभासन्ते चन्द्रभूमिसमाः शुभाः ।विमानरूपं कन्यानां रूपं रूपं च चान्द्रिकम् ॥११॥प्रभारूपं च सर्वं वै रूपप्रदीपजं तथा ।मणिरत्नादिरूपं च भिन्नं चापि परम्परम् ॥१२॥अन्योन्योत्कृष्टतां प्राप्तं श्रेष्ठं श्रेष्ठं व्यभासत ।केषां मनांसि लोकानां सस्पर्द्धचंचलानि वै ॥१३॥नाकृष्टानि भवेयुर्वै दिव्यैतादृशरश्मिभिः ।दिव्याभिः कन्यकाभिश्च दिव्यस्मृद्धिभिरेव च ॥१४॥ताभिरुत्तेजिता म्लेच्छा दैत्या चाब्रिक्तवासिनः ।मायामन्त्रकरा व्योम्नि रुरुधुस्तद्विमानकम् ॥१५॥आशावहालाभवहा इष्टंमन्याश्च वेगिनः ।अविचार्य पतन्त्युग्रा प्राणान्तदुःखदेऽपि च ॥१६॥दृष्ट्वाऽनलं पतंगाश्च गृह्णीम इति वाञ्च्छया ।पतन्ति रूपभोगार्थं प्रज्वलन्तेऽतितेजसा ॥१७॥अपात्राण्यपि कुर्वन्ति प्रयासं बहुले फले ।अशक्तिगम्ये निक्षिप्यात्मानं मृतिं प्रयान्ति च ॥१८॥असुरास्ते कालसीदा म्लेच्छा मत्वा बलं निजम् ।अधिकं त्वरितं रुष्टाः सन्नह्य रणमागमन् ॥१९॥रक्तवार्धिः रौद्रबाष्पो विज्ञतुरीयकस्तथा ।तुंगानीको न्याससारो लिङ्गरसोऽतिदारुणः ॥२०॥ध्वाक्षबीजो मूशलाम्बः कर्मांगः कर्महास्तथा ।चण्डसारो नष्टजरः सहारश्चातलेष्टकः ॥२१॥तुङ्गमुखस्त्रिराशश्च लीलाबीजो भयंकरः ।फल्गुबीजो गम्बिकायः सेनागोलः स्फुटार्दनः ॥२२॥जीवलश्च केदण्डश्च कुमेरुः स्थानलिस्तथा ।तुम्बासुरोऽथ लीनापश्चालिविष्टः किमूषकः ॥२३॥तूनायश्च तथाऽऽबालो रुक्वासनश्च मावुरः ।बांगिवलिर्दिनोलूकः कुवंशजः कुरेनृकः ॥२४॥धोधसादा बहवश्च अम्बिकासश्च शिर्वमः ।देषलश्च कक्रलश्च ईज्यापातो नबीजकः ॥२५॥सुदानश्च सुमालिश्च काणिमश्च त्रिगोणिकः ।रुद्रशिराश्च त्रिष्वालः पिलिपश्च नमाकुवः ॥२६॥दिनमेरश्चाङ्गुलादः फेनगः कामनारुणिः ।निम्नझरो लालवारो ह्रीयोढो मारकर्कशः ॥२७॥अलिजीरश्च रोण्डेगः शाहुदः फकराणकः ।पार्ष्णिः कृकाटकः पिण्डनलो रन्ध्रप्रमोषकः ॥२८॥भुजहा जत्रुशमनो लामको मूर्द्धभामकः ।प्रकोष्ठकः पृष्ठवंशो नितम्बवेणुकस्तथा ॥२९॥आसवापश्चामीषपः कुक्कुटाशः कृकाशकः ।इत्येते बलवन्तश्च मायया व्योमचारिणः ॥३०॥विद्युद्वेगेन वै सर्वे सन्नह्योपस्थिता रणे ।तत्र राजा जुमासेम्ला दूतं वै रक्तवार्धिकम् ॥३१॥प्रेषयामास च विमानाग्रे वक्तुं निजेष्टकम् ।राजा प्राह विमानाग्रे गत्वाऽऽवेदय रक्तक! ॥३२॥विमानं त्वस्तु नश्चात्र कन्या भवन्तु नः स्त्रियः ।विमानस्था नराः स्वर्गं यान्तु चान्यत्र वै सुखम् ॥३३॥अन्यथा तु प्रसह्यैव हरिष्यामस्तु कन्यकाः ।हनिष्यामश्च वस्तस्माद् यथेष्टं कुरुताऽत्र यत् ॥३४॥दूतो नत्वा विमानाग्रे गत्वा प्राह तथैव तत् ।नारदः प्राहः तं दूतं वदाऽसुरनृपं मम ॥३५॥याश्चात्र सन्ति कन्यास्ता ब्रह्मणः पुत्र्य एव ताः ।यूयं च ब्रह्मपौत्रस्य कश्यपस्य हि वंशजाः ॥३६॥दैत्यो हिरण्यचक्षुर्यस्तस्य पुत्राः सुकालिकः ।अञ्जनः कालमेघश्च जासुशेषो मलीनसः ॥३७॥हावुको भावुकश्चापि दाउको धावुकस्तथा ।क्वाश्मकश्चाजमालश्च सैरेयाद्याः शताधिकाः ॥३८॥हिरण्याक्षे हते दैत्ये विष्णुना सूकरेण ह ।तद्भयाद् द्रवमानास्ते चाब्रिक्तं रणपर्वतैः ॥३९॥व्याप्तं देशं समागत्याऽकुर्वन् निवासमत्र ते ।तद्वंश्या वै भवन्तश्च भवन्त्येव गतवृषाः ॥४०॥असंस्कृता म्लेच्छवृत्ता मम भ्रात्रादिवंशजाः ।अहं च नारदश्चास्मि तथाऽत्रास्ते सनत्-ऋषिः ॥४१॥धर्मराजस्तथा चात्र विराजते हि दण्डधृक् ।रुद्रोऽत्र राजते लोकसंहारकृत्परः प्रभुः ॥४२॥अपुत्रेण पुरा रुद्रो हिरण्याक्षेण वै वने ।आराधितो हरो देवः पुत्रार्थाय पुरा किल ॥४३॥तत्प्रतापेन सापत्योऽभवद् भवत्पितामहः ।तं रुद्रं माऽत्र रुन्धन्तु मा रुन्धन्तु यमाधिपम् ॥४४॥कन्यका मातरः सर्वा भवतां ता भवन्ति वै ।अजित्वा तु यमं रुद्रं भवत्कामो हि दुर्लभः ॥४५॥यस्तरेत् सागरं दोर्भ्यां पातयेद् भुवि भास्करम् ।मेरुमुत्पाटयेद्वापि स जयेद् यमशंकरौ ॥४६॥किं न श्रुतं त्वया राजन् पूर्वे वै चाऽन्धकासुरः ।पार्वतीकामनामूढः सदैत्यो नाशमाप्तवान् ॥४७॥महीषश्च तथा जम्भः कुजम्भो नाशमागताः ।शंखचूडस्तथा जालंधरोऽपि नाशमागतौ ॥४८॥भस्मो मुरस्तथा चान्ये विनष्टा मोहमारिताः ।परस्त्रीकामनामूढः पुरा दण्डो महीपतिः ॥४९॥शुक्रपुत्र्यां रतिं कृत्वा सराष्ट्रो नाशमाप्तवान् ।शृणु दूत! ततः श्रुत्वा श्रावय त्वं नराधिपम् ॥५०॥दण्डो राजा महानासीत् प्रभूतबलवाहनः ।ईजे स विविधैर्यज्ञैर्नृपतिः शुक्रपालितः ॥५१॥शुक्रश्चाऽस्याऽभवद् यज्ञे पुरोहितः पुनः पुनः ।शुक्रः कदाचिदगमत् पातालं दैत्यमन्त्रितः ॥५२॥शुक्रस्यासीत्तु दुहिता अरजा नामतो गृहे ।एकाकिनी पर्णकुट्यां शुश्रूषन्ती मखाऽनलम् ॥५३॥राजा तु दर्शनं कर्तुं चायातो पर्णजे गृहे ।अग्निं प्रणम्य च कन्यामेकाकिनीं सुरूपिणीम् ॥५४॥सन्दृष्ट्वा कामसन्तप्तस्तत्क्षणादेव पार्थिवः ।नेमे तां तु गुरोः पुत्रीं पूर्णयौवनशालिनीम् ॥५५॥सापि तमागतं कन्या प्रत्युत्थाय तपोधना ।भ्रातृभावेन सत्कृत्य मालां प्रासादिकीं ददौ ॥५६॥ततस्तामाह नृपतिर्बाले कामाग्नितापितम् ।मां समाह्लादयस्वाऽत्र स्वपरिष्वंगवारिणा ॥५७॥सा तं प्राह तदा मे तु पिता त्वां निर्दहेच्च माम् ।यः समर्थो जीवयितुं देवान् मारयितुं ह्यपि ॥५८॥भवान् भ्राता धर्मतोऽस्ति शिष्यो यतः पितुर्मम ।त्वं मैवं मानसं राजन् एकान्ते कर्तुमर्हसि ॥५९॥सोऽब्रवीद् भीरु मां शुक्रः कालेन परिधक्ष्यति ।कामाग्निस्त्वद्य मामत्र दहत्येव प्रशामय ॥६०॥सा प्राह दण्डं नृपतिं मुहूर्तं परिपालय ।गुरुं तमेव याचस्व स ते दास्यत्यसंशयम् ॥६१॥दण्डोऽब्रवीत् अरजो! मे कालक्षेपो न वै क्षमः ।क्षणे क्षणे नु विघ्नानां पंक्तिः सर्वत्र विद्यते ॥६२॥विरजा प्राह नात्मानं दातुं शक्ता नराधिप ।कामभोगे तु सुतरामस्वतन्त्रा हि योषितः ॥६३॥किं वदामि तव राजन्नेवमुत्पथवर्तिनः ।राष्ट्रं राज्यं कुटुम्बं च स्वयं चान्यच्च यत् तव ॥६४॥सर्वं त्वया युतं नाशं शुक्रशापेन यास्यति ।मैवं वह्नौ पत राजन्नैतद् धर्म्यं हि विद्यते ॥६५॥राजा प्राह बलात्त्वां वै भोक्ष्ये चेन्नैव मन्यसे ।अरजा यज्ञवह्निं स्वहस्ते कृत्वा नृपोपरि ॥६६॥चिक्षेप गच्छ दुष्टात्मन्नितो विभ्रष्टमानस ।इत्युक्त्वा पर्णशालां च त्यक्त्वा गन्तुं बहिर्हि सा ॥६७॥यावद्धावति तावत्तां धृत्वा कृत्वा स्ववक्षसि ।कामोपहतचित्तात्मा व्यध्वंसयत मन्दधीः ॥६८॥तां कृत्वा च्युतचारित्रां निश्चक्राम ययौ गृहम् ।सापि शुक्रप्लुता बाला अरजा रजसा प्लुता ॥६९॥आश्रमादथ निर्गत्य बहिस्तस्थावधोमुखी ।चिन्तयन्ती स्वपितरं रुदती च मुहुर्मुहुः ॥७०॥अस्नाना चाऽभोजना च तस्थौ वृक्षं समाश्रिता ।प्रहरान्ते पिता तस्याः शुक्रः प्रागमदाश्रमम् ॥७१॥ददृशे कन्यकां नैजां सन्ध्यातुल्यां रजस्वलाम् ।पप्रच्छ पुत्रि! केनाऽसि धर्षिता वा कथं न्विदम् ॥७२॥क्व स दुष्टो ययौ पापी विध्वंसयति कन्यकाम् ।रुदती सा व्रीडया स्वपितरं प्राह चारजाः ॥७३॥राज्ञा दण्डेन चागत्य वार्यमाणेन चाऽसकृत् ।बलादनाथा रुदती नीताऽहमीदृशीं दशाम् ॥७४॥एतच्छ्रुत्वा ह्युपस्पृश्य शुचिः शुक्रः शशाप तम् ।यस्मात्तेनाऽविनातेन ममाऽऽज्ञां मम गौरवम् ॥७५॥तिरस्कृत्य शुभाचारा च्युतधर्माऽरजाः कृता ।तस्मात् सराष्ट्रः सबलः सभृत्यो वाहनैः सह ॥७६॥सप्तरात्रान्तराद् भस्म दण्डो भवतु सानुगः ।शुक्रः पुत्रीं ततः प्राह शुद्धाचारां तपस्विनीम् ॥७७॥मासान्ते त्वागते राजस्वल्ये शुद्धा भविष्यसि ।तावत् तपः कुरु पुत्रि यथेष्टं चोचितं तव ॥७८॥न ते दोषोऽस्ति वै पुत्रि गर्भस्ते न भविष्यति ।पिब चोष्णं पञ्चगव्यं मा भयं कुरु पुत्रिके ॥७९॥अथ दण्डोऽपि नृपतिः सराष्ट्रबलवाहनः ।भस्मीभूतोऽभवत् शापात्सप्तरात्रान्तरेऽसुर ॥८०॥एवं भस्मस्थलं जातं दण्डकारण्यमुल्बणम् ।एवं परकलत्राणि धर्षयन्ति तु ये जनाः ॥८१॥भस्मीभवन्ति ते सर्वे सराष्ट्रबलवाहनाः ।धर्मशीला विनीताश्च न्यायमार्गा हि निर्भयाः ॥८२॥प्रसह्य परदारस्थाश्चेहाऽमुत्र न निर्भयाः ।धर्मान्वितो रविर्धर्मः पत्नीव्रतश्च भूसुरः ॥८३॥अगस्त्यश्च मनुः स्वयंप्रकाशोऽन्ये मुनीश्वराः।तेजस्विनः शापमोक्षवरक्षमाः सुराऽर्चिताः ॥८४॥अधर्मस्थाश्चन्द्रदेवेन्द्रान्धका दुःखिनोऽभवन् ।तस्माद्धर्मो न सन्त्याज्यो धर्मो हि परमा गतिः ॥८५॥तारणं परमो धर्मः पतनं त्वनयाद् भवेत् ।तस्मात् त्याज्यं बलान्नित्यं परदारोपसेवनम् ॥८६॥नयन्ति परदारास्तु महापत्तीर्हि दारुणाः।परार्थपरदारस्था नरकार्हा सदा मताः ॥८७॥तस्माद्वै दूरतस्त्याज्याः परदारा विचक्षणैः ।परदारहतप्रज्ञा न भवन्ति विभूतये ॥८८॥शृणु दूत कथां चान्यां कथयामि समासतः ।इत्युक्त्वा नारदः प्राह कथां दिव्यां पुरातनीम् ॥८९॥विश्वकर्मसुता साध्वी नाम्ना चित्रांगदाऽभवत् ।रूपयौवनसम्पन्ना कमला पद्मिनी यथा ॥९०॥सा स्नातुं नैमिषे क्षेत्रे सखीयुक्ता जगाम ह ।स्नान्ती ददर्श सुरथः सुदेवतनयो नृपः ॥९१॥साऽपि त्वभूत् सकामाऽति स्वप्रदानमियेष च ।सख्यस्तामब्रुवन् बाले नैतद् योग्यं हि जायते ॥९२॥अस्वातन्त्र्यं तवाऽस्त्यत्र प्रदाने स्वात्मनः परे ।पिता कुर्यात् सुतादानं सुता पितृवशे यतः ॥९३॥न ते युक्तमिहात्मानं दातुं नरपतेः स्वयम् ।एतस्मिन्नन्तरे राजा सुरथः कामपीडितः ॥९४॥उवाचेनां मदिराक्षि! मुग्धे मोहयसीव माम् ।तन्मां कुचतले तल्पेऽभिशाययितुमर्हसि ॥९५॥ततः सा कामसन्तप्ता प्रार्थिता भूभृता मुहुः ।वार्यमाणा सखीभिस्तु प्रादादात्मानमात्मना ॥९६॥आत्मा प्रदत्तः स्वातन्त्र्यात् ततस्ता तादृशीं सुताम् ।पितरं चावमन्यैव कामगामशपत् पिता ॥९७॥यतो धर्मं परित्यज्य श्रीभावात् मूर्खभूभृते ।आत्मा प्रदत्तस्तस्मात्ते विवाहो न भविष्यति ॥९८॥विवाहरहिता नैव सुखं लप्स्यसि भर्तृतः ।न च पुत्रफलं नैव पतिना योगमेष्यसि ॥९९॥उत्सृष्टमात्रे शापे तु ह्यपोवाह सरस्वती ।अकृतार्थं नरपतिं योजनानि त्रयोदश ॥१००॥अपकृष्टे नरपतौ साऽप्यनिर्वृत्तकामना ।मूर्छायां पतिता तत्र तदा सख्यो जलेन ताम् ॥१०१॥सिषिचुः शैत्यमापन्ना क्षणान्तरेऽतिदुःखिता ।मृतकल्पा हतोत्साहा संज्ञां लेभे शनैः शनैः ॥१०२॥अपश्यन्तीं नरपतिं दुद्राव वेगतस्तदा ।निपपात सरस्वत्या मुह्यमाना तरंगकैः ॥१०३॥निर्गता सा महारण्ये सिंहव्याघ्रसमाकुले ।तामपश्यद् गुह्यकश्च निन्ये श्रीयमुनातटे ॥१०४॥तत्र चिक्षेप च भुक्त्वा जले श्रीकृष्णसन्निधौ ।सा निर्गत्य शिरोनम्रा मध्याह्ने संस्थिताऽभवत् ॥१०५॥ददर्शैनां तापसस्तु ऋतुध्वजाभिधानकः ।तां प्राह पुत्रि! कस्याऽसि सुता कथं समागता ॥१०६॥ततः सा सर्ववृत्तान्तं याथातथ्यमुवाच वै ।श्रुत्वा ऋषि क्रुधा तस्याः पितरं शिल्पिनां वरम् ॥१०७॥अशपद् यत्त्वया त्वष्टर्दानयोग्याऽपि पापिना ।योजिता नैव पतिना तस्माच्छाखामृगो भव ॥१०८॥इति शापाद् विश्वकर्मा द्रागेव वा नरोऽभवत् ।न्यपतन्मेरुशिखराद् भूपृष्ठं शापकारणात् ॥१०९॥अटन् पृथ्वीं समायातः श्रीकण्ठं वै ऋतुध्वजम् ।प्रार्थयन्मे महाघोरो दत्तः शापो निवर्त्यताम् ॥११०॥चित्रांगदायाः पितरं मां त्वष्टारं विभावय ।मया वानररूपेण पापान्यपि कृतानि हि ॥१११॥तानि मे संक्षयं यान्तु कृपां कुरु ऋतुध्वज ।ऋतुध्वजस्ततः प्राह शापस्याऽन्तो भविष्यति ॥११२॥समुत्पाद्य घृताच्यां वै तनयं सुमहाबलम् ।तावत् सौम्यां घृताचीं सोऽपश्यत् तत्कामितोऽभवत् ॥११३॥ददौ गर्भं कामयानां सापि गोदावरीतटे ।प्राप्ते काले बलवन्तं प्रासूत तनयं नलम् ॥११४॥वानरः कपितां त्यक्त्वा विश्वकर्माऽभवत् क्षणात् ।चित्रांगदा सप्तगोदावरं तीर्थं गताऽभवत् ॥११५॥हाटकेश्वरपूजायां सदा मग्नाऽभवद् यतः ।तत्राऽयं वानरो विश्वकर्मरूपोऽभवत् तदा ॥११६॥सर्वं ज्ञातवती पुत्री स्वातन्त्र्यदुःखमीदृशम् ।विश्वकर्मा ततस्तत्र राजानं सुरथं पुनः ॥११७॥समाहूय ददौ तस्मै चित्रांगदां सुतां निजाम् ।ततः सा सुखिनी जाता भुक्त्वा कष्टं शतं समाः ॥११८॥तस्माद् दूत महादूत रक्तवार्धे सुबुद्धिमन् ।जुमासेम्लाख्यनृपतिं निवेदय मयोदितम् ॥११९॥सर्वं यथार्थं विधिवद् याहि गृहं सुखं वस ।अजित्वा तु विमानं वा कन्यका नहि लप्स्यसे ॥१२०॥इतिश्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने अब्रिक्तदेशीयनृपतिना स्वसेनाधिपैः सर्वकामविमानं रुद्धं, दूतोक्तिः, नारदस्य प्रत्युक्तिश्च, तत्र शुक्राऽरजादण्डानां विश्वकर्मचित्रांगदासुरथानां कथा चेत्यादिनिरूपणनामा पञ्चाशत्तमोऽध्यायः ॥५०॥ N/A References : N/A Last Updated : May 01, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP