संस्कृत सूची|संस्कृत स्तोत्र साहित्य|संहिता|लक्ष्मीनारायणसंहिता|त्रेतायुगसन्तानः| अध्यायः ८ त्रेतायुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ अध्यायः २३८ अध्यायः २३९ अध्यायः २४० अध्यायः २४१ अध्यायः २४२ अध्यायः २४३ अध्यायः २४४ अध्यायः २४५ अध्यायः २४६ अध्यायः २४७ अध्यायः २४८ अध्यायः २४९ अध्यायः २५० अध्यायः २५१ अध्यायः २५२ अध्यायः २५३ अध्यायः २५४ अध्यायः २५५ अध्यायः २५६ अध्यायः २५७ अध्यायः २५८ अध्यायः २५९ अध्यायः २६० अध्यायः २६१ अध्यायः २६२ अध्यायः २६३ अध्यायः २६४ अध्यायः २६५ अध्यायः २६६ अध्यायः २६७ अध्यायः २६८ अध्यायः २६९ अध्यायः २७० अध्यायः २७१ अध्यायः २७२ अध्यायः २७३ अध्यायः २७४ अध्यायः २७५ अध्यायः २७६ अध्यायः २७७ अध्यायः २७८ अध्यायः २७९ अध्यायः २८० अध्यायः २८१ अध्यायः २८२ अध्यायः २८३ अध्यायः २८४ अध्यायः २८५ अध्यायः २८६ अध्यायः २८७ अध्यायः २८८ अध्यायः २८९ अध्यायः २९० अध्यायः २९१ अध्यायः २९२ अध्यायः २९३ अध्यायः २९४ अध्यायः २९५ अध्यायः २९६ अध्यायः २९७ अध्यायः २९८ अध्यायः २९९ अध्यायः ३०० विषयानुक्रमणिका त्रेतायुगसन्तानः - अध्यायः ८ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः ८ Translation - भाषांतर श्रीकृष्ण उवाच-श्रूयतां सुभगे राधे कथां पुमुत्तमाश्रिताम् ।प्रेंखोत्सवोत्तरं कृष्णनारायणः परः प्रभुः ॥१॥दुहितृहारकश्चेतिमत्वा तलाख्यरक्षसा ।प्रद्विष्टो बहुधा बालकृष्णो वै कम्भरागृहे ॥२॥नाऽस्य क्लेशः परेशस्य फलं क्लेशस्तु रक्षसः ।तलेन गत्वा चार्जन्तां गुफां तत्र स्थितास्तु ये ॥३॥राक्षसा निजजातीया बोधितास्ते च मन्त्रिताः ।सौराष्ट्रे कुंकुमवाप्यां कृष्णं नाशयितुं मुदा ॥४॥सर्वे चाकर्ण्य वृत्तान्तं तलाजाऽऽहरणादिकम् ।तलेन सह चागत्य सिंहारण्ये स्थिता हि ते ॥५॥भ्रमन्तो निशिथे ग्रामान् रन्ध्रान्वेषणतत्पराः ।घातयितुं हरिं ते वै प्रयतन्ते स्म नित्यदा ॥६॥प्रच्छन्नास्ते समायान्ति चाऽनासाद्य क्षणं ततः ।वियन्ति च निराशास्ते प्रभोश्चक्राद् भयं गताः ॥७॥एवं मासः प्रथमस्तु बालकृष्णस्य चाऽभवत् ।जनेर्द्वितीयमासस्य प्रथमे वै दिने ततः ॥८॥माता पिता लोमशश्च प्रभुं श्रीपुरुषोत्तमम् ।इच्छन्ति स्म दिव्यदुग्धं पाययितुं तदा हरिः ॥९॥मार्गकृष्णनवम्यां च प्रातरुत्थाय चैव सः ।रमते स्म हसति स्म प्रेंखायां ज्ञापयन् कृपाम् ॥१०॥माता चातिप्रसन्नाऽस्ति दुग्धं पाययितुं हरिम् ।दुदोह मंगलागौरीनाम्नीं कामदुघां तु गाम् ॥११॥उष्णं कृत्वा शर्कराक्तं कवोष्णं कम्बुसन्धृतम् ।वस्त्रपूतं च गोक्षीरं कम्बुनाऽपाययद्धरिम् ॥१२॥ज्ञात्वा दुग्धोत्सवं गावः कामरूपधराः शुभाः ।दिव्यलक्षणसम्पन्ना मानवीवाग्विवेचिकाः ॥१३॥जगदुर्मातरं चास्मद्दुग्धं पायय गोपतिम् ।गोसहस्रस्याऽर्थनां संश्रुत्वा माताऽऽह गास्तदा ॥१४॥बालोऽयं स्यात्कथं न्वर्हः सर्वदुग्धातिपानकृत् ।अपथ्यं तद् भवेत् सर्वं किं करोमि हि शंसत ॥१५॥गावः प्राहुः किमभाग्यमस्माकं तादृशं भवेत् ।वयं गावो भवत्याः स्म हरेः सेवां न चाप्नुमः ॥१६॥गवामभ्यर्थनां माता यावच्छृणोति तावता ।व्योममार्गाद् गवां लक्षं गोलोकादागतं तदा ॥१७॥अक्षराच्चापि वैकुण्ठादव्याकृताद् दिवस्तथा ।भूमेश्चापि वृषारण्यात् कोटयस्त्वाययुर्गवाम् ॥१८॥अनादिश्रीकृष्णनारायणेच्छया समाययुः ।व्योम्नि विमानगाः काचिदन्तरीक्षगताः पराः ॥१९॥जलस्थाः क्षितिगाश्चान्यास्तस्थुर्नेमुर्हरिं मुदा ।दुग्धस्रावान् प्रचक्रुश्च दुग्धसरित् ततोऽभवत् ॥२०॥अश्वपट्टसरस्येव दुग्धं जले च मिश्रितम् ।दुग्धतीर्थं तु तज्जातं पापतापप्रणाशनम्॥२१॥हरिर्ज्ञात्वा गवामिच्छाः मातरं प्राह तत्क्षणम् ।मातः कथय सर्वास्ताः क्षीरं पास्यति मे सुतः॥२२॥गावश्चक्रुः स्तुतिं तं च पिब नः क्षीरमच्युत ।ब्रह्माण्डोदर विश्वात्मन् साफल्यं नो विधेहि च ॥२३॥अनादिश्रीकृष्णनारायणस्तत्प्रार्थनां तदा ।स्वीकृत्याऽनुग्रहेणैव कोटिरूपो बभूव ह ॥२४॥प्रतिधेनुं तु बालोऽसौ दुग्धदोहकवत् स्थितः ।प्रतिधेनुस्तनं प्राप्य दुग्धधारां निसर्गजाम् ॥२५॥स्नेहजां चातिमिष्टां च हरिः स्वस्य मुखेऽग्रहीत् ।पपौ पयांसि चाऽऽतृप्तिं गोभ्यः स्तन्यमपाययत् ॥२६॥प्रासादिकं च देवेभ्यः कन्याभ्यः पितृभ्यस्तथा ।ददौ पश्चादेकरूपोऽभवत् कृष्णनरायणः ॥२७॥धेनवस्तास्तदा कृष्णं प्रार्थयामास सत्पतिम् ।सदा रक्षय नो नाथ तवाऽग्रे सेवनाय वै ॥२८॥कृष्णनारायणः प्राह तथाऽस्त्विति हसन् प्रभुः ।धेनूनां च तदा देवो रूपद्वयं चकार ह ॥२९॥एकं धेनुस्वरूपं च द्वितीयं कन्यकात्मकम् ।कन्यास्ता लोमशाऽग्रे च ररक्ष भगवान् हरिः ॥३०॥गावः सर्वा दिव्यदेहा ययुः स्वस्वस्थलानि वै ।एनं महोत्सवं वीक्ष्य देवा देव्यः स्मयं ययुः ॥३१॥अथाऽसुरास्ते समयं दुग्धोत्सवं विलोक्य च ।धेनुरूपास्तदा भूत्वा स्तन्यदानार्थमाययुः ॥२२॥अर्जन्ताद्यास्तथा तेषां नार्यो गोरूपधारिकाः ।कपिलाः पिंगला रक्ताः श्यामाः शबलिकाः पराः ॥३३॥भूत्वा श्रीबालकृष्णस्य सन्निधावाययुस्तदा ।ओधःसु संभृतं क्ष्वेडं श्वेतदुग्धनिभं तदा ॥३४॥ज्ञात्वा वसुन्धरा देवी कृत्यं तद् रक्षसां तथा ।गौश्च भूत्वा स्वयं चायात् प्रथमं श्रीहरिं प्रति ॥३५॥प्राह गोस्वामिनं बालं नाथ पिब पयो मम ।यथा तृप्तिर्यथेष्टं च पिब सर्वं पयो मम ॥३६॥इमा गावोऽरण्यवासा आगता मोक्षकांक्षया ।तासामाकण्ठमापीय स्तन्यं मोक्षं प्रदेहि ताः ॥३७॥श्रुत्वैतद् भगवाँस्तस्या वसुमत्यास्तु भावभृत् ।ओमित्युक्त्वा शतरूपो बभूव लीलया पुनः ॥३८॥तासामोधांसि भगवान् कराभ्यां दृढमादधे ।स्तनानि चानने कृत्वा पपौ क्ष्वेडपयोऽतिगम् ॥३९॥क्ष्वेडं त्वमृततापन्नं भगवन्मुखमागतम् ।सप्राणं सर्वथा स्तन्यमपिबत् ताः प्रसह्य सः ॥४०॥एवं कृते तु ते दैत्या दैत्यनार्यश्च वै तदा ।त्राहि त्राहि कृपासिन्धो मुञ्च मुञ्चेति पाहि च ॥४१॥क्षमां तदाऽर्थयामासुरासन् दैप्यस्वरूपगाः ।माता पिता कुमार्यश्च भयमुद्वेगमागताः ॥४२॥त्रेसुर्दैत्यकुकृत्येन कृष्णघातककर्मणा ।दैत्यान् विलोक्य रुरुदुर्लोमशस्ता असान्त्वयत् ॥४३॥अर्जन्ताद्या राक्षसास्ते तुष्टुवुः परमेश्वरम् ।नमस्ते देवदेवेश परमेश नमोऽस्तु ते ॥४४॥कृपालो तव पुत्राः स्म दासिकास्ते इमाः स्त्रियः ।वृश्चिकानामविनये रोषं याति न सज्जनः ॥४५॥आसुराणां निसर्गे त्वं मा याहि रोषमच्युत ।प्राणान् रक्षय मुक्तेश क्ष्वेडं त्वयाऽमृतं कृतम् ॥४६॥क्ष्वेडाश्रयाँस्तथा चास्मानमृतान् संविधेहि च ।अवतारास्तथा मुक्ता ईश्वरा मुनयः सुराः ॥४७॥ऋषयः पितरो मर्त्याः पिशाचा यक्षराक्षसाः ।किन्नराश्चारणाः सूताः किंपूरुषा यमानुगाः ॥४८॥तिर्यञ्चः पशवो वृक्षा वल्ल्यः सरीसृपा मृगाः ।गुल्मास्तृणानि पक्ष्याद्याः कीटा मशकजातयः ॥४९॥दैत्याश्च दानवा वर्णसंकरा असुराः शठाः ।नागाः सर्पा जडाश्चैत्या नरा नार्यस्त्वदात्मजाः ॥५०॥तव पुत्राः प्रभो सर्वे सत्त्वरजस्तमोयुताः ।सर्वेष्वेव समा प्रीतिस्तव कृष्ण भवेदिति ॥५१॥पितुर्मातुः समा प्रीतिर्बालेषु विषमेष्वपि ।रक्ष रक्ष महाराज मा प्राणेभ्यो वियोजय ॥५२॥वयं पितृहनो जाता गरदाः पापचेतसः ।मा गणयाऽपराधान् नो ह्यज्ञानां क्रूरकर्मिणाम् ॥५३॥वारं वारं प्रणमामस्तृणान्यादाय वै मुखे ।रक्ष जीवय नो नाथ मा प्राणेभ्यो वियोजय ॥५४॥इत्यभ्यर्थ हरिं दैत्या निपेतुः पादयोर्हरेः ।मोक्षयिष्ये हरिस्ताँश्चाऽवत् पृथ्वीसमीपतः ॥५५॥श्रीकृष्णस्य सुयोगेन तेषां पापानि जज्वलुः ।अर्जन्तो दैत्यवर्यस्तु राक्षसीयोनिकारणम् ॥५६॥वर्णयामास शुद्धेन ज्ञात्वा वै हृद्येन ह ।वयं पूर्वे मरुस्थाने गालवस्याऽऽश्रमस्थिताः ॥५७॥विप्रा वेदाध्यायवन्तः शुद्धयज्ञपरास्तथा ।अपरिग्रहधर्माणः कन्दमूलफलाशिनः ॥५८॥कल्पवृक्षकल्पवल्लीकल्पमणिप्रजीविनः ।कामरूपधरा व्योम्ना यायिनः सूर्यवर्चसः ॥५९॥तीर्थयात्राकराश्चापि परिग्रहविवर्जिताः ।आस्म तथापि शूद्रस्य तपसा मरुभूतले ॥६०॥अनावृष्टिरभूत्तेन ध्वस्ताः कन्दफलादयः ।भूत्वा च भिक्षुकाः सर्वे ह्यभूम सपरिग्रहाः ॥६१॥दानग्राहाश्चान्नलुब्धाः प्रसह्य धनहारिणः ।अभक्ष्यभक्षका जाता बुभुक्षिता हि पापिनः ॥६२॥वृक्षा नष्टस्तथा नष्टा वल्लयः कामदास्तु याः ।ततो वने विचरामो यथाकामं विधर्मिणः ॥६३॥यः कश्चिन् मिलति मार्गे तद्धनं चाम्बरादिकम् ।तदन्नं च तत्सलिलं हरामस्तस्य तत्तदा ॥६४॥एवं वै वर्तमानानां पञ्चदशकुटुम्बिनाम् ।सन्निधावेकदा विप्रयुगलं समुपागतम् ॥६५॥धर्मयुक्तं दयायुक्तं ब्रह्ममार्गपरं तथा ।वेदध्यायनसम्पन्नं षट्कर्मसंपरायणम् ॥६६॥पत्नी पतिव्रता चासीत् स्वामिमात्रपरायणा ।पतिसेवाकरी साध्वी स्नानपूजादिकारिणी ॥६७॥एकभुक्तव्रतं द्वयोर्व्रतेषु जागरस्तथा ।ब्राह्मणानां पूजने तौ प्रसन्नौ सर्वसम्प्रदौ ॥६८॥श्रद्धाभावसमायुक्तौ गुरुपितृपरायणौ ।तावागत्याश्रमेष्वेव विश्रान्तौ नः समीपतः ॥६९॥तयोरग्रे पक्वसक्तून्यासन् यवास्तथाऽक्षताः ।अस्माभिस्ते त्वपहृता भोज्यं चापहृतं तयोः ॥७०॥वस्त्राण्यवस्कन्दितानि धनं चापहृतं तथा ।द्वयोः कौपीनयोग्यं च वस्त्रं तदाऽवशेषितम् ॥७१॥पतिर्हरिं स्मरत्येव ह्रियमाणेऽपि तद्धने ।साध्वी सापि न च वक्ति जपत्येव हरिं मुहुः ॥७२॥एवं तौ लुण्टतौ तत्राऽस्माभिर्दयाविवर्जितैः ।प्रसह्य चौररूपैर्वै ब्राह्मणैर्ब्राह्मणौ तदा ॥७३॥धर्मिष्ठौ पीडितौ वीक्ष्य भूकम्पः समजायत ।अश्मवृष्टिरभूत्पांसुवर्षणं चाभवत्तदा ॥७४॥द्वावेतौ वृक्षमाश्रित्य तिष्ठतश्च हरिस्मृती ।पतिव्रता सा मन्वाना सर्व हरीच्छयेति च ॥७९॥पतिं संवाहयामास मर्दयामास वर्ष्म च ।सत्यां पाषाणवृष्टौ च पांसूनां वर्षणेऽपि च ॥७६॥चक्रतुर्न च शोकं तौ रक्षेच्छां चक्रतुर्न च ।ओं नमः श्रीकृष्णनारायणाय स्वामिने स्वाहा ॥७७॥इति जापं प्रकुर्वन्तौ सस्मरतुर्हरिं गुरुम् ।तावत्तत्र समायातः सछत्रवस्त्रभोजनः ॥७८॥ब्राह्मणोऽन्यः सतिलको हृदि श्रीवत्सशोभितः ।उज्ज्वलश्चन्द्रसदृशो ददौ पृष्ट्वा सुभोजनम् ॥७९॥वस्त्राणि च तथा छत्रं ददौ तद्युगलाय सः ।अस्माभिस्तद्वीक्षितं च वर्तमाने तु वर्षणे ॥८०॥तत्र गत्वा च तदपि पुनर्हृतं समस्तकम् ।तदा दाता तिरोऽभूच्च दिव्यदेवोऽथवा ऋषिः ॥८१॥शशापाऽस्मान् ब्रह्मपुत्रा भवन्तः क्रूरनिर्दयाः ।स्वज्ञातिखादका यस्मात् तस्माद् भवन्तु राक्षसाः ॥८२॥येषां नास्ति दयालेशो नार्यां नरेऽपि वै द्विजे ।प्राप्तं पूर्वं तु तत्प्राप्तं यववस्त्रादिकं तु तत्। ॥८३॥देशकालप्रवैषम्यात् क्षान्तं पापापवर्तनम् ।पुनः प्राप्तौ पुनर्हृतं निर्दयैश्च दुरात्मभिः ॥८४॥तस्मात् पाषाणवर्षैश्च मृतिं गत्वा हि राक्षसाः ।भवन्तु मरुधर्माणो वसन्तु शूष्कपर्वते ॥८५॥पश्वाहाराश्च मांसादा भवन्तु सुखवर्जिताः ।इति शप्ता हि तेनैव व्योमवाण्या तदा वयम् ॥८६॥शपन्तं प्रार्थयामासुः क्षमां मोक्षं सुखं पुनः ।,तदा व्यक्तस्वरूपः स ऋषिर्वै गालवः स्वयम् ॥८७॥आसीत्पूर्वगुरुर्नश्च जगाद दयया पुनः ।सौराष्ट्रे श्रीकृष्णनारायणस्य च परात्मनः ॥८८॥योगेन भवतां मुक्तिर्भविष्यति व्रजन्तु तम् ।ततोऽस्माभिर्वन्दितश्च मुनिस्तद्युगलं तथा ॥८९॥क्षमार्थं याचितं द्रव्यं चार्पितं प्रतिपूजितम् ।प्रत्यर्पितं च वस्त्रान्नं ततो वयं तु वृष्टिभिः ॥९०॥शापेन वै मृतास्तत्र राक्षसीं योनिमागताः ।अर्जन्ताद्या वयं सर्वे राक्षसा वै कुटुम्बिनः ॥९१॥पर्वतादौ निवासश्च कृत्वा नारायणं प्रभुम् ।चिन्तयामः कदा मुक्तिप्रदः श्रीभगवान् भवेत् ॥९२॥जातिस्मरा वयं सर्वे तलस्य कथनात् खलु ।ज्ञानवन्तो परब्रह्म मोक्षदं चात्र राजते ॥९३॥तद् वयं कृतकृत्याः स्म दैत्यभावाद् विमोचिताः ।तव योगेन देवेश पापं प्रज्वलितं तु नः ॥९४॥पापात्मानो वयं नाथ तारिता ब्रह्मराक्षसाः ।क्ष्वेडं त्वस्मत्कृते जातं ह्यमृतं त्वपराधिनाम् ॥९५॥पारः कृपायास्ते नास्ति नास्ति पारः क्षतेश्च नः ।पारकृत् प्रकरोत्वेव पारधीन् भवपारगान् ॥९६॥इत्युक्त्वा रुरुदुर्दैत्या जातिस्मरा मुहुर्मुहुः ।प्रणेमुर्दण्डवत् कृष्णनारायणं जगुर्जयम् ॥९७॥भगवाँस्तान् करुणया लोकयामास सत्वरम् ।त्याजयामास देहाँस्तान् कारयामास देवताः ॥९८॥रूपद्वययुतास्ताश्च कन्यकास्तास्तदाऽभवन् ।कुमार्यः शतसंख्याका रक्षिता लोमशाश्रमे ॥९९॥दिव्या देव्यो दिव्ययानैः प्रेषिता ब्रह्मधामनि ।एवं तेषां ब्राह्मणानां तलयोगात् प्रयोगिनाम् ॥१००॥कृपया वै कृता मुक्तिः पृथ्वीगौस्तु तिरोऽभवत् ।अनादिश्रीकृष्णनारायणो बालो बभूव ह ॥१०१॥रेमे रञ्जनदोलायां कन्यकाभिः सुलालितः ।आवेदितं गोस्वरूपपृथिव्या तत्र चोत्सवे ॥१०२॥मात्रे पित्रे कन्यकाभ्यो ज्ञातं कृष्णस्य चेष्टितम् ।मया ते कथितं राधे पाठे श्रवेऽपि मुक्तिदम् ॥१०३॥ इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने बालकृष्णस्य द्वितीयमासारम्भे क्षीरपानोत्सवे नैकरूपैर्दिव्यगवां दुग्धपानं, गोरूपधारिणां कपटिनां राक्षसानां पत्नीनां गोरूपाणां सप्राणदुग्धधावने नाशो मुक्तिश्च भगवता कृतेत्यादिनिरूपणनामाऽष्टमोध्यायः ॥८॥ N/A References : N/A Last Updated : April 02, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP