संस्कृत सूची|संस्कृत स्तोत्र साहित्य|संहिता|लक्ष्मीनारायणसंहिता|त्रेतायुगसन्तानः| अध्यायः २४० त्रेतायुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ अध्यायः २३८ अध्यायः २३९ अध्यायः २४० अध्यायः २४१ अध्यायः २४२ अध्यायः २४३ अध्यायः २४४ अध्यायः २४५ अध्यायः २४६ अध्यायः २४७ अध्यायः २४८ अध्यायः २४९ अध्यायः २५० अध्यायः २५१ अध्यायः २५२ अध्यायः २५३ अध्यायः २५४ अध्यायः २५५ अध्यायः २५६ अध्यायः २५७ अध्यायः २५८ अध्यायः २५९ अध्यायः २६० अध्यायः २६१ अध्यायः २६२ अध्यायः २६३ अध्यायः २६४ अध्यायः २६५ अध्यायः २६६ अध्यायः २६७ अध्यायः २६८ अध्यायः २६९ अध्यायः २७० अध्यायः २७१ अध्यायः २७२ अध्यायः २७३ अध्यायः २७४ अध्यायः २७५ अध्यायः २७६ अध्यायः २७७ अध्यायः २७८ अध्यायः २७९ अध्यायः २८० अध्यायः २८१ अध्यायः २८२ अध्यायः २८३ अध्यायः २८४ अध्यायः २८५ अध्यायः २८६ अध्यायः २८७ अध्यायः २८८ अध्यायः २८९ अध्यायः २९० अध्यायः २९१ अध्यायः २९२ अध्यायः २९३ अध्यायः २९४ अध्यायः २९५ अध्यायः २९६ अध्यायः २९७ अध्यायः २९८ अध्यायः २९९ अध्यायः ३०० विषयानुक्रमणिका त्रेतायुगसन्तानः - अध्यायः २४० लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः २४० Translation - भाषांतर श्रीकृष्ण उवाच-शृणु त्वं राधिके चान्यं चमत्कारं श्रियःपतेः ।कुंकुमवापिकाक्षेत्रे जातं योगेश्वरं प्रति ॥१॥वीतिहोत्रो महोयोगी वने योगेश्वरोऽभवत् ।हिमाचले बदर्यां स तपस्तेपेऽतिदारुणम् ॥२॥सर्वयोगकलाः प्राप यथा शंभुस्तथाऽभवत् ।तेन योगप्रतापेन दृष्टा वै दिव्यचक्षुषा ॥३॥केतुमाले कृता यज्ञाः केनाटेऽपि कृता मखाः ।अमरीणां प्रदेशेषु कृतं यद्धरिणा तु तत् ॥४॥ऊर्जाकृष्णाष्टमीजन्ममहोत्सवश्च यः कृतः ।शारदापूजनाद्यं च ह्यन्नकूटमहोत्सवः ॥५॥एतत्सर्वं दिव्यदृष्ट्या विज्ञाय परमेश्वरम् ।कांभरेयं बालकृष्णं द्रष्टुं साक्षादुपाययौ ॥६॥आययौ कुंकुमवापीक्षेत्रे कृष्णनारायणम् ।सहस्ररूपधर्ताऽसौ वीतिहोत्रः समाधिमान् ॥७॥मार्गशीर्षतृतीयायामश्वपट्टसरस्तटे ।सेतुमाश्रित्य च न्यग्रोधस्याऽधोऽधान्निजासनम् ॥८॥सहस्ररूपधर्ताऽसौ संकल्प्य निषसाद ह ।मम मूलस्वरूपं चागत्याऽऽश्लिष्येत् रमापतिः ॥९॥ततः सहस्ररूपैश्चाऽऽश्लिष्येन्मा स प्रभुः पुनः ।ऋषभस्य कारयेन्ये सद्गुरोर्दर्शने यदि ॥१०॥तदाऽहं श्रीहरेरग्रे निवत्स्येऽत्र सदाऽनुगः ।मोक्षं प्रसाधयिष्येऽत्र बदर्या न प्रयोजनम् ॥११॥न गुरोरपरस्यापि मोक्षदो हि गुरुर्यतः ।यत्रात्मनो भवेत्पुष्टिर्येन तरति सागरम् ॥१२॥यस्माच्चात्ममहाशान्तिस्तं गुरुं त्वाश्रयेज्जनः ।यस्मात्पापविनाशश्च यस्मादज्ञाननाशनम् ॥१३॥यस्माद् वृत्तिनिरोधश्च वासनाक्षपणं यतः ।यस्मादात्मप्रकाशश्च तं गुरुं त्वाश्रयेज्जनः ॥१४॥यस्माच्छिक्षामवाप्येतैश्वर्यं चमत्कृतिं तथा ।दिव्ययभावमधितिष्ठेत्तं गुरुं त्वाश्रयेज्जनः ॥१५॥गुरवो बहवः सन्ति लौकिकाश्चाप्यलौकिकाः ।लौकिकेन हि लोकस्थाः कार्या वै गुरवो यथा ॥१५॥अलौकिकेन शिष्येणाऽलौकिका गुरवो धृताः ।मयाऽप्यलौकिकः सोऽयं कर्तव्यो भगवान् गुरुः ॥१७॥यत्र सर्वं हि कर्तव्यं हरौ परिसमाप्यते ।माता गुरुर्हि जनुदा पिता गुरुर्हि बीजदः ॥१८॥अन्ये रक्षाकराः सन्ति देहस्य गुरवो हि ते ।भाषाज्ञानकराश्चान्ये बान्धवाद्याश्च योषितः ॥१९॥तथा शिक्षाकराश्चान्ये विद्यादानकरा अपि ।कलाकौशल्यशिक्षाया दातारो गुरवोऽपि च ॥२०॥त एते देहयात्रायां भवन्ति गुरवः खलु ।आत्मज्ञानप्रदो यस्तु विष्णुमन्त्रप्रदश्च यः ॥२१॥धर्मवृत्तिप्रदो यश्च गुरुः श्रेष्ठो हि सम्मतः ।ब्रह्मस्थितिप्रदो यश्च योगसिद्धिप्रदश्च यः ॥२२॥वैशारद्यप्रदो बुद्धौ गुरुः श्रेष्ठतरो हि सः ।निर्मलां वासनां कृत्वा परमेशप्रदर्शकः ॥२३॥आत्मना परमात्मानं प्रापको दिव्यमोक्षदः ।ब्रह्मलोकप्रेषकश्च गुरुः श्रेष्ठतमो हि सः ॥२४॥गकारस्त्वन्धमज्ञानं रकारो ज्ञानमुज्ज्वलम् ।अज्ञानहा ज्ञानदश्च गुरुर्गौरववान्मतः ॥२५॥गमयत्यक्षरं धाम रमवत्यपि धामिना ।गुरुः सोऽयं मोक्षदाता नान्यः श्रेष्ठस्ततो गुरुः ॥२६॥गुरुर्योगी ब्रह्मचारी धर्मी ज्ञानी विरागवान् ।साधुशीलो गुरुश्चापि नारायणः परो गुरुः ॥२७॥भुक्तिदाता मोक्षदाता सर्वस्वदो हरिर्गुरुः ।गुरोः साक्षात्कारयिता गुरोर्गुरुर्यतोऽत्र सः ॥२८॥स एव श्रीहरिश्चाऽयं मुक्तानां परमो गुरुः ।गुरुः सर्वावताराणां सतीनां च सतां गुरुः ॥२९॥ईश्वराणां तथा धाम्नां योगिनां सर्गसम्विदाम् ।पूर्वेषां सृष्टिकर्तॄणां महर्षीणां द्युवासिनाम् ॥३०॥प्रजेशानां कर्मठानां भक्तानां च परो गुरुः ।गुरूणां यावतामग्र्यो नारायणगुरोर्गुरुः ॥३१॥अनादि श्रीकृष्णनारायणः श्रीकृष्णवल्लभः ।श्रीकृष्णवल्लभः स्वामी कांभरेयः परात्परः ॥३२॥श्रीमद्गोपालबालोऽयं स्वामी वै सर्वदेहिनाम् ।मया लब्धः स मे पूर्णं करिष्यत्येव मानसम् ॥३३॥निवत्स्यामि चरणेऽस्य प्राप्स्यामि धाम चाक्षरम् ।सञ्चिन्त्येति वीतिहोत्रो ध्यानमग्नः सहस्रधा ॥३४॥सहस्ररूपवान् जातो दृष्ट्वा तं मानवास्तटे ।स्नातारोऽगुः पराश्चर्यं कस्येमानि समानि वै ॥३५॥रूपाणि के चागता वै योगिनोऽत्र सहस्रशः ।समवेषाः समदेहाः समांगाः सन्ति सदृशाः ॥३६॥समकेशाः समध्यानाः समानपरिमाणकाः ।भ्रातरो वा भवन्त्येते धाममुक्ता भवन्ति वा ॥३७॥वदरीवासिनो वाऽपि श्वेतमुक्ताः किमागताः।शंकरस्य गणाः किंवा देवास्तापसरूपिणः ॥३८॥साध्या वा देवता यद्वा मेरुवासा हि तापसाः ।क एते तु भवेयुर्वै चन्द्रास्या भास्करप्रभाः ॥३९॥ध्यानयोगा योगिनो वा योगेश्वराः सहस्रशः ।न वदन्ति न पश्यन्ति न प्राणान् चालयन्त्यपि ॥४०॥स्थिरमौनाः स्थिरचित्ता ईश्वराः स्युश्च केन्विमे ।इत्येव तर्कयन्तो वै कुंकुमवापिकाजनाः ॥४१॥संघशो वै समायान्ति द्रष्टुं कुतूहलान्विताः ।केचिन्नमन्ति दृष्ट्वैव प्रशंसन्ति वदन्ति च ॥४२॥प्रतापोऽयं बालकृष्णकृपानाथस्य वर्तते ।अस्य दर्शनलाभार्थं नित्यमायान्ति योगिनः ॥४३॥अदृश्या ईदृशाः सर्वेऽधुना ते दृश्यतां गताः ।रुद्राः सहस्रशश्चापि विष्णवश्च सहस्रशः ॥४४॥सहस्रशोऽपि ब्रह्माणो द्रष्टुमायान्ति सद्वरम् ।तथा महर्षयो नित्यं पितरो देवतास्तथा ॥४५॥साध्या विश्वे च मरुतो द्रष्टुमायान्ति नित्यशः ।तीर्थान्यपि समायान्ति दिक्पालाः सृष्टिपालकाः ॥४६॥अथवा पार्षदा दिव्या गोलोकादिनिवासिनः ।समायान्ति च वैकुण्ठपार्षदा अपि नित्यशः ॥४७॥ग्रहनक्षत्रताराश्च सूर्याश्चन्द्राः सहस्रशः ।वैमानिकाः समायान्ति लोकान्तरेभ्य आदृताः ॥४८॥वालखिल्याः समायान्ति यद्वा ब्रह्मसभाद्विजाः ।किं वा भवेयुर्गान्धर्वा यक्षा वा धनदाश्च वा ॥४९॥चारणाः पर्वतवासा मुनयो वा वनस्थिताः ।परं सादृश्यमेवैषामपूर्वत्वं विगाहते ॥५०॥ललाटे वैष्णवं पुण्ड्रं मस्तके तापसी जटा ।नेत्रमुद्रा योगपुष्टाः ख्यापयन्त्यंशमाच्युतम् ॥५१॥ये वा के वा भवेयुस्ते साक्षात्कृता यदत्र ते ।अस्माभिर्दैवयोगेन पुण्यवद्भिः सुभाग्यकैः ॥५२॥अवश्यमेषां विज्ञानं क्षणेऽत्रैव भविष्यति ।इत्येवं ते वदन्तश्च प्रजाः संघश एव ह ॥५३॥प्रपश्यन्ति सरस्तीरे सहस्रयोगिनस्तदा ।अथ श्रीमद्बालकृष्णो नारायणगुरोर्गुरुः ॥५४॥समाययौ सरस्तीरे सन्निधौ योगिनां तदा ।हार्दं जानँस्तदा तूर्णं प्रवीक्ष्य मूलरूपिणम् ॥५५॥समुत्तोल्य समाहूय नाम्ना तं वीतिहोत्रक! ।उत्तिष्ठेति करो धृत्वा कृत्वा वक्षसि योगिनम् ॥५६॥समाश्लिष्यद्धसँस्तूर्णं स्वयं सहस्रधाऽभवत् ।समुत्थितैः सहस्रस्वरूपैराश्लिष्यदच्युतः ॥५७॥ततस्तूर्णं हरिश्चैकस्वरूपः सम्बभूव ह ।वीतिहोत्रोऽपि सहसा त्वेकरूपो व्यजायत ॥५८॥आश्चर्यचकिता लोका जयशब्दान् प्रचक्रिरे ।तावच्छ्रीबालकृष्णोऽपि बभूव ऋषभो गुरुः ॥५९॥वृद्धः श्वेतजटायुक्तो विवस्त्रो धूलिधूसरः ।विचित्त इव चोन्मत्तो जितसर्वेन्द्रियो यतिः ॥६०॥स्वभावतेजसा व्याप्तो ब्रह्मनिष्ठापरः पुमान् ।अप्राकृत इव त्वास्ते विमना इव देहिषु ॥६१॥वीतिहोत्रोऽपि च गुरुमृषभं वीक्ष्य दण्डवत् ।चकार बहुधा तत्र तुष्टाव परमेश्वरम् ॥६२॥त्वं गुरुस्त्वं चान्तरात्मा ऋषभस्त्वं च योगिराट ।योगेश्वरो भवानेव त्वं चेशस्त्वं परेश्वरः ॥६३॥त्वं मुक्तस्त्वं महामुक्तो मुक्तेश्वरो भवानपि ।अक्षरं त्वं भवान् ब्रह्म परब्रह्म भवानपि ॥६४॥भगवान् कृष्ण एवासि कृष्णनारायणोऽसि च ।अनादिश्रीकृष्णनारायणस्त्वं परमेश्वरः ॥६५॥अवताराः ऋषभाद्यास्तवैव श्रीपते विभो ।राधापतिस्त्वमेवाऽसि लक्ष्मीपतिस्त्वमेव च ॥६६॥वासुदेवीपतिस्त्वं च नारायणीपतिस्तथा ।मुक्तपतिर्ब्रह्मपतिर्धामपतिस्त्वमेव च ॥६७॥महाकालस्य हेतुस्त्वं महाविष्णोश्च कारणम् ।सदाशिवस्य हेतुस्त्वं वैराजस्य च कारणम् ॥६८॥भूमा त्वं पूरुषसंज्ञः पुरुषोत्तम इत्यपि ।ब्रह्मविष्णुमहेशानां रुद्राणां सर्जको भवान् ॥६९॥देवानां लोकपालानां पितॄणां सर्जको भवान् ।महर्षीणां यतीनां च साधूनां सर्जकः सताम् ॥७०॥सतीनां कमलाद्यानां पतिः पाता च वै भवान् ।सुराणां मानवानां च पशूनां पक्षिणां तथा ॥७१॥वल्लीनां च द्रुमाणां च सर्जकस्त्वं रसप्रदः ।कामधेनुकामवल्लीचिन्तामण्यादिसर्जकः ॥७२॥यक्षरक्षःपिशाचानां सर्जकस्त्वं खचारिणाम् ।वारिजानां वनस्थानां भूगर्भाणां प्रसर्जकः ॥७३॥दैत्यानां दानवानां च सर्जकस्त्वं जनार्दनः ।दीनाऽनाथदरिद्रानां रक्षकः पोषको भवान् ॥७४॥आश्रितानामन्नदाता शरण्यश्चार्तिदेहिनाम् ।कामुकानां कामदाता सकामानां प्रपूरकः ॥७५॥त्वं नारी त्वं नरश्चास्से त्वं गर्भस्त्वं कुमारकः।त्वं बीजं त्वं सस्यरूपस्त्वं पुष्पं फलमित्यपि ॥७६॥त्वमिन्द्रस्त्वमिन्द्रियस्त्वं निद्रा त्वं जागरो भवान् ।त्वं सुषुप्तिर्महानन्दस्त्वं प्रीतिस्त्वं रतिस्तथा ॥७७॥मन्मथस्त्वं मनोजन्यो मनःसंस्थो भवानपि ।ज्ञानं ज्ञाता ज्ञेयमेव त्वमेवाऽसि परेश्वर ॥७८॥त्वम् ऋतुस्त्वं दिनं रात्रिस्त्वमुद्योगो विरामकः ।त्वं विश्वासश्चाश्रयश्च त्वं माता च पिता गुरुः ॥७९॥धनं धान्यं त्वमेवाऽसि शक्तिर्बलं त्वमेव च ।नीतिर्भक्तिर्वृषो रागो वैराग्यं च त्वमेव ह ॥८०॥त्वं प्राणस्त्वं जीवनं च नैकधा चैकधा भवान् ।प्रकाशस्त्वं प्रवृत्तिस्त्वं निरोधस्त्वं गुणात्मकः ॥८१॥गुणातीतस्त्वमेवाऽसि सर्वसिद्धिगुणाश्रयः ।आश्चर्यं त्वं चमत्कारस्त्वमैश्वर्यं प्रभुत्वकम् ॥८२॥त्वं भूर्जलं भवाँस्तेजोऽनिलस्त्वं त्वं तथाऽनलः ।त्वं खं त्वं मात्रकं त्वं च बुद्धित्त्वं चैषणात्रयम् ॥८३॥त्वं परीक्षा तितिक्षा त्वं त्वं बुभुक्षा मुमुक्षता ।त्वं स्नेहस्त्वं ध्यानवृत्तिस्त्वं समाधिः परात्परः ॥८४॥उपास्तिस्त्वं चित्तचैत्यं त्वं जाड्यं त्वं तथाऽणुता ।त्वं साम्यं त्वं च वैषम्यं त्वमेव सर्वमेव ह ॥८५॥अहं त्वं वीतिहोत्रस्त्वं त्वं गुरुः ऋषभस्तथा ।तवैवांऽशकलाऽऽवेशविभूतिसृष्टिजं त्विदम् ॥८६॥यत् किंचिद् दृश्यते चापि भुज्यते लीयतेऽपि च ।यस्माद् यत्र च येनापि यदर्थं च त्वमेव सः ॥८७॥तस्मै कृष्णाय नाथाय ब्रह्मणे परब्रह्मणे ।समर्पयामि चात्मानं वीतिहोत्राभिधं सदा ॥८८॥दानमेव न तु न्यासं नापि कुसीदकं तथा ।यथेष्टविनियोगार्हं समर्पयामि मां त्वहम् ॥८९॥इति स्तुत्वा राधिके सम्पपात पादयोर्हरेः ।वीतिहोत्रश्चाऽथ कृष्णस्तमुत्थापयदूर्ध्वकम् ॥९०॥समाश्लिष्य पुनर्हस्तौ दत्वा तस्य च मूर्धनि ।न्ययुंक्त वरलाभार्थं वीतिहोत्रं हरिर्यदा ॥९१॥वीतिहोत्रस्तदा प्राह स्थास्येऽत्र तवपादयोः ।अन्ते मोक्षं गमिष्यस्यक्षरं धाम तव प्रभो ॥९२॥देहि वासं सदा चात्र तथास्तूवाच वै हरिः ।राधिके तन्महत्तीर्थम् ऋषभाख्यं सरोवरे ॥९३॥वीतिहोत्राभिधं तीर्थं सहस्रयोगितीर्थकम् ।एवं नाम्ना तदेवासीत् प्रसिद्धं मोक्षदं शुभम् ॥९४॥हरिर्बभूव सहसा बालकृष्णस्वरूपधृक् ।प्रययौ च निजावासं वीतिहोत्रस्तटे स्थितः ॥९५॥वटवृक्षं समाश्लिष्य तापसो जनदर्शनः ।तत्र तीर्थे कृतस्नानाः प्राप्स्यन्ति परमां गतिम् ॥९६॥योगसिद्धिमवाप्स्यन्ति योगाभ्यासं विनाऽपि च ।राधिके तत्र संस्नानान्नाशमेष्यन्ति पातकम् ॥९७॥आर्द्रं शुष्कं महत्स्वल्पं परपीडाकरं च यत् ।सर्वं नश्यति पापं तज्जलपानादपि द्रुतम् ॥९८॥तत्राऽन्नदानतः स्यात्तु वाजिमेधसमं फलम् ।ऋषभस्याऽऽलयकर्तुर्मम धामाऽक्षरं भवेत् ॥९९॥इत्येव भगवानाह राधिके तीर्थवैभवम् ।पठनाच्छ्रवणाच्चास्य भवेत्तत्तीर्थजं फलम् ॥१००॥इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने वीतिहोत्रयोगेश्वराय ऋषभरूपेण सहस्ररूपेण च हरेर्दर्शनम्, ऋषभतीर्थीकरणम्, स्तुतिश्चेत्यादि- निरूपणनामा चत्वारिंशदधिकद्विशततमोऽध्यायः ॥२४०॥ N/A References : N/A Last Updated : May 02, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP