संस्कृत सूची|संस्कृत साहित्य|पुराण|अग्निपुराण|
अगस्त्यार्घ्यदानकथनं

अध्याय २०६ - अगस्त्यार्घ्यदानकथनं

अग्निपुराणात त्रिदेव – ब्रह्मा, विष्‍णु, महेश आणि सूर्य ह्या देवतांसंबंधी पूजा-उपासनाचे वर्णन केलेले आहे.


अग्निरुवाच
अगस्त्यो भगवान्विष्णुस्तमभ्यर्च्याप्नुयाद्धरिं ॥१॥
अप्राप्ते भास्करे कन्यां सत्रिभागैस्त्रिभिर्दिनैः ॥१॥
अर्घ्यं दद्यादगस्त्याय पूजयित्वा ह्युपोषितः ॥२॥
काशपुष्पमयीं मूर्तिं प्रदोषे विन्यसेद्घटे ॥२॥
मुनेर्यजेत्तां कुम्भस्थां रात्रौ कुर्यात्प्रजागरं ॥३॥
अगस्त्य मुनिशार्दूल तेजोराशे महामते(१) ॥३॥
इमां मम कृतां पूजां गृह्णीष्व प्रियया सह ॥४॥
आवाह्यार्घ्ये च सम्मुख्यं प्रार्चयेच्चन्दनादिना ॥४॥
जलाशयसमीपे तु प्रातर्नीत्वार्घ्यमर्पयेत् ॥५॥
काशपुष्पप्रतीकाश अग्निमारुतसम्भव(२) ॥५॥
मित्रावरुणयोः पुत्र कुम्भयोने नमोऽस्तु ते ॥६॥
आतापिर्भक्षितो येन वातापिश्च महासुरः ॥६॥
समुद्रः शोषितो येन सोऽगस्त्यः सम्मुखोऽस्तु मे ॥७॥
अगस्तिं प्रार्थयिष्यामि कर्मणा मनसा गिरा ॥७॥
अर्चयिस्याम्यहं मैत्रं परलोकाभिकाङ्क्षया ॥८॥
द्वीपान्तरसमुत्पन्नं देवानां परमं प्रियं ॥८॥
राजानं सर्ववृक्षाणां चन्दनं प्रतिगृह्यतां(३) ॥९॥
धर्मार्थकाममोक्षाणां भाजनी पापनाशनी ॥९॥
सौभाग्यारोग्यलक्ष्मीदा पुष्पमाला प्रगृह्यतां ॥१०॥
धूपोऽयं गृह्यतां देव भक्तिं मे ह्यचलाङ्कुरु ॥१०॥
ईप्सितं मे वरं देहि परत्र च शुभाङ्गतिं ॥११॥
सुरासुरैर्मुनिश्रेष्ठ सर्वकामफलप्रद ॥११॥
टिप्पणी
१ तेजोराशे महाद्युते इति ग.. , घ.. , छ.. , ज.. , झ.. , ञ.. , ट.. च । तेजोराशे जगत्पते इति ङ..
२ वह्निमारुतसम्भवेति झ..
३ चन्दनं मे प्रगृह्यनामिति ज.. , ञ.. च
वस्त्रव्रीहिफलैर्हेम्ना दत्तस्त्वर्घ्यो ह्ययं(१) मया ॥१२॥
अगस्त्यं बोधयिष्यामि यन्मया मनसोद्धृतं(२) ॥१२॥
फलैरर्घ्यं प्रदास्यामि गृहाणार्घ्यं महामुने ॥१३॥
अगस्त्य एवं खनमानः खनित्रैः प्रजामपत्यं बलमीहमानः ॥१३॥
उभौ कर्णावृषिरुग्रतेजाः पुपोष सत्या देवेष्वाशिषो जगाम ॥१३॥
राजपुत्रि नमस्तुभ्यं मुनिपत्नी महाव्रते ॥१४॥
अर्घ्यं गृह्णीष्व देवेशि लोपामुद्रे यशस्विनि ॥१४॥
पञ्चरत्नसमायुक्तं हेमरूप्यसमन्वितं ॥१५॥
सप्तधान्यवृतं(३) पात्रं दधिचन्दनसंयुतं ॥१५॥
अर्घ्यं दद्यादगस्त्याय स्त्रीशूद्राणामवैदिकं ॥१६॥
अगस्त्य मुनिशार्दूल तेजोराशे च सर्वद ॥१६॥
इमां मम कृतां पूजां गृहीत्वा व्रज शान्तये ॥१७॥
त्यजेदगस्त्र्यमुद्दिश्य धान्यमेकं फलं रसं ॥१७॥
ततोऽन्नं भोजयेद्विप्रान् घृतपायसमोदकान् ॥१८
गां वासांसि सुवर्णञ्च(४) तेभ्यो दद्याच्च दक्षिणां ॥१८॥
घृतपायसयुक्तेन पात्रेणाच्छादिताननं ॥१९॥
सहिरण्यञ्च तं कुम्भं ब्राह्मणायोपकल्पयेत्(५) ॥१९
टिप्पणी
१ दत्तस्त्वर्घ्योऽक्षय इति ङ..
२ मनसेप्सितमिति ग.. , घ.. , झ.. च । मनसेहितमिति ङ..
३ सप्तधान्ययुतमिति ज..
४ प्रतिमाञ्च सुवर्णञ्चेति क..
५ ब्राह्मणायोपपादयेदिति घ.. , ङ.. , ज.. , ञ.. च
सप्तवर्षाणि दत्वार्घ्यं सर्वे सर्वमवाप्नुयुः ॥२०॥
नीरा पुत्रांश्च सौभाग्यं पतिं कन्या नृपोद्भवं ॥२०॥

इत्याग्नेये महापुराणे अगस्त्यार्घ्यदानव्रतं नाम षडधिकद्विशततमोऽध्यायः ॥

N/A

References : N/A
Last Updated : September 20, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP