संस्कृत सूची|संस्कृत साहित्य|पुराण|अग्निपुराण|
राजवंशवर्णनम्

अध्याय २७७ - राजवंशवर्णनम्

अग्निपुराणात त्रिदेव – ब्रह्मा, विष्‍णु, महेश आणि सूर्य ह्या देवतांसंबंधी पूजा-उपासनाचे वर्णन केलेले आहे.


अग्निरुवाच
तुर्व्वसोश्च सुतो वर्गो गोभानुस्तस्य चात्मजः ।
गोभानोरासीत् त्रैशानिस्त्रैशानेस्तु करन्धमः ॥१॥

करन्धमान्मरुत्तोभूऽद्‌दुष्मन्तस्तस्य चात्मजः ।
दुष्मन्तस्य वरूथोऽभूद्‌गाण्डीरस्तु वरूथतः ॥२॥

गाण्डीराच्चैव गान्धारः पञ्च जानपदास्ततः ।
गान्धाराः केरलाश्चोलाः पाण्ड्याः कोला महाबलाः ॥३॥

द्रुह्यस्तु वभ्रुसेतुश्च वभ्रुसेतोः पुरोवसुः ।
ततो गान्धारा गान्धारैर्घर्म्मो घर्म्माद् घृतोऽभवत् ॥४॥

घृतात्तु विदुषस्तस्मात् प्रचेतास्तस्य वै शतम् ।
आनद्रश्च सभानरश्चाक्षुपः परमेषुकः ॥५॥

सभानरात् कालानलः कालानलजसृञ्जयः ।
पुरञ्जयः सृञ्जयस्य तत्पुत्रो जनमेजयः ॥६॥

तत्पुत्रस्तु महाशालस्तुत्पुत्रोऽभून्महामनाः ।
तस्मादुशीनरो ब्रह्मन्नृगायान्तु तृगस्ततः ॥७॥

नरायान्तु नरश्चासीत् कृमिस्तु कृमितः सुतः ।
दशायां सुब्रतो जज्ञे दृशद्वत्यां शिविस्तथा ॥८॥

शिवेः पुत्त्रास्तु चत्वारः पृथुदर्भश्च वीरकः ।
कैकेयो भद्रकस्तेषां नाम्ना जनपदाः शुभाः ॥९॥

तितिक्षुरुशीनरजस्तितिक्षोस्च रुषद्रयः ।
रुषद्रथादभूत्पैलः पैलाच्च सुतपाः सुतः ॥१०॥

महायोगी बलिस्तस्मादह्गो वङ्गश्च मुख्यकः ।
पुण्डुः कलिङ्गो बालोयो बलिर्योगी बलान्वितः ॥११॥

अङ्गाद्दधिवाहनोऽभूत तस्माद्दिविरथो नृपः ।
दिविरथाद्धर्म्मरथस्तस्य चित्ररथः सुतः ॥१२॥

चित्ररथात्सत्यरथो लोमपादश्च तत्सुतः ।
लोमपादाच्चतुरङ्गः पृथुलाक्षश्च तत्सुतः ॥१३॥

पृथुलाक्षाच्च चम्पोऽभूच्चम्पाद्धर्य्यङ्गकोऽभवत् ।
हर्य्यङ्गाच्च भद्ररथो बृहत्कर्म्मा च तत्सुतः ॥१४॥

तस्मादभूद्‌वॄहद्भानुर्वृहद्भानोर्बृहात्मवान् ।
तस्माज्जयद्रथो ह्यासीज्जयद्रथाद्‌वृहद्रथः ॥१५॥

वृहद्रथाद्विश्वजिच्च कर्णो विश्वजितोऽभवत् ।
कर्णस्य वृषसेनस्तु पृथुसेनस्तदात्मजः ।
एतेऽङ्गवंशजा भूपाः पूरोर्वंशं निबोध मे ॥१६॥

इत्यादिमहापुराणे आग्नेये राजवंशवर्णनं नाम सप्तसप्तत्यधिकद्विशततमोऽध्यायः॥

N/A

References : N/A
Last Updated : September 21, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP