संस्कृत सूची|संस्कृत साहित्य|पुराण|अग्निपुराण|
शालग्रामादिमूर्त्तिलक्षणकथनम्

अध्याय ४६ - शालग्रामादिमूर्त्तिलक्षणकथनम्

अग्निपुराणात त्रिदेव – ब्रह्मा, विष्‍णु, महेश आणि सूर्य ह्या देवतांसंबंधी पूजा-उपासनाचे वर्णन केलेले आहे.


भगवानुवाच
शालग्रामादिमूर्त्तिश्च वक्षयेहं भुक्तिमुक्तिदाः ।
वासुदेवोऽसितो द्वारे शिलालग्नद्विचक्रकः ॥१॥

ज्ञेयः सङ्कर्षणो लग्नद्विचक्रो रक्त उत्तमः ।
सूक्ष्मचक्रो बहुच्छिद्रः प्रद्युम्नो नीलदीर्घकः ॥२॥

पीतोनिरुद्धः पद्माङ्को वर्त्तुलो द्वित्रिरेखवान् ।
कृष्णो नारायणो नाभ्युन्नतः शुषिरदीर्घवान् ॥३॥

परमेष्ठी साब्जचक्रः पृष्ठच्छिद्रश्च विन्दुमान् ।
स्थूलचक्रोऽसितो विष्णुर्मध्ये रेखा गदाकृतिः ॥४॥

नृसिंहः कपिलः स्थूलचक्रः स्यात् पञ्चविन्दुकः ।
वराहः शक्तिलिङ्गः स्यात् तच्चक्रौ विषमौ मृतौ ॥५॥

इन्द्रनीलनिभः स्थूलस्त्रिरेखालाञ्छितः शुभः ।
कूर्मस्तथोन्नतः पृष्ठे वर्त्तलावर्त्तकोऽसितः ॥६॥

हयग्रीवोङ्कुशाकाररेखो नीलः सविन्दुकः ।
वैकुण्ठः एकचक्रोऽब्जी मणिभः पुच्छरेखकः ॥७॥

मत्स्यो दीर्घस्त्रिविन्दुः स्यात् काचवर्णस्तु पूरितः ।
श्यामस्त्रिविक्रमो दक्षरेखस्तु वर्त्तुलः ॥८॥

वामनो वर्त्तुलश्चातिह्रस्वो नीलः सविन्दुकः ।
श्यामस्त्रिविक्रमो दक्षरेखो वामेन विन्दुकः ॥९॥

अनन्तो नागभोगाङ्गो नैकाभो नैकमूर्त्तिमान् ।
स्थूलो दामोदरो मध्यचक्रो द्वाः सूक्ष्मविन्दुकः ॥१०॥

सुदर्शनस्त्वेकचक्रो लक्ष्मीनारायणो द्वयात् ।
चित्रक्रश्चाच्युतो देवस्त्रिचक्रो वा त्रिविक्रमः ॥११॥

जनार्द्दनश्चतुस्चक्रो वासुदेवस्च पञ्चभिः ।
षट्रचक्रस्चौव प्रद्युम्नः सङ्कर्षणश्च सप्तभिः ॥१२॥

पुरुषोत्तमोष्टचक्रो नवव्यूहो नवाङ्कितः ।
दशावतारो दशभिर्द्दशैकेनानिरुद्धकः ॥१३॥

द्वाधशात्मा द्वादशभिरत ऊद्‌र्ध्वमनन्तकः ॥१४॥

इत्यादिमहापुराणे आग्नेये शालग्रामादिमूर्त्तिलक्षणं नाम षट्‌चत्वारिंशोऽध्यायः॥

N/A

References : N/A
Last Updated : September 15, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP