संस्कृत सूची|संस्कृत साहित्य|पुराण|अग्निपुराण| दण्डप्रणयनं अग्निपुराण महत्व ग्रन्थप्रस्तावना मत्स्यावतारवर्णनम् कूर्मावतारवर्णनम् वराहाद्यवतारवर्णनम् श्रीरामावतारवर्णनम् अयोध्याकाण्डवर्णनं आरण्यककाण्डवर्णनं किष्किन्धाकाण्डर्णनं सुन्दरकाण्डवर्णनं युद्धकाण्डवर्णनं उत्तरकाण्डवर्णनं श्रीहरिवंशवर्णनम् कुरुपाण्डवोत्पच्यादिकथनम् कुरुपाण्डवसङ्ग्रामवर्णनम् पाण्डवचरितवर्णनम् बुद्धाद्यतारकथनम् सृष्टिविषयकवर्णनम् स्वायम्भुववंशवर्णनम् कश्यपवंशवर्णनम् सर्गविषयकवर्णनम् सामान्यपूजाकथनम् स्नानविधिकथनम् पूजाविधिकथनम् वासुदेवादिमन्त्रनिरूपणम् मुद्रालक्षणकथनम् अभिषेकविधानम् सर्वतोभद्रमण्डलकथनम् मण्डलविधिः मार्जनविधानम् संस्कारकथनं पवित्रारोहणविधानम् होमादिविधिः पवित्राधिवासनादिविधिः पवित्राशेपणविधानम् सर्वदेवपवित्राशेहणविधिः देवालयनिर्म्माणफलम् भृपरिग्रहविधानम् अर्घ्यदानविधानम् शिलादिन्यासविधानम् प्रासादलक्षणकथनम् प्रासाददेवतास्थापनम् भूतशान्त्यादिकथनम् वासुदेवादिप्रातिमालक्षणविधिः पिण्डिकालक्षणकथनम् शालग्रामादिमूर्त्तिलक्षणकथनम् शालग्रामादिपूजनकथनम् चतुर्विंशतिमूर्त्तिंस्तोत्रकथनम् मत्स्यादिसक्षणवर्णनम् देवीप्रतिमालक्षणकथनम् सूर्यादिप्रतिमालक्षणम् देवीप्रतिमालक्षणम् लिङ्गलक्षणम् लिङ्गमानादिकथनम् पिण्डिकालक्षणकथनम् दिक्पालयागकथनम् कुम्भाधिवासविधिः स्नानादिविधिः अधिवासकथनम् वासुदेवप्रतिष्ठादिविधिः ध्वजारोहणं लक्ष्मीप्रतिष्ठाविधिः सुदर्शनचक्रादिप्रतिष्ठाकथनं कूपादिप्रतिष्ठाकथनं सभास्थापनकथनं साधारणप्रतिष्ठाविधानं जीर्णोद्धारविधानं यात्रोत्सवविधिकथनं स्नानविधानं अध्याय ७० -पादपारामप्रतिष्ठाकथनं अग्नि पुराण अग्नि पुराण सुदर्शनचक्रादिप्रतिष्ठाकथनम् अग्निस्थापनादिप्रतिष्ठाकथनम् अग्निस्थापनादिप्रतिष्ठाकथनम् कपिलादिपूजाविधानम् पवित्रारोहणकथनम् पवित्रारोहणविधि दमनकारोहणावेधिः समयदीक्षाविधानम् संस्कारदीक्षाकथनम् निर्वाणादीक्षाकथनम् निर्वाणदीक्षाविधानम् प्रतिष्ठाकलाशोधनोक्तिः विद्याविशोधनविधानम् शान्तिशोधनकथनम् निर्वाणदीक्षाकथनम् एकतत्त्वदीक्षाकथनम् अभिषेकादिकथनम् विविधमन्त्रादिकथनम् प्रतिष्ठाविधिकथनम् वास्तुपूजादिविधानम् शिलाविन्यासविधानम् प्रतिष्ठासामग्रीविधानम् अधिवासनविधिः शिवप्रतिष्ठाकथनम् गौरीप्रतिष्ठाकथनम् अध्याय ९९- सूर्यप्रतिष्ठाकथनं द्वारप्रतिष्ठा प्रासादप्रतिष्ठा ध्वजारोपणं जीर्णोद्धारः सामान्यप्रासादलक्षणं गृहादिवास्तुर्नामः नगरादिवास्तुः स्वायम्भुवसर्गः भुवनकोषः तीर्थमाहात्म्यम् गङ्गामाहात्म्यं प्रयागमाहात्म्यं वाराणसीमाहात्म्यम् नर्मदादिमाहात्म्यम् गयामाहात्म्यम् गयायात्राविधिः गयायात्राविधिः श्राद्धकल्पः भारतवर्षं महाद्वीपादि भुवनकोषः ज्योतिःशास्त्रं कालगणनं युद्धजयार्णवीयनानायोगाः युद्धजयार्णवीयज्योतिःशास्त्रसारः युद्धजयार्णवीयनानाचक्राणि नक्षत्रनिर्णयः नानाबलानि कोटचक्रम् अर्घकाण्डम् घातचक्रं घातचक्रादि सेवाचक्रम् नानाबलानि त्रैलोक्यविजयविद्या सङ्ग्रामविजयविद्या नक्षत्रचक्रं महामारीविद्या षट्कर्माणि षष्टिसंवत्सराः वश्यादियोगाः षट्त्रिंशत्पदकज्ञानम् मन्त्रौषधादिः कुब्जिकापूजा कुब्जिकापूजा मालिनीनानामन्त्राः अष्टाष्टकदेव्यः त्वरितापूजादिः सङ्ग्रामविजयपूजा लक्षकोटिहोमः मन्वन्तराणि वर्णेतरधर्माः गृहस्थवृत्तिः ब्रह्मचर्याश्रमधर्मः विवाहः आचारः द्रव्यशुद्धिः शावाशौचादिः स्रावाद्याशौचं असंस्कृतादिशौचं वानप्रस्थाश्रमः यतिधर्मः धर्मशास्त्रकथनं श्राद्धकल्पकथनं नवग्रहहोमः नानाधर्माः वर्णधर्मादिकथनं अयुतलक्षकोटिहोमाः महापातकादिकथनम् प्रायश्चित्तानि प्रायश्चित्तानि प्रायश्चित्तानि सर्वपापप्रायश्चित्तानि प्रायश्चित्तं प्रायश्चित्तानि व्रतपरिभाषा प्रतिपद्व्रतानि द्वितीयाव्रतानि तृतीयाव्रतानि चतुर्थीव्रतानि पञ्चमीव्रतानि सप्तमीव्रतानि षष्ठीव्रतानि सप्तमीव्रतानि जयन्त्यष्टमीव्रताणी अष्टमीव्रतानि नवमीव्रतानि दशमीव्रतानि एकादशीव्रताणी नानाद्वादशीव्रतानि श्रवणद्वादशीव्रतम् अखण्डद्वादशीव्रतं त्रयोदशी व्रतानि चतुर्दशीव्रतानि शिवरात्रिव्रतम् अशोकपूर्णिमादिव्रतं वारव्रतानि नक्षत्रव्रतानि दिवसव्रतानि मासव्रतानि नानाव्रतानि दीपदानव्रतं नवव्यूहार्चनं पुष्पाध्यायकथनं नरकस्वरूपम् मासोपवासव्रतं भीष्मपञ्चकव्रतं अगस्त्यार्घ्यदानकथनं कौमुदव्रतं व्रतदानादिसमुच्चयः दानपरिभाषाकथनं महादानानि नानादानानि मेरुदानानि पृथ्वीदानानि मन्त्रमाहात्म्यं सन्ध्याविधिः गायत्रीनिर्वाणं गायत्रीनिर्वाणं राज्यभिषेकः अभिषेकमन्त्राः सहायसम्पत्तिः अनुजीविवृत्तं दुर्गसम्पत्तिः राजधर्माः स्त्रीरक्षादिकामशास्त्रं राकजधर्मो सामाद्युपायो दण्डप्रणयनं युद्धयात्रा स्वप्नाध्यायः शकुनानि शकुनानि शकुनानि यात्रामण्डलचिन्तादिः षाड्गुण्यम् प्रात्यहिकराजकर्म रणदीक्षा श्रीस्तोत्रम् रामोक्तनीतिः राजधर्माः षाड्गुण्यम् सामादिः राजनीतिः पुरुषलक्षणम् स्त्रीलक्षणम् चामरादिलक्षणम् रत्नपरीक्षा वास्तुलक्षणम् पुष्पादिपूजाफलम् धनुर्वेदः धनुर्वेदकथनम् धनुर्वेदकथनम् धनुर्वेदकथनम् व्यवहारकथनम् व्यवहारकथनम् दिव्यानि प्रमाणानि दायविभागकथनम् सीमाविवादादिनिर्णयः वाक्पारुष्यादिप्रकरणम् ऋग्विधानम् यजुर्विधानम् सामविधानम् अथर्ववविधानम् उत्पातशान्तिः देवपूजावैश्वदेवबलिः दिक्पालादिस्नानम् विनायकस्नानम् माहेश्वरस्नानलक्षकोटिहोमादयः नीराजनाविधिः छत्रादिमन्त्रादयः विष्णुपञ्जरम् वेदशाखादिकीर्तनम् दानादिमाहात्म्यम् सूर्य्यवंशकीर्त्तनम् सोमवंशवर्णनम् यदुवंशवर्णनम् द्वादशसङ्ग्रामाः राजवंशवर्णनम् पुरुवंशवर्णनम् सिद्धौषधानि सर्वरोगहराण्यौषधानि रसादिलक्षणम् वृक्षायुर्वेदः नानारोगहराण्यौषधानि मन्त्ररूपौषधकथनम् मृतसञ्जीवनीकरसिद्धयोगः कल्पसागरः गजचिकित्सा अछश्ववाहनसारः अश्वचिकित्सा अश्वशान्तिः गजशान्तिः शान्त्यायुर्वेदः मन्त्रपरिभाषा नागलक्षणानि दष्टचिकित्सा पञ्चाह्गरुद्रविधानम् विषहृन्मन्त्रौषधम् गोनसादिचिकित्सा बालग्रहहरबालतन्त्रम् ग्रहहृन्मन्त्रादिकम् सूर्य्यार्च्चनम् नानामन्त्राः अङ्गाक्षरार्च्चनम् पञ्चाक्षरादिपूजामन्त्राः पञ्चपञ्चाशद्विष्णुनामानि नारसिंहादिमन्त्राः त्रैलोक्य मोहननम्त्राः त्रैलोक्यमोहनीलक्ष्म्यादिपूजा त्वरितापूजा त्वरितामन्त्रादिः त्वरितामूलमन्त्रादिः त्वरिताविद्या नानामन्त्राः त्वरिताज्ञानम् ग्रन्थप्रस्तावना नानामन्त्राः सकलादिमन्त्रोद्धारः गणपूजा वागीश्वरीपूजा मण्डलानि अघोरास्त्रादिशान्तिकल्पः पाशुपतशान्तिः षडङ्गान्यघोरास्त्राणि रुद्रशान्तिः अंशकादिः गौर्य्यादिपूजा देवालयमाहात्म्यम् छन्दःसारः छन्दःसारः छन्दःसारः छन्दोजातिनिरूपणम् विषमकथनम् अर्द्धसमनिरूपणम् समवृत्तनिरूपणम् ग्रन्थप्रस्तावना शिक्षानिरूपणम् काव्यादिलक्षणं नाटकनिरूपणम् शृङ्गारादिरसनिरूपणम् रीतिनिरूपणम् नृत्यादावङ्गकर्म्मनिरूपणम् अभिनयादिनिरूपणम् शब्दालङ्काराः अर्थालङ्गाराः शब्दार्थालङ्काराः काव्यगुणविवेकः काव्यदोषविवेकः एकाक्षराभिधानम् व्याकरणम् सन्धिसिद्धरूपम् सुब्विभक्तिसिद्धरूपम् स्त्रीलिङ्गशब्दसिद्धरूपम् नपुंसकशब्दसिद्धरूपम् कारकम् समासः तद्धितम् उणादिसिद्धरूपम् तिङ्विभक्तिसिद्धरूपम् कृत्सिद्धरूपम् स्वर्गपातालादिवर्गाः अव्ययवर्गानाम नानार्थवर्गा भूमिवनौषध्यादिवर्गाः नृब्रह्मक्षत्रविट्शूद्रवर्गाः ब्रह्मवर्गः क्षत्रविट्शूद्रबर्गाः सामान्यनामलिङ्गानि नित्यनैमित्तिकप्राकृतप्रलयाः नित्यनैमित्तिकप्राकृतप्रलयाः आत्यन्तिकलयगर्भोत्पत्तिनिरूपणम् नरकनिरूपणम् यमनियमाः आसनप्राणायामप्रत्याहाराः ध्यानम् धारणा समाधिः ब्रह्मज्ञानम् ब्रह्मज्ञानम् ब्रह्मज्ञानम् अद्वैतब्रह्मविज्ञानम् गीतासारः यमगीता आग्न्येयपुराणमाहात्म्यम् अध्याय २२७ - दण्डप्रणयनं अग्निपुराणात त्रिदेव – ब्रह्मा, विष्णु, महेश आणि सूर्य ह्या देवतांसंबंधी पूजा-उपासनाचे वर्णन केलेले आहे. Tags : agnipuranpuransanskritअग्निपुराणपुराणसंस्कृत दण्डप्रणयनं Translation - भाषांतर पुष्कर उवाचदण्डप्रणयनं वक्ष्ये येन राज्ञः परा गतिः ।त्रियवं कृष्णलं विद्धि माषस्तत्पञ्चकं भवेत् ॥१॥कृष्णलानां तथा षष्ट्या१ कर्षार्द्धं राम कीर्त्तितं ।सुवर्णश्च विनिर्द्दिष्टो राम षोडशमाषकः ॥२॥निष्कः सुवर्णाश्चत्वारो धरणं दशभिस्तु तैः ।ताम्ररूप्यसुवर्णानां मानमेतत् प्रकीर्त्तिंतं ॥३॥ताम्रिकैः काषिको राम प्रोक्तः कार्षापणो बुधैः ।पणानां द्वे शते सार्द्धं प्रथमः साहसः स्मृतः२ ॥४॥मध्यमः पञ्च विज्ञेयः सहस्रमपि चोत्तम ।चौरैरमूषितो यस्तु मूषितोऽस्मीति भाषते ॥५॥तत्प्रदातरि भूपाले स दण्ड्यस्तावदेव तु ।यो यावद्विपरीतार्थं मिथ्या वा यो वदेत्तु तं ॥६॥तौ नृपेण ह्यधर्मज्ञौ दाप्यौ तद्द्विगुणं दमं३ ।कूटसाक्ष्यन्तु कुर्वाणांस्त्रीन् वर्णांश्च प्रदापयेत् ॥७॥विवासयेद् ब्राह्मणन्तु भोज्यो विधिर्न्न हीरितः ।निक्षेपस्य समं मूल्यं दण्ड्यो निक्षेपभुक् तथा ॥८॥वस्त्रादिकस्य धर्म्मज्ञ तथा धर्मो न हीयते ।यो निक्षेपं घातयति यश्चानिक्षिप्य याचते ॥९॥तावुभौ चौरवच्छास्यौ दण्ड्यौ वा द्विगुणं दमं ।अज्ञानाद्यः पुमान् कुर्य्यात् परद्रव्यस्य विक्रयं ॥१०॥निर्द्दोषो ज्ञानपूर्वन्तु चौरवद्दण्डमर्हति४ ।मूल्यमादाय यः शिल्पं न दद्याद् दण्ड्य एव सः ॥११प्रतिश्रुत्याप्रदातारं सुवर्णं दण्डयेन्नृपः ।भृति गृह्य न कुर्य्याद्यः कर्माष्टौ कृष्णला दमः ॥१२॥अकाले तु त्यजन् भृत्यं दण्ड्यः स्यात्तावदेव तु ।क्रीत्वा विक्रीय वा किञ्चिद्यस्येहानुशयो भवेत् ॥१३॥सोऽन्तर्दशाहात्तत्स्वामी दद्याच्चैवाददीत च ।परेण तु दशाहस्य नादद्यान्नैव दापयेत् ॥१४॥आददद्धि ददच्चैव राज्ञा दण्ड्याः शततनि षट् ।वरे दोषानविख्याप्य यः कन्यां वरयेदिह५ ॥१५॥दत्ताप्यदत्ता सा सस्य राज्ञा दण्ड्यः शतद्वयं ।प्रदाय कन्यां योऽन्यस्मै पुनस्तां सम्प्रयच्छति ॥१६॥दण्डः कार्य्यो नरेन्द्रेण तस्याप्युत्तमसाहसः ।सत्यङ्कारेण वाचा च युक्तं पुण्यमसंशयं ॥१७॥लुब्धोऽन्यत्र च विक्रेता षट्शतं दण्डमर्हति ।दद्यार्द्धनुं न यः पालो गृहीत्वा भक्तवेतनं ॥१८॥स तु दण्ड्यः शतं राज्ञा सुवर्णं वाप्यरक्षिता ।धनुःशतं परीणा्हो ग्रामस्य तु समन्ततः ॥१९॥द्विगुणं त्रिगुणं वापि नगरस्य च कल्पयेत् ।वृति तत्र प्रकुर्वीत यामुष्ट्रो नावलोकयेत् ॥२०॥तत्रापरिवृते धान्ये हिंसिते नैव दण्डनं ।गृहन्तडागमारामं क्षेत्रं वा भीषया हरन् ॥२१॥शतानि पञ्च दण्ड्यः स्यादज्ञानाद्द्विशतोदमः ।मर्यादाभेदकाः सर्वे दण्ड्याः प्रथमसाहसं ॥२२॥शतं ब्राह्मणमाक्रुश्य क्षत्रियो दण्डमर्हति ।वैश्यश्च द्विशतं राम शूद्रश्च बधमर्हति ॥२३॥पञ्चाशद्ब्राह्मणो दण्ड्यः क्षत्रियस्याभिशंसने ।वैश्ये वाप्यर्द्धपञ्चाशच्छूद्रे द्वादशको दमः ॥२४॥क्षत्रियस्याप्नुयाद्वैश्यः साहसं पूर्वमेव तु ।शूद्रः क्षत्रियमाक्रुश्य जिह्वाच्छेदनमाप्नुयात् ॥२५॥धर्मोपदेशं विप्राणां शूद्रः कुर्वंश्च दण्डभाक् ।श्रुतदेशादिवितथी दाप्यो द्विगुणसाहसं ॥२६॥उत्तमः साहसस्तस्य यः पापैरुत्तमान् क्षिपेत् ।प्रमादाद्यैर्मया प्रोक्तं प्रीत्या दण्डार्द्धमर्हति ॥२७॥मातरं पितरं ज्येष्ठं भ्रातरं श्वशुरं गुरुं ।आक्षारयञ्छतं दण्ड्यः पन्थानं चाददद्गुरोः ॥२८॥अन्त्यजातिर्द्विजातिन्तु येनाङ्गेनापराध्नुयात् ।तदेवच्छेदयेत्तस्य क्षिप्रमेवाविचारयन् ॥२९॥अवनिष्ठीवतो दर्पाद् द्वावोष्ठौ छेदयेन्नृपः ।अपमूत्रयतो मेढ्रमपशब्दयतो गुदं ॥३०॥उत्कृष्टासनसंस्थस्य नीचस्याधोनिकृन्तनं ।यो यदङ्गं च रुजयेत्तदङ्गन्तस्य कर्त्तयेत् ॥३१॥अर्द्धपादकराः कार्या गोगजाश्वोष्ट्रघातकाः ।वृक्षन्तु विफलं कृत्त्वा सुवर्ण दण्डमर्हति ॥३२॥द्विगुणं दाप्येच्छिन्ने पथि सीम्नि जलाशये ।द्रव्याणि यो हरेद्यस्य ज्ञानतोऽज्ञानतोऽपि वा ॥३३॥स सस्योत्पाद्य तुष्टिन्तु राज्ञे दद्यात्ततो दमं ।यस्तु रज्जुं घटं कूपाद्धरेच्छिन्द्याच्च तां प्रपां ॥३४॥स दण्डं प्राप्नुयान्मासं दण्ड्यः स्यात् प्राणिताड़ने ।धान्यं दशभ्यः कुम्भेभ्यो हरतोऽभ्यधिकं बधः ॥३५॥शेषेऽप्येकादशगुणं तस्य दण्डं प्रकल्पयेत् ।सुवर्णरजतीदीनां नृस्त्रीणां हरणे बधः ॥३६॥येन येन यथाह्गेन स्तेनो नृषु विचेष्टते ।तत्तदेव हरेदस्य प्रत्यादेशाय पार्थिवः ॥३७॥ब्राह्मणः शाकधान्यादि अल्पं गृह्णन्न दोषबाक् ।गोदेवार्थं हरंश्चापि हन्याद्दुष्टं बधोद्यतं ॥३८॥गृहक्षेत्रापहर्त्तारं तथा पत्न्यभिगामिनं ।अग्निनदं गरदं हन्यात्तथा चाभ्युद्यतायुधं ॥३९॥राजा गवाभिवाराद्यं हन्याच्चैवाततायिनः ।परस्त्रियं न भाषेत प्रतिषिद्धो विशेन्न हि ॥४०अदण्ड्या स्त्री भवेद्राज्ञा वरयन्ती पतिं स्वयं।उत्तमां सेवमानः स्त्रीं जघन्यो बधमर्हति ॥४१॥भर्त्तारं लङ्घयेद्या तां श्वभिः सङ्घातयेत् स्थिरं ।सवर्णदूषितां कुर्य्यात् पिण्डमात्रोपजीविनीं ॥४२॥ज्यायसा दूषिता नारी मुण्डनं समवाप्नुयात् ।वैश्यागमे तु विप्रस्य क्षत्रियस्यान्त्यजागमे ॥४३॥क्षत्रियः प्रथमं वैश्यो दण्ड्यः शद्रागमे भवेत् ।गुहीत्वा वेतनं वेश्या लोभादन्यत्र गच्छति ॥४४॥वेतनन्द्विगुणं दद्याद्दण्डञ्च द्विगुणं तथा।भार्या पुत्राश्च दासाश्च शिष्यो भ्राता च सोदरः ॥४५॥कृतापराधास्ताड्याः स्यू रज्वा वेणुदलेन वा ।पृष्टेन मस्तके हन्याच्चौरस्याप्नोति किल्विषं ॥४६॥रक्षास्वधिकृतैर्यस्तु प्रजाऽत्यर्थं विलुप्यते ।तेषां सर्वस्वमादाय राजा कुर्य्यान् प्रवासनं ॥४७॥ये नियुक्ताः स्वकार्येषुहन्युः कार्याणि कर्मिणां ।निर्घृणाः क्रूरमनसस्तान्निः स्वान् कारयेन्नृप ॥४८॥अमात्यः प्राड्विवाको वा यः कुर्य्यात् कार्य्यमन्यथा ।तस्य सर्वस्वमादाय तं राजा विप्रवासयेत् ॥४९॥गुरुतल्पे भयः कार्य्यः सुरापाणे सुराध्वजः ।स्तेयेषु श्वपदं विद्याद् ब्रह्महत्याशिरः पुमान् ॥५०॥शूद्रादीन् घातयेद्राजा पापान् विप्रान् प्रवासयेत् ।महापातकिनां वित्तं वरुणायोपपादयेत् ॥५१॥ग्रामेष्वपि च ये केचिच्चौराणां भक्तदायकाः ।भाण्डार कोषदाश्चैव सर्वांस्तानपि घातयेत् ॥५२॥राष्ट्रेषु राष्ट्राधिकृतान् सामन्तान् पापिनोहरेत् ।सन्धि कृत्वा तु ये चौर्यं रात्रौ कुर्वन्ति कस्तराः ॥५३॥तेषां च्छित्वा नृपो हस्तौ तीक्ष्णे शूले निवेशयेत् ।तड़ागदेवतागारभेदकान् घातयेन्नृपः ॥५४॥समुत्सृजेद्राजमार्गे यस्त्वमेध्यमनापदि ।स हि कार्षापणन्दण्ड्यस्तममेध्यञ्च शोधयेत् ॥५५॥प्रतिमासङ्क्रमभिदो दद्युः पञ्चशतानि ते ।समैश्च विषमं यो वा चरतेक मूल्यतोऽपि वा ॥५६॥समाप्नुयान्नरः पूर्वं दमं मध्यममेव वा ।द्रव्यमादाय वणिजामनर्घेणावरुन्दतां ॥५७॥राजा पृथक् पृथक् कुर्य्याद्दण्डमुत्तमसाहसं ।द्रव्याणां दूषको यश्च प्रतिच्छन्दकविक्रयी ॥५८॥मध्यमं प्राप्नुयाद्दण्डं कूटकर्त्ता तथोत्तमं ।कलहापकृतं देयं दण्डश्च द्विगुणस्ततः ॥५९॥अभक्ष्यभक्ष्ये विप्रे वा शूद्रे वा कृष्णलो दमः ।लुलाशासनकर्त्ता च कूटकृन्नाशकस्य च ॥६०॥एभिश्च व्यवहर्त्तां यः स दाप्यो दममुत्तमं ।विषाग्निदां पतिगुरुविप्रापत्यप्रमापिणीं ॥६१॥विकर्णकरनासौष्ठीं कृत्वा गोभिः प्रवासयेत् ।क्षेत्रवेश्मग्रामवनविदारकास्तथा नराः ॥६२॥राजपत्न्यभिगामी च दग्धव्यास्तु कटाग्निना ।ऊनं वाप्यधिकं वापि लिखेद्यो राजशासनं ॥६३॥पारजायिकचौरौ च मुञ्चतो मण्ड उत्तमः ।राजयानासनारोढ्र्दण्ड उत्तमसाहसः ॥६४॥यो मन्येताजितोऽस्मीति न्यायेनापि पराजितः ।तमायान्तं पराजित्य६ दण्डयेद् द्विगुणं दमं ॥६५॥आह्वानकारी बध्यः स्यादनाहूतमथाह्वयन् ।दाण्डिकस्य च यो हस्तादभिमुक्तः पलायते ॥६६॥हीनः पुरुषकारेण तद् दद्याद्दाण्डिको धनं ।इत्यादिमहापुराणे आग्नेये दण्डप्रणयनं नाम सप्तविंशत्यधिकद्विशततमोऽध्यायः । N/A References : N/A Last Updated : September 20, 2020 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP