संस्कृत सूची|संस्कृत साहित्य|पुराण|अग्निपुराण|
कोटचक्रम्

अध्याय १२८ - कोटचक्रम्

भगवान् अग्निदेवांनी या अग्नि पुराणात चौसष्ट योगनींचे का सविस्तार वर्णन केले आहे.


ईश्वर उवाच
कोटचक्रं प्रवक्ष्यामि चतुरस्रं पुरं लिखेत् ॥१॥
चतुरस्रं पुनर्मध्ये तन्मध्ये चतुरस्रकम् ॥१॥
नाडीत्रितयचिह्नाढ्यं मेषाद्याः पूर्वदिङ्मुखाः ॥२॥
कृत्तिका पूर्वभागे तु अश्लेषाग्नेयगोचरे ॥२॥
भरणी दक्षिणे देया विशाखां नैर्ऋते न्यसेत् ॥३
अनुराधां पश्चिमे च श्रवणं वायुगोचरे ॥३॥
धन्बिष्ठाञ्चोत्तरे न्यस्य ऐशान्यां रेवतीं तथा ॥४॥
वाह्यनाड्यां स्थितान्येव अष्टौ ह्यृक्षाणि यत्नतः ॥४॥
रोहिणीपुष्यफल्गुण्यः स्वाती ज्येष्ठा क्रमेण तु ॥५
अभिजिच्छततारा तु अश्विनी मध्यनाडिका ॥५॥
कोटमध्ये तु या नाडी कथयामि प्रयत्नतः ॥६॥
मृगश्चाभ्यन्तरे पूर्वं तस्याग्नेये पुनर्वसुः ॥६॥
उत्तराफल्गुनी याम्ये चित्रा नैर्ऋतसंस्थिता ॥७॥
मूलन्तु पश्चिमे न्यस्योत्तराषाढान्तु वायवे ॥७॥
पूर्वभाद्रपदा सौम्ये रेवती ईशगोचरे ॥८॥
कोटस्याभ्यन्तरे नाडी ह्यृक्षाष्टकसमन्विता ॥८॥
आर्द्रा हस्ता तथाषाढा चतुष्कञ्चोत्तरात्रिकम् ॥९॥
मध्ये स्तम्भचतुष्कन्तु दद्यात्कोटस्य कोटरे ॥९॥
एवं दुर्गस्य विन्यासं वाह्ये स्थानं दिशाधिपात् ॥१०॥
आगन्तुको यदा योद्धा ऋक्षवान् स्यात्फलान्वितः ॥१०॥
कोटमध्ये ग्रहाः सौम्या यदा ऋक्षान्विताः पुनः ॥११॥
जयं मध्यस्थितानान्तु भङ्गमागामिनो विदुः ॥११॥
प्रवेशभे प्रवेष्टव्यं निर्गमभे च निर्गमेत् ॥१२॥
भृगुः सौम्यस्तथा भौम ऋक्षान्तं सकलं यदा ॥१२॥
तदा भङ्गं विजानीयाज्जयमागन्तुकस्य च ॥१३॥
प्रवेशर्क्षचतुष्के तु सङ्ग्रामञ्चारभेद्यदा ॥१३॥
तदा सिद्ध्यति तद्दुर्गं न कुर्यात्तत्र विस्मयम् ॥१४॥१२८.०१४॥

इत्याग्नेये महापुराणे युद्धजयार्णवे कोटचक्रं नामाष्टाविंशत्यधिकशततमोऽध्यायः ॥

N/A

References : N/A
Last Updated : September 17, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP