संस्कृत सूची|संस्कृत साहित्य|पुराण|अग्निपुराण| नानादानानि अग्निपुराण महत्व ग्रन्थप्रस्तावना मत्स्यावतारवर्णनम् कूर्मावतारवर्णनम् वराहाद्यवतारवर्णनम् श्रीरामावतारवर्णनम् अयोध्याकाण्डवर्णनं आरण्यककाण्डवर्णनं किष्किन्धाकाण्डर्णनं सुन्दरकाण्डवर्णनं युद्धकाण्डवर्णनं उत्तरकाण्डवर्णनं श्रीहरिवंशवर्णनम् कुरुपाण्डवोत्पच्यादिकथनम् कुरुपाण्डवसङ्ग्रामवर्णनम् पाण्डवचरितवर्णनम् बुद्धाद्यतारकथनम् सृष्टिविषयकवर्णनम् स्वायम्भुववंशवर्णनम् कश्यपवंशवर्णनम् सर्गविषयकवर्णनम् सामान्यपूजाकथनम् स्नानविधिकथनम् पूजाविधिकथनम् वासुदेवादिमन्त्रनिरूपणम् मुद्रालक्षणकथनम् अभिषेकविधानम् सर्वतोभद्रमण्डलकथनम् मण्डलविधिः मार्जनविधानम् संस्कारकथनं पवित्रारोहणविधानम् होमादिविधिः पवित्राधिवासनादिविधिः पवित्राशेपणविधानम् सर्वदेवपवित्राशेहणविधिः देवालयनिर्म्माणफलम् भृपरिग्रहविधानम् अर्घ्यदानविधानम् शिलादिन्यासविधानम् प्रासादलक्षणकथनम् प्रासाददेवतास्थापनम् भूतशान्त्यादिकथनम् वासुदेवादिप्रातिमालक्षणविधिः पिण्डिकालक्षणकथनम् शालग्रामादिमूर्त्तिलक्षणकथनम् शालग्रामादिपूजनकथनम् चतुर्विंशतिमूर्त्तिंस्तोत्रकथनम् मत्स्यादिसक्षणवर्णनम् देवीप्रतिमालक्षणकथनम् सूर्यादिप्रतिमालक्षणम् देवीप्रतिमालक्षणम् लिङ्गलक्षणम् लिङ्गमानादिकथनम् पिण्डिकालक्षणकथनम् दिक्पालयागकथनम् कुम्भाधिवासविधिः स्नानादिविधिः अधिवासकथनम् वासुदेवप्रतिष्ठादिविधिः ध्वजारोहणं लक्ष्मीप्रतिष्ठाविधिः सुदर्शनचक्रादिप्रतिष्ठाकथनं कूपादिप्रतिष्ठाकथनं सभास्थापनकथनं साधारणप्रतिष्ठाविधानं जीर्णोद्धारविधानं यात्रोत्सवविधिकथनं स्नानविधानं अध्याय ७० -पादपारामप्रतिष्ठाकथनं अग्नि पुराण अग्नि पुराण सुदर्शनचक्रादिप्रतिष्ठाकथनम् अग्निस्थापनादिप्रतिष्ठाकथनम् अग्निस्थापनादिप्रतिष्ठाकथनम् कपिलादिपूजाविधानम् पवित्रारोहणकथनम् पवित्रारोहणविधि दमनकारोहणावेधिः समयदीक्षाविधानम् संस्कारदीक्षाकथनम् निर्वाणादीक्षाकथनम् निर्वाणदीक्षाविधानम् प्रतिष्ठाकलाशोधनोक्तिः विद्याविशोधनविधानम् शान्तिशोधनकथनम् निर्वाणदीक्षाकथनम् एकतत्त्वदीक्षाकथनम् अभिषेकादिकथनम् विविधमन्त्रादिकथनम् प्रतिष्ठाविधिकथनम् वास्तुपूजादिविधानम् शिलाविन्यासविधानम् प्रतिष्ठासामग्रीविधानम् अधिवासनविधिः शिवप्रतिष्ठाकथनम् गौरीप्रतिष्ठाकथनम् अध्याय ९९- सूर्यप्रतिष्ठाकथनं द्वारप्रतिष्ठा प्रासादप्रतिष्ठा ध्वजारोपणं जीर्णोद्धारः सामान्यप्रासादलक्षणं गृहादिवास्तुर्नामः नगरादिवास्तुः स्वायम्भुवसर्गः भुवनकोषः तीर्थमाहात्म्यम् गङ्गामाहात्म्यं प्रयागमाहात्म्यं वाराणसीमाहात्म्यम् नर्मदादिमाहात्म्यम् गयामाहात्म्यम् गयायात्राविधिः गयायात्राविधिः श्राद्धकल्पः भारतवर्षं महाद्वीपादि भुवनकोषः ज्योतिःशास्त्रं कालगणनं युद्धजयार्णवीयनानायोगाः युद्धजयार्णवीयज्योतिःशास्त्रसारः युद्धजयार्णवीयनानाचक्राणि नक्षत्रनिर्णयः नानाबलानि कोटचक्रम् अर्घकाण्डम् घातचक्रं घातचक्रादि सेवाचक्रम् नानाबलानि त्रैलोक्यविजयविद्या सङ्ग्रामविजयविद्या नक्षत्रचक्रं महामारीविद्या षट्कर्माणि षष्टिसंवत्सराः वश्यादियोगाः षट्त्रिंशत्पदकज्ञानम् मन्त्रौषधादिः कुब्जिकापूजा कुब्जिकापूजा मालिनीनानामन्त्राः अष्टाष्टकदेव्यः त्वरितापूजादिः सङ्ग्रामविजयपूजा लक्षकोटिहोमः मन्वन्तराणि वर्णेतरधर्माः गृहस्थवृत्तिः ब्रह्मचर्याश्रमधर्मः विवाहः आचारः द्रव्यशुद्धिः शावाशौचादिः स्रावाद्याशौचं असंस्कृतादिशौचं वानप्रस्थाश्रमः यतिधर्मः धर्मशास्त्रकथनं श्राद्धकल्पकथनं नवग्रहहोमः नानाधर्माः वर्णधर्मादिकथनं अयुतलक्षकोटिहोमाः महापातकादिकथनम् प्रायश्चित्तानि प्रायश्चित्तानि प्रायश्चित्तानि सर्वपापप्रायश्चित्तानि प्रायश्चित्तं प्रायश्चित्तानि व्रतपरिभाषा प्रतिपद्व्रतानि द्वितीयाव्रतानि तृतीयाव्रतानि चतुर्थीव्रतानि पञ्चमीव्रतानि सप्तमीव्रतानि षष्ठीव्रतानि सप्तमीव्रतानि जयन्त्यष्टमीव्रताणी अष्टमीव्रतानि नवमीव्रतानि दशमीव्रतानि एकादशीव्रताणी नानाद्वादशीव्रतानि श्रवणद्वादशीव्रतम् अखण्डद्वादशीव्रतं त्रयोदशी व्रतानि चतुर्दशीव्रतानि शिवरात्रिव्रतम् अशोकपूर्णिमादिव्रतं वारव्रतानि नक्षत्रव्रतानि दिवसव्रतानि मासव्रतानि नानाव्रतानि दीपदानव्रतं नवव्यूहार्चनं पुष्पाध्यायकथनं नरकस्वरूपम् मासोपवासव्रतं भीष्मपञ्चकव्रतं अगस्त्यार्घ्यदानकथनं कौमुदव्रतं व्रतदानादिसमुच्चयः दानपरिभाषाकथनं महादानानि नानादानानि मेरुदानानि पृथ्वीदानानि मन्त्रमाहात्म्यं सन्ध्याविधिः गायत्रीनिर्वाणं गायत्रीनिर्वाणं राज्यभिषेकः अभिषेकमन्त्राः सहायसम्पत्तिः अनुजीविवृत्तं दुर्गसम्पत्तिः राजधर्माः स्त्रीरक्षादिकामशास्त्रं राकजधर्मो सामाद्युपायो दण्डप्रणयनं युद्धयात्रा स्वप्नाध्यायः शकुनानि शकुनानि शकुनानि यात्रामण्डलचिन्तादिः षाड्गुण्यम् प्रात्यहिकराजकर्म रणदीक्षा श्रीस्तोत्रम् रामोक्तनीतिः राजधर्माः षाड्गुण्यम् सामादिः राजनीतिः पुरुषलक्षणम् स्त्रीलक्षणम् चामरादिलक्षणम् रत्नपरीक्षा वास्तुलक्षणम् पुष्पादिपूजाफलम् धनुर्वेदः धनुर्वेदकथनम् धनुर्वेदकथनम् धनुर्वेदकथनम् व्यवहारकथनम् व्यवहारकथनम् दिव्यानि प्रमाणानि दायविभागकथनम् सीमाविवादादिनिर्णयः वाक्पारुष्यादिप्रकरणम् ऋग्विधानम् यजुर्विधानम् सामविधानम् अथर्ववविधानम् उत्पातशान्तिः देवपूजावैश्वदेवबलिः दिक्पालादिस्नानम् विनायकस्नानम् माहेश्वरस्नानलक्षकोटिहोमादयः नीराजनाविधिः छत्रादिमन्त्रादयः विष्णुपञ्जरम् वेदशाखादिकीर्तनम् दानादिमाहात्म्यम् सूर्य्यवंशकीर्त्तनम् सोमवंशवर्णनम् यदुवंशवर्णनम् द्वादशसङ्ग्रामाः राजवंशवर्णनम् पुरुवंशवर्णनम् सिद्धौषधानि सर्वरोगहराण्यौषधानि रसादिलक्षणम् वृक्षायुर्वेदः नानारोगहराण्यौषधानि मन्त्ररूपौषधकथनम् मृतसञ्जीवनीकरसिद्धयोगः कल्पसागरः गजचिकित्सा अछश्ववाहनसारः अश्वचिकित्सा अश्वशान्तिः गजशान्तिः शान्त्यायुर्वेदः मन्त्रपरिभाषा नागलक्षणानि दष्टचिकित्सा पञ्चाह्गरुद्रविधानम् विषहृन्मन्त्रौषधम् गोनसादिचिकित्सा बालग्रहहरबालतन्त्रम् ग्रहहृन्मन्त्रादिकम् सूर्य्यार्च्चनम् नानामन्त्राः अङ्गाक्षरार्च्चनम् पञ्चाक्षरादिपूजामन्त्राः पञ्चपञ्चाशद्विष्णुनामानि नारसिंहादिमन्त्राः त्रैलोक्य मोहननम्त्राः त्रैलोक्यमोहनीलक्ष्म्यादिपूजा त्वरितापूजा त्वरितामन्त्रादिः त्वरितामूलमन्त्रादिः त्वरिताविद्या नानामन्त्राः त्वरिताज्ञानम् ग्रन्थप्रस्तावना नानामन्त्राः सकलादिमन्त्रोद्धारः गणपूजा वागीश्वरीपूजा मण्डलानि अघोरास्त्रादिशान्तिकल्पः पाशुपतशान्तिः षडङ्गान्यघोरास्त्राणि रुद्रशान्तिः अंशकादिः गौर्य्यादिपूजा देवालयमाहात्म्यम् छन्दःसारः छन्दःसारः छन्दःसारः छन्दोजातिनिरूपणम् विषमकथनम् अर्द्धसमनिरूपणम् समवृत्तनिरूपणम् ग्रन्थप्रस्तावना शिक्षानिरूपणम् काव्यादिलक्षणं नाटकनिरूपणम् शृङ्गारादिरसनिरूपणम् रीतिनिरूपणम् नृत्यादावङ्गकर्म्मनिरूपणम् अभिनयादिनिरूपणम् शब्दालङ्काराः अर्थालङ्गाराः शब्दार्थालङ्काराः काव्यगुणविवेकः काव्यदोषविवेकः एकाक्षराभिधानम् व्याकरणम् सन्धिसिद्धरूपम् सुब्विभक्तिसिद्धरूपम् स्त्रीलिङ्गशब्दसिद्धरूपम् नपुंसकशब्दसिद्धरूपम् कारकम् समासः तद्धितम् उणादिसिद्धरूपम् तिङ्विभक्तिसिद्धरूपम् कृत्सिद्धरूपम् स्वर्गपातालादिवर्गाः अव्ययवर्गानाम नानार्थवर्गा भूमिवनौषध्यादिवर्गाः नृब्रह्मक्षत्रविट्शूद्रवर्गाः ब्रह्मवर्गः क्षत्रविट्शूद्रबर्गाः सामान्यनामलिङ्गानि नित्यनैमित्तिकप्राकृतप्रलयाः नित्यनैमित्तिकप्राकृतप्रलयाः आत्यन्तिकलयगर्भोत्पत्तिनिरूपणम् नरकनिरूपणम् यमनियमाः आसनप्राणायामप्रत्याहाराः ध्यानम् धारणा समाधिः ब्रह्मज्ञानम् ब्रह्मज्ञानम् ब्रह्मज्ञानम् अद्वैतब्रह्मविज्ञानम् गीतासारः यमगीता आग्न्येयपुराणमाहात्म्यम् अध्याय २११ - नानादानानि अग्निपुराणात त्रिदेव – ब्रह्मा, विष्णु, महेश आणि सूर्य ह्या देवतांसंबंधी पूजा-उपासनाचे वर्णन केलेले आहे. Tags : agnipuranpuransanskritअग्निपुराणपुराणसंस्कृत नानादानानि Translation - भाषांतर अग्निरुवाचएकाङ्गां दशगुर्दद्याद्दश दद्याच्च गोशती ॥१॥शतं सहस्रगुर्दद्यात्सर्वे तुल्यफला हि ते ॥१॥प्रासादा यत्र सौवर्णा वसोर्धारा च यत्र सा ॥२॥गन्धर्वाप्सरसो यत्र तत्र यान्ति सहस्रदाः ॥२॥गवां शतप्रदानेन मुच्यते नरकार्णवात् ॥३॥दत्त्वा वत्सतरीं चैव स्वर्हलोके महीयते ॥३॥गोदानादायुरारोग्यसौभाग्यस्वर्गमाप्नुयात् ॥४॥इन्द्रादिलोकपालानां या राजमहिषी शुभा ॥४॥महिषीदानमाहात्म्यादस्तु मे सर्वकामदा(१) ॥५॥धर्मराजस्य साहाय्ये(२) यस्याः पुत्रः प्रतिष्ठितः ॥५॥महिषासुरस्य जननी या सास्तु वरदा मम ॥६॥महिषीदानाच्च सौभाग्यं वृषदानाद्दिवं व्रजेत् ॥६॥संयुक्तहलपङ्क्त्याख्यं दानं सर्वफलप्रदं ॥७॥पङ्क्तिर्दशहला प्रोक्ता दारुजा वृषसंयुता ॥७॥सौवर्णपट्टसन्नद्धान्दत्त्वा स्वर्गे महीयते ॥८॥-- -- - -- -- -- - -टिप्पणी१ गवां शतप्रदानेनेत्यादिः, सर्वकामदा इत्यन्तः पाठः झ.पुस्तके नास्ति२ धर्मराजस्य माहात्म्ये इति ज..- - - -- - - - --दशानां कपिलानां तु दत्तानां ज्येष्ठपुष्करे ॥८॥तत्फलञ्चाक्षयं प्रोक्तं(१) वृषभस्य तु मोक्षणे(२) ॥९॥धर्मोऽसित्वञ्चतुष्पादश्चतस्रस्ते प्रिया इमाः ॥९॥नमो ब्रह्मण्यदेवेश पितृभूतर्षिपोषक ॥१०॥त्वयि मुक्तेऽक्षया लोका मम सन्तु निरामयाः ॥१०॥मा मे ऋणोऽस्तु दैवत्यो(३) भौतः पैत्रोऽथ मानुषः ॥११॥धर्मस्त्वं त्वत्प्रपन्नस्य या गतिः सास्तु मे ध्रुवा ॥११॥अङ्गयेच्चक्रशूलाभ्यां मन्त्रेणानेन चोत्सृजेत् ॥१२॥एकादशाहे प्रेतस्य यस्य चोत्सृज्यते वृषः ॥१२॥मुच्यते प्रेतलोकात्तु षण्मासे चाव्दिकादिषु ॥१३॥दशहस्तेन कुण्डेन त्रिंशत्कुण्डान्निवर्तनं ॥१३॥तान्येव दशविस्ताराद्गोचर्मे तत्प्रदोऽघभित्(४) ॥१४॥गोभूहिरण्यसंयुक्तं कृष्णाजिनन्तु योऽर्पयेत्(५) ॥१४॥सर्वदुष्कृतकर्मापि सायुज्यं ब्रह्मणो व्रजेत् ॥१५॥भाजनन्तिलसम्पूर्णं मधुना पूर्णमेव च ॥१५॥दद्यात्कृष्णतिलानाञ्च प्रस्थमेकञ्च मागधं ॥१६॥शय्यां दत्त्वा तु सगुणां(६) भुक्तिमुक्तिमवाप्नुयात् ॥१६॥हैमीं प्रतिकृतिं कृत्वा दत्त्वा स्वर्गस्तथात्मनः ॥१७॥विपुलन्तु गृहं कृत्वा दत्त्वा स्याद्भुक्तिमुक्तिभाक् ॥१७॥- - -- - - -- - - -- - - -टिप्पणी१ तत्फलं चाक्षयं स्याद्वै इति ट..२ वृषभस्य विमोक्षणे इति ख.. । वृषभस्य च मोक्षणादिति ज..३ दैवोऽथेति ख.. , छ.. च४ तत्प्रदोऽघनुदिति श.. । तत्प्रदोऽघजिदिति घ.. , ङ.. च५ यस्तु कृष्णाजिनं ददेदिति ट..६ दत्त्वोत्तमगुणामिति घ..- - -- - -- - - -गृहं मठं सभां स्वर्गी दत्त्वा स्याच्च प्रतिश्रियं ॥१८॥दत्त्वा कृत्वा गोगृहञ्च निष्पापः स्वर्गमाप्नुयात् ॥१८॥यममाहिषदानात्तु निष्पापः स्वर्गमाप्नुयात् ॥१९॥ब्रह्मा हरो हरिर्देवैर्मध्ये च यमदूतकः ॥१९॥पाशी(१) तस्य शिरश्छित्त्वा तं दद्यात्स्वर्गभाग्भवेत् ॥२०॥त्रिमुखाख्यमिदं दानं गृहीत्वा तु द्विजोऽघभाक् ॥२०॥चक्रं रूप्यमयं कृत्वा के धृत्वा तत्प्रदापयेत् ॥२१॥हेमयुक्तं द्विजायैतत्कालचक्रमिदम्महत् ॥२१॥आत्मतुल्यन्तु यो लौहं ददेन्न नरकं व्रजेत् ॥२२॥पञ्चाशत्पलसंयुक्तं लौहदण्डं तु योऽर्पयेत् ॥२२॥वस्त्रेणाच्छाद्य विप्राय यमदण्डो न विद्यते ॥२३॥मूलं फलादि वा द्रव्यं संहतं वाथ चैकशः ॥२३॥मृत्युज्जयं समुद्दिश्य दद्यादायुर्विवर्धये ॥२४॥पुमान् कृष्णतिलैः कार्यो रौप्यदन्तः सुवर्णदृक् ॥२४॥खड्गोद्यतकरो दीर्घो जवाकुसुममण्डलः ॥२५॥रक्ताम्वरधरः स्रग्वी शङ्कमालाविभूषितः ॥२५॥उपानद्युगयुक्ताङ्घ्रिः कृष्णकम्बलपार्श्वकः ॥२६॥गृहीतमांसपिण्डश्च वामे वै कालपूरुषः ॥२६॥सम्पूज्य तञ्च गन्धाद्यैः(२) ब्राह्मणायोपपादयेत् ॥२७॥मरणव्याधिहीनः स्याद्राजराजेश्वरो भवेत् ॥२७॥गोवृषौ तु द्विजे दत्त्वा भुक्तिमुक्तिमवाप्नुयात् ॥२८॥- - -- - --- - -- -टिप्पणी१ पापो इति ख.. , छ.. , ज.. च२ सम्पूज्य वस्त्रगन्धाद्यैरिति ङ..- - -- - -- - -रेवन्ताधिष्ठितञ्चाश्वं हैमं दत्त्वा न मृत्युभाक् ॥२८॥घण्टादिपूर्णमप्येकं दत्त्वा स्याद्भुक्तिमुक्तिभाक् ॥२९॥सर्वान् कामानवाप्नोति यः प्रयच्छति काञ्चनं ॥२९॥सुवर्णे दीयमाने तु रजतं दक्षिणेष्यते ॥३०॥अन्येषामपि दानानां सुवर्णं(१) दक्षिणा स्मृता ॥३०॥सुवर्णं रजतं ताम्रं तण्डुलं धान्यमेव च ॥३१॥नित्यश्राद्धं देवपूजा सर्वमेतददक्षिणं ॥३१॥रजतं दक्षिणा पित्रे धर्मकामार्थसाधनं ॥३२॥सुवर्णं रजतं ताम्रं मणिमुक्तावसूनि च ॥३२॥सर्वमेतन्महाप्राज्ञो ददाति वसुधान्ददत् ॥३३॥पितॄंश्च पितृलोकस्थान् देवस्थाने च देवताः ॥३३॥सन्तर्पयति शान्तात्मा यो ददाति वसुन्धराम् ॥३४खर्वटं खेटकं वापि ग्रामं वा शस्यशालिनं ॥३४॥निवर्तनशतं वापि तदर्धं वा गृहादिकं ॥३५॥अपि गोचर्ममात्राम्बा दत्त्वोर्वीं सर्वभाग्भवेत् ॥३५॥तैलविन्दुर्यथा चाप्सु प्रसर्पेद्भूगतं तथा ॥३६॥सर्वेषामेवदानानमेकजन्मानुगं फलं ॥३६॥हाटकक्षितिगौरीणां सप्तजन्मानुगं फलं ॥३७॥त्रिसप्तकुलमुद्धृत्य कन्यादो ब्रह्मलोकभाक् ॥३७॥गजं सदक्षिणं दत्त्वा निर्मलः स्वर्गभाग्भवेत् ॥३८॥अश्वं दत्त्वायुरारोग्यसौभाग्यस्वर्गमाप्नुयात् ॥३८॥- -- - - - - -- - -टिप्पणी१ हिरण्यमिति ट..- - -- - - -- - - -- -दासीं दत्त्वा द्विजेन्द्राय अप्सरोलोकमाप्नुयात् ॥३९॥दत्त्वा ताम्रमयीं स्थालीं पलानां पञ्चभिः शतैः ॥३९॥अर्धैस्तदर्धैरर्धैर्वा भुक्तिमुक्तिमवाप्नुयात्(१) ॥४०॥शकटं वृषसंयुक्तं दत्त्वा यानेन नाकभाक् ॥४०॥वस्त्रदानाल्लभेदायुरारोग्यं स्वर्गमक्षयं ॥४१॥धान्यगोधूमकलमयवादीन् स्वर्गभाग्ददत् ॥४१॥आसनं तैजसं पात्रं लवणं गन्धचन्दनं ॥४२॥धूपं दीपञ्च ताम्वूलं लोहं रूप्यञ्च रत्नकं(२) ॥४२॥दिव्यानि नानाद्रव्याणि दत्त्वा स्याद्भुक्तिमुक्तिभाक् ॥४३॥तिलांश्च तिलपात्रञ्च दत्त्वा स्वर्गमवाप्नुयात् ॥४३॥अन्नदानात्परं नास्ति न भूतं न भविष्यति ॥४४॥हस्त्यश्वरथदानानि दासीदासगृहाणि च ॥४४॥अन्नदानस्य सर्वाणि कलां नार्हन्ति षोडशीं ॥४५॥कृत्वापि सुमहत्पापं यः पश्चादन्नदो भवेत् ॥४५॥सर्वपापविनिर्मुक्तो लोकानाप्नोति चाक्षयान् ॥४६॥पानीयञ्च प्रपान्दत्त्वा भुक्तिमुक्तिमवाप्नुयात् ॥४६॥अग्निं काष्ठञ्च मार्गादौ दत्त्वा दीप्त्यादिमाप्नुयात्(३) ॥४७॥देवगन्धर्वनारीभिर्विमाने सेव्यते दिवि ॥४७॥घृतं तैकञ्च लवणं दत्त्वा सर्वमवाप्नुयात् ॥४८॥- - -- - -- - - - --टिप्पणी१ ततोर्ध्वतस्तदर्धार्धैर्युक्तां भुक्तिमवाप्नुयातिति छ..२ धूपदीपञ्च नैवेद्यं ताम्वूलं लोहरत्नकमिति ख..३ दीप्ताग्निमाप्नुयादिति ङ..--- - - - -- - - - -छत्रोपानहकाष्ठादि दत्त्वा स्वर्गे सुखी वसेत्(१) ॥४८॥प्रतिपत्तिथिमुख्येषु विष्कुम्भादिकयोगके ॥४९॥चैत्रादौ वत्सरादौ च अश्विन्यादौ हरिं हरं ॥४९॥ब्रह्माणं लोकपालादीन् प्रार्च्य दानं महाफलं ॥५०॥वृक्षारामान् भोजनादीन्मार्गसंवाहनादिकान् ॥५०॥पादाभ्यङ्गादिकं दत्त्वा भुक्तिमुक्तिमवाप्नुयात् ॥५१॥त्रीणि तुल्यफलानीह गावः पृथ्वी सरस्वती ॥५१॥व्राह्मीं सरस्वतीन्दत्त्वा निर्मलो ब्रह्मलोकभाक् ॥५२॥सप्तद्वीपमहीदः स ब्रह्मज्ञानं ददाति यः ॥५२॥अभयं सर्वभूतेभ्यो यो दद्यात्सर्वभाङ्नरः ॥५३॥पुराणं भारतं वापि रामायणमथापि वा ॥५३॥लिखित्वा पुस्तकं दत्त्वा भुक्तिमुक्तिमवाप्नुयात् ॥५४॥वेदशास्त्रं नृत्यगीतं योऽध्यापयति नाकभाक् ॥५४॥वित्तं दद्यादुपाध्याये छात्राणां भोजनादिकं ॥५५॥किमदत्तं भवेत्तेन धर्मकामादिदर्शिना ॥५५॥वाजपेयसहस्रस्य सम्यग्दत्तस्य यत्फलं ॥५६॥तत्फलं सर्वमाप्नोति विद्यादानन्न संशयः ॥५६॥शिवालये विष्णुगृहे सूर्यस्य भवने तथा ॥५७॥सर्वदानप्रदः स स्यात्पुस्तकं वाचयेत्तु यः ॥५७॥त्रैलोक्ये चतुरो वर्णाश्चत्वारश्चाश्रमाः पृथक् ॥५८॥ब्रह्माद्या देवताः सर्वा विद्यादाने प्रतिष्ठताः ॥५८॥- - -- - - - - -- - - - -टिप्पणी१ स्वर्गे महीयते इति ग.. । स्वर्गे सुखी भवेदेति घ.. , ङ.. च-- -- - - -- - - - - -विद्या कामदुघा धेनुर्विद्या चक्षुरनुत्तमं ॥५९॥उपवेदप्रदानेन गन्धर्वैः सह मोदते ॥५९॥वेदाङ्गानाञ्च दानेन स्वर्गलोकमवाप्नुयात् ॥६०॥धर्मशास्त्रप्रदानेन धर्मेण सह मोदते ॥६०॥सिद्धान्तानां प्रदानेन मोक्षमाप्नोत्यसंशयं ॥६१॥विद्यादानमवाप्नोति प्रदानात्पुस्तकस्य तु ॥६१॥शास्त्राणि च पुराणानि दत्त्वा सर्वमवाप्नुयात् ॥६२॥शिष्यांश्च शिक्षयेद्यस्तु पुण्डलीकफलं लभेत् ॥६२॥येन जीवति तद्दत्त्वा फलस्यान्तो न विद्यते ॥६३॥लोके स्रेष्ठतमं सर्वमात्मनश्चापि यत्प्रियं ॥६३॥सर्वं पितॄणां दातव्यं तेषामेवाक्षयार्थिना ॥६४॥विष्णुं रुद्रं पद्मयोनिं देवीविघ्नेश्वरादिकान् ॥६४॥पूजयित्वा प्रदद्याद्यः पूजाद्रव्यं स सर्वभाक् ॥६५॥देवालयं च प्रतिमां कारयत्सर्वमाप्नुयात् ॥६५॥सम्मार्जनं चोपलेपं कुर्वन् स्यान्निर्मलः पुमान् ॥६६॥नानामण्डलकार्यग्रे मण्डलाधिपतिर्भवेत्(१) ॥६६॥गन्धं पुष्पं धूपदीपं नैवेद्यञ्च प्रदक्षिणं ॥६७॥घण्टाध्वजवितानञ्च प्रेक्षणं वाद्यगौतकं ॥६७॥वस्त्रादिदत्त्वादेवाय भुक्तिमुक्तिमवाप्नुयात् ॥६८॥कस्तूरिकां शिह्लकञ्च श्रीखण्डमगुरून्तथा ॥६८॥कर्पूरञ्च तथामुस्तं गुग्गुलुं विजयं ददेत् ॥॥६९- --- - -- - -- ---टिप्पणी१ सम्मार्जनमित्यादिः मण्डलाधिपतिर्भवेदित्यन्तः पाठः ज.. पुस्तके नास्ति-- - -- --- - -- -घृतप्रस्थेन संस्थाप्य सङ्क्रान्त्यादौ स सर्वभाक् ॥६९॥स्नानं पलशतं ज्ञेयमभ्यङ्गं पञ्चविंशतिः ॥७०॥पलानान्तु सहस्रेण महास्नानं प्रकीर्तितं ॥७०॥दशापराधास्तोयेन क्षीरेण स्नापनाच्छतं ॥७१॥सहस्रं पयसा दध्ना घृतेनायुतमिष्यते ॥७१॥दासीदासमलङ्कारं गोभूम्यश्वगजादिकं ॥७२॥देवाय दत्त्वा सौभाग्यं धनायुष्मान् व्रजेद्दिवं ॥७२॥इत्याग्नेये महापुराणे नानादानानि नामैकादशाधिकद्विशततमोऽध्यायः ॥ N/A References : N/A Last Updated : September 20, 2020 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP