संस्कृत सूची|संस्कृत साहित्य|पुराण|अग्निपुराण|
महाद्वीपादि

अध्याय ११९ - महाद्वीपादि

भगवान् अग्निदेवांनी या अग्नि पुराणात चौसष्ट योगनींचे का सविस्तार वर्णन केले आहे.


अग्निरुवाच
लक्षयोजनविस्तारं जम्बूद्वीपं समावृतम् ॥१॥
लक्ष्ययोजनमनेन क्षीरोदेन समन्ततः ॥१॥
संवेष्ट्य क्षारमुदधिं प्लक्षद्वीपस्तथा स्थितः(१) ॥२॥
सप्त मेधातिथेः पुत्राः प्लक्षद्वीपेश्वरास्तथा ॥२॥
स्याच्छान्तभयः शिशिरः सुखोदय इतः परः ॥३॥
आनन्दश्च शिवः क्षेमो ध्रुवस्तन्नामवर्षकं ॥३॥
मर्यादाशैलो गोमेधश्चन्द्रो नारददुन्द्भी ॥४॥
सोमकः सुमनाः शैलो वैभ्राजास्तज्जनाः शुभाः ॥४॥
नद्यः प्रधानाः सप्तात्र प्लक्षाच्छाकान्तिकेषु च ॥५॥
जीवनं पञ्चसास्रं धर्मो वर्णाश्रमात्मकः(२) ॥५॥
आर्यकाः कुरवश्चैव विविंशा भाविनश्च ते ॥६॥
विप्राद्यास्तैश्च सोमोऽर्च्यो द्विलक्षश्चाब्धिलक्षकः ॥६॥
मानेनेक्षुरसोदेन वृतो द्विगुणशाल्मलः ॥७॥
वपुष्मतः सप्त पुत्राः शाल्मलेशास्तथाभवन् ॥७॥
श्वेतोऽथ हरितश्चैव जीमूतो लोहितः क्रमात् ॥८॥
वैद्युतो मानसश्चैव सुप्रभो नाम वर्षकः ॥८॥
द्विगुणो द्विगुणेनैव सुरोदेन समावृतः ॥९॥
कुमुदश्चानलश्चैव(३) तृतीयस्तु वलाहकः ॥९॥
द्रोणः कंकोऽथ(४) महिषः ककुद्मान् सप्त निम्नगाः ॥१०॥
कपिलाश्चारुणाः पीताः कृष्णाः स्युर्ब्राह्मणादयः ॥१०॥
वायुरूपं यजन्ति स्म सुरोदेनायमावृतः(५) ॥११॥
टिप्पणी
१ द्वीपस्तथा स्मृत इति झ..
२ वर्णाश्रमात्मज इति ख.. , घ.. , ज.. च
३ कुमुदश्चोन्नतश्चैवेति ख.. , ग.. , घ.. , ङ.. च
४ कर्कोऽथेति क..
५ सुरोदेन समावृत इति घ..
ज्योतिष्मतः कुशेशाः स्युरुद्भिजो धेनुमान् सुतः ॥११॥
द्वैरथो लंवनो धैर्यः कपिलश्च प्रभाकरः ॥१२॥
विप्राद्या दधिमुख्यास्तु ब्रह्मरूपं यजन्ति ते ॥१२॥
विद्रुमो(१) हेमशैलश्च द्युतिमान् पुष्पवांस्तथा ॥१३॥
कुशेशयो हरिः शैलो वर्षार्थं मन्दराचलः ॥१३
वेष्टितोऽयं घृतोदेन क्रौञ्चद्वीपेन सोऽप्यथ ॥१४॥
क्रौञ्चेश्वराः द्युतिमतः पुत्रास्तन्नामवर्षकाः ॥१४॥
कुशलो मनोनुगश्चोष्णः प्रधानोऽथान्धकारकः ॥१५॥
मुनिश्च दुन्दुभिः सप्त सप्त शैलाश्च निम्नगाः(२) ॥१५॥
क्रौञ्चश्च वाम्नश्चैव तृतीयश्चान्धकारकः(३) ॥१६॥
देववृत्पुण्डरीकश्च दुन्दुभिर्द्विगुणो मिथः ॥१६॥
द्वीपा द्वीपेषु ये शैला यथा द्वीपानि ते तथा ॥१७॥
पुष्कराः पुष्कला धन्यास्तीर्था(४) विप्रादयो हरिम् ॥१७॥
यजन्ति क्रौञ्चद्वीपस्तु दधिमण्डोदकावृतः ॥१८॥
संवृतः शाकद्वीपेन हव्याच्छाकेश्वराः सुताः ॥१८॥
जलदश्च कुमारश्च सुकुमारो मणीवकः ॥१९॥
कुशोत्तरथो मोदाकी द्रुमस्तन्नामवर्षकाः ॥१९॥
उदयाख्यो जलधरो रैवतः श्यामकोद्रकौ ॥२०॥
आम्विकेयस्तथा रम्यः केशरी सप्त निम्नगाः ॥२०॥
टिप्पणी
१ रुद्राभ इति क.. । विक्रम इति ख.. , छ.. च
२ कुशल इत्यादिः, निम्नगा इत्यन्तः पाठो झ.. पुस्तके नास्ति
३ तृतीयश्चानुकारक इति घ.. , झ.. च
४ पुष्कलावत्यां तीर्था इति घ..
मगा मगधमनस्या(१) मन्दगाश्च द्विजातयः(२) ॥२१॥
यजन्ति सूर्यरूपं तु(३) शाकः क्षीराब्धिना वृतः ॥२१॥
पुष्करेणावृतः सोऽपि द्वौ पुत्रौ सवनस्य च ॥२२॥
मसावीतो धातकिश्च वर्षे द्वे नामचिह्निते(४) ॥२२॥
एकोऽद्रिर्मानसाख्योऽत्र मध्यतो वलयाकृतिः ॥२३॥
योजनानां सहस्राणि विस्तारोच्छ्रायतः समः ॥२३॥
जीवनं दशसाहस्रं सुरैर्ब्रह्मात्र पूज्यते ॥२४॥
स्वादूदकेनोदधिना वेष्टितो द्वीपमानतः ॥२४॥
ऊनातिरिक्तता चापां समुद्रेषु न जायते ॥२५॥
उदयास्तमनेष्विन्दोः पक्षयोः शुक्लकृष्णयोः ॥२५॥
दशोत्तराणि पञ्चैव(५) अङ्गुलानां शतानि वै ॥२६॥
अपां वृद्धिक्षयौ दृष्टौ सामुद्रीणां(६) महामुने ॥२६॥
स्वादूदका बहुगुणा(७) भूर्हैमी जन्तुवर्जिता ॥२७॥
लोकालोकस्ततः शैलो योजनायुतविस्तृतः ॥२७॥
लोकालोकस्तु तमसावृतोऽथाण्डकटाहतः ॥२८॥
भूमिः साण्डकटाहेन पञ्चाशत्कोटिविस्तरा(८) ॥२८॥
इत्याग्नेये महपुराणे द्वीपादिवर्णनं नामैकोनविंशत्यधिकशततमोऽध्यायः ॥

N/A

References : N/A
Last Updated : September 17, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP