संस्कृत सूची|संस्कृत साहित्य|पुराण|अग्निपुराण|
मत्स्यादिसक्षणवर्णनम्

अध्याय ४९ - मत्स्यादिसक्षणवर्णनम्

अग्निपुराणात त्रिदेव – ब्रह्मा, विष्‍णु, महेश आणि सूर्य ह्या देवतांसंबंधी पूजा-उपासनाचे वर्णन केलेले आहे.


भगवानुवाच
दशावतारं मत्स्यादिलक्षणं प्रवदामि ते ।
मत्स्याकारस्तु मत्स्यः स्यात् कूर्मः कूर्म्माकृतिर्भवेत् ॥१॥

नराङ्गो वाथ कर्त्तव्यौ भूवराहौ गदादिभृत् ।
दक्षिणे वामके शङ्‌खं लक्ष्मीर्वा पद्ममेव वा ॥२॥

श्रीर्वामकूर्प्परस्था तु क्ष्मानन्तौ चरणानुगौ ।
वराहस्थापनाद्राज्यं भवाब्धितरणं भवेत् ॥३॥

नरसिंहो विवृत्तास्यो वामोरुक्षतदानवः ।
तद्वक्षो दारयन्माली स्फुरच्चक्रगदाधरः ॥४॥

छत्री दण्डी वामनः स्यादथवा स्याच्चतुर्भुजः ।
रामश्चापेषुहस्तः स्यात् खड्गी परसुनान्वितः ॥५॥

रामश्चापी शरी खड्गी शङ्खी वा द्विभूजः स्मृतः ।
गदालाङ्गलधारी च रामो वाथ चतुर्भुजः ॥६॥

वामोर्ध्वे लाङ्गलं दद्यादधः शङ्खं सुशोभनम् ।
मुषलं दक्षिणोर्ध्वे तु चक्रञ्चाधः सुशोभनम् ॥७॥

धनुस्तृणान्वितः कल्की म्लेच्छोत्सादकरोद्विजः ।
अथवाश्वस्थितः खङ्गी शङ्खचक्रशरान्वितः ॥८॥

लक्षणं वासुदेवादिनवकस्य वदामि ते ।
दक्षिणोर्ध्वे गदा वामे वामोर्ध्वे चक्रमुत्तमम् ॥९॥

ब्रह्मेशौ पार्श्वगौ नित्यं वासुदेवोस्ति पूर्ववत् ।
शङ्खी स वरदो वाथ द्विभुजो वा चतुर्भुजः ॥१०॥

लाङ्गली मुषली रामो गदापद्मधरः स्मृतः ।
प्रद्युम्नो दक्षिणे वज्रं शङ्खं वामे धनुः करे ॥११॥

गदानाभ्यावृतः ग्रीत्या प्रद्युम्नो वा धनुः शरी ।
चतुर्भुजोनिरुद्धः स्यात्तथा नारायणो विभुः ॥१२॥

चतुर्मुखश्चतुर्व्वाहुर्ब्बृहज्जठरमण्डलः ।
लम्बकूर्च्चे जटायुक्तो ब्रह्मा हंसाग्रवाहनः ॥१३॥

दक्षिणे चाक्षसूत्रञ्च स्रुवो वामे तु कुण्डिका ।
आज्यस्थाली सरस्वती सावित्री वामदक्षिणे ॥१४॥

विष्णुरष्टभुजस्तार्क्षे करे खड्गस्तु दक्षिणे ।
गदा शरश्च वरदो वामे कार्मुकखेटके ॥१५॥

चक्रशङ्खौ चतुर्बाहुर्न्नरसिंहश्चतुर्भुजः ।
शङ्खचक्रधरो वापि विदारितमहासुरः ॥१६॥

चतुर्बाहुर्वराहस्तु शेषुः पाणितले धृतः ।
धारयन् बाहुना पृथ्वीं वामेन कमलाधरः ॥१७॥

पादलग्ना धरा कार्य्या पदा लक्ष्मीर्व्यवस्थिता ।
त्रैलोक्यमोहनस्तार्क्ष्ये अष्टवाहुस्तु दक्षिणे ॥१८॥

चक्रं खड्गं च मुषलं अङ्कुशं वामके करे ।
शङ्कशार्ङ्गगदापाशान् पद्मवीणासमन्विते॥१९॥

लक्ष्मीः सरस्वती कार्य्ये विश्वरूपोऽथ दक्षिणे ।
मुद्गरं च तथा पाशं शक्तिशूलं शरं करे ॥२०॥

वामे शङ्खञ्च शार्ङ्गञ्च गदां पाशं च तोमरम् ।
लाङ्गलं परशुं दण्डं छुरिकां चर्म्मक्षेपणम् ॥२१॥

विंशद्‌बाहुश्चतुर्व्वक्त्रो दक्षिणस्थोथ वामके ।
त्रिनेत्रो वामपार्श्वेन शयितो जलशाय्यपि ॥२२॥

श्रिया धृतैकचरणो विमलाद्याभिरीडितः ।
नाभिपद्मचतुर्वक्त्रो हरिशङ्करको हरिः ॥२३॥

शूलर्ष्टिधारी दक्षे च गदाचक्रधरो पदे ।
रुद्रकेशवलक्ष्माङ्गो गौरीलक्ष्मीसमन्वितः ॥२४॥

शङ्खचक्रगदावेदपाणिश्चाश्वशिरा हरिः ।
वामपादो धृतः शेषे दक्षिणः कूर्म्मपृष्ठगः ॥२५॥

दत्तात्रेयो द्विबाहुः स्याद्वामोत्सङ्गे श्रिया सह ।
विष्वक्‌सेनश्चक्रगदी हली शङ्खी हरेर्गणः ॥२६॥

इत्यादिमहापुराणे आग्नेये प्रतिमालक्षणं नाम ऊनपञ्चाशोऽध्यायः ।

N/A

References : N/A
Last Updated : September 15, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP