संस्कृत सूची|संस्कृत साहित्य|पुराण|अग्निपुराण|
पृथ्वीदानानि

अध्याय २१३ - पृथ्वीदानानि

अग्निपुराणात त्रिदेव – ब्रह्मा, विष्‍णु, महेश आणि सूर्य ह्या देवतांसंबंधी पूजा-उपासनाचे वर्णन केलेले आहे.


अग्निरुवाच
पृथ्वीदानं प्रवक्ष्यामि पृथिवी त्रिविधा मता ॥१॥
शतकोटिर्योजनानां सप्तद्वीपा ससागरा ॥१॥
जम्बुद्वीपावधिः सा च उत्तमा मेदिनीरिता ॥२॥
उत्तमां पञ्चभिर्भारैः काञ्चनैश्च प्रकल्पयेत् ॥२॥
तदर्धान्तरजं कूर्मं तथा पद्मं समादिशेत् ॥३॥
उत्तमा कथिता पृथ्वी द्व्यंशेनैव तु मध्यमा ॥३॥
कन्यसा च त्रिभागेन(१) त्रिहान्या कूर्मपङ्कजे ॥४॥
पलानान्तु सहस्रेण कल्पयेत्कल्पपादपं ॥४॥
मूलदण्डं सपत्रञ्च फलपुष्पसमन्वितं ॥५॥
टिप्पणी
१ स्वल्पा सा तु त्रिभागेनेति ङ.. , ट.. च
पञ्चस्कन्धन्तु सङ्कल्प्य पञ्चानान्दापयेत्सुधीः ॥५॥
एतद्दाता ब्रह्मलोके पितृभिर्मोदते चिरं ॥६॥
विष्ण्वग्रे कामधेनुन्तु पलानां पञ्चभिः शतैः ॥६॥
ब्रह्मविष्णुमहेशाद्या देवा धेनौ व्यवस्थिताः ॥७॥
धेनुदानं सर्वदानं सर्वद ब्रह्मलोकदं ॥७॥
विष्ण्वग्रे कपिलां दत्त्वा तारयेत्सकलं कुलं ॥८॥
अलङ्कृत्य स्त्रियं दद्यादश्वमेधफलं लभेत्(१) ॥८॥
भूमिं दत्त्वा सर्वभाक्स्यात्सर्वशस्य प्ररोहिणीम् ॥९॥
ग्रामं वाथ पुरं वापि(२) खेटकञ्च दद्त्सुखी ॥९॥
कार्त्तिक्यादौ(३) वृषोत्सर्गं कुर्वंस्तारयते कुलं(४) ॥१०॥१०॥
इत्याग्नेये महापुराणे पृथ्वीदानानि नाम त्रयोदशाधिकद्विशततमोऽध्यायः ॥
टिप्पणी
१ नरमेधफलं लभेदिति ग.. , ङ.. , ञ.. च
२ पुरीं वापीति ख..
३ कार्त्तिकादाविति ख.. , ट.. च
४ कुर्वन् सन्तारयेत्कुलमिति ग.. , घ.. , ङ.. , ट.. च

N/A

References : N/A
Last Updated : September 20, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP