संस्कृत सूची|संस्कृत साहित्य|पुराण|अग्निपुराण|
विषमकथनम्

अध्याय ३३२ - विषमकथनम्

अग्निपुराणात त्रिदेव – ब्रह्मा, विष्‍णु, महेश आणि सूर्य ह्या देवतांसंबंधी पूजा-उपासनाचे वर्णन केलेले आहे.


अग्निरुवाच
वृत्तं समञ्चार्द्धसमं विषमञ्च त्रिधा वदे ।
समन्तावत् कृत्वकृतमर्द्धसमञ्च कारयेत् ॥१॥

पिषमञ्चैव वास्यूनमतिवृत्तं समान्यपि ।
ग्लौचतुःप्रमाणी स्यादाभ्यामन्यद्वितानकं ॥२॥

पादस्याद्यन्तु वक्रं स्यात् शनौ न प्रथमास्मृतौ ।
बाल्यमुश्चतुर्थाद्वर्णात् पथ्या वर्णं युजेयतः ॥३॥

विपरीतपथ्यान्या साच्चपला वा युजस्वनः ।
विपुलायुग्नसप्तमः सर्व्वं तस्यैव तस्य च ॥४॥

तौन्तौ वा विपुलानेका चक्रजातिः समीरिता ।
भवेन् पदचतुरूद्‌र्ध्वं चतुर्वृद्ध्या पदेषु च ॥५॥

गुरुद्वयान्त आपीडः प्रत्यापीडो गणादिकः ।
प्रथमस्य विपर्य्यासे मञ्जरी लवणी क्रमात् ॥६॥

भवेदमृतधाराख्या उद्धताद्य्चयतेऽधुना ।
एकतः ससजसानः स्युर्न सौ जो गोऽथ भौनजौ ॥७॥

नोगोऽथ सजसा गोगस्तृतीयचरणस्य च ।
सौरभे केचनभगा ललितञ्च नमौ जसौ ॥८॥

उपस्थितं प्रचुपितं प्रथमाद्यं समौ जसौ ।
गोगथां मलजा रोगः समो नगरजयाः पदे ॥९॥

वर्द्धमानं मलौ स्वौ नसौ अथो भोजोव इरिता ।
शुद्धविराड़ार्षभाख्यं वक्ष्ये चार्द्धसमन्ततः ॥१०॥

इत्यादिमहापुराणे आग्नेये विषमकथनं नाम द्वात्रिंशदधिकत्रिशततमोऽध्यायः॥

N/A

References : N/A
Last Updated : September 23, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP