संस्कृत सूची|संस्कृत साहित्य|पुराण|अग्निपुराण|
लिङ्गलक्षणम्

अध्याय ५३ - लिङ्गलक्षणम्

अग्निपुराणात त्रिदेव – ब्रह्मा, विष्‍णु, महेश आणि सूर्य ह्या देवतांसंबंधी पूजा-उपासनाचे वर्णन केलेले आहे.


भगवानुवाच
लिङ्गादिलक्षणं वक्ष्ये कमलोद्भव तच्छृणु ॥००१॥
दैर्घ्यार्धं वसुभिर्भक्त्वा त्यक्त्वा भागत्रयं ततः ॥००१॥
विष्कम्भं भूतभागैस्तु चतुरस्रन्तु कारयेत् ॥००२॥
आयामं मूर्तिभिर्भक्त्वा एकद्वित्रिक्रमान्न्यसेत् ॥००२॥
ब्रह्मविष्णुशिवांशेषु वर्धमानोयमुच्यते ॥००३॥
चतुरस्रेस्य वर्णार्धं गुह्यकोणेषु लाञ्छयेत् ॥००३॥
अष्टाग्रं वैष्णवं भागं सिध्यत्येव न संशयः ॥००४॥
षोडशास्रं ततः कुर्याद्द्वात्रिंशास्रं ततः पुनः ॥००४॥
चतुःषष्ट्यस्रकं कृत्वा वर्तुलं साधयेत्ततः ॥००५॥
कर्तयेदथ लिङ्गस्य शिरो वै देशिकोत्तमः ॥००५॥
विस्तारमथ लिङ्गस्य अष्टधा संविभाजयेत् ॥००६॥
भागार्धार्धन्तु सन्त्यज्य च्छत्राकारं शिरो भवेत् ॥००६॥
त्रिषु भागेषु सदृशमायामं यस्य चिस्तरः ॥००७॥
तद्विभागसमं लिङ्गं सर्वकामफलप्रदं ॥००७॥
दैर्घ्यस्य तु चतुर्थेन विष्कम्भं देवपूजिते ॥००८॥
सर्वेषामेव लिङ्गानां लक्षणं शृणु साम्प्रतं ॥००८॥
मध्यसूत्रं समासाद्य ब्रह्मरुद्रान्तिकं(१) बुधः ॥००९॥
षोडशाङ्गुललिङ्गस्य षड्भागैर्भाजितो यथा ॥००९॥
तद्वैयमनसूत्राभ्यां मानमन्तरमुच्यते ॥०१०॥
यवाष्टमुत्तरे कार्यं शेषाणां यवहानितः ॥०१०॥
अधोभागं त्रिधा कृत्वा त्वर्धमेकं परित्यजेत् ॥०११॥
टिप्पणी
१ व्रजेदात्यन्तिकमिति ग, चिह्नितपुस्तकपाठः
अष्टधा तद्द्वयं कृत्वा ऊर्ध्वभागत्र्यं त्यजेत् ॥०११॥
ऊर्ध्वञ्च पञ्चमाद्भागाद्भ्राम्य रेखां प्रलम्बयेत् ॥०१२॥
भागमेकं परित्यज्य सङ्गं कारयेत्तयोः ॥०१२॥
एतत्साधारणं प्रोक्तं लिङ्गानां लक्षणं मया ॥०१३॥
सर्वसाधारणं वक्ष्ये पिण्डिकान्तान्निबोध मे ॥०१३॥
ब्रह्मभागप्रवेशञ्च ज्ञात्वा लिङ्गस्य चोच्छ्रयं ॥०१४॥
न्यसेद्ब्रह्मशिलां विद्वान् सम्यक्कर्मशिलोपरि ॥०१४॥
तथा सुमुच्छ्रयं ज्ञात्वा पिण्डिकां प्रविभाजयेत् ॥०१५॥
द्विभागमुच्छ्रितं पीठं विस्तारं लिङ्गसम्मितम् ॥०१५॥
त्रिभागं मध्यतः खातं कृत्वा पीठं(१) विभाजयेत् ॥०१६॥
स्वमानार्धत्रिभागेण बाहुल्यं परिकल्पयेत् ॥०१६॥
बाहुल्यस्य त्रिभागेण मेखलामथ कल्पयेत् ॥०१७॥
खातं स्यान्मेखलातुल्यं क्रमान्निम्नन्तु कारयेत् ॥०१७॥
मेखलाषोडशांशेन खातं वा तत्प्रमाणज्ञः ॥०१८॥
उच्छ्रायं तस्य पीठस्य विकाराङ्गं तु(२) कारयेत् ॥०१८॥
भूमौ प्रविष्टमेकं तु भागैकेन(३) पिण्डिका ॥०१९॥
कण्ठं भागैस्त्रिभिः कार्यं भागेनैकेन पट्टिका ॥०१९॥
द्यंगेन चोर्ध्वपट्टन्तु(४) एकांशाः शेषपट्टिका ॥०२०॥
भागं भागं प्रविष्टन्तु यावत्कण्ठं ततः पुनः ॥०२०॥
निर्गमं भागमेकं तु यावद्वै शेषपट्टिका ॥०२१॥
प्रणालस्य त्रिभागेन निर्गमस्तु त्रिभागतः ॥०२१॥
टिप्पणी
१ मध्यतः कृत्वा ततः पीठमिति घ, चिह्नितपुस्तकपाठः
२ विकारांशांश्चेति घ, चिह्नितपुस्तकपाठः
३ भागेनैकेनेति ग, चिह्नितपुस्तकपाठः
४ चार्धपट्टन्तु इति ख, ग, चिह्नितपुस्तकपाठः
मूलेङ्गुल्यग्रविस्तारमग्रे त्र्यंशेन चार्धतः ॥०२२॥
ईषन्निम्नन्तु कुर्वीत खातं तच्चोत्तरेण वै ॥०२२॥
पिण्डिकासहितं लिङ्गमेतत्साधारणं स्मृतम् ॥०२२॥

इत्यादिमहापुराणे आग्नेये लिङ्गलक्षणं नाम त्रिपञ्चाशत्तमोध्यायः ॥

N/A

References : N/A
Last Updated : September 16, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.