संस्कृत सूची|संस्कृत साहित्य|पुराण|अग्निपुराण|
कुम्भाधिवासविधिः

अध्याय ५७ - कुम्भाधिवासविधिः

अग्निपुराणात त्रिदेव – ब्रह्मा, विष्‍णु, महेश आणि सूर्य ह्या देवतांसंबंधी पूजा-उपासनाचे वर्णन केलेले आहे.


भगवानुवाच
भूमेः परिग्रहं कुर्य्यात् क्षिपेद् व्रीहींश्च सर्षपान् ।
नारसिंहेन रक्षोघ्नान् प्रोक्षयेत् पञ्चगव्यतः ॥१॥

भूमिं घटे तु सम्पूज्य सरत्ने साङ्गकं हरिम् ।
अस्त्रमन्त्रेण करकं तत्र चाष्टशतं यजेत् ॥२॥

अच्छिन्नधारया सिञ्चन् व्रीहीन् संस्कृत्य धारयेत् ।
प्रदक्षिणं परिभ्राम्य कलशं विकिरोपरि ॥३॥

सवस्त्रे कलशे भूयः पूजयेदच्युतं श्रियम् ।
योगे योगेति मन्त्रेण न्यसेच्छय्यान्तु मण्डले ष ॥४॥

कुशोपरि तूलिकाञ्च शय्यायां दिग्‌विदिक्षु च ।
विद्याधिपान् यजेद्विष्णुं मधुघातं त्रिविक्रमम् ॥५॥

वामनं दिक्षु वाय्वादौ श्रीधरञ्च हृषीकपम् ।
विद्याधिपान् यजेद्विष्णुं मधुगातं त्रिविक्रमम् ॥६॥

अभ्यर्च्य पञ्चादैशान्यां चतुष्कुम्बे सवेदिके ।
स्नानमण्डपके सर्वद्रव्याण्यानीय निक्षिपेत् ॥७॥

स्नानकुम्भेषु कुम्भां स्तां श्चतुर्दिक्ष्वधिवासयेत् ।
कल्शाः स्थापनीयास्तु अभिषेकार्थमादरात् ॥८॥

वटोदुम्बरकाश्वत्थांश्वम्पकाशोकश्री द्रुमान् ।
पलाशार्जुनप्लक्षांस्तु कदम्बवकुलाम्रकान् ॥९॥

पल्लवांस्तु समानीय पूर्वकुम्भे विनिक्षिपेत् ।
पद्मकं रोचनां दूर्व्वा दर्भपिञ्जलमेव च ॥१०॥

जातीपुष्पं कुन्दपुष्पञ्चन्दनं रक्तचन्दनम् ।
सिद्धार्थं तगरञ्चैव तण्डुलं दक्षिणे न्यसेत् ॥११॥

सुवर्णं रजतञ्चैव कूलद्वयमृदन्तथा ।
नद्याः समुद्रगामिन्या विशेषात् जाह्रवीमृदम् ॥१२॥

गोमयञ्च यवान् शालींस्तिलांश्चैवापरे न्यसेत् ।
विष्णुपर्णी श्यामलतां भृङ्गराजं शताधरीम् ॥१३॥

सहदेवां महादेवीं बलां व्याघ्नीं सलक्ष्मणाम् ।
ऐसान्यामपरे सुम्भे मह्गल्यान्विनिवेशयेत् ॥१४॥

वल्मीकमृत्तिकां सप्तस्थानोत्थामपरे न्यसेत् ।
जाह्नतीवालुकातोयं विन्यसेदपरे घटे ॥१५॥

वराहवृषनागेन्द्रविषाणोद्धृतमृत्तिकाम् ।
मृत्तिकां पद्ममूलस्य कुशस्य त्वपरे न्यसेत् ॥१६॥

तीर्थपर्वतमृद्भिस्च युक्तमप्यपरे न्यसेत् ।
नागकेशरपुष्पञ्च काश्मीरमपरे न्यसेत् ॥१७॥

चन्द नागुरुकर्पूरैः पुष्पं चैवापरे न्यसेत् ।
वैदूर्यं विद्रुमं मुक्तां स्फटिकं वज्रमेव च ॥१८॥

एतान्येकत्र निक्षिप्य स्थापयेद्देवसत्तम ।
नदीनदतडागानां सलिलैरपरं न्यसेत् ॥१९॥

एकाशीतिपदे धान्यान्मण्डपे कलशान् न्यसेत् ।
गन्धोदकाद्यैः सम्पूर्णान् श्रीसूक्तेनाभिमन्त्रयेत् ॥२०॥

यवं सिद्धार्थकं गन्धं कुशाग्रं चाक्षतं तथा ।
लितान् फलं तता पुष्पमघ्यार्थं पूर्वतो न्यसेत् ॥२१॥

पद्मं श्यामलतां दूर्वां विष्णुपर्णी कुशांस्तथा ।
पाद्यार्थं दक्षिणे भागे मधुपर्क्कं तु दक्षिणे ॥२२॥

कक्कोलकं लवङ्गञ्च तथा जातीफलं शुभम् ।
उत्तरे ह्याचमनाय अग्नौ दूर्वाक्षतान्वितम् ॥२३॥

पात्रं नीराजनार्थं च तथोद्वर्त्तनमानिले ।
गन्धुपुष्पान्वितं पात्रमैशान्यां पात्रके न्यसेत् ॥२४॥

मुरामांसीं चामलकं सहदेवां निशादिकम् ।
षष्टिदीपान्न्यसेदष्टौ न्यसेन्नीराजनाय च ॥२५॥

शङ्‌खंहचक्रञ्च श्रीवत्सं कुलिशं पङ्कजादिकम् ।
हेमादिपात्रे कृत्वा तु नानावर्णादिपुष्पकम् ॥२६॥

इत्यादिमहापुराणे आग्नेये कलशाधिवासो नाम सप्तपञ्चाशत्तमोऽध्यायः ।

N/A

References : N/A
Last Updated : September 16, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.