संस्कृत सूची|संस्कृत साहित्य|पुराण|अग्निपुराण|
जीर्णोद्धारः

अध्याय १०३ - जीर्णोद्धारः

भगवान् अग्निदेवांनी या अग्नि पुराणात देवालय निर्माणच्या हेतु विषयांत  में आख्यान दिले आहे.


ईश्वर उवाच
जीर्णादीनाञ्च लिङ्गानामुद्धारं विधिना वदे ॥१॥
लक्ष्मोज्झितञ्च भग्नञ्च स्थूलं वज्रहतं तथा ॥१॥
संपुटं स्फुटितं व्यङ्गं लिङ्गमित्येवमादिकं ॥२॥
इत्यादिदुष्टलिङ्गानां योज्या पिण्डी(३) तथा वृषः ॥२॥
चालितञ्चलितं लिङ्गमत्यर्थं(४) विषमस्थितं ॥३॥
दिड्मूढं पातितं लिङ्गं मध्यस्थं पतितं तथा ॥३॥
एवंविधञ्च संस्थाप्य(५) निर्ब्रणञ्च भवेद्यदि ॥४॥
नद्यादिकप्रवाहेन तदपाक्रियते यदि ॥४॥
ततोऽन्यत्रापि संस्थाप्य विधिदृष्टेन कर्मणा ॥५॥
टिप्पणी
१ न्यूनादिदोषनाशार्थं कृत्वेति झ.. । न्यूनादिदोषनाशाय हुत्वेति घ.. , ज.. च
२ कर्तर्भोगवत इति ख.. , छ.. च
३ त्याज्या पिण्डीति घ..
४ निम्नमित्यर्थमिति ज..
५ सन्त्याज्यमिति झ..
सुस्थितं दुस्थितं वापि(१) शिवलिङ्गं न चालयेत् ॥५॥
शतेन स्थापनं कुर्यात्सहस्रेण तु चालनं(२) ॥६॥
पूजादिभिश्च संयुक्तं जीर्णाद्यमपि सुस्थितं(३) ॥६॥
याम्ये मण्डपमीशे वा प्रत्यग्द्वारैकतोरणं ॥७॥
विधाय द्वारपूजादि स्थण्डिले मन्त्रपूजनं(४) ॥७॥
मन्त्रान् सन्तर्प्य सम्पूज्य वास्तुदेवातुं पूर्ववत् ॥८॥
दिग्बलिं च वहिर्दत्वा समाचम्य स्वयं गुरुः ॥८॥
ब्राह्मणान् भोजयित्वा तु शम्भुं(५) विज्ञापयेत्ततः ॥९॥
दुष्टलिङ्गमिदं शंभोः शान्तिरुद्धारणस्य चेत्(६) ॥९॥
रुसिस्तवादिविधिना(७) अधितिष्ठस्व मां शिव ॥१०॥
एवं विज्ञाप्य देवेशं शान्तिहोमं समाचरेत् ॥१०॥
मध्वाज्यक्षीरदूर्वाभिर्मूलेनाष्टाधिकं शतं ॥११॥
ततो लिङ्गं च संस्थाप्य पूजयेत्स्थिण्डिले(८) तथा ॥११॥
ओं व्यापकेश्वरायेति नाट्यन्तं शिववादिना(९) ॥१२॥
टिप्पणी
१ दुस्थितं चापीति ग..
२ सहस्रेण च चालयेदिति ग..
३ जीर्णाद्यमपि संस्थितमिति ख.. , छ.. च । पूजया रहितं यत्तदन्निष्ठमपि दुःस्थितमिति ख.. , घ.. , पुस्तकेऽधिकः पाठः
४ स्थण्डिलेशप्रपूजनमिति ख.. , ग.. , ङ.. , छ.. , झ.. च । स्थण्डिले सम्प्रपूजनमिति घ.. , ज.. च
५ सर्वमिति क..
६ शान्तिरुद्धरणे न्यसेदिति ख.. , ग.. , घ.. , छ.. च
७ रुचिस्तवास्ति विधिनेति ख.. , ङ.. , छ.. , ज.. च
८ स्थण्डिलमिति ख.. , घ.. , छ.. , ज.. च
९ ओं व्यापकेश्वरायेति तत्त्वेनाभ्यन्तरादिने इति ख.. । ओं व्यापकेश्वरायेति नात्यन्तशिववाचिनेति घ.. । ओं व्यापकेश्वरायेति तत्त्वेनात्यन्तवादिने इति छ..
ओं व्यापकं हृदयेश्वराय नमः(१) । ओं व्यापकेश्वराय शिरसे नमः(२) । इत्याद्यङ्गमन्त्राः(३)
ततस्तत्राश्रितं तत्त्वं श्रावयेदस्त्रमस्ततः(४) ॥१२॥
सत्त्वः कोपीह(५) यः कोपिलिङ्गमाश्रित्य तिष्ठति ॥१३॥
लिङ्गन्त्यक्त्वा शिवाज्ञाभिर्यत्रेष्टं तत्र गच्छतु ॥१३॥
विद्याविद्येश्वरैर्युक्तः स भवोत्र(६) भविष्यति ॥१४॥
सहस्रं प्रतिभागे च ततः पाशुपताणुना(७) ॥१४॥
हुत्वा शान्त्यम्बुना प्रोक्ष्य स्पृष्ट्वा कुशैर्जपेत्ततः(८) ॥१५॥
दत्वार्घं च विलोमेन तत्त्वतत्त्वाधिपांस्तथा ॥१५॥
अष्टमूर्तीश्वरान् लिङ्ग(९) पिण्डिकासंस्थितान् गुरुः ॥१६॥
विसृज्य स्वर्णपाशेन वृषस्कन्धस्थया तथा ॥१६॥
रज्वा वध्वा तया नीत्वा शिवमन्तं गृणन् जनैः ॥१७॥
तज्जले निक्षिपेन्मन्त्री पुष्ठ्यर्थं जुहुयाच्छतं ॥१७॥
तृप्तये दिक्पतीनाञ्च वास्तुशुद्धौ(१०) शतं शतं ॥१८॥
रक्षां विधाय तद्धाम्नि महापाशुपता ततः ॥१८॥
लिङ्गमन्यत्ततस्तत्र विधिवत्स्थापयेद्गुरुः ॥१९॥
असुरैर्मुनिभिर्गोत्रस्तन्त्रविद्भिः(११) प्रतिष्ठितं ॥१९॥
टिप्पणी
१ ओं व्यापकेश्वराय हृदयाय नम इति ख.. , ग.. च । ओं व्यापकेश्वर हृदया नम इति झ.. , घ.. च
२ शिरसे स्वाहेति ज..
३ इत्यङ्गमन्त्रा इति ख.. , ङ.. , च । इत्यादिमन्त्रा इति छ..
४ स्नापयेदस्त्रमन्त्रत इति छ.. । धारयेदस्त्रमन्त्रत इति ज..
५ सिद्ध्वः कोपीहेति घ..
६ शम्भुरत्रेति घ.. , ज.. च । प्रभुरत्रेति ख.. , छ.. च
७ पाशुपतात्मनेति ख.. , ग.. , छ.. च
८ दर्भैर्जपेत्तत इति ङ..
९ मूर्तिमूर्तीश्वरान् लिङ्गे इति ख.. , घ.. , ङ.. , छ.. च
१० वास्तुमध्ये घ..
११ तत्त्वविद्भिरिति ख.. , घ.. , छ.. , ज.. च
जीर्णं वाप्यथवा भग्नं(१) विधिनापि नचालयेत् ॥२०॥
एष एव विधिः कार्योजीर्णधामसमुद्धृतौ ॥२०॥
खड्गे मन्त्रगणं न्यस्य कारयेत्मन्दिरान्तरं ॥२१॥
सङ्कोचे मरणं प्रोक्तं विस्तारो तु धनक्षयः ॥२१॥
तद्द्रव्यं श्रेष्ठद्रव्यं वा तत्सकार्यं तत्प्रमाणकं

इत्याग्नेये महपुराणे जीर्णोद्धारो नाम त्र्यधिकशततमोऽध्यायः ॥

N/A


References : N/A
Last Updated : September 17, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.