संस्कृत सूची|संस्कृत साहित्य|पुराण|अग्निपुराण|
समासः

अध्याय ३५५ - समासः

अग्निपुराणात त्रिदेव – ब्रह्मा, विष्‍णु, महेश आणि सूर्य ह्या देवतांसंबंधी पूजा-उपासनाचे वर्णन केलेले आहे.


स्कन्ध उवाच
षोढ़ा समासं वक्ष्यामि अष्टाविंशातिधा पुनः ।
नित्यानित्यविभागेन लुगलोपेन च द्विधा ॥१॥

कुम्भकारश्च नित्यः स्याद्धेमकारादिकस्तथा ।
राज्ञः पुमान्‌राजपुमान् नित्योऽयञ्च समासकः ॥२॥

कष्टश्रितो लुक्‌समासः कण्ठेकालादिकस्त्वलुक् ।
स्यादष्टधा तत्‌पुरुषः प्रथमाद्यसुपा सह ॥३॥

प्रथमातत्‌पुरुषोऽयं पूर्व्वं कायस्य विग्रहे ।
पूर्वकायोऽपरकायो ह्यधरोत्तरकायकः ॥४॥

अर्द्धं कणाया अर्द्धकणा भिक्षातुर्य्यमथेदृशम् ।
आपन्नजीविकस्तद्वत् द्वितीया चाधराश्रितः ॥५॥

वर्षम्भोग्यो वर्षभोग्यो धान्यार्थश्च तृतीयया ।
चतुर्थो स्याद्विषणुबलिर्वृकभीतिश्च पञ्चमी ॥६॥

राज्ञः पुमान् राजपुमान् षष्ठी वृक्षफलं तथा ।
सप्तमी चाक्षशौण्डोऽयमहितो नञ्‌समासकः ॥७॥

कर्मधारयः सप्तधा नीलोत्पलमुखाः स्मृताः ।
विशेषणपूर्व्वपदो विशेष्योत्तरतस्तथा ॥८॥

वैयाकरणखसूचिः शीतोष्णं द्विपदं शुभम् ।
उपमानपूर्वपदः शङ्खपाण्डर इत्यपि ॥९॥

उपमानोत्तरपदः पुरुषव्याघ्र इत्यपि ।
सम्भावनापूर्वपदो गुणवृद्धिरितीदृशम् ॥१०॥

गुण इति वृद्धिर्वाच्या सुहृदेव सुबन्धुकः ।
सवधारणपूर्वपदो बहुव्रीहिश्च सप्तधा ॥११॥

द्विपदश्च बहुव्रीहिरारूढ़भवनो नरः ।
अर्च्चिताशेषपूर्व्वोऽयं बह्वङ्‌घ्रिः परिकीर्त्तितः ॥१२॥

एते विप्राश्चोपदशाः सङ्‌ख्योत्तरपदस्त्वयम् ।
सङ्‌ख्योभयपदो यद्वद्‌द्वित्रा द्व्येकत्रयो नरः ॥१३॥

सहपूर्षपदोऽयं स्यात् समूलोद्‌धृतकस्तरुः ।
व्यतिहारलक्षणार्थः केशाकेशि नखानखि ॥१४॥

दिग्लक्ष्या स्याद्दक्षिणपूर्व्वा द्विगुराभाषितो द्विधा ।
एकवद्भावि द्विश्रृङ्गं पञ्चमूली त्वनेकधा ॥१५॥

द्वन्द्वः समासो द्विविखधो हीतरेतरयोगकः ।
रुद्रविष्णू समाहारो भेरीपटहमीदृशम् ॥१६॥

द्विधाख्यातोऽव्ययीभावो नामपूर्वपदो यथा ।
शाकस्य मात्रा शाकप्रति यथाऽव्ययपूर्व्यकः ॥१७॥

उपकुम्भञ्चोपरथ्यं प्राधान्येन चतुर्विंधः ।
उत्तरपदार्थमुख्यो द्वन्द्वश्चोभयमुख्यकः॥

पूर्वार्थेशोऽव्ययीभावो बहुव्रीहिश्च वाह्यगः ॥१८॥

इत्यादिमहापुराणे आग्नेये व्याकरणे समासो नाम पञ्चपञ्चाशदधिकत्रिशततमोऽध्यायः ॥

N/A

References : N/A
Last Updated : September 23, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP