संस्कृत सूची|संस्कृत साहित्य|पुराण|अग्निपुराण| शब्दालङ्काराः अग्निपुराण महत्व ग्रन्थप्रस्तावना मत्स्यावतारवर्णनम् कूर्मावतारवर्णनम् वराहाद्यवतारवर्णनम् श्रीरामावतारवर्णनम् अयोध्याकाण्डवर्णनं आरण्यककाण्डवर्णनं किष्किन्धाकाण्डर्णनं सुन्दरकाण्डवर्णनं युद्धकाण्डवर्णनं उत्तरकाण्डवर्णनं श्रीहरिवंशवर्णनम् कुरुपाण्डवोत्पच्यादिकथनम् कुरुपाण्डवसङ्ग्रामवर्णनम् पाण्डवचरितवर्णनम् बुद्धाद्यतारकथनम् सृष्टिविषयकवर्णनम् स्वायम्भुववंशवर्णनम् कश्यपवंशवर्णनम् सर्गविषयकवर्णनम् सामान्यपूजाकथनम् स्नानविधिकथनम् पूजाविधिकथनम् वासुदेवादिमन्त्रनिरूपणम् मुद्रालक्षणकथनम् अभिषेकविधानम् सर्वतोभद्रमण्डलकथनम् मण्डलविधिः मार्जनविधानम् संस्कारकथनं पवित्रारोहणविधानम् होमादिविधिः पवित्राधिवासनादिविधिः पवित्राशेपणविधानम् सर्वदेवपवित्राशेहणविधिः देवालयनिर्म्माणफलम् भृपरिग्रहविधानम् अर्घ्यदानविधानम् शिलादिन्यासविधानम् प्रासादलक्षणकथनम् प्रासाददेवतास्थापनम् भूतशान्त्यादिकथनम् वासुदेवादिप्रातिमालक्षणविधिः पिण्डिकालक्षणकथनम् शालग्रामादिमूर्त्तिलक्षणकथनम् शालग्रामादिपूजनकथनम् चतुर्विंशतिमूर्त्तिंस्तोत्रकथनम् मत्स्यादिसक्षणवर्णनम् देवीप्रतिमालक्षणकथनम् सूर्यादिप्रतिमालक्षणम् देवीप्रतिमालक्षणम् लिङ्गलक्षणम् लिङ्गमानादिकथनम् पिण्डिकालक्षणकथनम् दिक्पालयागकथनम् कुम्भाधिवासविधिः स्नानादिविधिः अधिवासकथनम् वासुदेवप्रतिष्ठादिविधिः ध्वजारोहणं लक्ष्मीप्रतिष्ठाविधिः सुदर्शनचक्रादिप्रतिष्ठाकथनं कूपादिप्रतिष्ठाकथनं सभास्थापनकथनं साधारणप्रतिष्ठाविधानं जीर्णोद्धारविधानं यात्रोत्सवविधिकथनं स्नानविधानं अध्याय ७० -पादपारामप्रतिष्ठाकथनं अग्नि पुराण अग्नि पुराण सुदर्शनचक्रादिप्रतिष्ठाकथनम् अग्निस्थापनादिप्रतिष्ठाकथनम् अग्निस्थापनादिप्रतिष्ठाकथनम् कपिलादिपूजाविधानम् पवित्रारोहणकथनम् पवित्रारोहणविधि दमनकारोहणावेधिः समयदीक्षाविधानम् संस्कारदीक्षाकथनम् निर्वाणादीक्षाकथनम् निर्वाणदीक्षाविधानम् प्रतिष्ठाकलाशोधनोक्तिः विद्याविशोधनविधानम् शान्तिशोधनकथनम् निर्वाणदीक्षाकथनम् एकतत्त्वदीक्षाकथनम् अभिषेकादिकथनम् विविधमन्त्रादिकथनम् प्रतिष्ठाविधिकथनम् वास्तुपूजादिविधानम् शिलाविन्यासविधानम् प्रतिष्ठासामग्रीविधानम् अधिवासनविधिः शिवप्रतिष्ठाकथनम् गौरीप्रतिष्ठाकथनम् अध्याय ९९- सूर्यप्रतिष्ठाकथनं द्वारप्रतिष्ठा प्रासादप्रतिष्ठा ध्वजारोपणं जीर्णोद्धारः सामान्यप्रासादलक्षणं गृहादिवास्तुर्नामः नगरादिवास्तुः स्वायम्भुवसर्गः भुवनकोषः तीर्थमाहात्म्यम् गङ्गामाहात्म्यं प्रयागमाहात्म्यं वाराणसीमाहात्म्यम् नर्मदादिमाहात्म्यम् गयामाहात्म्यम् गयायात्राविधिः गयायात्राविधिः श्राद्धकल्पः भारतवर्षं महाद्वीपादि भुवनकोषः ज्योतिःशास्त्रं कालगणनं युद्धजयार्णवीयनानायोगाः युद्धजयार्णवीयज्योतिःशास्त्रसारः युद्धजयार्णवीयनानाचक्राणि नक्षत्रनिर्णयः नानाबलानि कोटचक्रम् अर्घकाण्डम् घातचक्रं घातचक्रादि सेवाचक्रम् नानाबलानि त्रैलोक्यविजयविद्या सङ्ग्रामविजयविद्या नक्षत्रचक्रं महामारीविद्या षट्कर्माणि षष्टिसंवत्सराः वश्यादियोगाः षट्त्रिंशत्पदकज्ञानम् मन्त्रौषधादिः कुब्जिकापूजा कुब्जिकापूजा मालिनीनानामन्त्राः अष्टाष्टकदेव्यः त्वरितापूजादिः सङ्ग्रामविजयपूजा लक्षकोटिहोमः मन्वन्तराणि वर्णेतरधर्माः गृहस्थवृत्तिः ब्रह्मचर्याश्रमधर्मः विवाहः आचारः द्रव्यशुद्धिः शावाशौचादिः स्रावाद्याशौचं असंस्कृतादिशौचं वानप्रस्थाश्रमः यतिधर्मः धर्मशास्त्रकथनं श्राद्धकल्पकथनं नवग्रहहोमः नानाधर्माः वर्णधर्मादिकथनं अयुतलक्षकोटिहोमाः महापातकादिकथनम् प्रायश्चित्तानि प्रायश्चित्तानि प्रायश्चित्तानि सर्वपापप्रायश्चित्तानि प्रायश्चित्तं प्रायश्चित्तानि व्रतपरिभाषा प्रतिपद्व्रतानि द्वितीयाव्रतानि तृतीयाव्रतानि चतुर्थीव्रतानि पञ्चमीव्रतानि सप्तमीव्रतानि षष्ठीव्रतानि सप्तमीव्रतानि जयन्त्यष्टमीव्रताणी अष्टमीव्रतानि नवमीव्रतानि दशमीव्रतानि एकादशीव्रताणी नानाद्वादशीव्रतानि श्रवणद्वादशीव्रतम् अखण्डद्वादशीव्रतं त्रयोदशी व्रतानि चतुर्दशीव्रतानि शिवरात्रिव्रतम् अशोकपूर्णिमादिव्रतं वारव्रतानि नक्षत्रव्रतानि दिवसव्रतानि मासव्रतानि नानाव्रतानि दीपदानव्रतं नवव्यूहार्चनं पुष्पाध्यायकथनं नरकस्वरूपम् मासोपवासव्रतं भीष्मपञ्चकव्रतं अगस्त्यार्घ्यदानकथनं कौमुदव्रतं व्रतदानादिसमुच्चयः दानपरिभाषाकथनं महादानानि नानादानानि मेरुदानानि पृथ्वीदानानि मन्त्रमाहात्म्यं सन्ध्याविधिः गायत्रीनिर्वाणं गायत्रीनिर्वाणं राज्यभिषेकः अभिषेकमन्त्राः सहायसम्पत्तिः अनुजीविवृत्तं दुर्गसम्पत्तिः राजधर्माः स्त्रीरक्षादिकामशास्त्रं राकजधर्मो सामाद्युपायो दण्डप्रणयनं युद्धयात्रा स्वप्नाध्यायः शकुनानि शकुनानि शकुनानि यात्रामण्डलचिन्तादिः षाड्गुण्यम् प्रात्यहिकराजकर्म रणदीक्षा श्रीस्तोत्रम् रामोक्तनीतिः राजधर्माः षाड्गुण्यम् सामादिः राजनीतिः पुरुषलक्षणम् स्त्रीलक्षणम् चामरादिलक्षणम् रत्नपरीक्षा वास्तुलक्षणम् पुष्पादिपूजाफलम् धनुर्वेदः धनुर्वेदकथनम् धनुर्वेदकथनम् धनुर्वेदकथनम् व्यवहारकथनम् व्यवहारकथनम् दिव्यानि प्रमाणानि दायविभागकथनम् सीमाविवादादिनिर्णयः वाक्पारुष्यादिप्रकरणम् ऋग्विधानम् यजुर्विधानम् सामविधानम् अथर्ववविधानम् उत्पातशान्तिः देवपूजावैश्वदेवबलिः दिक्पालादिस्नानम् विनायकस्नानम् माहेश्वरस्नानलक्षकोटिहोमादयः नीराजनाविधिः छत्रादिमन्त्रादयः विष्णुपञ्जरम् वेदशाखादिकीर्तनम् दानादिमाहात्म्यम् सूर्य्यवंशकीर्त्तनम् सोमवंशवर्णनम् यदुवंशवर्णनम् द्वादशसङ्ग्रामाः राजवंशवर्णनम् पुरुवंशवर्णनम् सिद्धौषधानि सर्वरोगहराण्यौषधानि रसादिलक्षणम् वृक्षायुर्वेदः नानारोगहराण्यौषधानि मन्त्ररूपौषधकथनम् मृतसञ्जीवनीकरसिद्धयोगः कल्पसागरः गजचिकित्सा अछश्ववाहनसारः अश्वचिकित्सा अश्वशान्तिः गजशान्तिः शान्त्यायुर्वेदः मन्त्रपरिभाषा नागलक्षणानि दष्टचिकित्सा पञ्चाह्गरुद्रविधानम् विषहृन्मन्त्रौषधम् गोनसादिचिकित्सा बालग्रहहरबालतन्त्रम् ग्रहहृन्मन्त्रादिकम् सूर्य्यार्च्चनम् नानामन्त्राः अङ्गाक्षरार्च्चनम् पञ्चाक्षरादिपूजामन्त्राः पञ्चपञ्चाशद्विष्णुनामानि नारसिंहादिमन्त्राः त्रैलोक्य मोहननम्त्राः त्रैलोक्यमोहनीलक्ष्म्यादिपूजा त्वरितापूजा त्वरितामन्त्रादिः त्वरितामूलमन्त्रादिः त्वरिताविद्या नानामन्त्राः त्वरिताज्ञानम् ग्रन्थप्रस्तावना नानामन्त्राः सकलादिमन्त्रोद्धारः गणपूजा वागीश्वरीपूजा मण्डलानि अघोरास्त्रादिशान्तिकल्पः पाशुपतशान्तिः षडङ्गान्यघोरास्त्राणि रुद्रशान्तिः अंशकादिः गौर्य्यादिपूजा देवालयमाहात्म्यम् छन्दःसारः छन्दःसारः छन्दःसारः छन्दोजातिनिरूपणम् विषमकथनम् अर्द्धसमनिरूपणम् समवृत्तनिरूपणम् ग्रन्थप्रस्तावना शिक्षानिरूपणम् काव्यादिलक्षणं नाटकनिरूपणम् शृङ्गारादिरसनिरूपणम् रीतिनिरूपणम् नृत्यादावङ्गकर्म्मनिरूपणम् अभिनयादिनिरूपणम् शब्दालङ्काराः अर्थालङ्गाराः शब्दार्थालङ्काराः काव्यगुणविवेकः काव्यदोषविवेकः एकाक्षराभिधानम् व्याकरणम् सन्धिसिद्धरूपम् सुब्विभक्तिसिद्धरूपम् स्त्रीलिङ्गशब्दसिद्धरूपम् नपुंसकशब्दसिद्धरूपम् कारकम् समासः तद्धितम् उणादिसिद्धरूपम् तिङ्विभक्तिसिद्धरूपम् कृत्सिद्धरूपम् स्वर्गपातालादिवर्गाः अव्ययवर्गानाम नानार्थवर्गा भूमिवनौषध्यादिवर्गाः नृब्रह्मक्षत्रविट्शूद्रवर्गाः ब्रह्मवर्गः क्षत्रविट्शूद्रबर्गाः सामान्यनामलिङ्गानि नित्यनैमित्तिकप्राकृतप्रलयाः नित्यनैमित्तिकप्राकृतप्रलयाः आत्यन्तिकलयगर्भोत्पत्तिनिरूपणम् नरकनिरूपणम् यमनियमाः आसनप्राणायामप्रत्याहाराः ध्यानम् धारणा समाधिः ब्रह्मज्ञानम् ब्रह्मज्ञानम् ब्रह्मज्ञानम् अद्वैतब्रह्मविज्ञानम् गीतासारः यमगीता आग्न्येयपुराणमाहात्म्यम् अध्याय ३४३ - शब्दालङ्काराः अग्निपुराणात त्रिदेव – ब्रह्मा, विष्णु, महेश आणि सूर्य ह्या देवतांसंबंधी पूजा-उपासनाचे वर्णन केलेले आहे. Tags : agnipuranpuransanskritअग्निपुराणपुराणसंस्कृत शब्दालङ्काराः Translation - भाषांतर अग्निरुवाचस्यादावृत्तिरनुप्रासो वर्णानां पदवाक्ययोः ।एकवर्णाऽनेकवर्णावृत्तेर्व्वर्णगुणो द्विधा ॥१॥एकवर्णगतावृत्तेर्ज्जायन्ते पञ्च वृत्तयः ।मधुरा ललिता प्रौढा भद्रा परुषया सह ॥२॥मधुरायाश्च वर्गान्तादधो वर्ग्या रणौ स्वनौ।ह्रस्वस्वरेणान्तरितौ संयुक्तत्वं नकारयोः ॥३॥न कार्य्या वर्ण्यवर्णानामावृत्तिः पञ्चमाधिका ।म्हाप्राणोष्मसंयोगप्रविमुक्तलघूत्तरौ ॥४॥ललिता बलभूयिष्ठा प्रौढा या पणवर्गजा ।ऊद्र्ध्वं रेफेण युज्यन्ते नटवर्गोनपञ्चमाः ॥५॥भद्रायां परिशिष्टाः स्युः परुषा साऽभिधीयते ।भवन्ति यस्यामूष्माणः संयुक्तास्तत्तदक्षरैः ॥६॥अकारवर्ज्जमावृत्तिः स्वराणामतिभूयसी ।अनुस्वारविशर्गौ च पारुष्याय निरन्तरौ ॥७॥शषसा रेफसंयुक्ताश्चाकारश्चापि भूयसा ।अन्तस्थाभिन्नमाभ्याञ्च हः पारुष्याय संयुतः ॥८॥अन्यथापि गुरुर्वर्णः संयुक्ते परिपन्थिनि ।पारुष्यायादिमांस्तत्र पूजिता न तु पञ्चमी ॥९॥क्षेपे शब्दानुकारे च परुषापि प्रयुज्यते ।कर्णाटी कौन्तली कौन्ती कौङ्कणी वामनामिका४ ॥१०॥द्रावणि माधवी पञ्चवर्णान्तस्थोष्मभिः क्रमात् ।अनेकवर्णावृत्तिर्या भिन्नार्थप्रतिपादिका ॥११॥यमकं साव्यपेतञ्च व्यपेतञ्चेति तद्द्विधा ।आनन्तर्यादव्यपेतं व्यपेतं व्यवधानतः ॥१२॥द्वैविध्येनानयोः स्थानपादभेदाच्चतुर्विधम् ।आदिपादादिमध्यान्तेष्वेकद्वित्रिनियोगतः ॥१३॥सप्तधा सप्तपूर्वेण५ चेत् पादेनोत्तरोत्तरः ।एकद्वित्रिपदारम्भस्तुल्यः षोढा तदापरं ॥१४॥तृतीयं त्रिविधं पादस्यादिमध्यान्तगोचरम् ।पादान्तयमकञ्चैव काञ्चीयमकमेव च ॥१५॥संसर्गयमकञ्चैव विक्रान्तयमकन्तथा ।पादादियमकञ्चैव तथाम्रेडितमेव च ॥१६॥चतुर्व्यवसितञ्चैव मालायमकमेव च ।दशधा यमकं श्रेष्ठं तद्भेदा बहवोऽपरे ॥१७॥स्वतन्त्रस्यान्यतन्त्रस्य पदस्यावर्त्तना द्विधा ।भिन्नप्रयोजनपदस्यावृत्तिं त्वेकत्र विग्राहात् ॥१८॥द्वयोरावृत्तपदयोः समस्ता स्यात्समासतः ।असमासात्तयोर्व्यस्ता पादे त्वेकत्र विग्रहात् ॥१९॥वाक्यस्यावृत्तिरप्येवं यथासम्भवमिष्यते ।अलङ्काराद्यनुप्रासो लघुमध्येवमर्हणात् ॥२०॥यया कयाचिद्वृत्या यत् समानमनुभूयते ।तद्रूपादिपदासत्तिः सानुप्रासा रसावहा ॥२१॥गोष्ठ्यां कुतूहलाध्यायी वाग्बन्धश्चित्रमुच्यते ।प्रश्नः प्रहेलिका गुप्तं च्युतदक्ते तथोभयम् ॥२२॥समस्या सप्त तद्भेदा नानार्थस्यानुयोगतः ।यत्र प्रदीयते तुल्यवर्णविन्यासमुत्तरं ॥२३॥स प्रश्नः स्यादेकपृष्टद्वपृष्टोत्तरभेदतः ।द्विधैकपृष्टो द्विविधः समस्तो व्यस्त एव च ॥२४॥द्वयोरप्यर्थयोर्गुह्यमानशब्दा प्रहेलिका ।सा द्विधार्थी च शाब्दी च तत्रार्थी चार्थबोधतः ॥२५॥शब्दावबोधतः शाब्दी प्राहुः षोढा प्रहेलिकां ।यस्मिन् गुप्तेऽपि वलाक्याङ्गे बाव्यर्थोऽपारमार्थिकः ॥२६॥तदङ्गविहिताकाङ्क्षस्तद्गुप्तं गूढ़मप्यदः ।यत्रार्थान्तरनिर्बासो वाक्याङ्गच्यवनादिभिः ॥२७॥तदङ्गविहिताकाङ्क्षस्तच्चुतं स्याच्चतुर्विधम् ।स्वरव्यञ्जनविन्दूनां विसर्गस्य च विच्युतेः ॥२८॥दत्तेपि यत्र वाक्याङ्गे द्वितीयोर्थः प्रतीयते ।तद्द्न्तदाहुस्तद्भेदाः स्वराद्यैः पूर्व्ववन्मताः ॥२९॥अपनीताक्षरस्थाने न्यस्ते वर्णान्तरेऽपि च ।भासतेऽर्थान्तरं यत्र च्युतदत्तं तदुच्यते ॥३०॥सुश्लिष्टपद्यमेकं यन्नानाश्लोकांशनिर्म्मितम् ।सा ममस्या परस्यात्मपरयोः कृतिसङ्करात् ॥३१॥दुःखेन कृतमत्यर्थं कविसामर्थ्यसूचकम् ।दुष्करं नीरसत्वेपि विदग्धानां महोत्सवः ॥३२॥नियमाच्च विदर्बाच्च बन्धाच्च भवति त्रिधा ।कवेः प्रतिज्ञा निर्म्माणरम्यस्य नियमः समृतः ॥३३॥प्रातिलोम्यानुलोम्यञ्च शब्देनार्थेन जायते ।अनेकधावृत्तवर्णविन्यासैः शिल्पकल्पना ॥३४॥प्रातिलोम्यानुलोम्यञ्च शब्देनार्थेन जायते ।अनेकधावृत्तवर्णविन्यासैः शिल्पकल्पना ॥३५॥तत्तत्प्रसिद्धवस्तूनां बन्ध इत्यभिधीयते ।गोमूत्रिकार्द्धभ्रमणे सर्व्वतोभद्रमम्बुजम् ॥३६॥चक्रञ्चक्राब्जकं दण्डो मुरजाश्चेति चाष्टधा ।प्रत्यर्धं प्रतिपादं स्यादेकान्तरसमाक्षरा ॥३७॥द्विधा गोमूत्रिकां पूर्व्वामाहुरश्वपदां परे ।अन्त्याङ्गोमूत्रिकां धेनुं जालबन्धं वदन्ति हि ॥३८॥अर्द्धाभ्यामर्धपादैश्च कुर्य्याद्विन्यासमेतयोः ।न्यस्तानामिह वर्णानामधोधः क्रमभागिनां ॥३९॥अधोधः स्थितवर्णानां यावत्तूर्य्यपदन्नयेत् ।तुर्य्यपादान्नयेदूद्र्ध्वं पादार्द्धं प्रातिलोम्यतः ॥४०॥तदेव सर्व्वतोभद्रं त्रिविधं सरसीरुहं ।चतुष्पत्रं ततो विघ्नं चतुष्पत्रे उभे अपि ॥४१॥अथ प्रथमपादस्य मूर्द्धन्यस्त्रिपदाक्षरं ।सर्व्वेषामेव पादानामन्ते तदुपजायते ॥४२॥प्राक्पदस्यान्तिमं प्रत्यक् पादादौ प्रातिलोम्यतः ।अन्त्यपादान्तिमञ्चाद्यपादादावक्षरद्वयं ॥४३॥चतुश्छदे भवेदष्टच्छदे वर्णत्रयं पुनः ।स्यात् षोड़शच्छदे त्वेकान्तरञ्चेदेकमक्षरं ॥४४॥कर्णिकां तोलयेदूद्र्ध्वं पत्राकाराक्षरावलिं ।प्रवेशयेत् कर्णिकायाञ्चतुष्पत्रसरोरुहे ॥४५॥कर्णिकायां लिखेदेकं द्वे द्वे दिक्षु विदिक्षु च ।प्रवेशनिर्गमौ दिक्षु कुर्य्यादष्टच्छदेऽम्बुजे ॥४६॥विश्वग्विषमवर्णानां तावत् पत्राबलीजुषां ।मध्ये समाक्षरन्यासः सरोजे षोड़शच्छदे ॥४७॥द्विधा चक्रं चतुररं षड़रन्तत्र चादिमं ।पूर्व्वार्द्धे सदृशा वर्णाः पादप्रथमपञ्चमा ॥४८॥अयुजोऽश्वयुजश्चैव तुर्य्यावप्यष्टमावपि ।तस्योपपादप्राक्प्रत्यगरेषु च यथाक्रमं ॥४९॥स्यात्पादार्द्धचतुष्कन्तु नाभौ तस्याद्यमक्षरं ।पश्चिमारावधि नयेन्नेमौ शेषे पदद्वयी ॥५०॥तृतीयं तुर्य्यपादान्ते प्रथमौ सदृशावुभौ ।वर्णौ पाढ़त्रयस्यापि दशमः सदृशो यदि ॥५१॥प्रथमे चरमे तस्य षड्वर्णाः पश्चिमे यदि ।भवन्ति द्व्यन्तरं तर्हि वृहच्चक्रमुदाहृतं ॥५२॥सम्मुखाद्वये पादमेकैकं क्रमशो लिखेत् ।नाभौ तु वर्णं दशमं नेमौ तुर्य्यपदन्नयेत् ॥५३॥श्लोकस्याद्यन्तदशमाः समा आद्यन्तिमौ युजोः ।आदौ वर्णः समौ तुर्य्यपञ्चमावाद्यतुर्य्ययोः ॥५४॥द्वितायप्रातिलोम्येन तृतीयं जायते यदि ।पदं विदध्यात् पत्रस्य दण्डश्चक्राब्जकं कृतेः ॥५५॥द्वितीयौ प्राग्दले तुल्यौ सप्तमौ च तथापरौ ।सट्टशावुत्तरदलौ द्वितीयाभ्यामथार्द्धयोः ॥५६॥द्वितीयषष्ठाः सट्टशाश्चतुर्थपञ्चमावपि ।आद्यन्तपादयोस्तुल्यौ परार्द्धसप्तमावपि ॥५७॥समौ तुर्य्यं पञ्चमन्तु क्रमेण विनियोजयेत् ।तुर्य्यौ योज्यौ तु तद्वच्च दलान्ताः क्रमपादयोः ॥५८॥अर्द्धयोरन्तिमाद्यौ तु मुरजे सदृशावुभौ ।पादार्द्धपतितो वर्णः प्रातिलोम्यानुलोमतः ॥५९॥अन्तिमं परिबध्नीयाद्यावत्तुर्य्यमिहादिमत् ।पादात्तुर्य्याद्यदेवाद्यं नवमात् षोड़शादपि ॥६०॥अक्षरात् पुटके मध्ये मद्येऽक्षरचतुष्टयम् ।कृत्वा कुर्य्याद्यथैतस्य मुरजाकारता भवेत् ॥६१॥द्वितीयं चक्रशार्दूलविक्रीडितकसम्पदम् ।गोमूत्रिका सर्ववृत्तैरन्ये बन्धास्त्वनुष्टुभा ॥६२॥नामधेयं यदि न चेदमीषु कविकाव्ययोः ।मित्रधेयाभितुष्यन्ति नामित्रः खिद्यते तथा ॥६३॥वाणबाणासनव्योमखड्गमुद्गरशक्तयः ।द्विचतुर्थत्रिश्रृङ्गाटा दम्भोलिमुष्लाङ्कुशाः ॥६४॥पदं रथस्य नागस्य पुष्करिण्यसिपुत्रिका ।एते बन्धास्तथा चान्ये एवं ज्ञेयाः स्वयं बुधैः ॥६५॥इत्यादिमहापुराणे आग्नेये अलङ्कारे शब्दालङ्कारनिरूपणं नाम त्रिचत्वारिंशदधिकत्रिशततमोऽध्यायः॥ N/A References : N/A Last Updated : September 23, 2020 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP