संस्कृत सूची|संस्कृत साहित्य|पुराण|अग्निपुराण|
अष्टाष्टकदेव्यः

अध्याय १४६ - अष्टाष्टकदेव्यः

अग्निपुराणात त्रिदेव – ब्रह्मा, विष्‍णु, महेश आणि सूर्य ह्या देवतांसंबंधी पूजा-उपासनाचे वर्णन केलेले आहे.


ईश्वर उवाच
त्रिखण्डीं सम्प्रवक्षामि ब्रह्मविष्णुमहेश्वरीं ॥१॥
ओं नमो भगवते रुद्राय नमः । नमश्चामुण्डे नमश्चाकाशमातॄणां सर्वकामार्थसाधनीनामजरामरीणां सर्वत्राप्रतिहतगतीनां स्वरूपरूपपरिवर्तिनीनां सर्वसत्त्ववशीकरणोत्सादनीन्मूलनसमस्तकर्मप्रवृत्तानां सर्वमातृगुह्यं हृदयं परमसिद्धं परकर्मच्छेदनं परमसिद्धिकरम्मातॄणां वचनं शुभं
ब्रह्मखण्डपदे रुद्रैरेकविंशाधिकं शतं ॥१॥
तद्यथा, ओं नमश्चामुण्डे ब्रह्माणि अघोरे अमोघे वरदे विच्चे स्वाहा । ओं नमःचामुण्डे माहेश्वरि अघोरे अमोघे वरदे विच्चे स्वाहा । ओं नमश्चामुण्डे कौमारि अघोरे अमोघे वरदे विच्चे स्वाहा ।ों नमश्चामुण्डे वैष्णवि अघोरे अमोघे वरदे विच्चे स्वाहा । ओं नमश्चामुण्डे वाराहि अघोरे अमोघे वरदे विच्चे स्वाहा । ओं नमश्चामुण्डे इन्द्राणि अघोरे अमोघे वरदे विच्चे स्वाहा । ओं नमश्चामुण्डे चण्डि अगोरे अमोघे वरदे विच्चे स्वाहा । ओं नमश्चामुण्डे ईशानि अघोरे अमोघे वरदे विच्चे स्वाहा(१)
यथाक्षरपदानां हि विष्णुखण्डन्द्वितीयकं ॥२॥
ओं नमश्चामुण्डे ऊर्ध्वकेशि ज्वलितशिखरे(२) विद्युज्जिह्वे तारकाक्षि पिण्गलभ्रुवे विकृतदंष्ट्रे क्रुद्धे ओं मांसशोणितसुरासवप्रिये हस २ ओं नृत्य २ ओं विजृम्भय २ ओं मायत्रैलोक्यरूपसहस्रपरिवर्तिनीनां ओं बन्ध २ ओं कुट्ट २ चिरि २ हिरि २ भिरि २ त्रासनि २ भ्रामणि २ ओं द्राविणि २ क्षोभणि २
टिप्पणी
१ ओं नमश्चामुण्डे माहेश्वरीत्यादिः, विच्चे स्वाहेत्यन्तः पाठः छ.. पुस्तके नास्ति
२ ज्वलितशिख इति ख.. , ङ.. , घ.. , ञ.. च
मारिणि २ संजीवनि २ हेरि २ गेरि २ घेरि २ ओं मुरि २ ओं नमो मातृगणाय नमो नमो विच्चे
एकत्रिंशत्पदं शम्भोः शतमन्त्रैकसप्ततिः ॥२॥
हे घौं पञ्चप्रणवाद्यन्तां त्रिखण्डीञ्च जपेद्यजेत् ॥३॥
हे घौं श्रीकुब्जिकाहृदयं पदसन्धौ तु योजयेत् ॥३॥
अकुन्तादित्रिमध्यस्थं कुलादेश्च त्रिमध्यगं ॥४॥
मध्यमादि त्रिमध्यस्थं पिण्डं पादे त्रिमध्यगं ॥४॥
त्रयार्धमात्रासंयुक्तं प्रणवाद्यं शिखाशिवां ॥५॥
ओं क्ष्रौं शिखाभैरवाय नमः । स्खीं स्खौं स्खें सवीजत्र्यक्षरः
ह्रां ह्रीं ह्रैं निर्वीजन्त्र्यर्णं द्वात्रिंशद्वर्णकम्परं ॥५॥
क्षादयश्च ककारान्ता अकुला च कुलक्रमात् ॥६॥
शशिनी भानुनी चैव पावनी शिव इत्यतः ॥६॥
गान्धरी णश्च पिण्डाक्षी चपला गजजिह्विका ॥७॥
म मृषा भयसारा स्यान्मध्यमा फोऽजराय च ॥७॥
कुमारो कालरात्री न सङ्कटा द ध कालिका ॥८॥
फ शिवा भवघोरा ण ट वीभत्सा त विद्युता ॥८॥
ठ विश्वम्भरा शंशिन्या ढ ज्वालामालया तथा ॥९॥
कराली दुर्जया रङ्गी वामा ज्येष्ठा च रौद्र्यपि ॥९॥
ख काली क कुलालम्वी अनुलोमा द पिण्डिनी ॥१०॥
आ वेदिनी इ रूपी वै शान्तिर्मूर्तिः कलाकुला ॥१०॥
ऋ खड्गिनी उ बलिता ळ कुला ॡ तथा यदि ॥११॥
सुभगा वेदनादिन्या कराली अं च मध्यमा ॥११॥
अः अपेतरया पीठे पूज्याश्च कक्तयः क्रमात् ॥१२॥
स्खां स्खीं स्खौं महाभैरवाय नमः ॥१२॥
अक्षोद्या ह्यृक्षकर्णी च राक्षसी क्षपणक्षया ॥१२॥
पिङ्गाक्षी चाक्षया क्षेमा ब्रह्माण्यष्टकसंस्थिताः ॥१३॥
इला लीलावती नीला लङ्गा लङ्केश्वरी तथा ॥१३॥
लालसा विमला माला(१) माहेश्वर्य.अष्टके स्थिताः ॥१४॥
हुताशना विशालाक्षी ह्रूङ्कारी वडवामुखी ॥१४॥
हाहारवा तथा क्रूरा क्रोधा बाला खरानना ॥१५॥
कौमार्या देहसम्भूताः पूजिताः सर्वसिद्धिदाः ॥१५॥
स्सर्वज्ञा तरला तारा ऋग्वेदा च हयानना ॥१६॥
सारासारस्वयङ्ग्राहा शाश्वती(२) वैष्णवीकुले ॥१६॥
तालुजिह्वा च रक्ताक्षी विद्युज्जिह्वा करङ्किणी ॥१७॥
मेघनादा प्रचण्डोग्रा कालकर्णी कलिप्रिया ॥१७॥
वाराहीकुलसम्भूताः पूजनीया जयार्थिना ॥१८॥
चम्पा चम्पावती चैव प्रचम्पा ज्वलितानना ॥१८॥
पिशाची पिचुवक्त्रा च लोलुपा ऐन्द्रीसम्भवाः ॥१९॥
पावनी याचनी चैव वामनी दमनी तथा ॥१९॥
बिन्दुवेला वृहत्कुक्षी विद्युता विश्वरूपिणी ॥२०॥
चामुण्डाकुलसम्भूता मण्डले पूजिता जये ॥२०॥
यमजिह्वा जयन्ती च दुर्जया च यमान्तिका(३) ॥२१॥
टिप्पणी
१ लोला इति ज..
२ सात्त्विकी इति ज..
३ जयन्तिकेति ख..
विडाली रेवती चैव जया च विजया तथा ॥२१॥
महालक्ष्मीकुले जाता अष्टाष्टकमुदाहृतम् ॥२२॥२

इत्याग्नेये महापुराणे अष्टाष्टकादिर्नाम षट्चत्वारिंशदधिकशततमोऽध्यायः ॥

N/A

References : N/A
Last Updated : September 17, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP