संस्कृत सूची|संस्कृत साहित्य|पुराण|अग्निपुराण|
रसादिलक्षणम्

अध्याय २८१ - रसादिलक्षणम्

अग्निपुराणात त्रिदेव – ब्रह्मा, विष्‍णु, महेश आणि सूर्य ह्या देवतांसंबंधी पूजा-उपासनाचे वर्णन केलेले आहे.


धन्वन्तरिरुवाच
रसादिलक्षणं वक्ष्ये भेषजानां गुणं श्रृणु ।
रसवीर्य्यविपाकज्ञो नृपादीन्रक्षयेन्नरः ॥१॥

रसाः स्वाद्वम्ललवणाः सोमजाः परिकीर्त्तिताः ।
कटुतिक्तकषायानि तथाग्नेया महाभुज ॥२॥

त्रिधा विपाको द्रव्यस्य कट्‌वम्ल्लवणआत्मकः ।
द्विधा वीय्य समुद्दिष्टमुष्णं शीतं तथैव च ॥३॥

अनिर्देश्यप्रभावश्च ओषधीनां द्विजोत्तम ।
मधुरश्च कषायश्च तिक्तश्चैव तथा रसः ॥४॥

शीतवीर्य्याः समुद्दिष्टाः शेषास्तूष्णाः प्रकीर्त्तिताः ।
गुडुची तत्र तिक्तापि भवत्युष्णातिवीर्यतः ॥५॥

उष्णा कषायापि तथा पथ्या भवति मानद ।
मधुरोपि तथा मांस उष्ण एव प्रकीर्त्तितः ॥६॥

लवणो मधुरश्चैव विपाकमधुरौ स्मृतौ ।
अम्लोष्णश्च तथा प्रोक्तः शेषाः कटुविपाकिनः ॥७॥

वीर्य्यपाके विपर्य्यस्ते प्रभावात्तत्र निश्चयः ।
मधुरोऽपि कटुः पाके यच्चः क्षौद्रं प्रकीर्त्तितं ॥८॥

क्काथयेत् षोडशगुणं पिवेद्‌द्रव्याच्चतुर्गुणम् ।
कल्पनैषा कषायस्य यत्र नोक्तो विधिर्भवेत् ॥९॥

कषायन्तु भवेत्तोयं स्नेहपाके चतुर्गुणं ।
द्रव्यतुल्यं समुद्‌धृत्य द्रव्यं स्नेहं क्षिपेद्‌बुधः ॥१०॥

तावत्प्रमाणं द्रव्यस्य स्नेहपादं ततः क्षिपेत् ।
तोयवर्ज्जन्तु यद्‌द्रव्यं स्नेहद्रब्यं तथा भवेत् ॥११॥

संवर्त्तितौषधः पाकः स्नेहानां परिकीर्त्तितः ।
तत्तुल्यता तु लेह्यस्य तथा भवति सुश्रुत ॥१२

स्वच्छमल्पौषधं क्काथं कषायञ्चोक्तवद्भवेत् ।
अक्षं चूर्णस्य निर्दिष्टं कषायस्य चतुष्पलं ॥१३॥

मध्यमैषा स्मृता मात्रा नास्ति मात्राविकल्पना ।
वयः कालं बलं वह्निं देशं द्रव्यं रुजं तथा ॥१४॥

समवेक्ष्य महाभाग मात्रायाः कल्पना भवेत् ।
सौम्यास्तत्र रसाः प्रायो विज्ञेया धातुवर्द्धनाः ॥१५॥

मधुरास्तु विशेषेण विज्ञेया धातुवर्द्धनाः ।
दोषाणाञ्चैव धातूना द्रव्यं समगुणन्तु यत् ॥१६॥

तदेव वृद्धये ज्ञेयं विपरीतं क्षमावहम् ।
उपस्तम्भत्रयं प्रोक्तं देहेऽस्मिन्मनुजोत्तम ॥१७॥

आहारो मैथुनं निद्रा तेषु यत्नः सदा भवेत् ।
असेवनात् सेवनाच्च अत्यन्तं नाशमाप्नुयात् ॥१८॥

क्षयस्य बृंहणं कार्यं स्थूलदेहस्य कर्षणम् ।
रक्षणं मध्यकायस्य देहभेदास्त्रयो मताः ॥१९॥

उपक्रमद्वयं प्रोक्तं तर्पणं वाप्यतर्पणं ।
हिताशीच मिताशी च जीर्णाशी च तथा भवेत् ॥२०॥

ओषधीनां पञ्चविधा तथा भवति कल्पना ।
रसः कल्कः श्रृतः शीतः फाण्टश्च मनुजोत्तम ॥२१॥

रसश्च पीडको ज्ञेयः कल्क आलोड़िताद्‌ भवेत् ।
क्कथितश्च श्रृतो ज्ञेयः शीतः पर्युषितो निशां ॥२२॥

सद्योभिश्रृतपूतं यत् तत् फाण्टमभिधीयते ।
करणानां शतञ्चैव षष्टिश्चैवाधिका स्मृता ॥२३॥

यो वेत्ति स ह्यजेयः स्यात्सम्बन्धे वाहुशौण्डिकः ।
आहारशुद्धिरगन्यर्थमग्निमूलं बलं नृणां ॥२४॥

ससिन्धुत्रिफलाञ्चाद्यात्सुराज्ञि अभिवर्णदां ।
जाङ्गलञ्च रसं सिन्धुयुक्तं दधि पयः कणां ॥२५॥

रसाधिकं समं कुर्य्यान्नरो वाताधिकोऽपि वा ।
निदाघे मर्द्दनं प्रोक्तं शिशिरे च समं बहु ॥२६॥

वसन्ते मध्यमं ज्ञेयन्निदाघे मर्दनोल्वणं ।
त्वचन्तु प्रथमं मर्द्द्यमङ्गञ्च तदनन्तरं ॥२७॥

स्नायुरुधिरदेहेषु अस्थि भातीव मांसलं ।
स्कन्धौ बाहू तथैवेह तथा जङ्घे सजानुनी ॥२८॥

अरिवन्‌मर्द्दयेत् प्राज्ञो जत्रु वक्षश्च पूर्ववत् ।
अङ्गसन्धिषु सर्व्वेषु निष्पीड्य बहुलं तथा ॥२९॥

प्रसारयेदङ्गसन्धीन्न च क्षेपेण चाक्रमात् ।
नाजीर्णे तु श्रमं कुर्य्यान्न भुक्त्वा पीतवान्नरः ॥३०॥

दिनस्य तु चतुर्भाग ऊद्‌र्ध्वन्तु प्रहरार्द्धके ।
व्यायामं नैव कर्त्तव्यं स्नायाच्छीताम्बुना सकृत् ॥३१॥

वार्य्युष्णञ्च श्रमं जह्याद्‌धृदा श्वासन्न धारयेत् ।
व्यायामश्च कफं हन्याद्वातं हन्याच्च मर्द्दनम् ॥३२॥

स्नानं पित्ताधिकं हन्यात्तस्यान्ते चातपाः प्रियाः ।
आतपक्लेशकर्मादौ क्षेमव्यायामिनो नराः ॥३३॥

इत्यादिमहापुराणे आग्नेये रसादिलक्ष्णं नामैकाशीत्यधिकद्विशततमोऽध्यायः॥

N/A

References : N/A
Last Updated : September 21, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.