संस्कृत सूची|संस्कृत साहित्य|पुराण|अग्निपुराण|
मन्त्रमाहात्म्यं

अध्याय २१४ - मन्त्रमाहात्म्यं

अग्निपुराणात त्रिदेव – ब्रह्मा, विष्‍णु, महेश आणि सूर्य ह्या देवतांसंबंधी पूजा-उपासनाचे वर्णन केलेले आहे.


अग्निरुवाच
नाडीचक्रं प्रवक्ष्यामि यज्ज्ञानाज्ज्ञायते हरिः ।
नाभेरधस्ताद्यत्कन्दमङ्कुरास्तत्र निर्गताः ॥१॥
द्वासप्ततिसहस्राणि नाभिमध्ये व्यवस्थिताः ।
तिर्यगूर्ध्वमधश्चैव व्याप्तन्ताभिः समन्ततः ॥२॥
चक्रवत्संस्थिता ह्येताः प्रधाना दशनाडयः ।
इडा च पिङ्गला चैव सुसुम्णा च तथैव च ॥३॥
गान्धारी हस्तिजिह्वा च पृथा चैव यथा तथा ।
अलम्बुषा हुहुश्चैव शङ्खिनी दशमी स्मृता ॥४॥
दश प्राणवहा ह्येता नाडयः परिकीर्तिताः ।
प्राणोऽपानः समानश्च उदानो व्यान एव च ॥५॥
नागः कूर्मोऽथ कृकरो देवदत्तो धनञ्जयः ।
प्राणस्तु प्रथमो वायुर्दशानामपि स प्रभुः ॥६॥
प्राणः प्राणयते प्राणं विसर्गात्पूरणं प्रति ।
नित्यमापूरयत्येष प्राणिनामुरसि स्थितः ॥७॥
निःश्वासोच्छ्वासकासैस्तु प्राणो जीवसमाश्रितः ।
प्रयाणं कुरुते यस्मात्तस्मात्प्राणः प्रकीर्तितः ॥८॥
अधो नयत्यपानस्तु आहारञ्च नृणामधः ।
मूत्रशुक्रवहो वायुरपानस्तेन कीर्तितः ॥९॥
पीतभक्षितमाघ्रातं रक्तपित्तकफानिलं ।
समन्नयति गात्रेषु समानो नाम मारुतः ॥१०॥
स्पन्दयत्यधरं वक्त्रं नेत्ररागप्रकोपनं ।
उद्वेजयति मर्माणि उदानो नाम मारुतः ॥११॥
व्यानो विनामयत्यङ्गं व्यानो व्याधिप्रकोपनः ।
प्रतिदानं तथा कण्ठाद्व्यापानाद्व्यान उच्यते ॥१२॥
उद्गारे नाग इत्युक्तः कूर्मश्चोन्मीलने स्थितः ।
कृकरो भक्षणे चैव देवदत्तो विजृम्भिते ॥१३॥
धनञ्जयः स्थितो घोषे मृतस्यापि न मुञ्चति ।
जीवः प्रयाति दशधा नाडीचक्रं हि तेन तत् ॥१४॥
सङ्क्रान्तिर्विषुवञ्चैव अहोरात्रायनानि च ।
अधिमास ऋणञ्चैव ऊनरात्र धनन्तथा(१) ॥१५॥
ऊनरात्रं भवेद्धिक्का अधिमासो विजृम्भिका ।
ऋणञ्चात्र भवेत्कासो निश्वासो धनमुच्यते(२) ॥१६॥
उत्तरं दक्षिणं ज्ञेयं वामं दक्षिणसञ्ज्ञितं ।
मध्ये तु विषुवं प्रोक्तं पुटद्वयविनिःस्मृतं ॥१७॥
सङ्क्रान्तिः पुनरस्यैव स्वस्थानात्स्थानयोगतः ।
सुसुम्णा मध्यमे ह्यङ्गे इडा वामे प्रतिष्ठिता ॥१८॥
पिङ्गला दक्षिणे विप्र ऊर्ध्वं प्राणो ह्यहः स्मृतं ।
अपानो रात्रिरेवं स्यादेको वायुर्दशात्मकः ॥१९॥
आयामो देहमध्यस्थः सोमग्रहणमिष्यते ।
देहातितत्त्वमायामं आदित्यग्रहणं विदुः ॥२०॥
उदरं पूरयेत्तावद्वायुना यावदीप्सितं ।
प्राणायामी भवेदेष पूरका देहपूरकः ॥२१॥
पिधाय सर्वद्वाराणि निश्वासोच्छ्वासवर्जितः ।
सम्पूरणकुम्भवत्तिष्ठेत्प्राणायामः स कुम्भकः ॥२२॥
मुञ्चेद्वायुं ततस्तूर्ध्वं श्वासेनैकेन मन्त्रवित् ।
उच्छ्वासयोगयुक्तश्च वायुमूर्द्वं विरेचयेत् ॥२३॥
............................................
टिप्पणी
१ बलन्तथेति ञ..
२ बलमुच्यते इति ञ.. , झ.. च
...........................................
उच्चरति स्वयं यस्मात्स्वदेहावस्थितः शिवः ।
तस्मात्तत्त्वविदाञ्चैव स एव जप उच्च्यते ॥२४॥
अयुते द्वे सहस्रैकं षट्शतानि तथैव च ।
अहोरात्रेण योगीन्द्रो जपसङ्ख्यां करोति सः ॥२५॥
अजपा नाम गायत्री ब्रह्मविष्णुमहेश्वरी ।
अजपां जपते यस्तां पुनर्जन्म न विद्यते ॥२६॥
चन्द्राग्निरविसंयुक्ता आद्या कुण्डलिनी मता ।
हृत्प्रदेशे तु सा ज्ञेया अङ्कुराकारसंस्थिता ॥२७॥
सृष्टिन्यासो भवेत्तत्र स वै सर्गावलम्बनात् ।
स्रवन्तं चिन्तयेत्तस्मिन्नमृतं सात्त्विकोत्तमः ॥२८॥
देहस्थः सकलो ज्ञेयो निष्फलो देहवर्जितः(१) ।
हंसहंसेति यो ब्रूयाद्धंसो देवः सदाशिवः ॥२९॥
तिलेषु च यथा तैलं पुष्पे गन्धः समश्रितः ।
पुरुषस्य तथा देहे स वाह्याभ्यन्तरां स्थितः ॥३०॥
ब्रह्मणो हृदये स्थानं कण्ठे विष्णुः समाश्रितः ।
तालुमध्ये(२) स्थितो रुद्रो ललाटे तु महेश्वरः ॥३१॥
प्राणाग्रन्तु शिवं विद्यात्तस्यान्ते तु परापरं ।
पञ्चधा सकलः प्रोक्तो विपरीतस्तु निष्फलः ॥३२॥
प्रासादं नादमुत्थाप्य शततन्तु जपेद्यदि ।
षण्मासात्सिद्धिमाप्नोति योगयुक्तो न संशयः ॥३३॥
गमागमस्य ज्ञानेन सर्वपापक्षयो भवेत् ।
..............................................
टिप्पणी
१ देहपूजित इति ख.. , घ.. , छ.. च
२ तालुमूले इति ख..
...........................................
अणिमादिगुणैश्वर्यं षड्भिर्मासैरवाप्नुयात् ॥३४॥
स्थूलः सूक्ष्मः परश्चेति प्रासादः कथितो मया ।
ह्रस्वो दीर्घः प्लुतश्चेति प्रासादं लक्षयेत्त्रिधा ॥३५॥
ह्रस्वो दहति पापानि दीर्घो मोक्षप्रदो भवेत् ।
आप्यायने प्लुतश्चेति मूर्ध्नि विन्दुविभूषितः ॥३६॥
आदावन्ते च ह्रस्वस्य फट्कारो मारणे हितः ।
आदावन्ते च हृदयमाकृष्टौ सम्प्रकीर्तितम् ॥३७॥
देवस्य दक्षिणां मूर्तिं पञ्चलक्षं स्थितो जपेत् ।
जपान्ते घृतहोमस्तु दशसाहस्रिको भवेत् ॥३८॥
एवमाप्यायितो मन्त्रो वश्योच्चाटादि कारयेत् ।
ऊर्ध्वे शून्यमधः शून्यं मध्ये शून्यं निरामयं ॥३९॥
त्रिशून्यं यो विजानाति मुच्यतेऽसौ ध्रुवं द्विजः ।
प्रासादं यो न जानाति पञ्चमन्त्रमहातनुं ॥४०॥
अष्टत्रिंशत्कलायुक्तं न स आचार्य उच्यते ।
तथोङ्कारञ्च गायत्रीं रुद्रादीन् वेत्त्य.असौ गुरुः ॥४१॥
इत्याग्नेये महापुराणे मन्त्रमाहात्म्यं नाम चतुर्दशाधिकद्विशततमोऽध्यायः ॥

N/A

References : N/A
Last Updated : September 20, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP