संस्कृत सूची|संस्कृत साहित्य|पुराण|अग्निपुराण|
नवग्रहहोमः

अध्याय १६४ - नवग्रहहोमः

अग्निपुराणात त्रिदेव – ब्रह्मा, विष्‍णु, महेश आणि सूर्य ह्या देवतांसंबंधी पूजा-उपासनाचे वर्णन केलेले आहे.


पुष्कर उवाच
श्रीकामः शान्तिकामो वा ग्रहयज्ञं समारभेत् ॥१॥
वृष्ट्यायुःपुष्टिकामो वा तथैवाभिचरन् पुनः ॥१॥
टिप्पणी
१ मनुष्यादीनिति ख.. , छ.. च
२ आयुः प्रज्ञाधनमिति ज.. । आयुः प्रजां बलमिति घ..
३ प्रीताः पितृपितामहा इति ङ..
सूर्यः सोमो मङ्गलश्च बुधश्चाथ बृहस्पतिः ॥२॥
शुक्रः शनैश्चरो राहुः केतुश्चेति ग्रहाः स्मृताः ॥२॥
ताम्रकात्स्फटिकाद्रक्तचन्दनात्स्वर्णर्कादुभौ ॥३॥
रजतादयसः शीशात्ग्रहाः कार्याः क्रमादिमे ॥३॥
सुवर्णैर्वायजेल्लिख्य गन्धमण्डलकेषु वा ॥४॥
यथावर्णं प्रदेयानि वासांसि कुसुमानि च ॥४॥
गन्धाश्च वलयश्चैव धूपो देयस्तु गुग्गुलुः ॥५॥
कर्तव्या मन्त्रयन्तश्च चरवः प्रतिदैवतं ॥५॥
आकृष्णेन इमं देवा अग्निर्मूर्धा दिवः ककुत् ॥६॥
उद्बुद्ध्यस्वेति च ऋचो यथासङ्ख्यं प्रकीर्तिताः ॥६॥
बृहस्पते अतियदर्यस्तथैवाल्पात्परिश्रुतः ॥७॥
शन्नो देवीस्तथा काण्डात्केतुं कृन्वन्निमास्तथा ॥७॥
अर्कः पालाशः खदिरो ह्यपामार्गोथ(१) पिप्पलः ॥८॥
उदुम्बरः शमी दूर्वा कुशाश्च समिधः क्रमात् ॥८॥
एकैकस्यात्राष्टशतमष्टाविंशतिरेव वा ॥९॥
होतव्या मधुसर्पिर्भ्यां दध्ना चैव समन्विताः ॥९॥
गुडौदनं पायसं च हविष्यं क्षीरयष्टिकं ॥१०॥
दध्योदनं हविः पूपान्मांसं चित्रान्नमेव च ॥१०॥
दद्याद्ग्रहक्रमदेतद्द्विजेभ्यो भोजनं बुधः ॥११॥
शक्तितो वा यथालाभं सत्कृत्य विधिपूर्वकं ॥११॥
धेनुः शङ्खस्तथानड्वान् हेम वासो हयस्तथा ॥१२॥
टिप्पणी
१ खदिरस्त्वपामार्गोऽथेति ग.. , घ.. , ञ.. च
कृष्णा गौरायसश्छाग एता वै दक्षिणाः क्रमात् ॥१२॥
यश्च यस्य यदा दूष्यः(१) स तं यत्नेन पूजयेत् ॥१३॥
ब्रह्मणैषां वरो दत्तः पूजिताः पूजितस्य च ॥१३॥
ग्रहाधीना नरेन्द्राणा(२) मुछ्रयाः पतनानि च ॥१४॥
भावभावो च जगतस्तस्मात्पूज्यतमा ग्रहाः ॥१४॥

इत्याग्नेये महापुराणे नवग्रहहोमो नाम चतुःषष्ट्यधिकशततमोऽध्यायः ॥

N/A

References : N/A
Last Updated : September 18, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP