संस्कृत सूची|संस्कृत साहित्य|पुराण|अग्निपुराण|
अछश्ववाहनसारः

अध्याय २८८ - अछश्ववाहनसारः

अग्निपुराणात त्रिदेव – ब्रह्मा, विष्‍णु, महेश आणि सूर्य ह्या देवतांसंबंधी पूजा-उपासनाचे वर्णन केलेले आहे.


धन्वन्तरिरुवाच
अश्ववाहनसारञ्च वक्ष्ये चाश्वचिकित्सनम् ।
वाजिनां संग्रहः कार्यो धर्म्मकर्मार्थसिद्धये ॥१॥

अश्विनी श्रवणं हस्तं उत्तरात्रितयन्तथा ।
नक्षत्राणि प्रशस्तानि हयानामादिवाहने ॥२॥

हेमन्तः शिशिरश्चैव वसन्तश्चाश्वावाहने ।
ग्रीष्मे शरदि वर्षासु निषिद्धं बाहनं हये ॥३॥

तीब्रैर्न्न च परैर्द्दण्डैरदेशे न च ताडयेत् ।
कीलास्थिसंकुले चैव विषमे कण्टकान्विते ॥४॥

वालुकापङ्कसंच्छन्ने गर्त्तागर्त्तप्रदूषिते ।
अचित्तज्ञो विनोपायैर्वाहनं कुरुते तु यः ॥५ ।

स वाह्यते हयेनैव पृष्ठस्थः कटिकां विना ।
छन्दं विज्ञापयेत् कोपि सुकृती धीमतां वरः ॥६॥

अब्यासादबियोगाच्च विनाशास्त्रं स्ववाहकः ।
स्नातस्य प्राङ्मुखस्याथ देवान् वपुषि योजयेत् ॥७॥

प्रणवादिनमोन्तेन स्ववीजेन यथाक्रमम् ।
ब्रह्मा चित्ते वले विष्णुर्वैनतेयः पराक्रमे ॥८॥

पार्श्वे रुद्रा गुरुर्बुद्धौ विश्वेदेवाश्च मर्मसु ।
दृगावर्त्ते दृशीन्द्वर्कौ कर्णयोरश्विनौ तथा ॥९॥

जठरेऽग्निः स्वधा स्वेदे वाग्जिह्वायां जवेऽनिलः ।
पृष्ठतो नाकपृष्ठस्तु खुराग्रे सर्वपर्वता ॥१०॥

ताराश्च रोमकूपेषु हृदि चान्द्रमसी कला ।
तेजस्यग्नीरतिः श्रोण्यां ललाटे च जगत्पतिः ॥११॥

ग्रहाश्च हेषिते चैव तथैवोरसि वासुकिः ।
उपोषितोऽर्च्चयेत् सादी हयं दक्षश्रुतौ जपेत् ॥१२॥

हय गन्धर्वराजस्त्वं श्रृणुष्व वचनं मम ।
गन्धर्वकुलकजातस्त्वं माभूस्त्वं कुलदूषकः ॥१३॥

द्विजानां सत्यवाक्येन सोमस्य गरुडस्य च ।
रुद्रस्य वरुणस्यैव पवनस्य बलेन च ॥१४॥

हुताशनस्य दीप्त्या च स्मर जाति तुरङ्गम ।
स्मर राजेन्द्रपुत्रस्त्वं सत्यवाक्यमनुस्मर ॥१५॥

समर त्वं वारुणीं कन्यां स्मर त्वं कौस्तुभं मणिं ।
क्षीरोदसागरे चैव मथ्यमाने सुरासुरैः ॥१६॥

तत्र देवकुले जातः स्ववाक्यं परिपालय ।
कुले जातस्त्वमश्वानां मित्रं मे भव शाश्वतम् ॥१७॥

श्रृणु मित्र त्वमेतच्च सिद्धो मे भव वाहन ।
विजयं रक्ष माञ्चैव समरे सिद्धिमावह ॥१८॥

तव पृष्ठं समारुह्य हता दैत्याः सुरैः पुरा ।
अधुना त्वां समारुह्य जेष्यामि रिपुवाहिनीं ॥१९॥

कर्णजापन्ततः कृत्वा मिमुह्य च तथाप्यरीन्२ ।
पर्य्यानयेद्धयं सादी वाहयेद् युद्धतो जयः ॥२०॥

सञ्जाताः स्वशरीरेण दोषाः प्रायेण वाजिनां ।
हन्यन्तेऽतिप्रयत्नेन गुणाः सादिवरैः पुनः॥ २८८.२१॥

सहजा इव दृश्यन्ते गुणाः सादिवरोद्भवाः ।
नाशयन्ति गुणानन्ये सादिनः सहजानपि ॥२२॥

गुणानेको विजानाति वेत्ति दोषांस्तथाऽपरः ।
धन्यो धीमान् हयं वेत्ति नोभयं वेत्ति मन्दधीः ॥२३॥

अकर्म्मज्ञोऽनुपायज्ञो वेगासक्तोऽतिकोपनः ।
घनदण्डरतिच्छिद्रे यः समोपि न व्शस्यते ॥२४॥

उपायज्ञोऽथ चित्तज्ञो विशुद्धो दोपनाशनः ।
गुणार्ज्जनपरो नित्यं सर्व्वकर्म्मविशारदः ॥२५॥

प्रग्रहेण गृहीत्वाऽथ चित्तज्ञो विशुद्धो दोषनाशनः ।
गुणार्ज्जनपरो नित्यं सर्व्वकर्म्मविशारदः ॥२६॥

आरुह्य सहसा नैव ताड़नीयो हयोत्तमः ।
ताड़नाद् भयमाप्नोति भयान्मोहश्च जायते ॥२७॥

प्रातः सादी प्लुतेनैव वल्गामुद्धृत्य चालयेत् ।
मन्दं मन्दं विना नालं धृतवल्गो दिनान्तरे ॥२८॥

प्रोक्तमाश्वसनं सामभेदोऽश्वेन नियोज्यते ।
कषादिताड़नं दण्डो दानं कालसहिष्णुता ॥२९॥

पूर्व्वपूर्व्वविशुद्धौ तु विदध्यादुत्तरोत्तरम् ।
जिह्वातले विनायोगं विदध्याद्वाहने हये ॥३०॥

गुणेतरशतां वल्गां सृक्कण्या सह गाहयेत् ।
विस्मार्य्य वाहनं कुर्य्याच्छिथिलानां शनैः शनैः ॥३१॥

हयं जिह्वाङ्गमाहीने जिह्वाग्रन्थिं विमोचयेत् ।
गाटतां मोचयेत्तावद्यावत् स्तोभं न मुञ्चति ॥३२॥

कुर्य्याच्छ्रतमुरस्त्राणमविलालञ्च मुञ्चति ।
ऊद्र्ध्वाननः स्वभावाद्यस्तस्योरस्त्राणमश्लथम् ॥३३॥

विधाय वाहयेद्दुष्ट्या लीलया सादिसत्तमः ।
तस्य सव्येन पूर्वेण संयुक्तं सव्यवल्गया ॥३४॥

यः कुर्य्यात्पश्चिमं पादं गृहीतस्तेन दक्षिणः ।
क्रमेणानेन यो सेवां कुरुते वामवल्गया ॥३५॥

पादौ तेनापि पादः स्याद्गृहीतो वाम एव हि ।
अग्ने चेच्चरणे त्यक्ते जायते सुदृढासनं ॥३६॥

यौ हृतौ दुष्करे चैव मोटके नाटकायनं ।
सव्यहीनं खलीकारो हनने गुणने तथा ॥३७॥

स्वबावं हि तुरङ्गस्य मुखव्यावर्त्तनं पुनः ।
न चैवेत्थं तुरङ्गाणां पादग्रहणहेतवः ॥३८॥

विश्वस्तं हयमालोक्य गाढ़मापीड्य चासनं ।
रोकयित्वा मुखे पादं ग्राह्यतो लोकनं हितं ॥३९॥

गाढ़मापीड्य रागाभ्यां वल्गामाकृष्य गृह्यते ।
तद्वन्धनाद् युग्मपादं तद्वद्वक्कनमुच्यते ॥४०॥

संयोज्य वल्गया पादान् वल्गामामोच्य वाञ्छितम् ।
वाह्यपार्ष्णिप्रयोगात्तु यत्र तत्ताड़नं मतम् ॥४१॥

प्रलयाविप्लवे ज्ञात्वा क्रमेणानेन बुद्धिमान् ।
मोटनेन चतुर्थेन विधिरेष विधीयते ॥४२॥

नाधत्तेऽधश्च यः पादं योऽस्वो लघुनि मण्डले ।
मोटनोद्वक्कनाभ्यान्तु ग्राहयेत् पादमीशितं ॥४३॥

वटयित्वासने गाटं मन्दमादाय यो ब्रजेत् ।
ग्राह्यते संग्रहाद्यत्र तत्संग्रहणमुच्यते ॥४४॥

हत्वा पार्श्वे प्रहारेण स्थानस्थो व्यग्रमानसम् ।
वल्गामाकृष्य पादेन ग्राह्यकण्टकपायनम् ॥४५॥

उत्थितो योऽङिग्नणानेन पार्ष्णिपादात्तुरह्गमः ।
गृह्यते यत् खलीकृत्य खलीकारः स चेष्यते ॥४६॥

गतित्रयेपि यः पादमादत्ते नैव वाञ्छितः ।
हत्वा तु यत्र दण्डेन ग्राह्यते गहनं हि तत् ॥४७॥

खलीकृत्य चुष्केण तुरङ्गो वल्गयान्यया ।
उच्छ्वास्य ग्राह्यतेऽन्यत्र तत्स्यादुच्छ्वासनं पुनः ॥४८॥

स्वभावं वहिरस्यन्तं तस्यां दिशि पदायनं ।
नियोज्य ग्राहयेत्तत्तु मुखव्यावर्त्तनं मतम् ॥४९॥

ग्राहयित्वा ततः पादं त्रिविधासु यथाक्रमम् ।
साधयेत् पञ्चधारासु क्रमशो मण्डलादिषु ॥५०॥

आजनोर्द्धाननं वाहं शिथिलं वाहयेत् सुधीः ।
अङ्गेषु लाघवं यावत्तावत्तं वाहयेद्धयं ॥५१॥

मृदुः स्कन्धे लघुर्वक्त्रे शिथिलः सर्वसन्धिषु ।
यदा स सादिनो वश्यः सङ्गृह्णीयात्तदा हयं ॥५२॥

न त्यजेत् पश्चिमं पादं यदा साधुर्भवेत्तदा ।
तदाकृष्टिर्व्विधातव्या पाणिभ्यामिह वल्गया ॥५३॥

तत्र त्रिको यथा तिष्ठेदुद्ग्रीवोश्वः समाननः ।
धरायां पश्चिमौ पादौ अन्तरीशे यदाश्रयौ ॥५४॥

तदा सन्धारणं कुर्य्याद्गाठवाहञ्च मुष्टिना ।
सहसैवं समाकृष्टो यस्तुरङ्गो न तिष्ठति ॥५५॥

शरीरं विक्षिपन्तञ्च साधयेन्मण्डलभ्रमैः ।
क्षिपेत् स्कन्धञ्च यो वाहं स च स्थाप्यो हि वल्गया ॥५६॥

गोमयं लवणं मूत्रं क्कथितं मृत्समन्वितम् ।
अङ्गलेपो मक्षिकादिदंशश्रमविनाशनः ॥५७॥

मध्ये भद्रादिजातीनां मण्डो देयो हि सादिना ।
दर्शनं भोततीक्षस्य निरुत्साहः क्षुधा हयः ॥५८॥

यथा वश्यस्तथा शिक्षा विनश्यन्त्यतिवाहिताः ।
अवाहिता न सिध्यन्ति तुङ्गवक्त्रांश्च वाहयेत् ॥५९॥

सम्पीड्य जानुयुग्मेन स्थिरमुष्टिस्तुरङ्गमं ।
गोमूत्राकुटिला वेणई पद्ममण्डलमालिका ॥६०॥

पञ्चोलूखलिका कार्य्या गर्वितास्तेऽतिकीर्त्तिताः८ ।
संक्षिप्तञ्चैव विक्षिप्तं कुञ्चितञ्च यथाचितम् ॥६१॥

वल्गितावल्गितौ चैव षोढा चेत्थमुदाहृतम् ।
विथीधनुःशतं यावदशीतिर्न्नवतिस्तथा ॥६२॥

भद्रः सुसाध्यो वाजी स्यान्मन्दो दण्डैकमानसः ।
मृगजङ्घो मृगो वाजी सङ्कीर्णस्तत्समन्वयात् ॥६३॥

शर्क्करामधुलाजादः सुगन्धोऽस्व शुचिर्द्विजः ।
तेजस्वी क्षत्रियश्चाश्वो विनीतो बुद्धिमांश्च यः ॥६४॥

शूद्रोऽशुचिश्चलो मन्दो विरूपो विमतिः खलः ।
वल्गया धार्य्यमाणोऽश्वो लालकं यश्च दर्शयेत् ॥६५॥

धारासु योजनीयोऽसौ प्रग्रहग्रहमोक्षणैः ।
अश्वादिलक्षणं वक्ष्ये शालिहोत्रो यथावदत् ॥६६॥

इत्यादिमहापुराणे आग्नेये अश्ववाहनसारो नामाष्टाशीत्यधिकद्विशततमोऽध्यायः॥

N/A

References : N/A
Last Updated : September 21, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.