संस्कृत सूची|संस्कृत साहित्य|पुराण|अग्निपुराण| गीतासारः अग्निपुराण महत्व ग्रन्थप्रस्तावना मत्स्यावतारवर्णनम् कूर्मावतारवर्णनम् वराहाद्यवतारवर्णनम् श्रीरामावतारवर्णनम् अयोध्याकाण्डवर्णनं आरण्यककाण्डवर्णनं किष्किन्धाकाण्डर्णनं सुन्दरकाण्डवर्णनं युद्धकाण्डवर्णनं उत्तरकाण्डवर्णनं श्रीहरिवंशवर्णनम् कुरुपाण्डवोत्पच्यादिकथनम् कुरुपाण्डवसङ्ग्रामवर्णनम् पाण्डवचरितवर्णनम् बुद्धाद्यतारकथनम् सृष्टिविषयकवर्णनम् स्वायम्भुववंशवर्णनम् कश्यपवंशवर्णनम् सर्गविषयकवर्णनम् सामान्यपूजाकथनम् स्नानविधिकथनम् पूजाविधिकथनम् वासुदेवादिमन्त्रनिरूपणम् मुद्रालक्षणकथनम् अभिषेकविधानम् सर्वतोभद्रमण्डलकथनम् मण्डलविधिः मार्जनविधानम् संस्कारकथनं पवित्रारोहणविधानम् होमादिविधिः पवित्राधिवासनादिविधिः पवित्राशेपणविधानम् सर्वदेवपवित्राशेहणविधिः देवालयनिर्म्माणफलम् भृपरिग्रहविधानम् अर्घ्यदानविधानम् शिलादिन्यासविधानम् प्रासादलक्षणकथनम् प्रासाददेवतास्थापनम् भूतशान्त्यादिकथनम् वासुदेवादिप्रातिमालक्षणविधिः पिण्डिकालक्षणकथनम् शालग्रामादिमूर्त्तिलक्षणकथनम् शालग्रामादिपूजनकथनम् चतुर्विंशतिमूर्त्तिंस्तोत्रकथनम् मत्स्यादिसक्षणवर्णनम् देवीप्रतिमालक्षणकथनम् सूर्यादिप्रतिमालक्षणम् देवीप्रतिमालक्षणम् लिङ्गलक्षणम् लिङ्गमानादिकथनम् पिण्डिकालक्षणकथनम् दिक्पालयागकथनम् कुम्भाधिवासविधिः स्नानादिविधिः अधिवासकथनम् वासुदेवप्रतिष्ठादिविधिः ध्वजारोहणं लक्ष्मीप्रतिष्ठाविधिः सुदर्शनचक्रादिप्रतिष्ठाकथनं कूपादिप्रतिष्ठाकथनं सभास्थापनकथनं साधारणप्रतिष्ठाविधानं जीर्णोद्धारविधानं यात्रोत्सवविधिकथनं स्नानविधानं अध्याय ७० -पादपारामप्रतिष्ठाकथनं अग्नि पुराण अग्नि पुराण सुदर्शनचक्रादिप्रतिष्ठाकथनम् अग्निस्थापनादिप्रतिष्ठाकथनम् अग्निस्थापनादिप्रतिष्ठाकथनम् कपिलादिपूजाविधानम् पवित्रारोहणकथनम् पवित्रारोहणविधि दमनकारोहणावेधिः समयदीक्षाविधानम् संस्कारदीक्षाकथनम् निर्वाणादीक्षाकथनम् निर्वाणदीक्षाविधानम् प्रतिष्ठाकलाशोधनोक्तिः विद्याविशोधनविधानम् शान्तिशोधनकथनम् निर्वाणदीक्षाकथनम् एकतत्त्वदीक्षाकथनम् अभिषेकादिकथनम् विविधमन्त्रादिकथनम् प्रतिष्ठाविधिकथनम् वास्तुपूजादिविधानम् शिलाविन्यासविधानम् प्रतिष्ठासामग्रीविधानम् अधिवासनविधिः शिवप्रतिष्ठाकथनम् गौरीप्रतिष्ठाकथनम् अध्याय ९९- सूर्यप्रतिष्ठाकथनं द्वारप्रतिष्ठा प्रासादप्रतिष्ठा ध्वजारोपणं जीर्णोद्धारः सामान्यप्रासादलक्षणं गृहादिवास्तुर्नामः नगरादिवास्तुः स्वायम्भुवसर्गः भुवनकोषः तीर्थमाहात्म्यम् गङ्गामाहात्म्यं प्रयागमाहात्म्यं वाराणसीमाहात्म्यम् नर्मदादिमाहात्म्यम् गयामाहात्म्यम् गयायात्राविधिः गयायात्राविधिः श्राद्धकल्पः भारतवर्षं महाद्वीपादि भुवनकोषः ज्योतिःशास्त्रं कालगणनं युद्धजयार्णवीयनानायोगाः युद्धजयार्णवीयज्योतिःशास्त्रसारः युद्धजयार्णवीयनानाचक्राणि नक्षत्रनिर्णयः नानाबलानि कोटचक्रम् अर्घकाण्डम् घातचक्रं घातचक्रादि सेवाचक्रम् नानाबलानि त्रैलोक्यविजयविद्या सङ्ग्रामविजयविद्या नक्षत्रचक्रं महामारीविद्या षट्कर्माणि षष्टिसंवत्सराः वश्यादियोगाः षट्त्रिंशत्पदकज्ञानम् मन्त्रौषधादिः कुब्जिकापूजा कुब्जिकापूजा मालिनीनानामन्त्राः अष्टाष्टकदेव्यः त्वरितापूजादिः सङ्ग्रामविजयपूजा लक्षकोटिहोमः मन्वन्तराणि वर्णेतरधर्माः गृहस्थवृत्तिः ब्रह्मचर्याश्रमधर्मः विवाहः आचारः द्रव्यशुद्धिः शावाशौचादिः स्रावाद्याशौचं असंस्कृतादिशौचं वानप्रस्थाश्रमः यतिधर्मः धर्मशास्त्रकथनं श्राद्धकल्पकथनं नवग्रहहोमः नानाधर्माः वर्णधर्मादिकथनं अयुतलक्षकोटिहोमाः महापातकादिकथनम् प्रायश्चित्तानि प्रायश्चित्तानि प्रायश्चित्तानि सर्वपापप्रायश्चित्तानि प्रायश्चित्तं प्रायश्चित्तानि व्रतपरिभाषा प्रतिपद्व्रतानि द्वितीयाव्रतानि तृतीयाव्रतानि चतुर्थीव्रतानि पञ्चमीव्रतानि सप्तमीव्रतानि षष्ठीव्रतानि सप्तमीव्रतानि जयन्त्यष्टमीव्रताणी अष्टमीव्रतानि नवमीव्रतानि दशमीव्रतानि एकादशीव्रताणी नानाद्वादशीव्रतानि श्रवणद्वादशीव्रतम् अखण्डद्वादशीव्रतं त्रयोदशी व्रतानि चतुर्दशीव्रतानि शिवरात्रिव्रतम् अशोकपूर्णिमादिव्रतं वारव्रतानि नक्षत्रव्रतानि दिवसव्रतानि मासव्रतानि नानाव्रतानि दीपदानव्रतं नवव्यूहार्चनं पुष्पाध्यायकथनं नरकस्वरूपम् मासोपवासव्रतं भीष्मपञ्चकव्रतं अगस्त्यार्घ्यदानकथनं कौमुदव्रतं व्रतदानादिसमुच्चयः दानपरिभाषाकथनं महादानानि नानादानानि मेरुदानानि पृथ्वीदानानि मन्त्रमाहात्म्यं सन्ध्याविधिः गायत्रीनिर्वाणं गायत्रीनिर्वाणं राज्यभिषेकः अभिषेकमन्त्राः सहायसम्पत्तिः अनुजीविवृत्तं दुर्गसम्पत्तिः राजधर्माः स्त्रीरक्षादिकामशास्त्रं राकजधर्मो सामाद्युपायो दण्डप्रणयनं युद्धयात्रा स्वप्नाध्यायः शकुनानि शकुनानि शकुनानि यात्रामण्डलचिन्तादिः षाड्गुण्यम् प्रात्यहिकराजकर्म रणदीक्षा श्रीस्तोत्रम् रामोक्तनीतिः राजधर्माः षाड्गुण्यम् सामादिः राजनीतिः पुरुषलक्षणम् स्त्रीलक्षणम् चामरादिलक्षणम् रत्नपरीक्षा वास्तुलक्षणम् पुष्पादिपूजाफलम् धनुर्वेदः धनुर्वेदकथनम् धनुर्वेदकथनम् धनुर्वेदकथनम् व्यवहारकथनम् व्यवहारकथनम् दिव्यानि प्रमाणानि दायविभागकथनम् सीमाविवादादिनिर्णयः वाक्पारुष्यादिप्रकरणम् ऋग्विधानम् यजुर्विधानम् सामविधानम् अथर्ववविधानम् उत्पातशान्तिः देवपूजावैश्वदेवबलिः दिक्पालादिस्नानम् विनायकस्नानम् माहेश्वरस्नानलक्षकोटिहोमादयः नीराजनाविधिः छत्रादिमन्त्रादयः विष्णुपञ्जरम् वेदशाखादिकीर्तनम् दानादिमाहात्म्यम् सूर्य्यवंशकीर्त्तनम् सोमवंशवर्णनम् यदुवंशवर्णनम् द्वादशसङ्ग्रामाः राजवंशवर्णनम् पुरुवंशवर्णनम् सिद्धौषधानि सर्वरोगहराण्यौषधानि रसादिलक्षणम् वृक्षायुर्वेदः नानारोगहराण्यौषधानि मन्त्ररूपौषधकथनम् मृतसञ्जीवनीकरसिद्धयोगः कल्पसागरः गजचिकित्सा अछश्ववाहनसारः अश्वचिकित्सा अश्वशान्तिः गजशान्तिः शान्त्यायुर्वेदः मन्त्रपरिभाषा नागलक्षणानि दष्टचिकित्सा पञ्चाह्गरुद्रविधानम् विषहृन्मन्त्रौषधम् गोनसादिचिकित्सा बालग्रहहरबालतन्त्रम् ग्रहहृन्मन्त्रादिकम् सूर्य्यार्च्चनम् नानामन्त्राः अङ्गाक्षरार्च्चनम् पञ्चाक्षरादिपूजामन्त्राः पञ्चपञ्चाशद्विष्णुनामानि नारसिंहादिमन्त्राः त्रैलोक्य मोहननम्त्राः त्रैलोक्यमोहनीलक्ष्म्यादिपूजा त्वरितापूजा त्वरितामन्त्रादिः त्वरितामूलमन्त्रादिः त्वरिताविद्या नानामन्त्राः त्वरिताज्ञानम् ग्रन्थप्रस्तावना नानामन्त्राः सकलादिमन्त्रोद्धारः गणपूजा वागीश्वरीपूजा मण्डलानि अघोरास्त्रादिशान्तिकल्पः पाशुपतशान्तिः षडङ्गान्यघोरास्त्राणि रुद्रशान्तिः अंशकादिः गौर्य्यादिपूजा देवालयमाहात्म्यम् छन्दःसारः छन्दःसारः छन्दःसारः छन्दोजातिनिरूपणम् विषमकथनम् अर्द्धसमनिरूपणम् समवृत्तनिरूपणम् ग्रन्थप्रस्तावना शिक्षानिरूपणम् काव्यादिलक्षणं नाटकनिरूपणम् शृङ्गारादिरसनिरूपणम् रीतिनिरूपणम् नृत्यादावङ्गकर्म्मनिरूपणम् अभिनयादिनिरूपणम् शब्दालङ्काराः अर्थालङ्गाराः शब्दार्थालङ्काराः काव्यगुणविवेकः काव्यदोषविवेकः एकाक्षराभिधानम् व्याकरणम् सन्धिसिद्धरूपम् सुब्विभक्तिसिद्धरूपम् स्त्रीलिङ्गशब्दसिद्धरूपम् नपुंसकशब्दसिद्धरूपम् कारकम् समासः तद्धितम् उणादिसिद्धरूपम् तिङ्विभक्तिसिद्धरूपम् कृत्सिद्धरूपम् स्वर्गपातालादिवर्गाः अव्ययवर्गानाम नानार्थवर्गा भूमिवनौषध्यादिवर्गाः नृब्रह्मक्षत्रविट्शूद्रवर्गाः ब्रह्मवर्गः क्षत्रविट्शूद्रबर्गाः सामान्यनामलिङ्गानि नित्यनैमित्तिकप्राकृतप्रलयाः नित्यनैमित्तिकप्राकृतप्रलयाः आत्यन्तिकलयगर्भोत्पत्तिनिरूपणम् नरकनिरूपणम् यमनियमाः आसनप्राणायामप्रत्याहाराः ध्यानम् धारणा समाधिः ब्रह्मज्ञानम् ब्रह्मज्ञानम् ब्रह्मज्ञानम् अद्वैतब्रह्मविज्ञानम् गीतासारः यमगीता आग्न्येयपुराणमाहात्म्यम् अध्याय ३८१ - गीतासारः अग्निपुराणात त्रिदेव – ब्रह्मा, विष्णु, महेश आणि सूर्य ह्या देवतांसंबंधी पूजा-उपासनाचे वर्णन केलेले आहे. Tags : agnipuranpuransanskritअग्निपुराणपुराणसंस्कृत गीतासारः Translation - भाषांतर अग्निरुवाचगीतासारं प्रवक्ष्यामि सर्वगीतोत्तमोत्तमं ।कृष्णोऽर्जुनाय यमाह पुरा वै भुक्तिमुक्तिदं ॥१॥श्रीभगवानुवाचगतासुरगतासुर्वा न शोच्यो देहवानजः ।आत्माऽजरोऽमरोऽभेद्यस्तस्माच्छोकादिकं त्यजेत् ॥२॥ध्यायतो विषयान् पुंसः सङ्गस्तेषूपजायते ।सङ्गात् कामस्ततः क्रोधः क्रोधात्सम्मोह एव च ॥३॥सम्मोहात् स्मृतिविभ्रंशो बुद्धिनाशात् प्रणश्यति ।दुःसङ्गहानिः सत्सङ्गान्मोक्षकामी च कामनुत् ॥४॥कामत्यागादात्मनिष्ठः स्थिरप्रज्ञस्तदोच्यते ।या निशा सर्वभूतानां तस्यां जागर्ति संयमी ॥५॥यस्यां जाग्रति भूतानि सा निशा पश्यतो मुनेः ।आत्मन्येव च सन्तुष्टस्तस्य कार्यं न विद्यते ॥६॥नैव तस्य कृते नार्थो नाकृते नेह कश्चन ।तत्त्ववित्तु महावाहो गुणकर्मविभागयोः ॥७॥गुणा गुणेषु वर्त्तन्ते इति मत्वा न सज्जते ।सर्वं ज्ञानप्लवेनैव वृजिनं सन्तरिष्यति ॥८॥ज्ञानाग्निः सर्वकर्माणि भस्मसात् कुरुतेऽर्जुन ।ब्रह्मण्याधाय कर्माणि सङ्गन्त्यक्त्वा करोति यः ॥९॥लिप्यते न स पापेन पद्मपत्रमिवाम्भसा ।सर्वभूतेषु चात्मानां सर्वभूतानि चात्मनि ॥११॥ईक्षते योगयुक्तात्मा सर्वत्र समदर्शनः ।शुचीनां श्रीमतां गेहे योगभ्रष्टोऽभिजायते ॥११॥न हि कल्याणकृतं कश्चिद्दुर्गतिं तात गच्छति ।देवी ह्येषा गुणमयी मम माया दुरत्यया ॥१२॥मामेव ये प्रपद्यन्ते मायामेतान्तरन्ति ते ।आर्त्तो जिज्ञासुरर्थार्थी ज्ञानी च भरतर्षभ ॥१३॥चतुर्विधा भजन्ते मां ज्ञानी चैकत्वमास्थितः ।अक्षरं ब्रह्म परमं स्वभावोऽध्यात्ममुच्यते ॥१४॥भूतभावोद्भवकरो विसर्गः कर्मसंज्ञितः ।अधिभूतं क्षरो भावः पुरुषश्चाधिदैवतं ॥१५॥अधियज्ञोहमेवात्र देहे देहभृतां वर ।अन्तकाले स्मरन्माञ्च मद्भावं यात्यसंशयः ॥१६॥यं यं भावं स्मारन्नन्ते त्यजेद्देहन्तमाप्नुयात् ।प्राणं न्यस्य भ्रुवोर्मध्ये अन्ते प्राप्नोति मत्परम् ॥१७॥ओमित्येकाक्षरं ब्रह्म वदन् देहं त्यजन्तथा ।ब्रह्मादिस्तम्भपर्यन्ताः सर्वे मम विभूतयः ॥१८॥श्रीमन्तश्चोर्जिताः सर्वे ममांशाः प्राणिनः स्मृताः ।अहमेको विश्वरुप इति ज्ञात्वा विमुच्यते ॥१९॥क्षेत्रं शरीरं यो वेत्ति क्षेत्रज्ञः स प्रकीर्त्तिः ।क्षेत्रक्षएत्रज्ञयोर्ज्ञानं यत्तज्ज्ञानं मतं मम ॥२१॥महाभूतान्यहङ्गारो बुद्धिरव्यक्तमेव च ।इन्द्रियाणि दशौकञ्च पञ्च चेन्द्रियगोचराः ॥२१॥इच्छा द्वेषः सुखं दुःखं सङ्घातश्चेतना धृतिः ।एतत्क्षेत्रं समासेन सविकारमुदाहृतम् ॥२२॥अमानित्वमदम्भित्वमहिसा क्षान्तिरार्जवं ।आचार्योपासनं शौचं स्थौर्य्यमात्मविनिग्रहः ॥२३॥इन्द्रियार्थेषु वैराग्यमनहङ्कार एव च ।जन्ममृत्युजराव्याधिदुःखदोषानुदर्शनं ॥२४॥आसक्तिरनभिष्वङ्गः पुत्रदारगृहादिषु ।नित्यञ्च समचित्तत्त्वमिष्टानिष्टोपपत्तिषु ॥२५॥मयि चानन्ययोगेन भक्तिरव्यभिचारिणी ।विविक्तदेशसेवित्वमरतिर्जनसंसदि ॥२६॥अध्यात्मज्ञाननिष्ठत्वन्तत्त्वज्ञानानुदर्शनं ।ओतज्ज्ञानमिति प्रोक्तमज्ञानं यदतोऽन्यथा ॥२७॥ज्ञेयं यत्तत् प्रवक्ष्यामि यं ज्ञात्वाऽमृतमश्नुते ।अनादि परमं ब्रह्म सत्त्वं नाम तदुच्यते ॥२८॥सर्वतः पाणिपादान्तं सर्वतोऽक्षिशिरोमुखम् ।सर्वतः श्रुतिमल्लोके सर्वमावृत्य तिष्ठति ॥२९॥सर्वेन्द्रियगुणाभासं सर्वेन्दियविवर्जितम् ।असक्तं सर्वभृच्चैव निर्गुणं गुणभोक्तृ च ॥३१॥बहिरन्तश्च भूतानामचरञ्चरमेव च ।सूक्षमत्वात्तदविज्ञेयं दूरस्थञ्चान्तिकेऽपि यत् ॥३१॥अविभक्तञ्च भूतेषु विभक्तमिव च स्थितम् ।भूतभर्तृ च विज्ञेयं ग्रसिष्णु प्रभविष्णु च ॥३२॥ज्योतिषामपि तज्जयोतिस्तमसः परमुच्यते ।ज्ञानं ज्ञेयं ज्ञानगम्यं हृदि सर्वस्य घिष्ठितं ॥३३॥ध्यानेनात्मनि पश्यन्ति केचिदात्मानमात्मना ।अन्ये साङ्ख्येन योगेन कर्मयोगेन चापरे ॥३४॥अन्ये त्वेवमजानन्तो श्रुत्वान्येभ्य उपासते ।तेपि चाशु तरन्त्येव मृत्युं श्रुतिपरायणाः ॥३५॥सत्त्वात्सञ्जायते ज्ञानं रजसो लोभ एव च ।प्रमादमोहौ तमसो भवतो ज्ञानमेव च ॥३६॥गुणा वर्तन्त इत्येव योऽवतिष्ठति नेङ्गते ।मानावमानमित्रारितुल्यस्त्यागी स निर्गुणः ॥३७॥ऊर्ध्वमूलमधः शाखमश्चत्थं प्राहुरव्ययं ।छन्दांसि यस्य पर्णानि यस्तं वेद स वेदवित् ॥३८॥द्वौ भूतसर्गौ लोकेऽस्मिन् दैव आसुर एव च ।अहिंसादिः क्षमा चैव दैवीसम्पत्तितो नृणां ॥३९॥न शौचं नापि वाचारो ह्यासुरीसम्पदोद्भवः ।नरकत्वात् क्रोधकोभकामस्तस्मात्त्रयं त्यजेत् ॥४१॥यज्ञस्तपस्तथा दानं सत्त्वाद्यैस्त्रिविधं स्मृतम् ।आयुः सत्त्वं बलारोग्यसुखायान्नन्तु सात्त्विकं ॥४१॥दुःखशोकामयायान्नं तीक्ष्णरूक्षन्तु राजसं ।अमेध्योच्छिष्टपूत्यन्नं तामसं नीरसादिकं ॥४२॥यष्टव्यो विधिना यज्ञो निष्कामाय स सात्त्विकः ।यज्ञः फलाय दम्भात्मी राजसस्तामसः क्रतुः ॥४३॥श्रद्धामन्त्रादिविध्युक्तं तपः शारीरमुच्यते ।देवादिपूजाऽहिंसादि वाङ्मयं तप उच्यते ॥४४॥अनुद्धेगकरं वाक्यं सत्यं स्वाध्यायसज्जपः ।मानसं चित्तसंशुद्धेर्मौनमात्मविनिग्रहः ॥४५॥सात्त्विकञ्च तपोऽकामं फ्लाद्यर्थन्तु राजसं ।तामसं परपीड़ायै सात्त्विकं दानमुच्यते ॥४६॥देशादौ चैव दातव्यमुपकाराय राजसं ।अदेशादाववज्ञातं तामसं दानमीरितं ॥४७॥ओंतत्सदिति निर्देशो ब्रह्मणस्त्रिविधः स्मृतः ।यज्ञदानादिकं कर्म्म भुक्तिमुक्तिप्रदं नृणं ॥४८॥अनिष्टमिष्टं मिशञ्च त्रिविंधं कर्मणः फलं ।भवत्यत्यागिनां प्रेत्य न तु सन्न्यासिनां क्कचित् ॥४९॥तामसः कर्मसंयोगात् मोहात्क्लेशभयादिकात् ।राजसः सात्त्विकोऽकामात् पञ्चैते कर्महेतवः ॥५१॥अधिष्ठानं तथा कर्त्ता करणञ्च पृथग्विधम् ।त्रिविधाश्च पृथक् चेष्टा दैवञ्चैवात्र पञ्चमं ॥५१॥एकं ज्ञानं सात्त्विकं स्यात् पृथग् ज्ञान्तु राजसं ।अतत्त्वार्थन्तामसं स्यात् कर्माकामाय सात्त्विकं ॥५२॥कामाय राजसं कर्म मोहात् कर्म तु तामसं ।सिद्ध्यसिद्ध्योः समः कर्त्ता सात्त्विको राजसोऽत्यपि ॥५३॥शठोऽलसस्तामसः स्यात् कार्य्यादिधीश्च सात्त्विकी ।कार्य्यार्थं सा राजसी स्याद्विपरीता तु तामसी ॥५४॥मनोधृतिः सात्त्विकी स्यात् प्रीतिकामेति राजसी ।तामसी तु प्रशोकादौ सुखं सत्त्वात्तदन्तगं ॥५५॥सुखं तद्राजसञ्चाग्रे अन्ते दुःखन्तु तामसं ।अतः प्रवृत्तिर्भूतानां येन सर्वमिदन्ततं ॥५६॥स्वकर्मणा तमभ्यर्च्य विष्णुं सिद्धिञ्च विन्दति ।कर्मणा मनसा वाचा सर्वावस्थासु सर्वदा ॥५७॥ब्रह्मादिस्तम्भपर्यन्तं जगद्विष्णुञ्च वेत्ति यः ।सिद्धिमाप्नोति भगवद्भक्तो भागवतो ध्रुवं ॥५८॥इत्यादिमहापुराणे आग्नेये गीतासारो नामैकाशीत्यधिकत्रिशततमोऽध्यायः ॥ N/A References : N/A Last Updated : September 23, 2020 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP